Mokshadharma Parva · Chapter 46
Mokshadharma 46 (BORI 213, vulgate 219)
अध्यायः २१३
Shanti Parva Mokshadharma chapter 46 of 186.
18 verses
किं कुर्वन्सुखमाप्नोति किं कुर्वन्दुःखमाप्नुते | किं कुर्वन्निर्भयो लोके सिद्धश्चरति भारत
Meaning
{"speaker":"Yudhishthira","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":213,"vulgateChapter":219}
दममेव प्रशंसन्ति वृद्धाः श्रुतिसमाधयः | सर्वेषामेव वर्णानां ब्राह्मणस्य विशेषतः
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":213,"vulgateChapter":219}
नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते | क्रिया तपश्च वेदाश्च दमे सर्वं प्रतिष्ठितम्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":213,"vulgateChapter":219}
दमस्तेजो वर्धयति पवित्रं दम उच्यते | विपाप्मा निर्भयो दान्तः पुरुषो विन्दते महत्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":213,"vulgateChapter":219}
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते | सुखं लोके विपर्येति मनश्चास्य प्रसीदति
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":213,"vulgateChapter":219}
तेजो दमेन ध्रियते न तत्तीक्ष्णोऽधिगच्छति | अमित्रांश्च बहून्नित्यं पृथगात्मनि पश्यति
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":213,"vulgateChapter":219}
क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् | तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयम्भुवा
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":213,"vulgateChapter":219}
आश्रमेषु च सर्वेषु दम एव विशिष्यते | यच्च तेषु फलं धर्मे भूयो दान्ते तदुच्यते
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":213,"vulgateChapter":219}
तेषां लिङ्गानि वक्ष्यामि येषां समुदयो दमः | अकार्पण्यमसंरम्भः सन्तोषः श्रद्दधानता
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":213,"vulgateChapter":219}
अक्रोध आर्जवं नित्यं नातिवादो न मानिता | गुरुपूजानसूया च दया भूतेष्वपैशुनम्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":213,"vulgateChapter":219}
जनवादमृषावादस्तुतिनिन्दाविवर्जनम् | साधुकामश्चास्पृहयन्नायाति प्रत्ययं नृषु
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":213,"vulgateChapter":219}
प्राप्य लोके च सत्कारं स्वर्गं वै प्रेत्य गच्छति
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":213,"vulgateChapter":219}
सर्वभूतहिते युक्तो न स्मयाद्द्वेष्टि वै जनम् | महाह्रद इवाक्षोभ्य प्रज्ञातृप्तः प्रसीदति
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":213,"vulgateChapter":219}
अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः | नमस्यः सर्वभूतानां दान्तो भवति ज्ञानवान्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":213,"vulgateChapter":219}
न हृष्यति महत्यर्थे व्यसने च न शोचति | स वै परिमितप्रज्ञः स दान्तो द्विज उच्यते
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":213,"vulgateChapter":219}
कर्मभिः श्रुतसम्पन्नः सद्भिराचरितैः शुभैः | सदैव दमसंयुक्तस्तस्य भुङ्क्ते महत्फलम्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":213,"vulgateChapter":219}
अनसूया क्षमा शान्तिः सन्तोषः प्रियवादिता | सत्यं दानमनायासो नैष मार्गो दुरात्मनाम्
Meaning
{"speaker":"Bhishma","innerSection":"जनकपञ्चशिखसंवादः","subParva":"mokshadharma","boriChapter":213,"vulgateChapter":219}
कालाकाङ्क्षी चरेल्लोकान्निरपाय इवात्मवान्