Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mokshadharma Parva · Chapter 139

Mokshadharma 139 (BORI 306, vulgate 312)

अध्यायः ३०६

Shanti Parva Mokshadharma chapter 139 of 186.

108 verses

📖 Book View
  1. अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप | परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  2. यथार्षेणेह विधिना चरतावमतेन ह | मयादित्यादवाप्तानि यजूंषि मिथिलाधिप

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  3. महता तपसा देवस्तपिष्ठः सेवितो मया | प्रीतेन चाहं विभुना सूर्येणोक्तस्तदानघ

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  4. वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम् | तत्ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  5. ततः प्रणम्य शिरसा मयोक्तस्तपतां वरः | यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  6. ततो मां भगवानाह वितरिष्यामि ते द्विज | सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  7. ततो मामाह भगवानास्यं स्वं विवृतं कुरु | विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  8. ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदानघ | अविज्ञानादमर्षाच्च भास्करस्य महात्मनः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  9. ततो विदह्यमानं मामुवाच भगवान्रविः | मुहूर्तं सह्यतां दाहस्ततः शीतीभविष्यसि

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  10. शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः | प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  11. कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ | तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  12. प्राप्स्यसे च यदिष्टं तत्साङ्ख्ययोगेप्सितं पदम् | एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  13. ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ | गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  14. ततः प्रवृत्तातिशुभा स्वरव्यञ्जनभूषिता | ओङ्कारमादितः कृत्वा मम देवी सरस्वती

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  15. ततोऽहमर्घ्यं विधिवत्सरस्वत्यै न्यवेदयम् | तपतां च वरिष्ठाय निषण्णस्तत्परायणः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  16. ततः शतपथं कृत्स्नं सरहस्यं ससङ्ग्रहम् | चक्रे सपरिशेषं च हर्षेण परमेण ह

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  17. कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम् | विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  18. ततः सशिष्येण मया सूर्येणेव गभस्तिभिः | व्याप्तो यज्ञो महाराज पितुस्तव महात्मनः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  19. मिषतो देवलस्यापि ततोऽर्धं हृतवानहम् | स्ववेददक्षिणायाथ विमर्दे मातुलेन ह

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  20. सुमन्तुनाथ पैलेन तथा जैमिनिना च वै | पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  21. दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयानघ | तथैव लोमहर्षाच्च पुराणमवधारितम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  22. बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम् | सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  23. कर्तुं शतपथं वेदमपूर्वं कारितं च मे | यथाभिलषितं मार्गं तथा तच्चोपपादितम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  24. शिष्याणामखिलं कृत्स्नमनुज्ञातं ससङ्ग्रहम् | सर्वे च शिष्याः शुचयो गताः परमहर्षिताः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  25. शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिताः | प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचिन्तयम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  26. किमत्र ब्रह्मण्यमृतं किं च वेद्यमनुत्तमम् | चिन्तये तत्र चागत्य गन्धर्वो मामपृच्छत

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  27. पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तथा

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  28. सूर्यादः सूर्य इति च विद्याविद्ये तथैव च

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  29. वेद्यावेद्यं तथा राजन्नचलं चलमेव च | अपूर्वमक्षयं क्षय्यमेतत्प्रश्नमनुत्तमम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  30. अथोक्तश्च मया राजन्राजा गन्धर्वसत्तमः | पृष्टवाननुपूर्वेण प्रश्नमुत्तममर्थवत्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  31. मुहूर्तं मृष्यतां तावद्यावदेनं विचिन्तये | बाढमित्येव कृत्वा स तूष्णीं गन्धर्व आस्थितः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  32. ततोऽन्वचिन्तयमहं भूयो देवीं सरस्वतीम् | मनसा स च मे प्रश्नो दध्नो घृतमिवोद्धृतम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  33. तत्रोपनिषदं चैव परिशेषं च पार्थिव | मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  34. चतुर्थी राजशार्दूल विद्यैषा साम्परायिकी | उदीरिता मया तुभ्यं पञ्चविंशेऽधि धिष्ठिता

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  35. अथोक्तस्तु मया राजन्राजा विश्वावसुस्तदा | श्रूयतां यद्भवानस्मान्प्रश्नं सम्पृष्टवानिह

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  36. विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि | विश्वाव्यक्तं परं विद्याद्भूतभव्यभयङ्करम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  37. त्रिगुणं गुणकर्तृत्वादविश्वो निष्कलस्तथा | अश्वस्तथैव मिथुनमेवमेवानुदृश्यते

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  38. अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम् | तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  39. ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं निष्कलमेव च | अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल उच्यते

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  40. कस्तपा अतपाः प्रोक्तः कोऽसौ पुरुष उच्यते | तपाः प्रकृतिरित्याहुरतपा निष्कलः स्मृतः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  41. तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते | चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  42. चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः | अक्षेपसर्गयोःकर्ता निश्चलः पुरुषः स्मृतः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  43. अजावुभावप्रजौ च अक्षयौ चाप्युभावपि | अजौ नित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  44. अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम् | अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  45. गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः | एषा तेऽऽन्वीक्षिकी विद्या चतुर्थी साम्परायिकी

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  46. विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि | एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  47. जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः | वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  48. साङ्गोपाङ्गानपि यदि पञ्च वेदानधीयते | वेदवेद्यं न जानीते वेदभारवहो हि सः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  49. यो घृतार्थी खरीक्षीरं मथेद्गन्धर्वसत्तम | विष्ठां तत्रानुपश्येत न मण्डं नापि वा घृतम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  50. तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति | स केवलं मूढमतिर्ज्ञानभारवहः स्मृतः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  51. द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना | यथास्य जन्मनिधने न भवेतां पुनः पुनः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  52. अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम् | परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  53. यदा तु पश्यतेऽत्यन्तमहन्यहनि काश्यप | तदा स केवलीभूतः षड्विंशमनुपश्यति

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  54. अन्यश्च शश्वदव्यक्तस्तथान्यः पञ्चविंशकः | तस्य द्वावनुपश्येत तमेकमिति साधवः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  55. तेनैतन्नाभिजानन्ति पञ्चविंशकमच्युतम् | जन्ममृत्युभयाद्योगाः साङ्ख्याश्च परमैषिणः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  56. विश्वावसुरुवाच|| पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम | तथा तन्न तथा वेति तद्भवान्वक्तुमर्हति

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  57. जैगीषव्यस्यासितस्य देवलस्य च मे श्रुतम् | पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  58. भिक्षोः पञ्चशिखस्याथ कपिलस्य शुकस्य च | गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  59. नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः | सनत्कुमारस्य ततः शुक्रस्य च महात्मनः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  60. कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम् | तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  61. दैवतेभ्यः पितृभ्यश्च दैत्येभ्यश्च ततस्ततः | प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  62. तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण | भवान्प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  63. न तवाविदितं किञ्चिद्भवाञ्श्रुतिनिधिः स्मृतः | कथ्यते देवलोके च पितृलोके च ब्राह्मण

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  64. ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः | पतिश्च तपतां शश्वदादित्यस्तव भाषते

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  65. साङ्ख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च | तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  66. निःसंदिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम् | श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  67. कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम | जिज्ञाससि च मां राजंस्तन्निबोध यथाश्रुतम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  68. अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः | न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  69. अनेनाप्रतिबोधेन प्रधानं प्रवदन्ति तम् | साङ्ख्ययोगाश्च तत्त्वज्ञा यथाश्रुतिनिदर्शनात्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  70. न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  71. पञ्चविंशोऽभिमन्येत नान्योऽस्ति परमो मम | न चतुर्विंशकोऽग्राह्यो मनुजैर्ज्ञानदर्शिभिः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  72. सस्नेहः सहवासाच्च साभिमानश्च नित्यशः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  73. स निमज्जति कालस्य यदैकत्वं न बुध्यते | उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  74. यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः | तदा स केवलीभूतः षड्विंशमनुपश्यति

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  75. अन्यश्च राजन्नवरस्तथान्यः पञ्चविंशकः | तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  76. षड्विंशमनुपश्यन्ति शुचयस्तत्परायणाः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  77. यदा स केवलीभूतः षड्विंशमनुपश्यति | तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  78. एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ | बुद्धश्चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  79. पश्यापश्यं योऽनुपश्येत्क्षेमं तत्त्वं च काश्यप | केवलाकेवलं चाद्यं पञ्चविंशात्परं च यत्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  80. विश्वावसुरुवाच|| तथ्यं शुभं चैतदुक्तं त्वया भोः; सम्यक्क्षेम्यं देवताद्यं यथावत् | स्वस्त्यक्षयं भवतश्चास्तु नित्यं; बुद्ध्या सदा बुद्धियुक्तं नमस्ते

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  81. एवमुक्त्वा सम्प्रयातो दिवं स; विभ्राजन्वै श्रीमता दर्शनेन | तुष्टश्च तुष्ट्या परयाभिनन्द्य; प्रदक्षिणं मम कृत्वा महात्मा

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  82. ब्रह्मादीनां खेचराणां क्षितौ च; ये चाधस्तात्संवसन्ते नरेन्द्र | तत्रैव तद्दर्शनं दर्शयन्वै; सम्यक्क्षेम्यं ये पथं संश्रिता वै

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  83. साङ्ख्याः सर्वे साङ्ख्यधर्मे रताश्च; तद्वद्योगा योगधर्मे रताश्च | ये चाप्यन्ये मोक्षकामा मनुष्या; स्तेषामेतद्दर्शनं ज्ञानदृष्टम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  84. ज्ञानान्मोक्षो जायते पूरुषाणां; नास्त्यज्ञानादेवमाहुर्नरेन्द्र | तस्माज्ज्ञानं तत्त्वतोऽन्वेषितव्यं; येनात्मानं मोक्षयेज्जन्ममृत्योः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  85. प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा; वैश्याच्छूद्रादपि नीचादभीक्ष्णम् | श्रद्धातव्यं श्रद्दधानेन नित्यं; न श्रद्धिनं जन्ममृत्यू विशेताम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  86. सर्वे वर्णा ब्राह्मणा ब्रह्मजाश्च; सर्वे नित्यं व्याहरन्ते च ब्रह्म | तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि; सर्वं विश्वं ब्रह्म चैतत्समस्तम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  87. ब्रह्मास्यतो ब्राह्मणाः सम्प्रसूता; बाहुभ्यां वै क्षत्रियाः सम्प्रसूताः | नाभ्यां वैश्याः पादतश्चापि शूद्राः; सर्वे वर्णा नान्यथा वेदितव्याः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  88. अज्ञानतः कर्मयोनिं भजन्ते; तां तां राजंस्ते यथा यान्त्यभावम् | तथा वर्णा ज्ञानहीनाः पतन्ते; घोरादज्ञानात्प्राकृतं योनिजालम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  89. तस्माज्ज्ञानं सर्वतो मार्गितव्यं; सर्वत्रस्थं चैतदुक्तं मया ते | तस्थौ ब्रह्मा तस्थिवांश्चापरो य; स्तस्मै नित्यं मोक्षमाहुर्द्विजेन्द्राः

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  90. यत्ते पृष्टं तन्मया चोपदिष्टं; याथातथ्यं तद्विशोको भवस्व | राजन्गच्छस्वैतदर्थस्य पारं; सम्यक्प्रोक्तं स्वस्ति तेऽस्त्वत्र नित्यम्

    Meaning

    {"speaker":"Yajnavalkya","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  91. स एवमनुशास्तस्तु याज्ञवल्क्येन धीमता | प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  92. गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणे | दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित्

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  93. गोकोटिं स्पर्शयामास हिरण्यस्य तथैव च | रत्नाञ्जलिमथैकं च ब्राह्मणेभ्यो ददौ तदा

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  94. विदेहराज्यं च तथा प्रतिष्ठाप्य सुतस्य वै | यतिधर्ममुपासंश्चाप्यवसन्मिथिलाधिपः

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  95. साङ्ख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः | धर्माधर्मौ च राजेन्द्र प्राकृतं परिगर्हयन्

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  96. अनन्तमिति कृत्वा स नित्यं केवलमेव च | धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  97. जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत् | ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  98. नित्यं तमाहुर्विद्वांसः शुचिस्तस्माच्छुचिर्भव

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  99. ददात्यव्यक्तमेवैतत्प्रतिगृह्णाति तच्च वै

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  100. आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्त्वत्तोऽधिको भवेत् | एवं मन्यस्व सततमन्यथा मा विचिन्तय

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  101. यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः | तेन तीर्थानि यज्ञाश्च सेवितव्याविपश्चिता

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  102. न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन | लभतेऽव्यक्तसंस्थानं ज्ञात्वाव्यक्तं महीपते

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  103. तथैव महतः स्थानमाहङ्कारिकमेव च | अहङ्कारात्परं चापि स्थानानि समवाप्नुयात्

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  104. ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः | जन्ममृत्युवियुक्तं च वियुक्तं सदसच्च यत्

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  105. एतन्मयाप्तं जनकात्पुरस्ता; त्तेनापि चाप्तं नृप याज्ञवल्क्यात् | ज्ञानं विशिष्टं न तथा हि यज्ञा; ज्ञानेन दुर्गं तरते न यज्ञैः

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  106. दुर्गं जन्म निधनं चापि राज; न्न भूतिकं ज्ञानविदो वदन्ति | यज्ञैस्तपोभिर्नियमैर्व्रतैश्च; दिवं समासाद्य पतन्ति भूमौ

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  107. तस्मादुपासस्व परं महच्छुचि; शिवं विमोक्षं विमलं पवित्रम् | क्षेत्रज्ञवित्पार्थिव ज्ञानयज्ञ; मुपास्य वै तत्त्वमृषिर्भविष्यसि

    Meaning

    {"speaker":"Bhishma","innerSection":"याज्ञवल्क्यजनकसंवादः","subParva":"mokshadharma","boriChapter":306,"vulgateChapter":312}

  108. उपनिषदमुपाकरोत्तदा वै; जनकनृपस्य पुरा हि याज्ञवल्क्यः | यदुपगणितशाश्वताव्ययं त; च्छुभममृतत्वमशोकमृच्छतीति