Mokshadharma Parva · अध्याय 172
Mokshadharma 172 (BORI 339, vulgate 345)
अध्यायः ३३९
Shanti Parva Mokshadharma chapter 172 of 186.
- Moksha 172.1Open verse →
ब्रह्मोवाच|| शृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः | अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.2Open verse →
न स शक्यस्त्वया द्रष्टुं मयान्यैर्वापि सत्तम | सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.3Open verse →
अशरीरः शरीरेषु सर्वेषु निवसत्यसौ | वसन्नपि शरीरेषु न स लिप्यति कर्मभिः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.4Open verse →
ममान्तरात्मा तव च ये चान्ये देहसञ्ज्ञिताः | सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.5Open verse →
विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः | एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.6Open verse →
क्षेत्राणि हि शरीराणि बीजानि च शुभाशुभे | तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.7Open verse →
नागतिर्न गतिस्तस्य ज्ञेया भूतेन केनचित् | साङ्ख्येन विधिना चैव योगेन च यथाक्रमम्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.8Open verse →
चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तमाम् | यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.9Open verse →
तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः | महापुरुषशब्दं स बिभर्त्येकः सनातनः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.10Open verse →
पुरुषश्चैको निर्गुणो विश्वरूप; स्तं निर्गुणं पुरुषं चाविशन्ति
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.11Open verse →
हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम् | उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.12Open verse →
अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् | विचरेद्यो यतिर्यत्तः स गच्छेत्पुरुषं प्रभुम्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.13Open verse →
एवं हि परमात्मानं केचिदिच्छन्ति पण्डिताः | एकात्मानं तथात्मानमपरेऽध्यात्मचिन्तकाः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.14Open verse →
न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.15Open verse →
एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.16Open verse →
यत्तत्कृत्स्नं लोकतन्त्रस्य धाम; वेद्यं परं बोधनीयं सबोद्धृ | मन्ता मन्तव्यं प्राशिता प्राशितव्यं; घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.17Open verse →
द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं; ज्ञाता ज्ञेयं सगुणं निर्गुणं च | यद्वै प्रोक्तं गुणसाम्यं प्रधानं; नित्यं चैतच्छाश्वतं चाव्ययं च
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.18Open verse →
यद्वै सूते धातुराद्यं निधानं; तद्वै विप्राः प्रवदन्तेऽनिरुद्धम् | यद्वै लोके वैदिकं कर्म साधु; आशीर्युक्तं तद्धि तस्योपभोज्यम्
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.19Open verse →
मत्तो जगज्जङ्गमं स्थावरं च; सर्वे वेदाः सरहस्या हि पुत्र
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.20Open verse →
चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति | एवं स एव भगवाञ्ज्ञानेन प्रतिबोधितः
Meaning
{"speaker":"","innerSection":"नरनारायणीयम्","subParva":"mokshadharma","boriChapter":339,"vulgateChapter":345}
- Moksha 172.21Open verse →
एतत्ते कथितं पुत्र यथावदनुपृच्छतः | साङ्ख्यज्ञाने तथा योगे यथावदनुवर्णितम्