Mokshadharma Parva · Chapter 21
Mokshadharma 21 (BORI 188, vulgate 194)
अध्यायः १८८
Shanti Parva Mokshadharma chapter 21 of 186.
22 verses
हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम् | यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्ति परमर्षयः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः | महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः | जन्मदोषपरिक्षीणाः स्वभावे पर्यवस्थिताः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
निर्द्वंद्वा नित्यसत्त्वस्था विमुक्ता नित्यमाश्रिताः | असङ्गीन्यविवादीनि मनःशान्तिकराणि च
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
तत्र स्वाध्यायसंश्लिष्टमेकाग्रं धारयेन्मनः | पिण्डीकृत्येन्द्रियग्राममासीनः काष्ठवन्मुनिः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
शब्दं न विन्देच्छ्रोत्रेण स्पर्शं त्वचा न वेदयेत् | रूपं न चक्षुषा विद्याज्जिह्वया न रसांस्तथा
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
घ्रेयाण्यपि च सर्वाणि जह्याद्ध्यानेन योगवित् | पञ्चवर्गप्रमाथीनि नेच्छेच्चैतानि वीर्यवान्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
ततो मनसि संसज्य पञ्चवर्गं विचक्षणः | समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चभिः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
विसञ्चारि निरालम्बं पञ्चद्वारं चलाचलम् | पूर्वे ध्यानपथे धीरः समादध्यान्मनोऽन्तरम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम् | एष ध्यानपथः पूर्वो मया समनुवर्णितः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
तस्य तत्पूर्वसंरुद्धं मनःषष्ठमनन्तरम् | स्फुरिष्यति समुद्भ्रान्तं विद्युदम्बुधरे यथा
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः | एवमेवास्य तच्चित्तं भवति ध्यानवर्त्मनि
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
समाहितं क्षणं किञ्चिद्ध्यानवर्त्मनि तिष्ठति | पुनर्वायुपथं भ्रान्तं मनो भवति वायुवत्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
अनिर्वेदो गतक्लेशो गततन्द्रीरमत्सरः | समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
विचारश्च वितर्कश्च विवेकश्चोपजायते | मुनेः समादधानस्य प्रथमं ध्यानमादितः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
मनसा क्लिश्यमानस्तु समाधानं च कारयेत् | न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
पांसुभस्मकरीषाणां यथा वै राशयश्चिताः | सहसा वारिणा सिक्ता न यान्ति परिभावनाम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
किञ्चित्स्निग्धं यथा च स्याच्छुष्कचूर्णमभावितम् | क्रमशस्तु शनैर्गच्छेत्सर्वं तत्परिभावनम्
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
एवमेवेन्द्रियग्रामं शनैः सम्परिभावयेत् | संहरेत्क्रमशश्चैव स सम्यक्प्रशमिष्यति
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
स्वयमेव मनश्चैव पञ्चवर्गश्च भारत | पूर्वं ध्यानपथं प्राप्य नित्ययोगेन शाम्यति
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
न तत्पुरुषकारेण न च दैवेन केनचित् | सुखमेष्यति तत्तस्य यदेवं संयतात्मनः
Meaning
{"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":188,"vulgateChapter":194}
सुखेन तेन संयुक्तो रंस्यते ध्यानकर्मणि | गच्छन्ति योगिनो ह्येवं निर्वाणं तन्निरामयम्