Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 114

Mokshadharma 114 (BORI 281, vulgate 287)

अध्यायः २८१

Shanti Parva Mokshadharma chapter 114 of 186.

23 verses

📖 Book View
  1. कः कस्य चोपकुरुते कश्च कस्मै प्रयच्छति | प्राणी करोत्ययं कर्म सर्वमात्मार्थमात्मना

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  2. गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत् | सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  3. विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ | तयोः पुण्यतरं दानं तद्द्विजस्य प्रयच्छतः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  4. न्यायागतं धनं वर्णैर्न्यायेनैव विवर्धितम् | संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  5. न धर्मार्थी नृशंसेन कर्मणा धनमर्जयेत् | शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरेत्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  6. अपो हि प्रयतः शीतास्तापिता ज्वलनेन वा | शक्तितोऽतिथये दत्त्वा क्षुधार्तायाश्नुते फलम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  7. रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना | फलपत्रैरथो मूलैर्मुनीनर्चितवानसौ

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  8. तैरेव फलपत्रैश्च स माठरमतोषयत् | तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  9. देवतातिथिभृत्येभ्यः पितृभ्योऽथात्मनस्तथा | ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  10. स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा | पितृभ्यः श्राद्धदानेन नृणामभ्यर्चनेन च

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  11. वाचः शेषावहार्येण पालनेनात्मनोऽपि च | यथावद्भृत्यवर्गस्य चिकीर्षेद्धर्ममादितः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  12. प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः | सम्यग्घुत्वा हुतवहं मुनयः सिद्धिमागताः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  13. विश्वामित्रस्य पुत्रत्वमृचीकतनयोऽगमत् | ऋग्भिः स्तुत्वा महाभागो देवान्वै यज्ञभागिनः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  14. गतः शुक्रत्वमुशना देवदेवप्रसादनात् | देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  15. असितो देवलश्चैव तथा नारदपर्वतौ | कक्षीवाञ्जामदग्न्यश्च रामस्ताण्ड्यस्तथांशुमान्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  16. वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च | भरद्वाजो हरिश्मश्रुः कुण्डधारः श्रुतश्रवाः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  17. एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः | लेभिरे तपसा सिद्धिं प्रसादात्तस्य धीमतः

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  18. अनर्हाश्चार्हतां प्राप्ताः सन्तः स्तुत्वा तमेव ह | न तु वृद्धिमिहान्विच्छेत्कर्म कृत्वा जुगुप्सितम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  19. येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान् | धर्मं वै शाश्वतं लोके न जह्याद्धनकाङ्क्षया

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  20. आहिताग्निर्हि धर्मात्मा यः स पुण्यकृदुत्तमः | वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  21. स चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते | श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  22. अग्निरात्मा च माता च पिता जनयिता तथा | गुरुश्च नरशार्दूल परिचर्या यथातथम्

    Meaning

    {"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":281,"vulgateChapter":287}

  23. मानं त्यक्त्वा यो नरो वृद्धसेवी; विद्वान्क्लीबः पश्यति प्रीतियोगात् | दाक्ष्येणाहीनो धर्मयुक्तो नदान्तो; लोकेऽस्मिन्वै पूज्यते सद्भिरार्यः