Mokshadharma Parva · Chapter 3
Mokshadharma 3 (BORI 170, vulgate 176)
अध्यायः १७०
Shanti Parva Mokshadharma chapter 3 of 186.
23 verses
धनिनो वाधना ये च वर्तयन्ति स्वतन्त्रिणः | सुखदुःखागमस्तेषां कः कथं वा पितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
अत्राप्युदाहरन्तीममितिहासं पुरातनम् | शम्याकेन विमुक्तेन गीतं शान्तिगतेन ह
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमास्थितः | क्लिश्यमानः कुदारेण कुचैलेन बुभुक्षया
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
उत्पन्नमिह लोके वै जन्मप्रभृति मानवम् | विविधान्युपवर्तन्ते दुःखानि च सुखानि च
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
तयोरेकतरे मार्गे यद्येनमभिसंनयेत् | न सुखं प्राप्य संहृष्येन्न दुःखं प्राप्य सञ्ज्वरेत्
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
न वै चरसि यच्छ्रेय आत्मनो वा यदीहसे | अकामात्मापि हि सदा धुरमुद्यम्य चैव हि
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
अकिञ्चनः परिपतन्सुखमास्वादयिष्यसि | अकिञ्चनः सुखं शेते समुत्तिष्ठति चैव हि
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
आकिञ्चन्यं सुखं लोके पथ्यं शिवमनामयम् | अनमित्रमथो ह्येतद्दुर्लभं सुलभं सताम्
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वशः | अवेक्षमाणस्त्रीँल्लोकान्न तुल्यमुपलक्षये
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
आकिञ्चन्यं च राज्यं च तुलया समतोलयम् | अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम्
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
आकिञ्चन्ये च राज्ये च विशेषः सुमहानयम् | नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
नैवास्याग्निर्न चादित्यो न मृत्युर्न च दस्यवः | प्रभवन्ति धनज्यानिनिर्मुक्तस्य निराशिषः
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
तं वै सदा कामचरमनुपस्तीर्णशायिनम् | बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः | तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
निर्दशंश्चाधरोष्ठं च क्रुद्धो दारुणभाषिता | कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम्
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम् | सा तस्य चित्तं हरति शारदाभ्रमिवानिलः
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रसिच्यते
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
स प्रसिक्तमना भोगान्विसृज्य पितृसञ्चितान् | परिक्षीणः परस्वानामादानं साधु मन्यते
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
तमतिक्रान्तमर्यादमाददानं ततस्ततः | प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
एवमेतानि दुःखानि तानि तानीह मानवम् | विविधान्युपवर्तन्ते गात्रसंस्पर्शजानि च
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत् | लोकधर्मं समाज्ञाय ध्रुवाणामध्रुवैः सह
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम् | नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव
Meaning
{"speaker":"Bhishma","innerSection":"शम्याकगीता","subParva":"mokshadharma","boriChapter":170,"vulgateChapter":176}
इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम् | शम्याकेन पुरा मह्यं तस्मात्त्यागः परो मतः