Mokshadharma Parva · Chapter 64
Mokshadharma 64 (BORI 231, vulgate 237)
अध्यायः २३१
Shanti Parva Mokshadharma chapter 64 of 186.
34 verses
इत्युक्तोऽभिप्रशस्यैतत्परमर्षेस्तु शासनम् | मोक्षधर्मार्थसंयुक्तमिदं प्रष्टुं प्रचक्रमे
Meaning
{"speaker":"Bhishma","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
प्रजावाञ्श्रोत्रियो यज्वा वृद्धः प्रज्ञोऽनसूयकः | अनागतमनैतिह्यं कथं ब्रह्माधिगच्छति
Meaning
{"speaker":"Shuka","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया | साङ्ख्ये वा यदि वा योगे एतत्पृष्टोऽभिधत्स्व मे
Meaning
{"speaker":"Shuka","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं समवाप्यते | येनोपायेन पुरुषैस्तच्च व्याख्यातुमर्हसि
Meaning
{"speaker":"Shuka","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् | नान्यत्र सर्वसन्त्यागात्सिद्धिं विन्दति कश्चन
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयम्भुवः | भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
भूमेर्देहो जलात्सारो ज्योतिषश्चक्षुषी स्मृते | प्राणापानाश्रयो वायुः खेष्वाकाशं शरीरिणाम्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
क्रान्ते विष्णुर्बले शक्रः कोष्ठेऽग्निर्भुक्तमर्छति | कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक्सरस्वती
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी | दर्शनानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
शब्दं स्पर्शं तथा रूपं रसं गन्धं च पञ्चमम् | इन्द्रियाणि पृथक्त्वर्थान्मनसो दर्शयन्त्युत
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
इन्द्रियाणि मनो युङ्क्ते वश्यान्यन्तेव वाजिनः | मनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
इन्द्रियाणां तथैवेषां सर्वेषामीश्वरं मनः | नियमे च विसर्गे च भूतात्मा मनसस्तथा
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः | प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतना | सत्त्वं हि तेजः सृजति न गुणान्वै कदाचन
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
एवं सप्तदशं देहे वृतं षोडशभिर्गुणैः | मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः | मनसा सम्प्रदीप्तेन महानात्मा प्रकाशते
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
अशब्दस्पर्शरूपं तदरसागन्धमव्ययम् | अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
अव्यक्तं व्यक्तदेहेषु मर्त्येष्वमरमाश्रितम् | योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
विद्याभिजनसम्पन्ने ब्राह्मणे गवि हस्तिनि | शुनि चैव श्वपाके च पण्डिताः समदर्शिनः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च | वसत्येको महानात्मा येन सर्वमिदं ततम्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि | यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
यावानात्मनि वेदात्मा तावानात्मा परात्मनि | य एवं सततं वेद सोऽमृतत्वाय कल्पते
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
सर्वभूतात्मभूतस्य सर्वभूतहितस्य च | देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
शकुनीनामिवाकाशे जले वारिचरस्य वा | यथा गतिर्न दृश्येत तथैव सुमहात्मनः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
कालः पचति भूतानि सर्वाण्येवात्मनात्मनि | यस्मिंस्तु पच्यते कालस्तं न वेदेह कश्चन
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
न तदूर्ध्वं न तिर्यक्च नाधो न च तिरः पुनः | न मध्ये प्रतिगृह्णीते नैव कश्चित्कुतश्चन
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
सर्वेऽन्तःस्था इमे लोका बाह्यमेषां न किञ्चन | यः सहस्रं समागच्छेद्यथा बाणो गुणच्युतः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः | तस्मात्सूक्ष्मात्सूक्ष्मतरं नास्ति स्थूलतरं ततः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् | सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम् | तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः | क्षरः सर्वेषु भूतेषु दिव्यं ह्यमृतमक्षरम्
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
नवद्वारं पुरं गत्वा हंसो हि नियतो वशी | ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
हानिभङ्गविकल्पानां नवानां संश्रयेण च | शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः
Meaning
{"speaker":"Vyasa","innerSection":"वासुदेवोग्रसेनसंवादः","subParva":"mokshadharma","boriChapter":231,"vulgateChapter":237}
हंसोक्तं चाक्षरं चैव कूटस्थं यत्तदक्षरम् | तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी