Mokshadharma Parva · Chapter 166
Mokshadharma 166 (BORI 333, vulgate 339)
अध्यायः ३३३
Shanti Parva Mokshadharma chapter 166 of 186.
25 verses
कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः | दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम्
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः | क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
त्वया मतिमतां श्रेष्ठ तन्मे शंस यथागमम् | किमेतत्क्रियते कर्म फलं चास्य किमिष्यते
Meaning
{"speaker":"Vaishampayana","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
त्वयैतत्कथितं पूर्वं दैवं कर्तव्यमित्यपि | दैवतं च परो यज्ञः परमात्मा सनातनः
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम् | तस्माच्च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
मम वै पितरं प्रीतः परमेष्ठ्यप्यजीजनत् | अहं सङ्कल्पजस्तस्य पुत्रः प्रथमकल्पितः
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
ततस्ते मन्त्रदाः पुत्राः पितृत्वमुपपेदिरे
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
नूनं पुरैतद्विदितं युवयोर्भावितात्मनोः | पुत्राश्च पितरश्चैव परस्परमपूजयन्
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
त्रीन्पिण्डान्न्यस्य वै पृथ्व्यां पूर्वं दत्त्वा कुशानिति | कथं तु पिण्डसञ्ज्ञां ते पितरो लेभिरे पुरा
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
नरनारायणावूचतुः|| इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम् | गोविन्द उज्जहाराशु वाराहं रूपमाश्रितः
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः | जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
स्थापयामास वै पृथ्व्यां कुशानास्तीर्य नारद
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि | सङ्कल्पयित्वा त्रीन्पिण्डान्स्वेनैव विधिना प्रभुः
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
आत्मगात्रोष्मसम्भूतैः स्नेहगर्भैस्तिलैरपि | प्रोक्ष्यापवर्गं देवेशः प्राङ्मुखः कृतवान्स्वयम्
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
मर्यादास्थापनार्थं च ततो वचनमुक्तवान् | अहं हि पितरः स्रष्टुमुद्यतो लोककृत्स्वयम्
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
आश्रिता धरणीं पिण्डास्तस्मात्पितर एव ते
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास्त्विमे | भवन्तु पितरो लोके मया सृष्टाः सनातनाः
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
पिता पितामहश्चैव तथैव प्रपितामहः | अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
नास्ति मत्तोऽधिकः कश्चित्को वाभ्यर्च्यो मया स्वयम् | को वा मम पिता लोके अहमेव पितामहः
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
पितामहपिता चैव अहमेवात्र कारणम् | इत्येवमुक्त्वा वचनं देवदेवो वृषाकपिः
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
वराहपर्वते विप्र दत्त्वा पिण्डान्सविस्तरान् | आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
एतदर्थं शुभमते पितरः पिण्डसञ्ज्ञिताः | लभन्ते सततं पूजां वृषाकपिवचो यथा
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते
Meaning
{"speaker":"Narada","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":333,"vulgateChapter":339}
महान्महात्मा सर्वात्मा नारायण इति श्रुतः