Mokshadharma Parva · अध्याय 34
Mokshadharma 34 — Manu-Bṛhaspati Samvada (BORI 201, vulgate 207)
मनुबृहस्पतिसंवादः
Shanti Parva Mokshadharma chapter 34 of 186. Section: Manu-Bṛhaspati Samvada.
- Moksha 34.1Open verse →
के पूर्वमासन्पतयः प्रजानां भरतर्षभ | के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः
Meaning
{"speaker":"Yudhishthira","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.2Open verse →
श्रूयतां भरतश्रेष्ठ यन्मा त्वं परिपृच्छसि | प्रजानां पतयो ये स्म दिक्षु प्रत्येकशः स्मृताः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.3Open verse →
एकः स्वयम्भूर्भगवानाद्यो ब्रह्मा सनातनः | ब्रह्मणः सप्त पुत्रा वै महात्मानः स्वयम्भुवः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.4Open verse →
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः | वसिष्ठश्च महाभागः सदृशा वै स्वयम्भुवा
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.5Open verse →
सप्त ब्रह्माण इत्येष पुराणे निश्चयो गतः | अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन्
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.6Open verse →
अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनः | प्राचीनबर्हिर्भगवांस्तस्मात्प्राचेतसो दश
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.7Open verse →
दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः | तस्य द्वे नामनी लोके दक्षः क इति चोच्यते
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.8Open verse →
मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी श्रुते | अरिष्टनेमिरित्येकं कश्यपेत्यपरं विदुः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.9Open verse →
अङ्गश्चैवौरसः श्रीमान्राजा भौमश्च वीर्यवान् | सहस्रं यश्च दिव्यानां युगानां पर्युपासिता
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.10Open verse →
अर्यमा चैव भगवान्ये चान्ये तनया विभो | एते प्रदेशाः कथिता भुवनानां प्रभावनाः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.11Open verse →
शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत | एकैकस्यां सहस्रं तु तनयानामभूत्तदा
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.12Open verse →
एवं शतसहस्राणां शतं तस्य महात्मनः | पुत्राणां न च ते कञ्चिदिच्छन्त्यन्यं प्रजापतिम्
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.13Open verse →
प्रजामाचक्षते विप्राः पौराणीं शाशबिन्दवीम् | स वृष्णिवंशप्रभवो महान्वंशः प्रजापतेः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.14Open verse →
एते प्रजानां पतयः समुद्दिष्टा यशस्विनः | अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान्
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.15Open verse →
भगोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा | सविता चैव धाता च विवस्वांश्च महाबलः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.16Open verse →
पूषा त्वष्टा तथैवेन्द्रो द्वादशो विष्णुरुच्यते | त एते द्वादशादित्याः कश्यपस्यात्मसम्भवाः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.17Open verse →
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावपि | मार्ताण्डस्यात्मजावेतावष्टमस्य प्रजापतेः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.18Open verse →
त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः | अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.19Open verse →
पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.20Open verse →
एत एवंविधा देवा मनोरेव प्रजापतेः | ते च पूर्वे सुराश्चेति द्विविधाः पितरः स्मृताः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.21Open verse →
शीलरूपरतास्त्वन्ये तथान्ये सिद्धसाध्ययोः | ऋभवो मरुतश्चैव देवानां चोदिता गणाः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.22Open verse →
एवमेते समाम्नाता विश्वेदेवास्तथाश्विनौ | आदित्याः क्षत्रियास्तेषां विशस्तु मरुतस्तथा
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.23Open verse →
इत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम्
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.24Open verse →
एतान्वै प्रातरुत्थाय देवान्यस्तु प्रकीर्तयेत् | स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.25Open verse →
यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू | औशिजश्चैव कक्षीवान्नलश्चाङ्गिरसः सुताः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.26Open verse →
ऋषेर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा | त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.27Open verse →
उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान् | प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.28Open verse →
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् | एते ब्रह्मर्षयो नित्यमाश्रिता दक्षिणां दिशम्
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.29Open verse →
रुषद्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान् | एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.30Open verse →
अत्रेः पुत्रश्च भगवांस्तथा सारस्वतः प्रभुः | एते नव महात्मानः पश्चिमामाश्रिता दिशम्
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.31Open verse →
आत्रेयश्च वसिष्ठश्च कश्यपश्च महानृषिः | गौतमः सभरद्वाजो विश्वामित्रोऽथ कौशिकः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.32Open verse →
तथैव पुत्रो भगवानृचीकस्य महात्मनः | जमदग्निश्च सप्तैते उदीचीं दिशमाश्रिताः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.33Open verse →
एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः | साक्षिभूता महात्मानो भुवनानां प्रभावनाः
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.34Open verse →
एवमेते महात्मानः स्थिताः प्रत्येकशो दिशः | एतेषां कीर्तनं कृत्वा सर्वपापैः प्रमुच्यते
Meaning
{"speaker":"Bhishma","innerSection":"दिक्पालकीर्तनम्","subParva":"mokshadharma","boriChapter":201,"vulgateChapter":207}
- Moksha 34.35Open verse →
यस्यां यस्यां दिशि ह्येते तां दिशं शरणं गतः | मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत्