Mokshadharma Parva · Chapter 164
Mokshadharma 164 (BORI 331, vulgate 337)
अध्यायः ३३१
Shanti Parva Mokshadharma chapter 164 of 186.
52 verses
ब्रह्मन्सुमहदाख्यानं भवता परिकीर्तितम् | यच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
इदं शतसहस्राद्धि भारताख्यानविस्तरात् | आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम्
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
नवनीतं यथा दध्नो मलयाच्चन्दनं यथा | आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
समुद्धृतमिदं ब्रह्मन्कथामृतमनुत्तमम् | तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम्
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
स हीशो भगवान्देवः सर्वभूतात्मभावनः | अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
न ततोऽस्ति परं मन्ये पावनं दिवि चेह च
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् | न तथा फलदं चापि नारायणकथा यथा
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम् | हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम्
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
न चित्रं कृतवांस्तत्र यदार्यो मे धनञ्जयः | वासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम्
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
न चास्य किञ्चिदप्राप्यं मन्ये लोकेष्वपि त्रिषु | त्रैलोक्यनाथो विष्णुः स यस्यासीत्साह्यकृत्सखा
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
धन्याश्च सर्व एवासन्ब्रह्मंस्ते मम पूर्वकाः | हिताय श्रेयसे चैव येषामासीज्जनार्दनः
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
तपसापि न दृश्यो हि भगवाँल्लोकपूजितः | यं दृष्टवन्तस्ते साक्षाच्छ्रीवत्साङ्कविभूषणम्
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
देवप्रसादानुगतं व्यक्तं तत्तस्य दर्शनम् | यद्दृष्टवांस्तदा देवमनिरुद्धतनौ स्थितम्
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
बदरीमाश्रमं यत्तु नारदः प्राद्रवत्पुनः | नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजः | बदरीमाश्रमं प्राप्य समागम्य च तावृषी
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
कियन्तं कालमवसत्काः कथाः पृष्टवांश्च सः | श्वेतद्वीपादुपावृत्ते तस्मिन्वा सुमहात्मनि
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
किमब्रूतां महात्मानौ नरनारायणावृषी | तदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि
Meaning
{"speaker":"Janamejaya","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
नमो भगवते तस्मै व्यासायामिततेजसे | यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
हृदयेनोद्वहन्भारं यदुक्तं परमात्मना
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
पश्चादस्याभवद्राजन्नात्मनः साध्वसं महत् | यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम् | निपपात च खात्तूर्णं विशालां बदरीमनु
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
ततः स ददृशे देवौ पुराणावृषिसत्तमौ | तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
तेजसाभ्यधिकौ सूर्यात्सर्वलोकविरोचनात् | श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ | व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ | स्वास्यौ पृथुललाटौ च सुहनू सुभ्रुनासिकौ
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
आतपत्रेण सदृशे शिरसी देवयोस्तयोः | एवं लक्षणसम्पन्नौ महापुरुषसञ्ज्ञितौ
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः | स्वागतेनाभिभाष्याथ पृष्टश्चानामयं तदा
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौ | सदोगतास्तत्र ये वै सर्वभूतनमस्कृताः
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
उपोपविविशे तत्र पीठे कुशमये शुभे
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
ततस्तौ तपसां वासौ यशसां तेजसामपि | ऋषी शमदमोपेतौ कृत्वा पूर्वाह्णिकं विधिम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
पश्चान्नारदमव्यग्रौ पाद्यार्घ्याभ्यां प्रपूज्य च | पीठयोश्चोपविष्टौ तौ कृतातिथ्याह्निकौ नृप
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजत | आज्याहुतिमहाज्वालैर्यज्ञवाटोऽग्निभिर्यथा
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
अथ नारायणस्तत्र नारदं वाक्यमब्रवीत् | सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
अपीदानीं स भगवान्परमात्मा सनातनः | श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
अद्यापि चैनं पश्यामि युवां पश्यन्सनातनौ
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
यैर्लक्षणैरुपेतः स हरिरव्यक्तरूपधृक् | तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम्
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतः | इह चैवागतोऽस्म्यद्य विसृष्टः परमात्मना
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
को हि नाम भवेत्तस्य तेजसा यशसा श्रिया | सदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम्
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
तेन मे कथितं पूर्वं नाम क्षेत्रज्ञसञ्ज्ञितम् | प्रादुर्भावाश्च कथिता भविष्यन्ति हि ये यथा
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः | प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम्
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
तेऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः | प्रियभक्तो हि भगवान्परमात्मा द्विजप्रियः
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
स कर्ता कारणं चैव कार्यं चातिबलद्युतिः
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
तपसा योज्य सोऽऽत्मानं श्वेतद्वीपात्परं हि यत् | तेज इत्यभिविख्यातं स्वयम्भासावभासितम्
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
शान्तिः सा त्रिषु लोकेषु सिद्धानां भावितात्मनाम् | एतया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
न तत्र सूर्यस्तपति न सोमोऽभिविराजते | न वायुर्वाति देवेशे तपश्चरति दुश्चरम्
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
साङ्गानावर्तयन्वेदांस्तपस्तेपे सुदुश्चरम्
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
यद्ब्रह्मा ऋषयश्चैव स्वयं पशुपतिश्च यत् | शेषाश्च विबुधश्रेष्ठा दैत्यदानवराक्षसाः
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
कृत्स्नं तत्तस्य देवस्य चरणावुपतिष्ठति
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
याः क्रियाः सम्प्रयुक्तास्तु एकान्तगतबुद्धिभिः | ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम्
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
इह चैवागतस्तेन विसृष्टः परमात्मना
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":331,"vulgateChapter":337}
एवं मे भगवान्देवः स्वयमाख्यातवान्हरिः | आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः