Mokshadharma Parva · अध्याय 95
Mokshadharma 95 (BORI 262, vulgate 268)
अध्यायः २६२
Shanti Parva Mokshadharma chapter 95 of 186.
- Moksha 95.1Open verse →
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.2Open verse →
शरीरमेतत्कुरुते यद्वेदे कुरुते तनुम् | कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.3Open verse →
आनन्त्यमनुयुङ्क्ते यः कर्मणा तद्ब्रवीमि ते | निरागममनैतिह्यं प्रत्यक्षं लोकसाक्षिकम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.4Open verse →
धनानामेष वै पन्थास्तीर्थेषु प्रतिपादनम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.5Open verse →
अनाश्रिताः पापकृत्याः कदाचित्कर्मयोनितः | मनःसङ्कल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.6Open verse →
अक्रुध्यन्तोऽनसूयन्तो निरहङ्कारमत्सराः | ज्ञाननिष्ठास्त्रिशुक्लाश्च सर्वभूतहिते रताः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.7Open verse →
आसन्गृहस्था भूयिष्ठमव्युत्क्रान्ताः स्वकर्मसु | राजानश्च तथा युक्ता ब्राह्मणाश्च यथाविधि
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.8Open verse →
समा ह्यार्जवसम्पन्नाः सन्तुष्टा ज्ञाननिश्चयाः | प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.9Open verse →
पुरस्ताद्भावितात्मानो यथावच्चरितव्रताः | चरन्ति धर्मं कृच्छ्रेऽपि दुर्गे चैवाधिसंहताः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.10Open verse →
संहत्य धर्मं चरतां पुरासीत्सुखमेव तत् | तेषां नासीद्विधातव्यं प्रायश्चित्तं कदाचन
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.11Open verse →
सत्यं हि धर्ममास्थाय दुराधर्षतमा मताः | न मात्रामनुरुध्यन्ते न धर्मच्छलमन्ततः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.12Open verse →
दुर्बलात्मन उत्पन्नं प्रायश्चित्तमिति श्रुतिः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.13Open verse →
यजन्तोऽहरहर्यज्ञैर्निराशीर्बन्धना बुधाः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.14Open verse →
तेषां यज्ञाश्च वेदाश्च कर्माणि च यथागमम् | आगमाश्च यथाकालं सङ्कल्पाश्च यथाव्रतम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.15Open verse →
सर्वमानन्त्यमेवासीदिति नः शाश्वती श्रुतिः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.16Open verse →
तेषामदीनसत्त्वानां दुश्चराचारकर्मणाम् | स्वकर्मभिः संवृतानां तपो घोरत्वमागतम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.17Open verse →
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् | अशक्नुवद्भिश्चरितुं किञ्चिद्धर्मेषु सूचितम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.18Open verse →
निरापद्धर्म आचारस्त्वप्रमादोऽपराभवः | सर्ववर्णेषु यत्तेषु नासीत्कश्चिद्व्यतिक्रमः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.19Open verse →
धर्ममेकं चतुष्पादमाश्रितास्ते नरर्षभाः | तं सन्तो विधिवत्प्राप्य गच्छन्ति परमां गतिम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.20Open verse →
गृहेभ्य एव निष्क्रम्य वनमन्ये समाश्रिताः | गृहमेवाभिसंश्रित्य ततोऽन्ये ब्रह्मचारिणः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.21Open verse →
धर्ममेतं चतुष्पादमाश्रमं ब्राह्मणा विदुः | आनन्त्यं ब्रह्मणः स्थानं ब्राह्मणा नाम निश्चयः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.22Open verse →
अत एवंविधा विप्राः पुराणा धर्मचारिणः | त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.23Open verse →
नक्षत्राणीव धिष्ण्येषु बहवस्तारकागणाः | आनन्त्यमुपसम्प्राप्ताः सन्तोषादिति वैदिकम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.24Open verse →
यद्यागच्छन्ति संसारं पुनर्योनिषु तादृशाः | न लिप्यन्ते पापकृत्यैः कदाचित्कर्मयोनितः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.25Open verse →
एवं युक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत् | कर्मैव पुरुषस्याह शुभं वा यदि वाशुभम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.26Open verse →
एवं पक्वकषायाणामानन्त्येन श्रुतेन च | सर्वमानन्त्यमेवासीदेवं नः शाश्वती श्रुतिः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.27Open verse →
तेषामपेततृष्णानां निर्णिक्तानां शुभात्मनाम् | चतुर्थ औपनिषदो धर्मः साधारणः स्मृतः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.28Open verse →
स सिद्धैः साध्यते नित्यं ब्राह्मणैर्नियतात्मभिः | सन्तोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.29Open verse →
अपवर्गगतिर्नित्यो यतिधर्मः सनातनः | साधारणः केवलो वा यथाबलमुपास्यते
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.30Open verse →
गच्छतो गच्छतः क्षेमं दुर्बलोऽत्रावसीदति | ब्रह्मणः पदमन्विच्छन्संसारान्मुच्यते शुचिः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.31Open verse →
स्यूमरश्मिरुवाच|| ये भुञ्जते ये ददते यजन्तेऽधीयते च ये | मात्राभिर्धर्मलब्धाभिर्ये वा त्यागं समाश्रिताः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.32Open verse →
एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः | एतदाचक्ष्व मे ब्रह्मन्यथातथ्येन पृच्छतः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.33Open verse →
परिग्रहाः शुभाः सर्वे गुणतोऽभ्युदयाश्च ये | न तु त्यागसुखं प्राप्ता एतत्त्वमपि पश्यसि
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.34Open verse →
स्यूमरश्मिरुवाच|| भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चयाः | आश्रमाणां च सर्वेषां निष्ठायामैक्यमुच्यते
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.35Open verse →
एकत्वे च पृथक्त्वे च विशेषो नान्य उच्यते | तद्यथावद्यथान्यायं भगवान्प्रब्रवीतु मे
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.36Open verse →
शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः | पक्वे कषाये वमनै रसज्ञाने न तिष्ठति
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.37Open verse →
आनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम् | अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा शमस्तथा
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.38Open verse →
पन्थानो ब्रह्मणस्त्वेते एतैः प्राप्नोति यत्परम् | तद्विद्वाननुबुध्येत मनसा कर्मनिश्चयम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.39Open verse →
यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः | गतिं गच्छन्ति सन्तुष्टास्तामाहुः परमां गतिम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.40Open verse →
वेदांश्च वेदितव्यं च विदित्वा च यथास्थिति | एवं वेदविदित्याहुरतोऽन्यो वातरेटकः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.41Open verse →
सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम् | वेदे हि निष्ठा सर्वस्य यद्यदस्ति च नास्ति च
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.42Open verse →
एषैव निष्ठा सर्वस्य यद्यदस्ति च नास्ति च | एतदन्तं च मध्यं च सच्चासच्च विजानतः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.43Open verse →
समस्तत्याग इत्येव शम इत्येव निष्ठितः | सन्तोष इत्यत्र शुभमपवर्गे प्रतिष्ठितम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.44Open verse →
ऋतं सत्यं विदितं वेदितव्यं; सर्वस्यात्मा जङ्गमं स्थावरं च | सर्वं सुखं यच्छिवमुत्तमं च; ब्रह्माव्यक्तं प्रभवश्चाव्ययश्च
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":262,"vulgateChapter":268}
- Moksha 95.45Open verse →
तेजः क्षमा शान्तिरनामयं शुभं; तथाविधं व्योम सनातनं ध्रुवम् | एतैः शब्दैर्गम्यते बुद्धिनेत्रै; स्तस्मै नमो ब्रह्मणे ब्राह्मणाय