Mokshadharma Parva · Chapter 56
Mokshadharma 56 (BORI 223, vulgate 229)
अध्यायः २२३
Shanti Parva Mokshadharma chapter 56 of 186.
23 verses
प्रियः सर्वस्य लोकस्य सर्वसत्त्वाभिनन्दिता | गुणैः सर्वैरुपेतश्च को न्वस्ति भुवि मानवः
Meaning
{"speaker":"Yudhishthira","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ | उग्रसेनस्य संवादं नारदे केशवस्य च
Meaning
{"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
पश्य सङ्कल्पते लोको नारदस्य प्रकीर्तने | मन्ये स गुणसम्पन्नो ब्रूहि तन्मम पृच्छतः
Meaning
{"speaker":"उग्रसेन","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
कुकुराधिप यान्मन्ये शृणु तान्मे विवक्षतः | नारदस्य गुणान्साधून्सङ्क्षेपेण नराधिप
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
न चारित्रनिमित्तोऽस्याहङ्कारो देहपातनः | अभिन्नश्रुतचारित्रस्तस्मात्सर्वत्र पूजितः
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
तपस्वी नारदो बाढं वाचि नास्य व्यतिक्रमः | कामाद्वा यदि वा लोभात्तस्मात्सर्वत्र पूजितः
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तो जितेन्द्रियः | ऋजुश्च सत्यवादी च तस्मात्सर्वत्र पूजितः
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
तेजसा यशसा बुद्ध्या नयेन विनयेन च | जन्मना तपसा वृद्धस्तस्मात्सर्वत्र पूजितः
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
सुखशीलः सुसम्भोगः सुभोज्यः स्वादरः शुचिः | सुवाक्यश्चाप्यनीर्ष्यश्च तस्मात्सर्वत्र पूजितः
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
कल्यानं कुरुते बाढं पापमस्मिन्न विद्यते | न प्रीयते परानर्थैस्तस्मात्सर्वत्र पूजितः
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
वेदश्रुतिभिराख्यानैरर्थानभिजिगीषते | तितिक्षुरनवज्ञश्च तस्मात्सर्वत्र पूजितः
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
समत्वाद्धि प्रियो नास्ति नाप्रियश्च कथञ्चन | मनोनुकूलवादी च तस्मात्सर्वत्र पूजितः
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
बहुश्रुतश्चैत्रकथः पण्डितोऽनलसोऽशठः | अदीनोऽक्रोधनोऽलुब्धस्तस्मात्सर्वत्र पूजितः
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
नार्थे न धर्मे कामे वा भूतपूर्वोऽस्य विग्रहः | दोषाश्चास्य समुच्छिन्नास्तस्मात्सर्वत्र पूजितः
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
दृढभक्तिरनिन्द्यात्मा श्रुतवाननृशंसवान् | वीतसंमोहदोषश्च तस्मात्सर्वत्र पूजितः
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते | अदीर्घसंशयो वाग्मी तस्मात्सर्वत्र पूजितः
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
समाधिर्नास्य मानार्थे नात्मानं स्तौति कर्हिचित् | अनीर्ष्युर्दृढसम्भाषस्तस्मात्सर्वत्र पूजितः
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
लोकस्य विविधं वृत्तं प्रकृतेश्चाप्यकुत्सयन् | संसर्गविद्याकुशलस्तस्मात्सर्वत्र पूजितः
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
नासूयत्यागमं कञ्चित्स्वं तपो नोपजीवति | अवन्ध्यकालो वश्यात्मा तस्मात्सर्वत्र पूजितः
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः | नियमस्थोऽप्रमत्तश्च तस्मात्सर्वत्र पूजितः
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
सापत्रपश्च युक्तश्च सुनेयः श्रेयसे परैः | अभेत्ता परगुह्यानां तस्मात्सर्वत्र पूजितः
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
न हृष्यत्यर्थलाभेषु नालाभेषु व्यथत्यपि | स्थिरबुद्धिरसक्तात्मा तस्मात्सर्वत्र पूजितः
Meaning
{"speaker":"वासुदेव","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":223,"vulgateChapter":229}
तं सर्वगुणसम्पन्नं दक्षं शुचिमकातरम् | कालज्ञं च नयज्ञं च कः प्रियं न करिष्यति