Mokshadharma Parva · Chapter 39
Mokshadharma 39 (BORI 206, vulgate 212)
अध्यायः २०६
Shanti Parva Mokshadharma chapter 39 of 186.
21 verses
गुरुरुवाच|| रजसा साध्यते मोहस्तमसा च नरर्षभ | क्रोधलोभौ भयं दर्प एतेषां साधनाच्छुचिः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
परमं परमात्मानं देवमक्षयमव्ययम् | विष्णुमव्यक्तसंस्थानं विशन्ते देवसत्तमम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
तस्य मायाविदग्धाङ्गा ज्ञानभ्रष्टा निराशिषः | मानवा ज्ञानसंमोहात्ततः कामं प्रयान्ति वै
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
कामात्क्रोधमवाप्याथ लोभमोहौ च मानवाः | मानदर्पादहङ्कारमहङ्कारात्ततः क्रियाः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
क्रियाभिः स्नेहसम्बन्धः स्नेहाच्छोकमनन्तरम् | सुखदुःखसमारम्भाज्जन्माजन्मकृतक्षणाः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
जन्मतो गर्भवासं तु शुक्रशोणितसम्भवम् | पुरीषमूत्रविक्लेदशोणितप्रभवाविलम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
तृष्णाभिभूतस्तैर्बद्धस्तानेवाभिपरिप्लवन् | संसारतन्त्रवाहिन्यस्तत्र बुध्येत योषितः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
प्रकृत्या क्षेत्रभूतास्ता नराः क्षेत्रज्ञलक्षणाः | तस्मादेता विशेषेण नरोऽतीयुर्विपश्चितः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
कृत्या ह्येता घोररूपा मोहयन्त्यविचक्षणान् | रजस्यन्तर्हिता मूर्तिरिन्द्रियाणां सनातनी
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
स्वसञ्ज्ञानस्वजांस्तद्वत्सुतसञ्ज्ञान्कृमींस्त्यजेत्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
शुक्रतो रसतश्चैव स्नेहाज्जायन्ति जन्तवः | स्वभावात्कर्मयोगाद्वा तानुपेक्षेत बुद्धिमान्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
रजस्तमसि पर्यस्तं सत्त्वं तमसि संस्थितम् | ज्ञानाधिष्ठानमज्ञानं बुद्ध्यहङ्कारलक्षणम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
तद्बीजं देहिनामाहुस्तद्बीजं जीवसञ्ज्ञितम् | कर्मणा कालयुक्तेन संसारपरिवर्तकम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
रमत्ययं यथा स्वप्ने मनसा देहवानिव | कर्मगर्भैर्गुणैर्देही गर्भे तदुपपद्यते
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
कर्मणा बीजभूतेन चोद्यते यद्यदिन्द्रियम् | जायते तदहङ्काराद्रागयुक्तेन चेतसा
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
शब्दरागाच्छ्रोत्रमस्य जायते भावितात्मनः | रूपरागात्तथा चक्षुर्घ्राणं गन्धचिकीर्षया
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
स्पर्शनेभ्यस्तथा वायुः प्राणापानव्यपाश्रयः | व्यानोदानौ समानश्च पञ्चधा देहयापना
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
सञ्जातैर्जायते गात्रैः कर्मजैर्ब्रह्मणा वृतः | दुःखाद्यन्तैर्दुःखमध्यैर्नरः शारीरमानसैः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
दुःखं विद्यादुपादानादभिमानाच्च वर्धते | त्यागात्तेभ्यो निरोधः स्यान्निरोधज्ञो विमुच्यते
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
इन्द्रियाणां रजस्येव प्रभवप्रलयावुभौ | परीक्ष्य सञ्चरेद्विद्वान्यथावच्छास्त्रचक्षुषा
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":206,"vulgateChapter":212}
ज्ञानेन्द्रियाणीन्द्रियार्थान्नोपसर्पन्त्यतर्षुलम् | ज्ञातैश्च कारणैर्देही न देहं पुनरर्हति