Mokshadharma Parva · Chapter 137
Mokshadharma 137 (BORI 304, vulgate 310)
अध्यायः ३०४
Shanti Parva Mokshadharma chapter 137 of 186.
27 verses
साङ्ख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे | यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
नास्ति साङ्ख्यसमं ज्ञानं नास्ति योगसमं बलम् | तावुभावेकचर्यौ तु उभावनिधनौ स्मृतौ
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
पृथक्पृथक्तु पश्यन्ति येऽल्पबुद्धिरता नराः | वयं तु राजन्पश्याम एकमेव तु निश्चयात्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
यदेव योगाः पश्यन्ति तत्साङ्ख्यैरपि दृश्यते | एकं साङ्ख्यं च योगं च यः पश्यति स तत्त्ववित्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
रुद्रप्रधानानपरान्विद्धि योगान्परन्तप | तेनैव चाथ देहेन विचरन्ति दिशो दश
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन वै | योगेन लोकान्विचरन्सुखं संन्यस्य चानघ
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
वेदेषु चाष्टगुणितं योगमाहुर्मनीषिणः | सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम् | सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
धारणा चैव मनसः प्राणायामश्च पार्थिव | प्राणायामो हि सगुणो निर्गुणं धारणं मनः
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
यत्र दृश्येत मुञ्चन्वै प्राणान्मैथिलसत्तम | वाताधिक्यं भवत्येव तस्माद्धि न समाचरेत्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
निशायाः प्रथमे यामे चोदना द्वादश स्मृताः | मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
तदेवमुपशान्तेन दान्तेनैकान्तशीलिना | आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा | शब्दं स्पर्शं तथा रूपं रसं गन्धं तथैव च
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल | इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
मनस्तथैवाहङ्कारे प्रतिष्ठाप्य नराधिप | अहङ्कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
एवं हि परिसङ्ख्याय ततो ध्यायेत केवलम् | विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
तस्थुषं पुरुषं सत्त्वमभेद्यमजरामरम् | शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
युक्तस्य तु महाराज लक्षणान्युपधारयेत् | लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
निवाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः | निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिणः
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः | नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः | क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः | सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिपाणिभिः
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत् | तथैवोत्तरमाणस्य एकाग्रमनसस्तथा
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात्तथैव च | एवं युक्तस्य तु मुनेर्लक्षणान्युपधारयेत्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
स युक्तः पश्यति ब्रह्म यत्तत्परममव्ययम् | महतस्तमसो मध्ये स्थितं ज्वलनसंनिभम्
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम् | कालेन महता राजञ्श्रुतिरेषा सनातनी
Meaning
{"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":304,"vulgateChapter":310}
एतद्धि योगं योगानां किमन्यद्योगलक्षणम् | विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः