Mokshadharma Parva · अध्याय 40
Mokshadharma 40 (BORI 207, vulgate 213)
अध्यायः २०७
Shanti Parva Mokshadharma chapter 40 of 186.
- Moksha 40.1Open verse →
गुरुरुवाच|| अत्रोपायं प्रवक्ष्यामि यथावच्छास्त्रचक्षुषा | तद्विज्ञानाच्चरन्प्राज्ञः प्राप्नुयात्परमां गतिम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.2Open verse →
सर्वेषामेव भूतानां पुरुषः श्रेष्ठ उच्यते | पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रवादिनः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.3Open verse →
सर्वभूतविशिष्टास्ते सर्वज्ञाः सर्वदर्शिनः | ब्राह्मणा वेदतत्त्वज्ञास्तत्त्वार्थगतिनिश्चयाः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.4Open verse →
नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि | ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.5Open verse →
तांस्तानुपासते धर्मान्धर्मकामा यथागमम् | न त्वेषामर्थसामान्यमन्तरेण गुणानिमान्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.6Open verse →
वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः | सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणानिमान्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.7Open verse →
यदिदं ब्रह्मणो रूपं ब्रह्मचर्यमिति स्मृतम् | परं तत्सर्वभूतेभ्यस्तेन यान्ति परां गतिम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.8Open verse →
लिङ्गसंयोगहीनं यच्छरीरस्पर्शवर्जितम् | श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.9Open verse →
जिह्वया रसनं यच्च तदेव परिवर्जितम् | बुद्ध्या च व्यवसायेन ब्रह्मचर्यमकल्मषम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.10Open verse →
सम्यग्वृत्तिर्ब्रह्मलोकं प्राप्नुयान्मध्यमः सुरान् | द्विजाग्र्यो जायते विद्वान्कन्यसीं वृत्तिमास्थितः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.11Open verse →
सुदुष्करं ब्रह्मचर्यमुपायं तत्र मे शृणु | सम्प्रवृत्तमुदीर्णं च निगृह्णीयाद्द्विजो मनः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.12Open verse →
योषितां न कथाः श्राव्या न निरीक्ष्या निरम्बराः | कदाचिद्दर्शनादासां दुर्बलानाविशेद्रजः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.13Open verse →
रागोत्पत्तौ चरेत्कृच्छ्रमह्नस्त्रिः प्रविशेदपः | मग्नः स्वप्ने च मनसा त्रिर्जपेदघमर्षणम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.14Open verse →
पाप्मानं निर्दहेदेवमन्तर्भूतं रजोमयम् | ज्ञानयुक्तेन मनसा सन्ततेन विचक्षणः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.15Open verse →
कुणपामेध्यसंयुक्तं यद्वदच्छिद्रबन्धनम् | तद्वद्देहगतं विद्यादात्मानं देहबन्धनम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.16Open verse →
वातपित्तकफान्रक्तं त्वङ्मांसं स्नायुमस्थि च | मज्जां चैव सिराजालैस्तर्पयन्ति रसा नृणाम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.17Open verse →
दश विद्याद्धमन्योऽत्र पञ्चेन्द्रियगुणावहाः | याभिः सूक्ष्माः प्रतायन्ते धमन्योऽन्याः सहस्रशः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.18Open verse →
एवमेताः सिरानद्यो रसोदा देहसागरम् | तर्पयन्ति यथाकालमापगा इव सागरम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.19Open verse →
मध्ये च हृदयस्यैका सिरा त्वत्र मनोवहा | शुक्रं सङ्कल्पजं नॄणां सर्वगात्रैर्विमुञ्चति
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.20Open verse →
सर्वगात्रप्रतायिन्यस्तस्या ह्यनुगताः सिराः | नेत्रयोः प्रतिपद्यन्ते वहन्त्यस्तैजसं गुणम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.21Open verse →
पयस्यन्तर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः | शुक्रं निर्मथ्यते तद्वद्देहसङ्कल्पजैः खजैः
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.22Open verse →
स्वप्नेऽप्येवं यथाभ्येति मनःसङ्कल्पजं रजः | शुक्रमस्पर्शजं देहात्सृजन्त्यस्य मनोवहा
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.23Open verse →
महर्षिर्भगवानत्रिर्वेद तच्छुक्रसम्भवम् | त्रिबीजमिन्द्रदैवत्यं तस्मादिन्द्रियमुच्यते
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.24Open verse →
ये वै शुक्रगतिं विद्युर्भूतसङ्करकारिकाम् | विरागा दग्धदोषास्ते नाप्नुयुर्देहसम्भवम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.25Open verse →
गुणानां साम्यमागम्य मनसैव मनोवहम् | देहकर्म नुदन्प्राणानन्तकाले विमुच्यते
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.26Open verse →
भविता मनसो ज्ञानं मन एव प्रतायते | ज्योतिष्मद्विरजो दिव्यमत्र सिद्धं महात्मनाम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.27Open verse →
तस्मात्तदविघाताय कर्म कुर्यादकल्मषम् | रजस्तमश्च हित्वेह न तिर्यग्गतिमाप्नुयात्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.28Open verse →
तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम् | परिपक्वबुद्धिः कालेन आदत्ते मानसं बलम्
Meaning
{"speaker":"","innerSection":"गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं)","subParva":"mokshadharma","boriChapter":207,"vulgateChapter":213}
- Moksha 40.29Open verse →
सुदुर्गमिव पन्थानमतीत्य गुणबन्धनम् | यदा पश्येत्तदा दोषानतीत्यामृतमश्नुते