Mokshadharma Parva · Chapter 96
Mokshadharma 96 (BORI 263, vulgate 269)
अध्यायः २६३
Shanti Parva Mokshadharma chapter 96 of 186.
55 verses
धर्ममर्थं च कामं च वेदाः शंसन्ति भारत | कस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह
Meaning
{"speaker":"Yudhishthira","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् | कुण्डधारेण यत्प्रीत्या भक्तायोपकृतं पुरा
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
अधनो ब्राह्मणः कश्चित्कामाद्धर्ममवैक्षत | यज्ञार्थं स ततोऽर्थार्थी तपोऽतप्यत दारुणम्
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
स निश्चयमथो कृत्वा पूजयामास देवताः | भक्त्या न चैवाध्यगच्छद्धनं सम्पूज्य देवताः
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
ततश्चिन्तां पुनः प्राप्तः कतमद्दैवतं नु तत् | यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम्
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
अथ सौम्येन वपुषा देवानुचरमन्तिके | प्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम्
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
दृष्ट्वैव तं महात्मानं तस्य भक्तिरजायत | अयं मे धास्यति श्रेयो वपुरेतद्धि तादृशम्
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
संनिकृष्टश्च देवस्य न चान्यैर्मानुषैर्वृतः | एष मे दास्यति धनं प्रभूतं शीघ्रमेव च
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपि | बलिभिर्विविधैश्चापि पूजयामास तं द्विजः
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
ततः स्वल्पेन कालेन तुष्टो जलधरस्तदा | तस्योपकारे नियतामिमां वाचमुवाच ह
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा | निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
आशायास्तनयोऽधर्मः क्रोधोऽसूयासुतः स्मृतः | पुत्रो लोभो निकृत्यास्तु कृतघ्नो नार्हति प्रजाम्
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा | अपश्यत्सर्वभूतानि कुशेषु शयितस्तदा
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
शमेन तपसा चैव भक्त्या च निरुपस्कृतः | शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
मणिभद्रं स तत्रस्थं देवतानां महाद्युतिम् | अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च | शुभैः कर्मभिरारब्धाः प्रच्छिदन्त्यशुभेषु च
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
पश्यतामथ यक्षाणां कुण्डधारो महाद्युतिः | निष्पत्य पतितो भूमौ देवानां भरतर्षभ
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
ततस्तु देववचनान्मणिभद्रो महायशाः | उवाच पतितं भूमौ कुण्डधार किमिष्यते
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो मम | अस्यानुग्रहमिच्छामि कृतं किञ्चित्सुखोदयम्
Meaning
{"speaker":"कुण्डधार","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
ततस्तं मणिभद्रस्तु पुनर्वचनमब्रवीत् | देवानामेव वचनात्कुण्डधारं महाद्युतिम्
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
देवानां शासनात्तावदसङ्ख्येयं ददाम्यहम्
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
विचार्य कुण्डधारस्तु मानुष्यं चलमध्रुवम् | तपसे मतिमाधत्त ब्राह्मणस्य यशस्विनः
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
नाहं धनानि याचामि ब्राह्मणाय धनप्रद | अन्यमेवाहमिच्छामि भक्तायानुग्रहं कृतम्
Meaning
{"speaker":"कुण्डधार","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
पृथिवीं रत्नपूर्णां वा महद्वा धनसञ्चयम् | भक्ताय नाहमिच्छामि भवेदेष तु धार्मिकः
Meaning
{"speaker":"कुण्डधार","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
धर्मेऽस्य रमतां बुद्धिर्धर्मं चैवोपजीवतु | धर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः
Meaning
{"speaker":"कुण्डधार","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
यदा धर्मफलं राज्यं सुखानि विविधानि च | फलान्येवायमश्नातु कायक्लेशविवर्जितः
Meaning
{"speaker":"मणिभद्र","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
ततस्तदेव बहुशः कुण्डधारो महायशाः | अभ्यासमकरोद्धर्मे ततस्तुष्टास्य देवताः
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
प्रीतास्ते देवताः सर्वा द्विजस्यास्य तथैव च | भविष्यत्येष धर्मात्मा धर्मे चाधास्यते मतिः
Meaning
{"speaker":"मणिभद्र","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर | ईप्सितं मनसो लब्ध्वा वरमन्यैः सुदुर्लभम्
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
ततोऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः | पार्श्वतोऽभ्यागतो न्यस्तान्यथ निर्वेदमागतः
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
अयं न सुकृतं वेत्ति को न्वन्यो वेत्स्यते कृतम् | गच्छामि वनमेवाहं वरं धर्मेण जीवितुम्
Meaning
{"speaker":"Brahmana","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
निर्वेदाद्देवतानां च प्रसादात्स द्विजोत्तमः | वनं प्रविश्य सुमहत्तप आरब्धवांस्तदा
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
देवतातिथिशेषेण फलमूलाशनो द्विजः | धर्मे चापि महाराज रतिरस्याभ्यजायत
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
त्यक्त्वा मूलफलं सर्वं पर्णाहारोऽभवद्द्विजः | पर्णं त्यक्त्वा जलाहारस्तदासीद्द्विजसत्तमः
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
वायुभक्षस्ततः पश्चाद्बहून्वर्षगणानभूत् | न चास्य क्षीयते प्राणस्तदद्भुतमिवाभवत्
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
धर्मे च श्रद्दधानस्य तपस्युग्रे च वर्ततः | कालेन महता तस्य दिव्या दृष्टिरजायत
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
तस्य बुद्धिः प्रादुरासीद्यदि दद्यां महद्धनम् | तुष्टः कस्मैचिदेवाहं न मिथ्या वाग्भवेन्मम
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
ततः प्रहृष्टवदनो भूय आरब्धवांस्तपः | भूयश्चाचिन्तयत्सिद्धो यत्परं सोऽभ्यपद्यत
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
यदि दद्यामहं राज्यं तुष्टो वै यस्य कस्यचित् | स भवेदचिराद्राजा न मिथ्या वाग्भवेन्मम
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
तस्य साक्षात्कुण्डधारो दर्शयामास भारत | ब्राह्मणस्य तपोयोगात्सौहृदेनाभिचोदितः
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
समागम्य स तेनाथ पूजां चक्रे यथाविधि | ब्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
ततोऽब्रवीत्कुण्डधारो दिव्यं ते चक्षुरुत्तमम् | पश्य राज्ञां गतिं विप्र लोकांश्चावेक्ष चक्षुषा
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
ततो राज्ञां सहस्राणि मग्नानि निरये तदा | दूरादपश्यद्विप्रः स दिव्ययुक्तेन चक्षुषा
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
मां पूजयित्वा भावेन यदि त्वं दुःखमाप्नुयाः | कृतं मया भवेत्किं ते कश्च तेऽनुग्रहो भवेत्
Meaning
{"speaker":"कुण्डधार","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
पश्य पश्य च भूयस्त्वं कामानिच्छेत्कथं नरः | स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः
Meaning
{"speaker":"कुण्डधार","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
ततोऽपश्यत्स कामं च क्रोधं लोभं भयं मदम् | निद्रां तन्द्रीं तथालस्यमावृत्य पुरुषान्स्थितान्
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
एतैर्लोकाः सुसंरुद्धा देवानां मानुषाद्भयम् | तथैव देववचनाद्विघ्नं कुर्वन्ति सर्वशः
Meaning
{"speaker":"कुण्डधार","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
न देवैरननुज्ञातः कश्चिद्भवति धार्मिकः | एष शक्तोऽसि तपसा राज्यं दातुं धनानि च
Meaning
{"speaker":"कुण्डधार","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
ततः पपात शिरसा ब्राह्मणस्तोयधारिणे | उवाच चैनं धर्मात्मा महान्मेऽनुग्रहः कृतः
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
कामलोभानुबन्धेन पुरा ते यदसूयितम् | मया स्नेहमविज्ञाय तत्र मे क्षन्तुमर्हसि
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
क्षान्तमेव मयेत्युक्त्वा कुण्डधारो द्विजर्षभम् | सम्परिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
ततः सर्वानिमाँल्लोकान्ब्राह्मणोऽनुचचार ह | कुण्डधारप्रसादेन तपसा योजितः पुरा
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
विहायसा च गमनं तथा सङ्कल्पितार्थता | धर्माच्छक्त्या तथा योगाद्या चैव परमा गतिः
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
देवता ब्राह्मणाः सन्तो यक्षा मानुषचारणाः | धार्मिकान्पूजयन्तीह न धनाढ्यान्न कामिनः
Meaning
{"speaker":"Bhishma","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":263,"vulgateChapter":269}
सुप्रसन्ना हि ते देवा यत्ते धर्मे रता मतिः | धने सुखकला काचिद्धर्मे तु परमं सुखम्