Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 159

Mokshadharma 159 — Nārāyaṇīya begins (Pañcarātra) (BORI 326, vulgate 332)

नारायणीयम्

Shanti Parva Mokshadharma chapter 159 of 186. Section: Nārāyaṇīya begins (Pañcarātra).

124 verses

📖 Book View
  1. एवं स्तुतः स भगवान्गुह्यैस्तथ्यैश्च नामभिः | तं मुनिं दर्शयामास नारदं विश्वरूपधृक्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  2. किञ्चिच्चन्द्रविशुद्धात्मा किञ्चिच्चन्द्राद्विशेषवान् | कृशानुवर्णः किञ्चिच्च किञ्चिद्धिष्ण्याकृतिः प्रभुः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  3. शुकपत्रवर्णः किञ्चिच्च किञ्चित्स्फटिकसप्रभः | नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  4. प्रवालाङ्कुरवर्णश्च श्वेतवर्णः क्वचिद्बभौ | क्वचित्सुवर्णवर्णाभो वैडूर्यसदृशः क्वचित्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  5. नीलवैडूर्यसदृश इन्द्रनीलनिभः क्वचित् | मयूरग्रीववर्णाभो मुक्ताहारनिभः क्वचित्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  6. एतान्वर्णान्बहुविधान्रूपे बिभ्रत्सनातनः | सहस्रनयनः श्रीमाञ्शतशीर्षः सहस्रपात्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  7. सहस्रोदरबाहुश्च अव्यक्त इति च क्वचित् | ओङ्कारमुद्गिरन्वक्त्रात्सावित्रीं च तदन्वयाम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  8. शेषेभ्यश्चैव वक्त्रेभ्यश्चतुर्वेदोद्गतं वसु | आरण्यकं जगौ देवो हरिर्नारायणो वशी

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  9. धारयामास देवेशो हस्तैर्यज्ञपतिस्तदा

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  10. तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  11. एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः | इमं देशमनुप्राप्ता मम दर्शनलालसाः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  12. न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन | ऋते ह्येकान्तिकश्रेष्ठात्त्वं चैवैकान्तिको मतः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  13. ममैतास्तनवः श्रेष्ठा जाता धर्मगृहे द्विज | तास्त्वं भजस्व सततं साधयस्व यथागतम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  14. वृणीष्व च वरं विप्र मत्तस्त्वं यमिहेच्छसि | प्रसन्नोऽहं तवाद्येह विश्वमूर्तिरिहाव्ययः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  15. अद्य मे तपसो देव यमस्य नियमस्य च | सद्यः फलमवाप्तं वै दृष्टो यद्भगवान्मया

    Meaning

    {"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  16. वर एष ममात्यन्तं दृष्टस्त्वं यत्सनातनः | भगवान्विश्वदृक्सिंहः सर्वमूर्तिर्महाप्रभुः

    Meaning

    {"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  17. एवं संदर्शयित्वा तु नारदं परमेष्ठिजम् | उवाच वचनं भूयो गच्छ नारद माचिरम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  18. इमे ह्यनिन्द्रियाहारा मद्भक्ताश्चन्द्रवर्चसः | एकाग्राश्चिन्तयेयुर्मां नैषां विघ्नो भवेदिति

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  19. सिद्धाश्चैते महाभागाः पुरा ह्येकान्तिनोऽभवन् | तमोरजोविनिर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  20. न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च | न घ्रेयश्चैव गन्धेन रसेन च विवर्जितः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  21. सत्त्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै | यश्च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  22. भूतग्रामशरीरेषु नश्यत्सु न विनश्यति | अजो नित्यः शाश्वतश्च निर्गुणो निष्कलस्तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  23. द्विर्द्वादशेभ्यस्तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः | पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  24. यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तम | स वासुदेवो विज्ञेयः परमात्मा सनातनः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  25. पश्य देवस्य माहात्म्यं महिमानं च नारद | शुभाशुभैः कर्मभिर्यो न लिप्यति कदाचन

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  26. सत्त्वं रजस्तमश्चैव गुणानेतान्प्रचक्षते | एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  27. एतान्गुणांस्तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते | निर्गुणो गुणभुक्चैव गुणस्रष्टा गुणाधिकः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  28. जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते | ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  29. खे वायुः प्रलयं याति मनस्याकाशमेव च | मनो हि परमं भूतं तदव्यक्ते प्रलीयते

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  30. अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये सम्प्रलीयते | नास्ति तस्मात्परतरं पुरुषाद्वै सनातनात्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  31. सर्वभूतात्मभूतो हि वासुदेवो महाबलः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  32. पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् | ते समेता महात्मानः शरीरमिति सञ्ज्ञितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  33. तदाविशति यो ब्रह्मन्नदृश्यो लघुविक्रमः | उत्पन्न एव भवति शरीरं चेष्टयन्प्रभुः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  34. न विना धातुसङ्घातं शरीरं भवति क्वचित् | न च जीवं विना ब्रह्मन्धातवश्चेष्टयन्त्युत

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  35. स जीवः परिसङ्ख्यातः शेषः सङ्कर्षणः प्रभुः | तस्मात्सनत्कुमारत्वं यो लभेत स्वकर्मणा

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  36. यस्मिंश्च सर्वभूतानि प्रलयं यान्ति सङ्क्षये | स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  37. सोऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  38. यो वासुदेवो भगवान्क्षेत्रज्ञो निर्गुणात्मकः | ज्ञेयः स एव भगवाञ्जीवः सङ्कर्षणः प्रभुः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  39. सङ्कर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते | प्रद्युम्नाद्योऽनिरुद्धस्तु सोऽहङ्कारो महेश्वरः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  40. मत्तः सर्वं सम्भवति जगत्स्थावरजङ्गमम् | अक्षरं च क्षरं चैव सच्चासच्चैव नारद

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  41. मां प्रविश्य भवन्तीह मुक्ता भक्तास्तु ये मम | अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  42. इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  43. मयैतत्कथितं सम्यक्तव मूर्तिचतुष्टयम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  44. सिद्धा ह्येते महाभागा नरा ह्येकान्तिनोऽभवन् | तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  45. मैवं ते बुद्धिरत्राभूद्दृष्टो जीवो मयेति च

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  46. अहं सर्वत्रगो ब्रह्मन्भूतग्रामान्तरात्मकः | भूतग्रामशरीरेषु नश्यत्सु न नशाम्यहम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  47. हिरण्यगर्भो लोकादिश्चतुर्वक्त्रो निरुक्तगः | ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  48. पश्यैकादश मे रुद्रान्दक्षिणं पार्श्वमास्थितान् | द्वादशैव तथादित्यान्वामं पार्श्वं समास्थितान्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  49. अग्रतश्चैव मे पश्य वसूनष्टौ सुरोत्तमान् | नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  50. सर्वान्प्रजापतीन्पश्य पश्य सप्त ऋषीनपि | वेदान्यज्ञांश्च शतशः पश्यामृतमथौषधीः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  51. तपांसि नियमांश्चैव यमानपि पृथग्विधान् | तथाष्टगुणमैश्वर्यमेकस्थं पश्य मूर्तिमत्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  52. श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम् | वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  53. ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम् | अम्भोधरान्समुद्रांश्च सरांसि सरितस्तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  54. मूर्तिमन्तः पितृगणांश्चतुरः पश्य सत्तम | त्रींश्चैवेमान्गुणान्पश्य मत्स्थान्मूर्तिविवर्जितान्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  55. देवकार्यादपि मुने पितृकार्यं विशिष्यते | देवानां च पितॄणां च पिता ह्येकोऽहमादितः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  56. अहं हयशिरो भूत्वा समुद्रे पश्चिमोत्तरे | पिबामि सुहुतं हव्यं कव्यं च श्रद्धयान्वितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  57. मया सृष्टः पुरा ब्रह्मा मद्यज्ञमयजत्स्वयम् | ततस्तस्मै वरान्प्रीतो ददावहमनुत्तमान्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  58. मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च | अहङ्कारकृतं चैव नाम पर्यायवाचकम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  59. त्वया कृतां च मर्यादां नातिक्राम्यति कश्चन | त्वं चैव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  60. विविधानां च भूतानां त्वमुपास्यो भविष्यसि

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  61. प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा | अनुशास्यस्त्वया ब्रह्मन्नियोज्यश्च सुतो यथा

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  62. एतांश्चान्यांश्च रुचिरान्ब्रह्मणेऽमिततेजसे | अहं दत्त्वा वरान्प्रीतो निवृत्तिपरमोऽभवम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  63. निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता | तस्मान्निवृत्तिमापन्नश्चरेत्सर्वाङ्गनिर्वृतः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  64. विद्यासहायवन्तं मामादित्यस्थं सनातनम् | कपिलं प्राहुराचार्याः साङ्ख्यनिश्चितनिश्चयाः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  65. हिरण्यगर्भो भगवानेष छन्दसि सुष्टुतः | सोऽहं योगगतिर्ब्रह्मन्योगशास्त्रेषु शब्दितः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  66. कृत्वात्मस्थानि भूतानि स्थावराणि चराणि च

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  67. एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम | ततो भूयो जगत्सर्वं करिष्यामीह विद्यया

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  68. अस्मन्मूर्तिश्चतुर्थी या सासृजच्छेषमव्ययम् | स हि सङ्कर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  69. प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः | अनिरुद्धात्तथा ब्रह्मा तत्रादिकमलोद्भवः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  70. ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च | एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  71. तथा बलादहं पृथ्वीं सर्वभूतहिताय वै

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  72. सत्त्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम् | आनयिष्यामि स्वं स्थानं वाराहं रूपमास्थितः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  73. सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  74. विरोचनस्य बलवान्बलिः पुत्रो महासुरः | भविष्यति स शक्रं च स्वराज्याच्च्यावयिष्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  75. त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ | अदित्यां द्वादशः पुत्रः सम्भविष्यामि कश्यपात्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  76. बलिं चैव करिष्यामि पातालतलवासिनम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  77. त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः | क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  78. सन्धौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च | रामो दाशरथिर्भूत्वा भविष्यामि जगत्पतिः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  79. त्रितोपघाताद्वैरूप्यमेकतोऽथ द्वितस्तथा | प्राप्स्यतो वानरत्वं हि प्रजापतिसुतावृषी

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  80. तयोर्ये त्वन्वये जाता भविष्यन्ति वनौकसः | ते सहाया भविष्यन्ति सुरकार्ये मम द्विज

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  81. ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम् | हनिष्ये रावणं सङ्ख्ये सगणं लोककण्टकम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  82. द्वापरस्य कलेश्चैव सन्धौ पर्यवसानिके | प्रादुर्भावः कंसहेतोर्मथुरायां भविष्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  83. तत्राहं दानवान्हत्वा सुबहून्देवकण्टकान् | कुशस्थलीं करिष्यामि निवासं द्वारकां पुरीम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  84. वसानस्तत्र वै पुर्यामदितेर्विप्रियङ्करम् | हनिष्ये नरकं भौमं मुरं पीठं च दानवम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  85. प्राग्ज्योतिषपुरं रम्यं नानाधनसमन्वितम् | कुशस्थलीं नयिष्यामि हत्वा वै दानवोत्तमान्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  86. शङ्करं च महासेनं बाणप्रियहितैषिणम् | पराजेष्याम्यथोद्युक्तौ देवलोकनमस्कृतौ

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  87. ततः सुतं बलेर्जित्वा बाणं बाहुसहस्रिणम् | विनाशयिष्यामि ततः सर्वान्सौभनिवासिनः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  88. यः कालयवनः ख्यातो गर्गतेजोभिसंवृतः | भविष्यति वधस्तस्य मत्त एव द्विजोत्तम

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  89. मम बुद्धिपरिस्पन्दाद्वधस्तस्य भविष्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  90. समागतेषु बलिषु पृथिव्यां सर्वराजसु | वासविः सुसहायो वै मम ह्येको भविष्यति

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  91. एवं लोका वदिष्यन्ति नरनारायणावृषी | उद्युक्तौ दहतः क्षत्रं लोककार्यार्थमीश्वरौ

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  92. करिष्ये प्रलयं घोरमात्मज्ञातिविनाशनम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  93. कर्माण्यपरिमेयानि चतुर्मूर्तिधरो ह्यहम् | कृत्वा लोकान्गमिष्यामि स्वानहं ब्रह्मसत्कृतान्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  94. सवेदाः सश्रुतीकाश्च कृताः पूर्वं कृते युगे

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  95. लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  96. न ह्येतद्ब्रह्मणा प्राप्तमीदृशं मम दर्शनम् | यत्त्वया प्राप्तमद्येह एकान्तगतबुद्धिना

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  97. एतत्ते सर्वमाख्यातं ब्रह्मन्भक्तिमतो मया | पुराणं च भविष्यं च सरहस्यं च सत्तम

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  98. एवं स भगवान्देवो विश्वमूर्तिधरोऽव्ययः | एतावदुक्त्वा वचनं तत्रैवान्तरधीयत

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  99. नारदोऽपि महातेजाः प्राप्यानुग्रहमीप्सितम् | नरनारायणौ द्रष्टुं प्राद्रवद्बदराश्रमम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  100. इदं महोपनिषदं चतुर्वेदसमन्वितम् | साङ्ख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  101. नारायणमुखोद्गीतं नारदोऽश्रावयत्पुनः | ब्रह्मणः सदने तात यथा दृष्टं यथा श्रुतम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  102. एतदाश्चर्यभूतं हि माहात्म्यं तस्य धीमतः | किं ब्रह्मा न विजानीते यतः शुश्राव नारदात्

    Meaning

    {"speaker":"Yudhishthira","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  103. पितामहो हि भगवांस्तस्माद्देवादनन्तरः | कथं स न विजानीयात्प्रभावममितौजसः

    Meaning

    {"speaker":"Yudhishthira","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  104. महाकल्पसहस्राणि महाकल्पशतानि च | समतीतानि राजेन्द्र सर्गाश्च प्रलयाश्च ह

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  105. परमात्मानमीशानमात्मनः प्रभवं तथा

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  106. ये त्वन्ये ब्रह्मसदने सिद्धसङ्घाः समागताः | तेभ्यस्तच्छ्रावयामास पुराणं वेदसंमितम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  107. तेषां सकाशात्सूर्यश्च श्रुत्वा वै भावितात्मनाम् | आत्मानुगामिनां ब्रह्म श्रावयामास भारत

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  108. तेषामकथयत्सूर्यः सर्वेषां भावितात्मनाम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  109. सूर्यानुगामिभिस्तात ऋषिभिस्तैर्महात्मभिः | मेरौ समागता देवाः श्राविताश्चेदमुत्तमम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  110. देवानां तु सकाशाद्वै ततः श्रुत्वासितो द्विजः | श्रावयामास राजेन्द्र पितॄणां मुनिसत्तमः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  111. मम चापि पिता तात कथयामास शन्तनुः | ततो मयैतच्छ्रुत्वा च कीर्तितं तव भारत

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  112. सुरैर्वा मुनिभिर्वापि पुराणं यैरिदं श्रुतम् | सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  113. इदमाख्यानमार्षेयं पारम्पर्यागतं नृप | नावासुदेवभक्ताय त्वया देयं कथञ्चन

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  114. मत्तोऽन्यानि च ते राजन्नुपाख्यानशतानि वै | यानि श्रुतानि धर्म्याणि तेषां सारोऽयमुद्धृतः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  115. सुरासुरैर्यथा राजन्निर्मथ्यामृतमुद्धृतम् | एवमेतत्पुरा विप्रैः कथामृतमिहोद्धृतम्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  116. यश्चेदं पठते नित्यं यश्चेदं शृणुयान्नरः | एकान्तभावोपगत एकान्ते सुसमाहितः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  117. प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः | स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  118. मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् | जिज्ञासुर्लभते कामान्भक्तो भक्तगतिं व्रजेत्

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  119. त्वयापि सततं राजन्नभ्यर्च्यः पुरुषोत्तमः | स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  120. ब्रह्मण्यदेवो भगवान्प्रीयतां ते सनातनः | युधिष्ठिर महाबाहो महाबाहुर्जनार्दनः

    Meaning

    {"speaker":"Bhishma","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  121. श्रुत्वैतदाख्यानवरं धर्मराड्जनमेजय | भ्रातरश्चास्य ते सर्वे नारायणपराभवन्

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  122. जितं भगवता तेन पुरुषेणेति भारत | नित्यं जप्यपरा भूत्वा सरस्वतीमुदीरयन्

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  123. यो ह्यस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः | स जगौ परमं जप्यं नारायणमुदीरयन्

    Meaning

    {"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":326,"vulgateChapter":332}

  124. गत्वान्तरिक्षात्सततं क्षीरोदममृताशयम् | पूजयित्वा च देवेशं पुनरायात्स्वमाश्रमम्