Mokshadharma Parva · Chapter 183
Mokshadharma 183 (BORI 350, vulgate 356)
अध्यायः ३५०
Shanti Parva Mokshadharma chapter 183 of 186.
15 verses
विवस्वतो गच्छति पर्ययेण; वोढुं भवांस्तं रथमेकचक्रम् | आश्चर्यभूतं यदि तत्र किं चि; द्दृष्टं त्वया शंसितुमर्हसि त्वम्
Meaning
{"speaker":"Brahmana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":350,"vulgateChapter":356}
यस्य रश्मिसहस्रेषु शाखास्विव विहङ्गमाः | वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":350,"vulgateChapter":356}
यतो वायुर्विनिःसृत्य सूर्यरश्म्याश्रितो महान् | विजृम्भत्यम्बरे विप्र किमाश्चर्यतरं ततः
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":350,"vulgateChapter":356}
शुक्रो नामासितः पादो यस्य वारिधरोऽम्बरे | तोयं सृजति वर्षासु किमाश्चर्यमतः परम्
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":350,"vulgateChapter":356}
योऽष्टमासांस्तु शुचिना किरणेनोज्झितं पयः | पर्यादत्ते पुनः काले किमाश्चर्यमतः परम्
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":350,"vulgateChapter":356}
यस्य तेजोविशेषेषु नित्यमात्मा प्रतिष्ठितः | यतो बीजं मही चेयं धार्यते सचराचरम्
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":350,"vulgateChapter":356}
यत्र देवो महाबाहुः शाश्वतः परमोऽक्षरः | अनादिनिधनो विप्र किमाश्चर्यमतः परम्
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":350,"vulgateChapter":356}
आश्चर्याणामिवाश्चर्यमिदमेकं तु मे शृणु | विमले यन्मया दृष्टमम्बरे सूर्यसंश्रयात्
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":350,"vulgateChapter":356}
पुरा मध्याह्नसमये लोकांस्तपति भास्करे | प्रत्यादित्यप्रतीकाशः सर्वतः प्रत्यदृश्यत
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":350,"vulgateChapter":356}
स लोकांस्तेजसा सर्वान्स्वभासा निर्विभासयन् | आदित्याभिमुखोऽभ्येति गगनं पाटयन्निव
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":350,"vulgateChapter":356}
हुताहुतिरिव ज्योतिर्व्याप्य तेजोमरीचिभिः | अनिर्देश्येन रूपेण द्वितीय इव भास्करः
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":350,"vulgateChapter":356}
तस्याभिगमनप्राप्तौ हस्तो दत्तो विवस्वता | तेनापि दक्षिणो हस्तो दत्तः प्रत्यर्चनार्थिना
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":350,"vulgateChapter":356}
ततो भित्त्वैव गगनं प्रविष्टो रविमण्डलम् | एकीभूतं च तत्तेजः क्षणेनादित्यतां गतम्
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":350,"vulgateChapter":356}
तत्र नः संशयो जातस्तयोस्तेजःसमागमे | अनयोः को भवेत्सूर्यो रथस्थो योऽयमागतः
Meaning
{"speaker":"नाग","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":350,"vulgateChapter":356}
ते वयं जातसंदेहाः पर्यपृच्छामहे रविम् | क एष दिवमाक्रम्य गतः सूर्य इवापरः