Mokshadharma Parva · Chapter 13
Mokshadharma 13 — Kashyapa-Sṛgāla Samvada (BORI 180, vulgate 186)
कश्यपसृगालसंवादः
Shanti Parva Mokshadharma chapter 13 of 186. Section: Kashyapa-Sṛgāla Samvada.
30 verses
भृगुरुवाच|| न प्रणाशोऽस्ति जीवानां दत्तस्य च कृतस्य च | याति देहान्तरं प्राणी शरीरं तु विशीर्यते
Meaning
{"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति | यथा समित्सु दग्धासु न प्रणश्यति पावकः
Meaning
{"speaker":"","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
अग्नेर्यथा तथा तस्य यदि नाशो न विद्यते | इन्धनस्योपयोगान्ते स चाग्निर्नोपलभ्यते
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम् | गतिर्यस्य प्रमाणं वा संस्थानं वा न दृश्यते
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
भृगुरुवाच|| समिधामुपयोगान्ते सन्नेवाग्निर्न दृश्यते | आकाशानुगतत्वाद्धि दुर्ग्रहः स निराश्रयः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
तथा शरीरसन्त्यागे जीवो ह्याकाशवत्स्थितः | न गृह्यते सुसूक्ष्मत्वाद्यथा ज्योतिर्न संशयः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम् | वायुसन्धारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात्
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
तस्मिन्नष्टे शरीराग्नौ शरीरं तदचेतनम् | पतितं याति भूमित्वमयनं तस्य हि क्षितिः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
तत्र त्रयाणामेकत्वं द्वयं भूमौ प्रतिष्ठितम्
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः | अमूर्तयस्ते विज्ञेया आपो मूर्तास्तथा क्षितिः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु | जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंयुते | शरीरे प्राणिनां जीवं ज्ञातुमिच्छामि यादृशम्
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
मांसशोणितसङ्घाते मेदःस्नाय्वस्थिसञ्चये | भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
यद्यजीवं शरीरं तु पञ्चभूतसमन्वितम् | शारीरे मानसे दुःखे कस्तां वेदयते रुजम्
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत् | महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
सर्वं पश्यति यद्दृश्यं मनोयुक्तेन चक्षुषा | मनसि व्याकुले तद्धि पश्यन्नपि न पश्यति
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
न पश्यति न च ब्रूते न शृणोति न जिघ्रति | न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
हृष्यति क्रुध्यति च कः शोचत्युद्विजते च कः | इच्छति ध्यायति द्वेष्टि वाचमीरयते च कः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
भृगुरुवाच|| न पञ्चसाधारणमत्र किं चि; च्छरीरमेको वहतेऽन्तरात्मा | स वेत्ति गन्धांश्च रसाञ्श्रुतिं च; स्पर्शं च रूपं च गुणाश्च येऽन्ये
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
पञ्चात्मके पञ्चगुणप्रदर्शी; स सर्वगात्रानुगतोऽन्तरात्मा | स वेत्ति दुःखानि सुखानि चात्र; तद्विप्रयोगात्तु न वेत्ति देहः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
यदा न रूपं न स्पर्शो नोष्मभावश्च पावके | तदा शान्ते शरीराग्नौ देहं त्यक्त्वा स नश्यति
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
अम्मयं सर्वमेवेदमापो मूर्तिः शरीरिणाम् | तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत्
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
आत्मानं तं विजानीहि सर्वलोकहितात्मकम् | तस्मिन्यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम् | तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान्
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् | ततः परं क्षेत्रविदं वदन्ति; प्रावर्तयद्यो भुवनानि सप्त
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
न जीवनाशोऽस्ति हि देहभेदे; मिथ्यैतदाहुर्मृत इत्यबुद्धाः | जीवस्तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
एवं सर्वेषु भूतेषु गूढश्चरति संवृतः | दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
तं पूर्वापररात्रेषु युञ्जानः सततं बुधः | लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् | प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते
Meaning
{"speaker":"Bharadvaja","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":180,"vulgateChapter":186}
मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते | सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये