Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 61

Mokshadharma 61 (BORI 228, vulgate 234)

अध्यायः २२८

Shanti Parva Mokshadharma chapter 61 of 186.

38 verses

📖 Book View
  1. अथ चेद्रोचयेदेतद्द्रुह्येत मनसा तथा | उन्मज्जंश्च निमज्जंश्च ज्ञानवान्प्लववान्भवेत्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  2. प्रज्ञया निर्मितैर्धीरास्तारयन्त्यबुधान्प्लवैः | नाबुधास्तारयन्त्यन्यानात्मानं वा कथञ्चन

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  3. छिन्नदोषो मुनिर्योगान्युक्तो युञ्जीत द्वादश | दशकर्मसुखानर्थानुपायापायनिर्भयः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  4. ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तिमात्मनः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  5. एतेषां चेदनुद्रष्टा पुरुषोऽपि सुदारुणः | यदि वा सर्ववेदज्ञो यदि वाप्यनृचोऽजपः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  6. यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः | यदि वा पुरुषव्याघ्रो यदि वा क्लैब्यधारिता

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  7. अपि जिज्ञासमानो हि शब्दब्रह्मातिवर्तते

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  8. धर्मोपस्थो ह्रीवरूथ उपायापायकूबरः | अपानाक्षः प्राणयुगः प्रज्ञायुर्जीवबन्धनः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  9. चेतनाबन्धुरश्चारुराचारग्रहनेमिवान् | दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  10. प्रज्ञानाभिः सर्वतन्त्रप्रतोदो ज्ञानसारथिः | क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरःसरः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  11. त्यागवर्त्मानुगः क्षेम्यः शौचगो ध्यानगोचरः | जीवयुक्तो रथो दिव्यो ब्रह्मलोके विराजते

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  12. अथ सन्त्वरमाणस्य रथमेतं युयुक्षतः | अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  13. सप्त यो धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते | पृष्ठतः पार्श्वतश्चान्या यावत्यस्ताः प्रधारणाः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  14. क्रमशः पार्थिवं यच्च वायव्यं खं तथा पयः | ज्योतिषो यत्तदैश्वर्यमहङ्कारस्य बुद्धितः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  15. अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते | विक्रमाश्चापि यस्यैते तथा युङ्क्ते स योगतः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  16. अथास्य योगयुक्तस्य सिद्धिमात्मनि पश्यतः | निर्मथ्यमानः सूक्ष्मत्वाद्रूपाणीमानि दर्शयेत्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  17. शैशिरस्तु यथा धूमः सूक्ष्मः संश्रयते नभः | तथा देहाद्विमुक्तस्य पूर्वरूपं भवत्युत

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  18. अथ धूमस्य विरमे द्वितीयं रूपदर्शनम् | जलरूपमिवाकाशे तत्रैवात्मनि पश्यति

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  19. ऊर्णारूपसवर्णं च तस्य रूपं प्रकाशते

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  20. अथ श्वेतां गतिं गत्वा वायव्यं सूक्ष्ममप्यजः | अशुक्लं चेतसः सौक्ष्म्यमव्यक्तं ब्रह्मणोऽस्य वै

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  21. एतेष्वपि हि जातेषु फलजातानि मे शृणु | जातस्य पार्थिवैश्वर्ये सृष्टिरिष्टा विधीयते

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  22. प्रजापतिरिवाक्षोभ्यः शरीरात्सृजति प्रजाः | अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  23. पृथिवीं कम्पयत्येको गुणो वायोरिति स्मृतः | आकाशभूतश्चाकाशे सवर्णत्वात्प्रणश्यति

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  24. वर्णतो गृह्यते चापि कामात्पिबति चाशयान् | न चास्य तेजसा रूपं दृश्यते शाम्यते तथा

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  25. अहङ्कारस्य विजितेः पञ्चैते स्युर्वशानुगाः | षण्णामात्मनि बुद्धौ च जितायां प्रभवत्यथ

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  26. निर्दोषा प्रतिभा ह्येनं कृत्स्ना समभिवर्तते | तथैव व्यक्तमात्मानमव्यक्तं प्रतिपद्यते

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  27. तथा व्यक्तमयीं चैव सङ्ख्यां पूर्वं निबोध मे

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  28. पञ्चविंशतितत्त्वानि तुल्यान्युभयतः समम् | योगे साङ्ख्येऽपि च तथा विशेषांस्तत्र मे शृणु

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  29. प्रोक्तं तद्व्यक्तमित्येव जायते वर्धते च यत् | जीर्यते म्रियते चैव चतुर्भिर्लक्षणैर्युतम्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  30. विपरीतमतो यत्तु तदव्यक्तमुदाहृतम् | द्वावात्मानौ च वेदेषु सिद्धान्तेष्वप्युदाहृतौ

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  31. सत्त्वं क्षेत्रज्ञ इत्येतद्द्वयमप्यनुदर्शितम्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  32. द्वावात्मानौ च वेदेषु विषयेषु च रज्यतः | विषयात्प्रतिसंहारः साङ्ख्यानां सिद्धिलक्षणम्

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  33. निर्ममश्चानहङ्कारो निर्द्वंद्वश्छिन्नसंशयः | नैव क्रुध्यति न द्वेष्टि नानृता भाषते गिरः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  34. आक्रुष्टस्ताडितश्चैव मैत्रेण ध्याति नाशुभम् | वाग्दण्डकर्ममनसां त्रयाणां च निवर्तकः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  35. समः सर्वेषु भूतेषु ब्रह्माणमभिवर्तते | नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  36. अहिंस्रः सर्वभूतानामीदृक्साङ्ख्यो विमुच्यते

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  37. अथ योगाद्विमुच्यन्ते कारणैर्यैर्निबोध मे | योगैश्वर्यमतिक्रान्तो योऽतिक्रामति मुच्यते

    Meaning

    {"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":228,"vulgateChapter":234}

  38. इत्येषा भावजा बुद्धिः कथिता ते न संशयः | एवं भवति निर्द्वंद्वो ब्रह्माणं चाधिगच्छति