Mokshadharma Parva · Chapter 116
Mokshadharma 116 (BORI 283, vulgate 289)
अध्यायः २८३
Shanti Parva Mokshadharma chapter 116 of 186.
30 verses
स्वल्पाप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
शूद्रकर्मा यदा तु स्यात्तदा पतति वै द्विजः
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
वाणिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम् | शूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
रङ्गावतरणं चैव तथा रूपोपजीवनम् | मद्यमांसोपजीव्यं च विक्रयो लोहचर्मणोः
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् | कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
संसिद्धः पुरुषो लोके यदाचरति पापकम् | मदेनाभिप्लुतमनास्तच्च नग्राह्यमुच्यते
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
श्रूयन्ते हि पुराणे वै प्रजा धिग्दण्डशासनाः | दान्ता धर्मप्रधानाश्च न्यायधर्मानुवर्तकाः
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
धर्म एव सदा नॄणामिह राजन्प्रशस्यते | धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
तं धर्ममसुरास्तात नामृष्यन्त जनाधिप | विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन्प्रजाः
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
तेषां दर्पः समभवत्प्रजानां धर्मनाशनः | दर्पात्मनां ततः क्रोधः पुनस्तेषामजायत
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
ततः क्रोधाभिभूतानां वृत्तं लज्जासमन्वितम् | ह्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
ततो मोहपरीतास्ते नापश्यन्त यथा पुरा | परस्परावमर्देन वर्तयन्ति यथासुखम्
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
तान्प्राप्य तु स धिग्दण्डो नकारणमतोऽभवत् | ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमन्य ह
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
एतस्मिन्नेव काले तु देवा देववरं शिवम् | अगच्छञ्शरणं वीरं बहुरूपं गणाधिपम्
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ | तिस्रोऽप्येकेन बाणेन देवाप्यायिततेजसा
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः | देवतानां भयकरः स हतः शूलपाणिना
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
तस्मिन्हतेऽथ स्वं भावं प्रत्यपद्यन्त मानवाः | प्रावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
ततोऽभ्यषिञ्चन्राज्येन देवानां दिवि वासवम् | सप्तर्षयश्चान्वयुञ्जन्नराणां दण्डधारणे
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः | राजानः क्षत्रियाश्चैव मण्डलेषु पृथक्पृथक्
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
महाकुलेषु ये जाता वृत्ताः पूर्वतराश्च ये | तेषामथासुरो भावो हृदयान्नापसर्पति
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
तस्मात्तेनैव भावेन सानुषङ्गेन पार्थिवाः | आसुराण्येव कर्माणि न्यषेवन्भीमविक्रमाः
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्ति च | भजन्ते तानि चाद्यापि ये बालिशतमा नराः
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
तस्मादहं ब्रवीमि त्वां राजन्सञ्चिन्त्य शास्त्रतः | संसिद्धाधिगमं कुर्यात्कर्म हिंसात्मकं त्यजेत्
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
न सङ्करेण द्रविणं विचिन्वीत विचक्षणः | धर्मार्थं न्यायमुत्सृज्य न तत्कल्याणमुच्यते
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः | प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
इष्टानिष्टसमायोगो वैरं सौहार्दमेव च | अथ जातिसहस्राणि बहूनि परिवर्तते
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन | निर्गुणो यो हि दुर्बुद्धिरात्मनः सोऽरिरुच्यते
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः | न तथान्येषु भूतेषु मनुष्यरहितेष्विह
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
धर्मशीलो नरो विद्वानीहकोऽनीहकोऽपि वा | आत्मभूतः सदा लोके चरेद्भूतान्यहिंसयन्
Meaning
{"speaker":"पराशर","innerSection":"पराशरगीता","subParva":"mokshadharma","boriChapter":283,"vulgateChapter":289}
यदा व्यपेतहृल्लेखं मनो भवति तस्य वै | नानृतं चैव भवति तदा कल्याणमृच्छति