Mokshadharma Parva · अध्याय 94
Mokshadharma 94 (BORI 261, vulgate 267)
अध्यायः २६१
Shanti Parva Mokshadharma chapter 94 of 186.
- Moksha 94.1Open verse →
एतावदनुपश्यन्तो यतयो यान्ति मार्गगाः | नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.2Open verse →
निर्द्वंद्वा निर्नमस्कारा निराशीर्बन्धना बुधाः | विमुक्ताः सर्वपापेभ्यश्चरन्ति शुचयोऽमलाः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.3Open verse →
अपवर्गेऽथ सन्त्यागे बुद्धौ च कृतनिश्चयाः | ब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.4Open verse →
विशोका नष्टरजसस्तेषां लोकाः सनातनाः | तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.5Open verse →
स्यूमरश्मिरुवाच|| यद्येषा परमा निष्ठा यद्येषा परमा गतिः | गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.6Open verse →
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः | एवं गृहस्थमाश्रित्य वर्तन्त इतरेऽऽश्रमाः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.7Open verse →
गृहस्थ एव यजते गृहस्थस्तप्यते तपः | गार्हस्थ्यमस्य धर्मस्य मूलं यत्किञ्चिदेजते
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.8Open verse →
प्रजनाद्ध्यभिनिर्वृत्ताः सर्वे प्राणभृतो मुने | प्रजनं चाप्युतान्यत्र न कथञ्चन विद्यते
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.9Open verse →
कस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.10Open verse →
श्रमस्योपरमो दृष्टः प्रव्रज्या नाम पण्डितैः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.11Open verse →
त्रैलोक्यस्यैव हेतुर्हि मर्यादा शाश्वती ध्रुवा | ब्राह्मणो नाम भगवाञ्जन्मप्रभृति पूज्यते
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.12Open verse →
प्राग्गर्भाधानान्मन्त्रा हि प्रवर्तन्ते द्विजातिषु | अविश्रम्भेषु वर्तन्ते विश्रम्भेष्वप्यसंशयम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.13Open verse →
दाहः पुनः संश्रयणे संस्थिते पात्रभोजनम् | दानं गवां पशूनां वा पिण्डानां चाप्सु मज्जनम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.14Open verse →
अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरः स्मृताः | मृतस्याप्यनुमन्यन्ते मन्त्रा मन्त्राश्च कारणम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.15Open verse →
एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित् | ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.16Open verse →
श्रिया विहीनैरलसैः पण्डितैरपलापितम् | वेदवादापरिज्ञानं सत्याभासमिवानृतम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.17Open verse →
न वै पापैर्ह्रियते कृष्यते वा; यो ब्राह्मणो यजते वेदशास्त्रैः | ऊर्ध्वं यज्ञः पशुभिः सार्धमेति; सन्तर्पितस्तर्पयते च कामैः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.18Open verse →
न वेदानां परिभवान्न शाठ्येन न मायया | महत्प्राप्नोति पुरुषो ब्रह्म ब्रह्मणि विन्दति
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.19Open verse →
दर्शं च पौर्णमासं च अग्निहोत्रं च धीमताम् | चातुर्मास्यानि चैवासंस्तेषु यज्ञः सनातनः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.20Open verse →
अनारम्भाः सुधृतयः शुचयो ब्रह्मसंश्रिताः | ब्रह्मणैव स्म ते देवांस्तर्पयन्त्यमृतैषिणः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.21Open verse →
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः | देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.22Open verse →
चतुर्द्वारं पुरुषं चतुर्मुखं; चतुर्धा चैनमुपयाति निन्दा | बाहुभ्यां वाच उदरादुपस्था; त्तेषां द्वारं द्वारपालो बुभूषेत्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.23Open verse →
नाक्षैर्दीव्येन्नाददीतान्यवित्तं; न वायोनीयस्य शृतं प्रगृह्णेत् | क्रुद्धो न चैव प्रहरेत धीमां; स्तथास्य तत्पाणिपादं सुगुप्तम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.24Open verse →
नाक्रोशमर्छेन्न मृषा वदेच्च; न पैशुनं जनवादं च कुर्यात् | सत्यव्रतो मितभाषोऽप्रमत्त; स्तथास्य वाग्द्वारमथो सुगुप्तम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.25Open verse →
नानाशनः स्यान्न महाशनः स्या; दलोलुपः साधुभिरागतः स्यात् | यात्रार्थमाहारमिहाददीत; तथास्य स्याज्जाठरी द्वारगुप्तिः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.26Open verse →
न वीरपत्नीं विहरेत नारीं; न चापि नारीमनृतावाह्वयीत | भार्याव्रतं ह्यात्मनि धारयीत; तथास्योपस्थद्वारगुप्तिर्भवेत
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.27Open verse →
द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः | उपस्थमुदरं बाहू वाक्चतुर्थी स वै द्विजः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.28Open verse →
मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत | किं तस्य तपसा कार्यं किं यज्ञेन किमात्मना
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.29Open verse →
अनुत्तरीयवसनमनुपस्तीर्णशायिनम् | बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.30Open verse →
द्वंद्वारामेषु सर्वेषु य एको रमते मुनिः | परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.31Open verse →
येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या | गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.32Open verse →
अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः | सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.33Open verse →
नान्तरेणानुजानन्ति वेदानां यत्क्रियाफलम् | अनुज्ञाय च तत्सर्वमन्यद्रोचयतेऽफलम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.34Open verse →
फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रुवाणि च | विगुणानि च पश्यन्ति तथानैकान्तिकानि च
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.35Open verse →
गुणाश्चात्र सुदुर्ज्ञेया ज्ञाताश्चापि सुदुष्कराः | अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.36Open verse →
स्यूमरश्मिरुवाच|| यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा | तौ पन्थानावुभौ व्यक्तौ भगवंस्तद्ब्रवीहि मे
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.37Open verse →
प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः | प्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.38Open verse →
इमं च संशयं घोरं भगवान्प्रब्रवीतु मे
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.39Open verse →
अन्यत्र तर्कशास्त्रेभ्य आगमाच्च यथागमम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.40Open verse →
सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्चयात्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.41Open verse →
एतद्ब्रवीतु भगवानुपपन्नोऽस्म्यधीहि भोः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.42Open verse →
नैव त्यागी न सन्तुष्टो नाशोको न निरामयः | न निर्विवित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.43Open verse →
भवन्तोऽपि च हृष्यन्ति शोचन्ति च यथा वयम् | इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.44Open verse →
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु | एकमालम्बमानानां निर्णये किं निरामयम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.45Open verse →
यद्यदाचरते शास्त्रमथ सर्वप्रवृत्तिषु | यस्य यत्र ह्यनुष्ठानं तत्र तत्र निरामयम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.46Open verse →
सर्वं पावयते ज्ञानं यो ज्ञानं ह्यनुवर्तते | ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.47Open verse →
भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरागमाः | ऐकात्म्यं नाम कश्चिद्धि कदाचिदभिपद्यते
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.48Open verse →
शास्त्रं ह्यबुद्ध्वा तत्त्वेन केचिद्वादबला जनाः | कामद्वेषाभिभूतत्वादहङ्कारवशं गताः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.49Open verse →
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः | ब्रह्मस्तेना निरारम्भा अपक्वमतयोऽशिवाः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.50Open verse →
वैगुण्यमेव पश्यन्ति न गुणाननुयुञ्जते | तेषां तमःशरीराणां तम एव परायणम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.51Open verse →
नित्यमेवाभिवर्तन्ते गुणाः प्रकृतिसम्भवाः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.52Open verse →
एतद्बुद्ध्यानुपश्यन्तः सन्त्यजेयुः शुभाशुभम् | परां गतिमभीप्सन्तो यतयः संयमे रताः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.53Open verse →
स्यूमरश्मिरुवाच|| सर्वमेतन्मया ब्रह्मञ्शास्त्रतः परिकीर्तितम् | न ह्यविज्ञाय शात्रार्थं प्रवर्तन्ते प्रवृत्तयः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.54Open verse →
यः कश्चिन्न्याय्य आचारः सर्वं शास्त्रमिति श्रुतिः | यदन्याय्यमशास्त्रं तदित्येषा श्रूयते श्रुतिः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.55Open verse →
न प्रवृत्तिरृते शास्त्रात्काचिदस्तीति निश्चयः | यदन्यद्वेदवादेभ्यस्तदशास्त्रमिति श्रुतिः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.56Open verse →
अविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.57Open verse →
वेदवादं व्यपाश्रित्य मोक्षोऽस्तीति प्रभाषितुम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.58Open verse →
इदं तु दुष्करं कर्म कुटुम्बमभिसंश्रितम् | दानमध्ययनं यज्ञः प्रजासन्तानमार्जवम्
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.59Open verse →
यद्येतदेवं कृत्वापि न विमोक्षोऽस्ति कस्यचित् | धिक्कर्तारं च कार्यं च श्रमश्चायं निरर्थकः
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.60Open verse →
नास्तिक्यमन्यथा च स्याद्वेदानां पृष्ठतःक्रिया | एतस्यानन्त्यमिच्छामि भगवञ्श्रोतुमञ्जसा
Meaning
{"speaker":"कपिल","innerSection":"कपिलगोसंवादः","subParva":"mokshadharma","boriChapter":261,"vulgateChapter":267}
- Moksha 94.61Open verse →
तथ्यं वदस्व मे ब्रह्मन्नुपसन्नोऽस्म्यधीहि भोः | यथा ते विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम्