Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 24

Mokshadharma 24 (BORI 191, vulgate 197)

अध्यायः १९१

Shanti Parva Mokshadharma chapter 24 of 186.

11 verses

📖 Book View
  1. कीदृशो जापको याति निरयं वर्णयस्व मे | कौतूहलं हि मे जातं तद्भवान्वक्तुमर्हति

    Meaning

    {"speaker":"Yudhishthira","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":191,"vulgateChapter":197}

  2. धर्मस्यांशः प्रसूतोऽसि धर्मिष्ठोऽसि स्वभावतः | धर्ममूलाश्रयं वाक्यं शृणुष्वावहितोऽनघ

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":191,"vulgateChapter":197}

  3. अमूनि यानि स्थानानि देवानां परमात्मनाम् | नानासंस्थानवर्णानि नानारूपफलानि च

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":191,"vulgateChapter":197}

  4. दिव्यानि कामचारीणि विमानानि सभास्तथा | आक्रीडा विविधा राजन्पद्मिन्यश्चामलोदकाः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":191,"vulgateChapter":197}

  5. चतुर्णां लोकपालानां शुक्रस्याथ बृहस्पतेः | मरुतां विश्वदेवानां साध्यानामश्विनोरपि

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":191,"vulgateChapter":197}

  6. रुद्रादित्यवसूनां च तथान्येषां दिवौकसाम् | एते वै निरयास्तात स्थानस्य परमात्मनः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":191,"vulgateChapter":197}

  7. अभयं चानिमित्तं च न च क्लेशभयावृतम् | द्वाभ्यां मुक्तं त्रिभिर्मुक्तमष्टाभिस्त्रिभिरेव च

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":191,"vulgateChapter":197}

  8. चतुर्लक्षणवर्जं तु चतुष्कारणवर्जितम् | अप्रहर्षमनानन्दमशोकं विगतक्लमम्

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":191,"vulgateChapter":197}

  9. कालः सम्पच्यते तत्र न कालस्तत्र वै प्रभुः | स कालस्य प्रभू राजन्स्वर्गस्यापि तथेश्वरः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":191,"vulgateChapter":197}

  10. आत्मकेवलतां प्राप्तस्तत्र गत्वा न शोचति | ईदृशं परमं स्थानं निरयास्ते च तादृशाः

    Meaning

    {"speaker":"Bhishma","innerSection":"भृगुभरद्वाजसंवादः","subParva":"mokshadharma","boriChapter":191,"vulgateChapter":197}

  11. एते ते निरयाः प्रोक्ताः सर्व एव यथातथम् | तस्य स्थानवरस्येह सर्वे निरयसञ्ज्ञिताः