Mokshadharma Parva · Chapter 50
Mokshadharma 50 (BORI 217, vulgate 223)
अध्यायः २१७
Shanti Parva Mokshadharma chapter 50 of 186.
59 verses
पुनरेव तु तं शक्रः प्रहसन्निदमब्रवीत् | निःश्वसन्तं यथा नागं प्रव्याहाराय भारत
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः | लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन्
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
दृष्ट्वा सुकृपणां चेमामवस्थामात्मनो बले | ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान् | विनिपातमिमं चाद्य शोचस्याहो न शोचसि
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
बलिरुवाच|| अनित्यमुपलक्ष्येदं कालपर्यायमात्मनः | तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत्
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
अन्तवन्त इमे देहा भूतानाममराधिप | तेन शक्र न शोचामि नापराधादिदं मम
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
जीवितं च शरीरं च प्रेत्य वै सह जायते | उभे सह विवर्धेते उभे सह विनश्यतः
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
तदीदृशमिदं भावमवशः प्राप्य केवलम् | यद्येवमभिजानामि का व्यथा मे विजानतः
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
भूतानां निधनं निष्ठा स्रोतसामिव सागरः | नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रभृत्
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
ये त्वेवं नाभिजानन्ति रजोमोहपरायणाः | ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
बुद्धिलाभे हि पुरुषः सर्वं नुदति किल्बिषम् | विपाप्मा लभते सत्त्वं सत्त्वस्थः सम्प्रसीदति
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः | कृपणाः परितप्यन्ते तेऽनर्थैः परिचोदिताः
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
अर्थसिद्धिमनर्थं च जीवितं मरणं तथा | सुखदुःखफलं चैव न द्वेष्मि न च कामये
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
हतं हन्ति हतो ह्येव यो नरो हन्ति कञ्चन | उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
हत्वा जित्वा च मघवन्यः कश्चित्पुरुषायते | अकर्ता ह्येव भवति कर्ता त्वेव करोति तत्
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
को हि लोकस्य कुरुते विनाशप्रभवावुभौ | कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् | एतद्योनीनि भूतानि तत्र का परिदेवना
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
महाविद्योऽल्पविद्यश्च बलवान्दुर्बलश्च यः | दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा | तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
दग्धमेवानुदहति हतमेवानुहन्ति च | नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
नास्य द्वीपः कुतः पारं नावारः सम्प्रदृश्यते | नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन्
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
यदि मे पश्यतः कालो भूतानि न विनाशयेत् | स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे | बिभ्रतं गार्दभं रूपमादिश्य परिगर्हसे
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
इच्छन्नहं विकुर्यां हि रूपाणि बहुधात्मनः | विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति | कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम्
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
पुरा सर्वं प्रव्यथते मयि क्रुद्धे पुरंदर | अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम्
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
त्वमप्येवमपेक्षस्व मात्मना विस्मयं गमः | प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
कौमारमेव ते चित्तं तथैवाद्य यथा पुरा | समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम्
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः | आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः | इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
नाहं तदनुशोचामि नात्मभ्रंशं शचीपते | एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
दृश्यते हि कुले जातो दर्शनीयः प्रतापवान् | दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते | सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
कल्याणी रूपसम्पन्ना दुर्भगा शक्र दृश्यते | अलक्षणा विरूपा च सुभगा शक्र दृश्यते
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम् | यत्त्वमेवङ्गतो वज्रिन्यद्वाप्येवङ्गता वयम्
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
न कर्म तव नान्येषां कुतो मम शतक्रतो | ऋद्धिर्वाप्यथ वा नर्द्धिः पर्यायकृतमेव तत्
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
पश्यामि त्वा विराजन्तं देवराजमवस्थितम् | श्रीमन्तं द्युतिमन्तं च गर्जन्तं च ममोपरि
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
एतच्चैवं न चेत्कालो मामाक्रम्य स्थितो भवेत् | पातयेयमहं त्वाद्य सवज्रमपि मुष्टिना
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः | कालः स्थापयते सर्वं कालः पचति वै तथा
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
मां चेदभ्यागतः कालो दानवेश्वरमूर्जितम् | गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
द्वादशानां हि भवतामादित्यानां महात्मनाम् | तेजांस्येकेन सर्वेषां देवराज हृतानि मे
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
अहमेवोद्वहाम्यापो विसृजामि च वासव | तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
संरक्षामि विलुम्पामि ददाम्यहमथाददे | संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
तदद्य विनिवृत्तं मे प्रभुत्वममराधिप | कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते | पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
मासार्धमासवेश्मानमहोरात्राभिसंवृतम् | ऋतुद्वारं वर्षमुखमाहुर्वेदविदो जनाः
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया | अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
गन्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा | अनादिनिधनं चाहुरक्षरं परमेव च
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
सत्त्वेषु लिङ्गमावेश्य नलिङ्गमपि तत्स्वयम् | मन्यन्ते ध्रुवमेवैनं ये नरास्तत्त्वदर्शिनः
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
भूतानां तु विपर्यासं मन्यते गतवानिति | न ह्येतावद्भवेद्गम्यं न यस्मात्प्रकृतेः परः
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम् | ऋतुमासार्धमासांश्च दिवसांस्तु क्षणांस्तथा
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
तं कालमवजानीहि यस्य सर्वमिदं वशे
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
बहूनीन्द्रसहस्राणि समतीतानि वासव | बलवीर्योपपन्नानि यथैव त्वं शचीपते
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
त्वामप्यतिबलं शक्रं देवराजं बलोत्कटम् | प्राप्ते काले महावीर्यः कालः संशमयिष्यति
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
य इदं सर्वमादत्ते तस्माच्छक्र स्थिरो भव | मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम्
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
यामेतां प्राप्य जानीषे राजश्रियमनुत्तमाम् | स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
स्थिता हीन्द्रसहस्रेषु त्वद्विशिष्टतमेष्वियम् | मां च लोला परित्यज्य त्वामगाद्विबुधाधिप
Meaning
{"speaker":"Bhishma","innerSection":"बलिवासवसंवादः","subParva":"mokshadharma","boriChapter":217,"vulgateChapter":223}
मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि | त्वामप्येवङ्गतं त्यक्त्वा क्षिप्रमन्यं गमिष्यति