Mokshadharma Parva · Chapter 145
Mokshadharma 145 (BORI 312, vulgate 318)
अध्यायः ३१२
Shanti Parva Mokshadharma chapter 145 of 186.
46 verses
स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात् | प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
मोक्षधर्मेषु कुशलो भगवान्प्रब्रवीतु मे | यथा मे मनसः शान्तिः परमा सम्भवेत्प्रभो
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
श्रुत्वा पुत्रस्य वचनं परमर्षिरुवाच तम् | अधीष्व पुत्र मोक्षं वै धर्मांश्च विविधानपि
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
पितुर्नियोगाज्जग्राह शुको ब्रह्मविदां वरः | योगशास्त्रं च निखिलं कापिलं चैव भारत
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
स तं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम् | मेने पुत्रं यदा व्यासो मोक्षविद्याविशारदम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
उवाच गच्छेति तदा जनकं मिथिलेश्वरम् | स ते वक्ष्यति मोक्षार्थं निखिलेन विशेषतः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
पितुर्नियोगादगमन्मैथिलं जनकं नृपम् | प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मितः | न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
आर्जवेणैव गन्तव्यं न सुखान्वेषिणा पथा | नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
अहङ्कारो न कर्तव्यो याज्ये तस्मिन्नराधिपे | स्थातव्यं च वशे तस्य स ते छेत्स्यति संशयम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः | याज्यो मम स यद्ब्रूयात्तत्कार्यमविशङ्कया
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः | पद्भ्यां शक्तोऽन्तरिक्षेण क्रान्तुं भूमिं ससागराम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
स गिरींश्चाप्यतिक्रम्य नदीस्तीर्त्वा सरांसि च | बहुव्यालमृगाकीर्णा विविधाश्चाटवीस्तथा
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
मेरोर्हरेश्च द्वे वर्षे वर्षं हैमवतं तथा | क्रमेणैव व्यतिक्रम्य भारतं वर्षमासदत्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
स देशान्विविधान्पश्यंश्चीनहूणनिषेवितान् | आर्यावर्तमिमं देशमाजगाम महामुनिः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन् | अध्वानं सोऽतिचक्राम खेऽचरः खे चरन्निव
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
पत्तनानि च रम्याणि स्फीतानि नगराणि च | रत्नानि च विचित्राणि शुकः पश्यन्न पश्यति
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
उद्यानानि च रम्याणि तथैवायतनानि च | पुण्यानि चैव तीर्थानि सोऽतिक्रम्य तथाध्वनः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
सोऽचिरेणैव कालेन विदेहानाससाद ह | रक्षितान्धर्मराजेन जनकेन महात्मना
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
तत्र ग्रामान्बहून्पश्यन्बह्वन्नरसभोजनान् | पल्लीघोषान्समृद्धांश्च बहुगोकुलसङ्कुलान्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
स्फीतांश्च शालियवसैर्हंससारससेवितान् | पद्मिनीभिश्च शतशः श्रीमतीभिरलङ्कृतान्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
स विदेहानतिक्रम्य समृद्धजनसेवितान् | मिथिलोपवनं रम्यमाससाद महर्द्धिमत्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
हस्त्यश्वरथसङ्कीर्णं नरनारीसमाकुलम् | पश्यन्नपश्यन्निव तत्समतिक्रामदच्युतः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
मनसा तं वहन्भारं तमेवार्थं विचिन्तयन् | आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
तस्या द्वारं समासाद्य द्वारपालैर्निवारितः | स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
स राजमार्गमासाद्य समृद्धजनसङ्कुलम् | पार्थिवक्षयमासाद्य निःशङ्कः प्रविवेश ह
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
तत्रापि द्वारपालास्तमुग्रवाचो न्यषेधयन् | तथैव च शुकस्तत्र निर्मन्युः समतिष्ठत
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
न चातपाध्वसन्तप्तः क्षुत्पिपासाश्रमान्वितः | प्रताम्यति ग्लायति वा नापैति च तथातपात्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
तेषां तु द्वारपालानामेकः शोकसमन्वितः | मध्यङ्गतमिवादित्यं दृष्ट्वा शुकमवस्थितम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः | प्रावेशयत्ततः कक्ष्यां द्वितीयां राजवेश्मनः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
तत्रासीनः शुकस्तात मोक्षमेवानुचिन्तयन् | छायायामातपे चैव समदर्शी महाद्युतिः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
तं मुहूर्तादिवागम्य राज्ञो मन्त्री कृताञ्जलिः | प्रावेशयत्ततः कक्ष्यां तृतीयां राजवेश्मनः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
तत्रान्तःपुरसम्बद्धं महच्चैत्ररथोपमम् | सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
तद्दर्शयित्वा स शुकं मन्त्री काननमुत्तमम् | अर्हमासनमादिश्य निश्चक्राम ततः पुनः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
तं चारुवेषाः सुश्रोण्यस्तरुण्यः प्रियदर्शनाः | सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
संलापोल्लापकुशला नृत्तगीतविशारदाः | स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
कामोपचारकुशला भावज्ञाः सर्वकोविदाः | परं पञ्चाशतो नार्यो वारमुख्याः समाद्रवन्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
पाद्यादीनि प्रतिग्राह्य पूजया परयार्च्य च | देशकालोपपन्नेन साध्वन्नेनाप्यतर्पयन्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
तस्य भुक्तवतस्तात तदन्तःपुरकाननम् | सुरम्यं दर्शयामासुरेकैकश्येन भारत
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चैव ताः शुकम् | उदारसत्त्वं सत्त्वज्ञाः सर्वाः पर्यचरंस्तदा
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
आरणेयस्तु शुद्धात्मा त्रिसंदेहस्त्रिकर्मकृत् | वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
तस्मै शय्यासनं दिव्यं वरार्हं रत्नभूषितम् | स्पर्ध्यास्तरणसंस्तीर्णं ददुस्ताः परमस्त्रियः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
पादशौचं तु कृत्वैव शुकः सन्ध्यामुपास्य च | निषसादासने पुण्ये तमेवार्थं विचिन्तयन्
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः | मध्यरात्रे यथान्यायं निद्रामाहारयत्प्रभुः
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम् | स्त्रीभिः परिवृतो धीमान्ध्यानमेवान्वपद्यत
Meaning
{"speaker":"Bhishma","innerSection":"सुलभाजनकसंवादः","subParva":"mokshadharma","boriChapter":312,"vulgateChapter":318}
अनेन विधिना कार्ष्णिस्तदहःशेषमच्युतः | तां च रात्रिं नृपकुले वर्तयामास भारत