Sant Seva ParishadSant Seva ParishadSSP · sant seva

Vishnu Purana · Chapter 3

Aṃśa 3 — Manvantaras and Vedas

तृतीयोऽंशः

The fourteen manvantaras; arrangement of the Vedas by Vyāsa; the four āśramas; śrāddha and the duties of householders; the dialogue of the messenger of Yama with the wicked.

891 verses

📖 Book View
  1. ______________________________________________________ §मैत्रेय उवाच: कथिता गुरुणा सम्यग् भूसमुद्रादिसंस्थितिः । सूर्यादीनां च संस्थानं ज्योतिषाम् अपि विस्तरात्

    ______________________________________________________ §maitreya uvāca: kathitā guruṇā samyag bhūsamudrādisaṃsthitiḥ / sūryādīnāṃ ca saṃsthānaṃ jyotiṣām api vistarāt

  2. देवादीनां तथा सृष्टिर् ऋषीणां चापि वर्णिता । चातुर्वर्ण्यस्य चोत्पत्तिस् तिर्यग्योनिगतस्य च

    devādīnāṃ tathā sṛṣṭir ṛṣīṇāṃ cāpi varṇitā / cāturvarṇyasya cotpattis tiryagyonigatasya ca

  3. ध्रुवप्रह्लादचरितं विस्तराच् च त्वयोदितम् । मन्वन्तराण्य् अशेषाणि श्रोतुम् इच्छाम्य् अनुक्रमात्

    dhruvaprahlādacaritaṃ vistarāc ca tvayoditam / manvantarāṇy aśeṣāṇi śrotum icchāmy anukramāt

  4. मन्वन्तराधिपांश् चैव शक्रदेवपुरोगमान् । भवता कथितान् एताञ् श्रोतुम् इच्छाम्य् अहं गुरो

    manvantarādhipāṃś caiva śakradevapurogamān / bhavatā kathitān etāñ śrotum icchāmy ahaṃ guro

  5. §पराशर उवाच: अतीतानागतानीह यानि मन्वन्तराणि वै । तान्य् अहं भवते सम्यक् कथयामि यथाक्रमम्

    §parāśara uvāca: atītānāgatānīha yāni manvantarāṇi vai / tāny ahaṃ bhavate samyak kathayāmi yathākramam

  6. स्वायंभुवो मनुः पूर्वं मनुः स्वारोचिषस् तथा । उत्तमस् तामसश् चैव रैवतश् चाक्षुषस् तथा

    svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣas tathā / uttamas tāmasaś caiva raivataś cākṣuṣas tathā

  7. षड् एते मनवो ऽतीताः साम्प्रतं तु रवेः सुतः । वैवस्वतो ऽयं यस्यैतत् सप्तमं वर्तते ऽन्तरम्

    ṣaḍ ete manavo 'tītāḥ sāmprataṃ tu raveḥ sutaḥ / vaivasvato 'yaṃ yasyaitat saptamaṃ vartate 'ntaram

  8. स्वायंभुवं तु कथितं कल्पादाव् अन्तरं मया । देवास् तत्रर्षयश् चैव यथावत् कथिता मया

    svāyaṃbhuvaṃ tu kathitaṃ kalpādāv antaraṃ mayā / devās tatrarṣayaś caiva yathāvat kathitā mayā

  9. अत ऊर्ध्वं प्रवक्ष्यामि मनोः स्वारोचिषस्य तु । मन्वन्तराधिपान् सम्यग् देवर्षींस् तत्सुतांस् तथा

    ata ūrdhvaṃ pravakṣyāmi manoḥ svārociṣasya tu / manvantarādhipān samyag devarṣīṃs tatsutāṃs tathā

  10. पारावताः सतुषिता देवाः स्वारोचिषे ऽन्तरे । विपश्चित् तत्र देवेन्द्रो मैत्रेयासीन् महाबलः

    pārāvatāḥ satuṣitā devāḥ svārociṣe 'ntare / vipaścit tatra devendro maitreyāsīn mahābalaḥ

  11. ऊर्जः स्तम्भस् तथा प्राणो दत्तोलिर् ऋषभस् तथा । निश्चरश् चार्वरीवांश् च तत्र सप्तर्षयो ऽभवन्

    ūrjaḥ stambhas tathā prāṇo dattolir ṛṣabhas tathā / niścaraś cārvarīvāṃś ca tatra saptarṣayo 'bhavan

  12. चैत्रकिंपुरुषाद्याश् च सुताः स्वारोचिषस्य तु । द्वितीयम् एतत् कथितम् अन्तरं शृणु चोत्तरम्

    caitrakiṃpuruṣādyāś ca sutāḥ svārociṣasya tu / dvitīyam etat kathitam antaraṃ śṛṇu cottaram

  13. तृतीये ऽप्य् अन्तरे ब्रह्मन्न् उत्तमो नाम यो मनुः । सुशान्तिर् नाम देवेन्द्रो मैत्रेयाभूत् सुरेश्वरः

    tṛtīye 'py antare brahmann uttamo nāma yo manuḥ / suśāntir nāma devendro maitreyābhūt sureśvaraḥ

  14. सुधामानस् तथा सत्याः शिवाश् चासन् प्रतर्दनाः । वशवर्तिनश् च पञ्चैते गणा द्वादशकाः स्मृताः

    sudhāmānas tathā satyāḥ śivāś cāsan pratardanāḥ / vaśavartinaś ca pañcaite gaṇā dvādaśakāḥ smṛtāḥ

  15. वसिष्ठतनयास् तत्र सप्त सप्तर्षयो ऽभवन् । अजः परशुदिव्याद्यास् तथोत्तममनोः सुताः

    vasiṣṭhatanayās tatra sapta saptarṣayo 'bhavan / ajaḥ paraśudivyādyās tathottamamanoḥ sutāḥ

  16. तामसस्यान्तरे देवाः सुरूपा हरयस् तथा । सत्याश् च सुधियश् चैव सप्तविंशतिका गणाः

    tāmasasyāntare devāḥ surūpā harayas tathā / satyāś ca sudhiyaś caiva saptaviṃśatikā gaṇāḥ

  17. शिबिर् इन्द्रस् तथा चासीच् शतयज्ञोपलक्षणः । सप्तर्षयश् च ये तेषां तत्र नामानि मे शृणु

    śibir indras tathā cāsīc śatayajñopalakṣaṇaḥ / saptarṣayaś ca ye teṣāṃ tatra nāmāni me śṛṇu

  18. ज्योतिर्धामा पृथुः काव्यश् चैत्रो ऽग्निर् वनकस् तथा । पीवरश् चर्षयो ह्य् एते सप्त तत्रापि चान्तरे

    jyotirdhāmā pṛthuḥ kāvyaś caitro 'gnir vanakas tathā / pīvaraś carṣayo hy ete sapta tatrāpi cāntare

  19. नरः ख्यातिः शान्तहयो जानुजङ्घादयस् तथा । पुत्रास् तु तामसस्यासन् राजानः सुमहाबलाः

    naraḥ khyātiḥ śāntahayo jānujaṅghādayas tathā / putrās tu tāmasasyāsan rājānaḥ sumahābalāḥ

  20. पञ्चमे चापि मैत्रेय रैवतो नाम नामतः । मनुर् विभुश् च तत्रेन्द्रो देवांश् चैवान्तरे शृणु

    pañcame cāpi maitreya raivato nāma nāmataḥ / manur vibhuś ca tatrendro devāṃś caivāntare śṛṇu

  21. अमिताभा भूतरया वैकुण्ठाः ससुमेधसः । एते देवगणास् तत्र चतुर्दश चतुर्दश

    amitābhā bhūtarayā vaikuṇṭhāḥ sasumedhasaḥ / ete devagaṇās tatra caturdaśa caturdaśa

  22. हिरण्यरोमा वेदश्रीर् ऊर्ध्वबाहुस् तथापरः । वेदबाहुः सुधामा च पर्जन्यश् च महामुनिः । एते सप्तर्षयो विप्र तत्रासन् रैवते ऽन्तरे

    hiraṇyaromā vedaśrīr ūrdhvabāhus tathāparaḥ / vedabāhuḥ sudhāmā ca parjanyaś ca mahāmuniḥ / ete saptarṣayo vipra tatrāsan raivate 'ntare

  23. बलबन्धुः सुसंभाव्यः सत्यकाद्याश् च तत्सुताः । नरेन्द्राः सुमहावीर्या बभूवुर् मुनिसत्तम

    balabandhuḥ susaṃbhāvyaḥ satyakādyāś ca tatsutāḥ / narendrāḥ sumahāvīryā babhūvur munisattama

  24. स्वारोचिषश् चोत्तमश् च तामसो रैवतस् तथा । प्रियव्रतान्वया ह्य् एते चत्वारो मनवः स्मृताः

    svārociṣaś cottamaś ca tāmaso raivatas tathā / priyavratānvayā hy ete catvāro manavaḥ smṛtāḥ

  25. विष्णुम् आराध्य तपसा स राजर्षिः प्रियव्रतः । मन्वन्तराधिपान् एतांल् लब्धवान् आत्मवंशजान्

    viṣṇum ārādhya tapasā sa rājarṣiḥ priyavrataḥ / manvantarādhipān etāṃl labdhavān ātmavaṃśajān

  26. षष्ठे मन्वन्तरे चासीच् चाक्षुषाख्यस् तथा मनुः । मनोजवस् तथैवेन्द्रो देवान् अपि निबोध मे

    ṣaṣṭhe manvantare cāsīc cākṣuṣākhyas tathā manuḥ / manojavas tathaivendro devān api nibodha me

  27. आप्याः प्रसूता भव्याश् च पृथुगाश् च दिवौकसः । महानुभावा लेखाश् च पञ्चैते ह्य् अष्टका गणाः

    āpyāḥ prasūtā bhavyāś ca pṛthugāś ca divaukasaḥ / mahānubhāvā lekhāś ca pañcaite hy aṣṭakā gaṇāḥ

  28. सुमेधा विरजाश् चैव हविष्मान् उत्तमो मधुः । अतिनामा सहिष्णुश् च सप्तासन्न् इति चर्षयः

    sumedhā virajāś caiva haviṣmān uttamo madhuḥ / atināmā sahiṣṇuś ca saptāsann iti carṣayaḥ

  29. ऊरुः पूरुः शतद्युम्नप्रमुखाः सुमहाबलाः । चाक्षुषस्य मनोः पुत्राः पृथिवीपतयो ऽभवन्

    ūruḥ pūruḥ śatadyumnapramukhāḥ sumahābalāḥ / cākṣuṣasya manoḥ putrāḥ pṛthivīpatayo 'bhavan

  30. विवस्वतः सुतो विप्र श्राद्धदेवो महाद्युतिः । मनुः संवर्तते धीमान् साम्प्रतं सप्तमे ऽन्तरे

    vivasvataḥ suto vipra śrāddhadevo mahādyutiḥ / manuḥ saṃvartate dhīmān sāmprataṃ saptame 'ntare

  31. आदित्यवसुरुद्राद्या देवाश् चात्र महामुने । पुरंदरस् तथैवात्र मैत्रेय त्रिदशेश्वरः

    ādityavasurudrādyā devāś cātra mahāmune / puraṃdaras tathaivātra maitreya tridaśeśvaraḥ

  32. वसिष्ठः काश्यपो ऽथात्रिर् जमदग्निः सगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयो ऽत्र तु

    vasiṣṭhaḥ kāśyapo 'thātrir jamadagniḥ sagautamaḥ / viśvāmitrabharadvājau sapta saptarṣayo 'tra tu

  33. इक्ष्वाकुश् च नृगश् चैव धृष्टः शर्यातिर् एव च । नरिष्यन्तश् च विख्यातो नाभागो दिष्ट एव च

    ikṣvākuś ca nṛgaś caiva dhṛṣṭaḥ śaryātir eva ca / nariṣyantaś ca vikhyāto nābhāgo diṣṭa eva ca

  34. करूषश् च पृषध्रश् च वसुमांल् लोकविश्रुतः । मनोर् वैवस्वतस्यैते नव पुत्राः सुधार्मिकाः

    karūṣaś ca pṛṣadhraś ca vasumāṃl lokaviśrutaḥ / manor vaivasvatasyaite nava putrāḥ sudhārmikāḥ

  35. विष्णुशक्तिर् अनौपम्या सत्त्वोद्रिक्ता स्थितौ स्थिता । मन्वन्तरेष्व् अशेषेषु देवत्वेनाधितिष्ठति

    viṣṇuśaktir anaupamyā sattvodriktā sthitau sthitā / manvantareṣv aśeṣeṣu devatvenādhitiṣṭhati

  36. अंशेन तस्या जज्ञे ऽसौ यज्ञः स्वायंभुवे ऽन्तरे । आकूत्यां मानसो देव उत्पन्नः प्रथमे ऽन्तरे

    aṃśena tasyā jajñe 'sau yajñaḥ svāyaṃbhuve 'ntare / ākūtyāṃ mānaso deva utpannaḥ prathame 'ntare

  37. ततः पुनः स वै देवः प्राप्ते स्वारोचिषे ऽन्तरे । तुषितायां समुत्पन्नो ह्य् अजितस् तुषितैः सह

    tataḥ punaḥ sa vai devaḥ prāpte svārociṣe 'ntare / tuṣitāyāṃ samutpanno hy ajitas tuṣitaiḥ saha

  38. औत्तमे ह्य् अन्तरे चापि तुषितस् तु पुनः स वै । सत्यायाम् अभवत् सत्यः सत्यैः सह सुरोत्तमैः

    auttame hy antare cāpi tuṣitas tu punaḥ sa vai / satyāyām abhavat satyaḥ satyaiḥ saha surottamaiḥ

  39. तामसस्यान्तरे चैव संप्राप्ते पुनर् एव हि । हर्यायां हरिभिः सार्धं हरिर् एव बभूव ह

    tāmasasyāntare caiva saṃprāpte punar eva hi / haryāyāṃ haribhiḥ sārdhaṃ harir eva babhūva ha

  40. रैवते ऽप्य् अन्तरे देवः संभूत्यां मानसो ऽभवत् । संभूतो राजसैः सार्धं देवैर् देववरो हरिः

    raivate 'py antare devaḥ saṃbhūtyāṃ mānaso 'bhavat / saṃbhūto rājasaiḥ sārdhaṃ devair devavaro hariḥ

  41. चाक्षुषे चान्तरे देवो वैकुण्ठः पुरुषोत्तमः । विकुण्ठायाम् असौ जज्ञे वैकुण्ठैर् दैवतैः सह

    cākṣuṣe cāntare devo vaikuṇṭhaḥ puruṣottamaḥ / vikuṇṭhāyām asau jajñe vaikuṇṭhair daivataiḥ saha

  42. मन्वन्तरे तु संप्राप्ते तथा वैवस्वते द्विज । वामनः कश्यपाद् विष्णुर् अदित्यां संबभूव ह

    manvantare tu saṃprāpte tathā vaivasvate dvija / vāmanaḥ kaśyapād viṣṇur adityāṃ saṃbabhūva ha

  43. त्रिभिः क्रमैर् इमांल् लोकाञ् जित्वा येन महात्मना । पुरंदराय त्रैलोक्यं दत्तं निहतकण्टकम्

    tribhiḥ kramair imāṃl lokāñ jitvā yena mahātmanā / puraṃdarāya trailokyaṃ dattaṃ nihatakaṇṭakam

  44. इत्य् एतास् तनवस् तस्य सप्त मन्वन्तरेषु वै । सप्तस्व् एवाभवन् विप्र याभिः संरक्षिताः प्रजाः

    ity etās tanavas tasya sapta manvantareṣu vai / saptasv evābhavan vipra yābhiḥ saṃrakṣitāḥ prajāḥ

  45. यस्माद् विष्टम् इदं सर्वं तस्य शक्त्या महात्मनः । तस्मात् स प्रोच्यते विष्णुर् विशेर् धातोः प्रवेशनात्

    yasmād viṣṭam idaṃ sarvaṃ tasya śaktyā mahātmanaḥ / tasmāt sa procyate viṣṇur viśer dhātoḥ praveśanāt

  46. सर्वे च देवा मनवः समस्ताः सप्तर्षयो ये मनुसूनवश् च । इन्द्रश् च यो यस् त्रिदशेशभूतो विष्णोर् अशेषास् तु विभूतयस् ताः

    sarve ca devā manavaḥ samastāḥ saptarṣayo ye manusūnavaś ca / indraś ca yo yas tridaśeśabhūto viṣṇor aśeṣās tu vibhūtayas tāḥ

  47. ______________________________________________________ §मैत्रेय उवाच: प्रोक्तान्य् एतानि भवता सप्त मन्वन्तराणि वै । भविष्याण्य् अपि विप्रर्षे ममाख्यातुं त्वम् अर्हसि

    ______________________________________________________ §maitreya uvāca: proktāny etāni bhavatā sapta manvantarāṇi vai / bhaviṣyāṇy api viprarṣe mamākhyātuṃ tvam arhasi

  48. §पराशर उवाच: सूर्यस्य पत्नी संज्ञाभूत् तनया विश्वकर्मणः । मनुर् यमो यमी चैव तदपत्यानि वै मुने

    §parāśara uvāca: sūryasya patnī saṃjñābhūt tanayā viśvakarmaṇaḥ / manur yamo yamī caiva tadapatyāni vai mune

  49. असहन्ती तु सा भर्तुस् तेजश् छायां युयोज वै । भर्तुः शुश्रूषणे ऽरण्यं स्वयं च तपसे ययौ

    asahantī tu sā bhartus tejaś chāyāṃ yuyoja vai / bhartuḥ śuśrūṣaṇe 'raṇyaṃ svayaṃ ca tapase yayau

  50. संज्ञेयम् इत्य् अथार्कश् च छायायाम् आत्मजत्रयम् । शनैश्चरं मनुं चान्यं तपतीं चाप्य् अजीजनत्

    saṃjñeyam ity athārkaś ca chāyāyām ātmajatrayam / śanaiścaraṃ manuṃ cānyaṃ tapatīṃ cāpy ajījanat

  51. छायासंज्ञा ददौ शापं यमाय कुपिता यदा । तदान्येयम् असौ बुद्धिर् इत्य् आसीद् यमसूर्ययोः

    chāyāsaṃjñā dadau śāpaṃ yamāya kupitā yadā / tadānyeyam asau buddhir ity āsīd yamasūryayoḥ

  52. ततो विवस्वान् आख्याते तयैवारण्यसंस्थिताम् । समाधिदृष्ट्या ददृशे ताम् अश्वां तपसि स्थिताम्

    tato vivasvān ākhyāte tayaivāraṇyasaṃsthitām / samādhidṛṣṭyā dadṛśe tām aśvāṃ tapasi sthitām

  53. वाजिरूपधरः सो ऽपि तस्यां देवाव् अथाश्विनौ । जनयाम् आस रेवन्तं रेतसो ऽन्ते च भास्करः

    vājirūpadharaḥ so 'pi tasyāṃ devāv athāśvinau / janayām āsa revantaṃ retaso 'nte ca bhāskaraḥ

  54. आनिन्ये च पुनः संज्ञां स्वस्थानं भगवान् रविः । तेजसः शमनं चास्य विश्वकर्मा चकार ह

    āninye ca punaḥ saṃjñāṃ svasthānaṃ bhagavān raviḥ / tejasaḥ śamanaṃ cāsya viśvakarmā cakāra ha

  55. भ्रमम् आरोप्य सूर्यं तु तस्य तेजोविशातनम् । कृतवान् अष्टमं भागं न व्यशातयताव्ययम्

    bhramam āropya sūryaṃ tu tasya tejoviśātanam / kṛtavān aṣṭamaṃ bhāgaṃ na vyaśātayatāvyayam

  56. यत् सूर्याद् वैष्णवं तेजः शातितं विश्वकर्मणा । जाज्वल्यमानम् अपतत् तद् भूमौ मुनिसत्तम

    yat sūryād vaiṣṇavaṃ tejaḥ śātitaṃ viśvakarmaṇā / jājvalyamānam apatat tad bhūmau munisattama

  57. त्वष्टैव तेजसा तेन विष्णोश् चक्रम् अकल्पयत् । त्रिशूलं चैव शर्वस्य शिबिकां धनदस्य च

    tvaṣṭaiva tejasā tena viṣṇoś cakram akalpayat / triśūlaṃ caiva śarvasya śibikāṃ dhanadasya ca

  58. शक्तिं गुहस्य देवानाम् अन्येषां च यद् आयुधम् । तत् सर्वं तेजसा तेन विश्वकर्मा व्यवर्धयत्

    śaktiṃ guhasya devānām anyeṣāṃ ca yad āyudham / tat sarvaṃ tejasā tena viśvakarmā vyavardhayat

  59. छायासंज्ञासुतो यो ऽसौ द्वितीयः कथितो मनुः । पूर्वजस्य सवर्णो ऽसौ सावर्णिस् तेन कथ्यते

    chāyāsaṃjñāsuto yo 'sau dvitīyaḥ kathito manuḥ / pūrvajasya savarṇo 'sau sāvarṇis tena kathyate

  60. तस्य मन्वन्तरं ह्य् एतत् सावर्णिकम् अथाष्टमम् । तच् छृणुष्व महाभाग भविष्यं कथयामि ते

    tasya manvantaraṃ hy etat sāvarṇikam athāṣṭamam / tac chṛṇuṣva mahābhāga bhaviṣyaṃ kathayāmi te

  61. सावर्णिस् तु मनुर् यो ऽसौ मैत्रेय भविता ततः । सुतपाश् चामिताभाश् च मुख्याश् चापि तदा सुराः

    sāvarṇis tu manur yo 'sau maitreya bhavitā tataḥ / sutapāś cāmitābhāś ca mukhyāś cāpi tadā surāḥ

  62. तेषां गणस् तु देवानाम् एकैको विंशकः स्मृतः । सप्तर्षीन् अपि वक्ष्यामि भविष्यान् मुनिसत्तम

    teṣāṃ gaṇas tu devānām ekaiko viṃśakaḥ smṛtaḥ / saptarṣīn api vakṣyāmi bhaviṣyān munisattama

  63. दीप्तिमान् गालवो रामः कृपो द्रौणिस् तथापरः । मत्पुत्रश् च तथा व्यास ऋश्यशृङ्गश् च सप्तमः

    dīptimān gālavo rāmaḥ kṛpo drauṇis tathāparaḥ / matputraś ca tathā vyāsa ṛśyaśṛṅgaś ca saptamaḥ

  64. विष्णुप्रसादाद् अनघः पातालान्तरगोचरः । विरोचनसुतस् तेषां बलिर् इन्द्रो भविष्यति

    viṣṇuprasādād anaghaḥ pātālāntaragocaraḥ / virocanasutas teṣāṃ balir indro bhaviṣyati

  65. विरजाश् चार्वरीवंश् च निर्मोहाद्यास् तथापरे । सावर्णेस् तु मनोः पुत्रा भविष्यन्ति नरेश्वराः

    virajāś cārvarīvaṃś ca nirmohādyās tathāpare / sāvarṇes tu manoḥ putrā bhaviṣyanti nareśvarāḥ

  66. नवमो दक्षसावर्णिर् मैत्रेय भविता मनुः

    navamo dakṣasāvarṇir maitreya bhavitā manuḥ

  67. पारा मरीचिगर्भाश् च सुधर्माणस् तथा त्रिधा । भविष्यन्ति तदा देवा एकैको द्वादशो गणः

    pārā marīcigarbhāś ca sudharmāṇas tathā tridhā / bhaviṣyanti tadā devā ekaiko dvādaśo gaṇaḥ

  68. तेषाम् इन्द्रो महावीर्यो भविष्यत्य् अद्भुतो द्विज

    teṣām indro mahāvīryo bhaviṣyaty adbhuto dvija

  69. सवनो द्युतिमान् भव्यो वसुर् मेधातिथिस् तथा । ज्योतिष्मान् सप्तमः सत्यस् तत्रैते च महर्षयः

    savano dyutimān bhavyo vasur medhātithis tathā / jyotiṣmān saptamaḥ satyas tatraite ca maharṣayaḥ

  70. धृतकेतुर् दीप्तिकेतुः पञ्चहस्तो निरामयः । पृथुश्रवाद्याश् च तथा दक्षसावर्णिकात्मजाः

    dhṛtaketur dīptiketuḥ pañcahasto nirāmayaḥ / pṛthuśravādyāś ca tathā dakṣasāvarṇikātmajāḥ

  71. दशमो ब्रह्मसावर्णिर् भविष्यति मुने मनुः । सुधामानो विरुद्धाश् च शतसंख्यास् तथा सुराः

    daśamo brahmasāvarṇir bhaviṣyati mune manuḥ / sudhāmāno viruddhāś ca śatasaṃkhyās tathā surāḥ

  72. तेषाम् इन्द्रश् च भविता शान्तिर् नाम महाबलः । सप्तर्षयो भविष्यन्ति ये तदा ताञ् छृणुष्व च

    teṣām indraś ca bhavitā śāntir nāma mahābalaḥ / saptarṣayo bhaviṣyanti ye tadā tāñ chṛṇuṣva ca

  73. हविष्मान् सुकृतिः सत्यो ह्य् अपांमूर्तिस् तथापरः । नाभागो ऽप्रतिमौजाश् च सत्यकेतुस् तथैव च

    haviṣmān sukṛtiḥ satyo hy apāṃmūrtis tathāparaḥ / nābhāgo 'pratimaujāś ca satyaketus tathaiva ca

  74. सुक्षेत्रश् चोत्तमौजाश् च भूरिषेणादयो दश । ब्रह्मसावर्णिपुत्रास् तु रक्षिष्यन्ति वसुंधराम्

    sukṣetraś cottamaujāś ca bhūriṣeṇādayo daśa / brahmasāvarṇiputrās tu rakṣiṣyanti vasuṃdharām

  75. एकादशश् च भविता धर्मसावर्णिको मनुः

    ekādaśaś ca bhavitā dharmasāvarṇiko manuḥ

  76. विहंगमाः कामगमा निर्माणरुचयस् तथा । गणास् त्व् एते तदा मुख्या देवानां च भविष्यताम् । एकैकस् त्रिंशकस् तेषां गणश् चेन्द्रश् च वै वृषः

    vihaṃgamāḥ kāmagamā nirmāṇarucayas tathā / gaṇās tv ete tadā mukhyā devānāṃ ca bhaviṣyatām / ekaikas triṃśakas teṣāṃ gaṇaś cendraś ca vai vṛṣaḥ

  77. निश्चरश् चाग्नितेजाश् च वपुष्मान् विष्णुर् आरुणिः । हविष्मान् अनघश् चैते भव्याः सप्तर्षयस् तथा

    niścaraś cāgnitejāś ca vapuṣmān viṣṇur āruṇiḥ / haviṣmān anaghaś caite bhavyāḥ saptarṣayas tathā

  78. सर्वगः सर्वधर्मा च देवानीकादयस् तथा । भविष्यन्ति मनोस् तस्य तनयाः पृथिवीश्वराः

    sarvagaḥ sarvadharmā ca devānīkādayas tathā / bhaviṣyanti manos tasya tanayāḥ pṛthivīśvarāḥ

  79. रुद्रपुत्रस् तु सावर्णिर् भविता द्वादशो मनुः । ऋतधामा च तत्रेन्द्रो भविता शृणु मे सुरान्

    rudraputras tu sāvarṇir bhavitā dvādaśo manuḥ / ṛtadhāmā ca tatrendro bhavitā śṛṇu me surān

  80. हरिता लोहिता देवास् तथा सुमनसो द्विज । सुकर्माणः सुपाराश् च दशकाः पञ्च वै गणाः

    haritā lohitā devās tathā sumanaso dvija / sukarmāṇaḥ supārāś ca daśakāḥ pañca vai gaṇāḥ

  81. तपस्वी सुतपाश् चैव तपोमूर्तिस् तपोरतिः । तपोधृतिर् द्युतिश् चान्यः सप्तमस् तु तपोधनः

    tapasvī sutapāś caiva tapomūrtis taporatiḥ / tapodhṛtir dyutiś cānyaḥ saptamas tu tapodhanaḥ

  82. देववान् उपदेवश् च देवश्रेष्ठादयस् तथा । मनोस् तस्य महावीर्या भविष्यन्ति सुता नृपाः

    devavān upadevaś ca devaśreṣṭhādayas tathā / manos tasya mahāvīryā bhaviṣyanti sutā nṛpāḥ

  83. त्रयोदशो रौच्यनामा भविष्यति मुने मनुः

    trayodaśo raucyanāmā bhaviṣyati mune manuḥ

  84. सुत्रामाणः सुकर्माणः सुधर्माणस् तथा सुराः । त्रयस् त्रिंशद्विभेदास् ते देवानां ये तु वै गणाः

    sutrāmāṇaḥ sukarmāṇaḥ sudharmāṇas tathā surāḥ / trayas triṃśadvibhedās te devānāṃ ye tu vai gaṇāḥ

  85. दिवस्पतिर् महावीर्यस् तेषाम् इन्द्रो भविष्यति

    divaspatir mahāvīryas teṣām indro bhaviṣyati

  86. निर्मोहस् तत्त्वदर्शी च निष्प्रकम्पो निरुत्सुकः । धृतिमान् अव्ययश् चान्यः सप्तमः सुतपा मुनिः । सप्तर्षयस् त्व् इमे तस्य पुत्रान् अपि निबोध मे

    nirmohas tattvadarśī ca niṣprakampo nirutsukaḥ / dhṛtimān avyayaś cānyaḥ saptamaḥ sutapā muniḥ / saptarṣayas tv ime tasya putrān api nibodha me

  87. चित्रसेनविचित्राद्या भविष्यन्ति महीक्षितः

    citrasenavicitrādyā bhaviṣyanti mahīkṣitaḥ

  88. भौत्यश् चतुर्दशश् चात्र मैत्रेय भविता मनुः । शुचिर् इन्द्रः सुरगणास् तत्र पञ्च शृणुष्व तान्

    bhautyaś caturdaśaś cātra maitreya bhavitā manuḥ / śucir indraḥ suragaṇās tatra pañca śṛṇuṣva tān

  89. चाक्षुषाश् च पवित्राश् च कनिष्ठा भ्राजिरास् तथा । वाचावृद्धाश् च वै देवाः सप्तर्षीन् अपि मे शृणु

    cākṣuṣāś ca pavitrāś ca kaniṣṭhā bhrājirās tathā / vācāvṛddhāś ca vai devāḥ saptarṣīn api me śṛṇu

  90. अग्निबाहुः शुचिः शुक्रो मागधो ऽग्नीध्र एव च । युक्तस् तथा जितश् चान्यो मनुपुत्रान् अतः शृणु

    agnibāhuḥ śuciḥ śukro māgadho 'gnīdhra eva ca / yuktas tathā jitaś cānyo manuputrān ataḥ śṛṇu

  91. ऊरुगम्भीरबुध्नाद्या मनोस् तस्य सुता नृपाः । कथिता मुनिशार्दूल पालयिष्यन्ति ये महीम्

    ūrugambhīrabudhnādyā manos tasya sutā nṛpāḥ / kathitā muniśārdūla pālayiṣyanti ye mahīm

  92. चतुर्युगान्ते वेदानां जायते किल विप्लवः । प्रवर्तयन्ति तान् एत्य भुवि सप्तर्षयो दिवः

    caturyugānte vedānāṃ jāyate kila viplavaḥ / pravartayanti tān etya bhuvi saptarṣayo divaḥ

  93. कृते कृते स्मृतेर् विप्र प्रणेता जायते मनुः । देवा यज्ञभुजस् ते तु यावन् मन्वन्तरं तु तत्

    kṛte kṛte smṛter vipra praṇetā jāyate manuḥ / devā yajñabhujas te tu yāvan manvantaraṃ tu tat

  94. भवन्ति ये मनोः पुत्रा यावन् मन्वन्तरं तु तैः । तदन्वयोद्भवैश् चैव तावद् भूः परिपाल्यते

    bhavanti ye manoḥ putrā yāvan manvantaraṃ tu taiḥ / tadanvayodbhavaiś caiva tāvad bhūḥ paripālyate

  95. मनुः सप्तर्षयो देवा भूपालाश् च मनोः सुताः । मन्वन्तरे भवन्त्य् एते शक्रश् चैवाधिकारिणः

    manuḥ saptarṣayo devā bhūpālāś ca manoḥ sutāḥ / manvantare bhavanty ete śakraś caivādhikāriṇaḥ

  96. चतुर्दशभिर् एतैस् तु गतैर् मन्वन्तरैर् द्विज । सहस्रयुगपर्यन्तः कल्पो निःशेष उच्यते

    caturdaśabhir etais tu gatair manvantarair dvija / sahasrayugaparyantaḥ kalpo niḥśeṣa ucyate

  97. तावत्प्रमाणा च निशा ततो भवति सत्तम । ब्रह्मरूपधरः शेते शेषाहाव् अम्बुसंप्लवे

    tāvatpramāṇā ca niśā tato bhavati sattama / brahmarūpadharaḥ śete śeṣāhāv ambusaṃplave

  98. त्रैलोक्यम् अखिलं ग्रस्त्वा भगवान् आदिकृद् विभुः । स्वमायासंस्थितो विप्र सर्वभूतो जनार्दनः

    trailokyam akhilaṃ grastvā bhagavān ādikṛd vibhuḥ / svamāyāsaṃsthito vipra sarvabhūto janārdanaḥ

  99. ततः प्रबुद्धो भगवान् यथा पूर्वं तथा पुनः । सृष्टिं करोत्य् अव्ययात्मा कल्पे कल्पे रजोगुणः

    tataḥ prabuddho bhagavān yathā pūrvaṃ tathā punaḥ / sṛṣṭiṃ karoty avyayātmā kalpe kalpe rajoguṇaḥ

  100. मनवो भूभुजः सेन्द्रा देवाः सप्तर्षयस् तथा । सात्त्विको ऽंशः स्थितिकरो जगतो द्विजसत्तम

    manavo bhūbhujaḥ sendrā devāḥ saptarṣayas tathā / sāttviko 'ṃśaḥ sthitikaro jagato dvijasattama

  101. चतुर्युगे ऽप्य् असौ विष्णुः स्थितिव्यापारलक्षणः । युगव्यवस्थां कुरुते यथा मैत्रेय तच् छृणु

    caturyuge 'py asau viṣṇuḥ sthitivyāpāralakṣaṇaḥ / yugavyavasthāṃ kurute yathā maitreya tac chṛṇu

  102. कृते युगे परं ज्ञानं कपिलादिस्वरूपधृक् । ददाति सर्वभूतात्मा सर्वभूतहिते रतः

    kṛte yuge paraṃ jñānaṃ kapilādisvarūpadhṛk / dadāti sarvabhūtātmā sarvabhūtahite rataḥ

  103. चक्रवर्तिस्वरूपेण त्रेतायाम् अपि स प्रभुः । दुष्टानां निग्रहं कुर्वन् परिपाति जगत्त्रयम्

    cakravartisvarūpeṇa tretāyām api sa prabhuḥ / duṣṭānāṃ nigrahaṃ kurvan paripāti jagattrayam

  104. वेदम् एकं चतुर्भेदं कृत्वा शाखाशतैर् विभुः । करोति बहुलं भूयो वेदव्यासस्वरूपधृक्

    vedam ekaṃ caturbhedaṃ kṛtvā śākhāśatair vibhuḥ / karoti bahulaṃ bhūyo vedavyāsasvarūpadhṛk

  105. वेदांस् तु द्वापरे व्यस्य कलेर् अन्ते पुनर् हरिः । कल्किस्वरूपी दुर्वृत्तान् मार्गे स्थापयति प्रभुः

    vedāṃs tu dvāpare vyasya kaler ante punar hariḥ / kalkisvarūpī durvṛttān mārge sthāpayati prabhuḥ

  106. एवम् एष जगत् सर्वं परिपाति करोति च । हन्ति चान्तेष्व् अनन्तात्मा नास्त्य् अस्माद् व्यतिरेकि यत्

    evam eṣa jagat sarvaṃ paripāti karoti ca / hanti cānteṣv anantātmā nāsty asmād vyatireki yat

  107. भूतं भव्यं भविष्यं च सर्वभूतान् महात्मनः । तद् अत्रान्यत्र वा विप्र सद्भावः कथितस् तव

    bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvabhūtān mahātmanaḥ / tad atrānyatra vā vipra sadbhāvaḥ kathitas tava

  108. मन्वन्तराण्य् अशेषाणि कथितानि मया तव । मन्वन्तराधिपांश् चैव किम् अन्यत् कथयामि ते

    manvantarāṇy aśeṣāṇi kathitāni mayā tava / manvantarādhipāṃś caiva kim anyat kathayāmi te

  109. ______________________________________________________ §मैत्रेय उवाच: ज्ञातम् एतन् मया त्वत्तो यथा सर्वम् इदं जगत् । विष्णुर् विष्णौ विष्णुतश् च न परं विद्यते ततः

    ______________________________________________________ §maitreya uvāca: jñātam etan mayā tvatto yathā sarvam idaṃ jagat / viṣṇur viṣṇau viṣṇutaś ca na paraṃ vidyate tataḥ

  110. एतत् तु श्रोतुम् इच्छामि व्यस्ता वेदा महात्मना । वेदव्यासस्वरूपेण यथा तेन युगे युगे

    etat tu śrotum icchāmi vyastā vedā mahātmanā / vedavyāsasvarūpeṇa yathā tena yuge yuge

  111. यस्मिन् यस्मिन् युगे व्यासो यो य आसीन् महामुने । तं तम् आचक्ष्व भगवञ् शाखाभेदांश् च मे वद

    yasmin yasmin yuge vyāso yo ya āsīn mahāmune / taṃ tam ācakṣva bhagavañ śākhābhedāṃś ca me vada

  112. §पराशर उवाच: वेदद्रुमस्य मैत्रेय शाखाभेदैः सहस्रशः । न शक्यो विस्तरो वक्तुं संक्षेपेण शृणुष्व तम्

    §parāśara uvāca: vedadrumasya maitreya śākhābhedaiḥ sahasraśaḥ / na śakyo vistaro vaktuṃ saṃkṣepeṇa śṛṇuṣva tam

  113. द्वापरे द्वापरे विष्णुर् व्यासरूपी महामुने । वेदम् एकं स बहुधा कुरुते जगतो हितः

    dvāpare dvāpare viṣṇur vyāsarūpī mahāmune / vedam ekaṃ sa bahudhā kurute jagato hitaḥ

  114. वीर्यं तेजो बलं चाल्पं मनुष्याणाम् अवेक्ष्य च । हिताय सर्वभूतानां वेदभेदान् करोति सः

    vīryaṃ tejo balaṃ cālpaṃ manuṣyāṇām avekṣya ca / hitāya sarvabhūtānāṃ vedabhedān karoti saḥ

  115. यया स कुरुते तन्वा वेदम् एकं पृथक् प्रभुः । वेदव्यासाभिधाना तु सा मूर्तिर् मधुविद्विषः

    yayā sa kurute tanvā vedam ekaṃ pṛthak prabhuḥ / vedavyāsābhidhānā tu sā mūrtir madhuvidviṣaḥ

  116. यस्मिन् मन्वन्तरे ये ये व्यासास् तांस् तान् निबोध मे । यथा च भेदः शाखानां व्यासेन क्रियते मुने

    yasmin manvantare ye ye vyāsās tāṃs tān nibodha me / yathā ca bhedaḥ śākhānāṃ vyāsena kriyate mune

  117. अष्टाविंशतिकृत्वो वै वेदो व्यस्तो महर्षिभिः । वैवस्वते ऽन्तरे तस्मिन् द्वापरेषु पुनः पुनः

    aṣṭāviṃśatikṛtvo vai vedo vyasto maharṣibhiḥ / vaivasvate 'ntare tasmin dvāpareṣu punaḥ punaḥ

  118. वेदव्यासा व्यतीता ये अष्टाविंशति सत्तम । चतुर्धा यैः कृतो वेदो द्वापरेषु पुनः पुनः

    vedavyāsā vyatītā ye aṣṭāviṃśati sattama / caturdhā yaiḥ kṛto vedo dvāpareṣu punaḥ punaḥ

  119. द्वापरे प्रथमे व्यस्ताः स्वयं वेदाः स्वयंभुवा । द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः

    dvāpare prathame vyastāḥ svayaṃ vedāḥ svayaṃbhuvā / dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ

  120. तृतीये चोशना व्यासश् चतुर्थे च बृहस्पतिः । सविता पञ्चमे व्यासो मृत्युः षष्ठे स्मृतः प्रभुः

    tṛtīye cośanā vyāsaś caturthe ca bṛhaspatiḥ / savitā pañcame vyāso mṛtyuḥ ṣaṣṭhe smṛtaḥ prabhuḥ

  121. सप्तमे च तथैवेन्द्रो वसिष्ठश् चाष्टमे स्मृतः । सारस्वतश् च नवमे त्रिधामा दशमे स्मृतः

    saptame ca tathaivendro vasiṣṭhaś cāṣṭame smṛtaḥ / sārasvataś ca navame tridhāmā daśame smṛtaḥ

  122. एकादशे तु त्रिवृषा भारद्वाजस् ततः परम् । त्रयोदशे चान्तरिक्षो वर्णी चापि चतुर्दशे

    ekādaśe tu trivṛṣā bhāradvājas tataḥ param / trayodaśe cāntarikṣo varṇī cāpi caturdaśe

  123. त्रय्यारुणः पञ्चदशे षोडशे तु धनंजयः । क्रतुंजयः सप्तदशे ऋणज्यो ऽष्टादशे स्मृतः

    trayyāruṇaḥ pañcadaśe ṣoḍaśe tu dhanaṃjayaḥ / kratuṃjayaḥ saptadaśe ṛṇajyo 'ṣṭādaśe smṛtaḥ

  124. ततो व्यासो भरद्वाजो भरद्वाजात् तु गौतमः । गौतमाद् उत्तमो व्यासो हर्यात्मा यो ऽभिधीयते

    tato vyāso bharadvājo bharadvājāt tu gautamaḥ / gautamād uttamo vyāso haryātmā yo 'bhidhīyate

  125. अथ हर्यात्मनो वेनः स्मृतो वाजश्रवास् तु यः । सोमः शुष्मायणस् तस्मात् तृणबिन्दुर् इति स्मृतः

    atha haryātmano venaḥ smṛto vājaśravās tu yaḥ / somaḥ śuṣmāyaṇas tasmāt tṛṇabindur iti smṛtaḥ

  126. ऋक्षो ऽभूद् भार्गवस् तस्माद् वाल्मीकिर् यो ऽभिधीयते । तस्माद् अस्मत्पिता शक्तिर् व्यासस् तस्माद् अहं मुने

    ṛkṣo 'bhūd bhārgavas tasmād vālmīkir yo 'bhidhīyate / tasmād asmatpitā śaktir vyāsas tasmād ahaṃ mune

  127. जातुकर्णो ऽभवन् मत्तः कृष्णद्वैपायनस् ततः । अष्टाविंशतिर् इत्य् एते वेदव्यासाः पुरातनाः

    jātukarṇo 'bhavan mattaḥ kṛṣṇadvaipāyanas tataḥ / aṣṭāviṃśatir ity ete vedavyāsāḥ purātanāḥ

  128. एको वेदश् चतुर्धा तु यैः कृतो द्वापरादिषु

    eko vedaś caturdhā tu yaiḥ kṛto dvāparādiṣu

  129. भविष्ये द्वापरे चापि द्रौणिर् व्यासो भविष्यति । व्यतीते मम पुत्रे ऽस्मिन् कृष्णद्वैपायने मुनौ

    bhaviṣye dvāpare cāpi drauṇir vyāso bhaviṣyati / vyatīte mama putre 'smin kṛṣṇadvaipāyane munau

  130. ध्रुवम् एकाक्षरं ब्रह्म ओम् इत्य् एवं व्यवस्थितम् । बृहत्वाद् बृंहणत्वाच् च तद् ब्रह्मेत्य् अभिधीयते

    dhruvam ekākṣaraṃ brahma om ity evaṃ vyavasthitam / bṛhatvād bṛṃhaṇatvāc ca tad brahmety abhidhīyate

  131. प्रणवावस्थितं नित्यं भूर् भुवः स्वर् इतीर्यते । ऋग्यजुःसामाथर्वाणं यत् तस्मै ब्रह्मणे नमः

    praṇavāvasthitaṃ nityaṃ bhūr bhuvaḥ svar itīryate / ṛgyajuḥsāmātharvāṇaṃ yat tasmai brahmaṇe namaḥ

  132. जगतः प्रलयोत्पत्तौ यत् तत् कारणसंज्ञितम् । महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः

    jagataḥ pralayotpattau yat tat kāraṇasaṃjñitam / mahataḥ paramaṃ guhyaṃ tasmai subrahmaṇe namaḥ

  133. अगाधापारम् अक्षय्यं जगत्संमोहनालयम् । संप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम्

    agādhāpāram akṣayyaṃ jagatsaṃmohanālayam / saṃprakāśapravṛttibhyāṃ puruṣārthaprayojanam

  134. सांख्यज्ञानवतां निष्ठा गतिः शमदमात्मनाम् । यत् तद् अव्यक्तम् अमृतं प्रवृत्तिर् ब्रह्म शाश्वतम्

    sāṃkhyajñānavatāṃ niṣṭhā gatiḥ śamadamātmanām / yat tad avyaktam amṛtaṃ pravṛttir brahma śāśvatam

  135. प्रधानम् आत्मयोनिश् च गुहासत्त्वं च शब्द्यते । अविभागं तथा शुक्रम् अक्षरं बहुधात्मकम्

    pradhānam ātmayoniś ca guhāsattvaṃ ca śabdyate / avibhāgaṃ tathā śukram akṣaraṃ bahudhātmakam

  136. परमब्रह्मणे तस्मै नित्यम् एव नमो नमः । यद् रूपं वासुदेवस्य परमात्मस्वरूपिणः

    paramabrahmaṇe tasmai nityam eva namo namaḥ / yad rūpaṃ vāsudevasya paramātmasvarūpiṇaḥ

  137. एतद् ब्रह्म त्रिधाभेदम् अभेदम् अपि स प्रभुः । सर्वभूतेष्व् अभेदो ऽसौ भिद्यते भिन्नबुद्धिभिः

    etad brahma tridhābhedam abhedam api sa prabhuḥ / sarvabhūteṣv abhedo 'sau bhidyate bhinnabuddhibhiḥ

  138. स ऋङ्मयः साममयः सर्वात्मा स यजुर्मयः । ऋग्यजुःसामसारात्मा स एवात्मा शरीरिणाम्

    sa ṛṅmayaḥ sāmamayaḥ sarvātmā sa yajurmayaḥ / ṛgyajuḥsāmasārātmā sa evātmā śarīriṇām

  139. स भिद्यते वेदमयः स वेदं करोति भेदैर् बहुभिः सशाखम् । शाखाप्रणेता स समस्तशाखा ज्ञानस्वरूपो भगवान् अनन्तः

    sa bhidyate vedamayaḥ sa vedaṃ karoti bhedair bahubhiḥ saśākham / śākhāpraṇetā sa samastaśākhā jñānasvarūpo bhagavān anantaḥ

  140. ______________________________________________________ §पराशर उवाच: आद्यो वेदश् चतुष्पादः शतसाहस्रसंमितः । ततो दशगुणः कृत्स्नो यज्ञो ऽयं सर्वकामधुक्

    ______________________________________________________ §parāśara uvāca: ādyo vedaś catuṣpādaḥ śatasāhasrasaṃmitaḥ / tato daśaguṇaḥ kṛtsno yajño 'yaṃ sarvakāmadhuk

  141. ततो ऽत्र मत्सुतो व्यासो ऽष्टाविंशतितमे ऽन्तरे । वेदम् एकं चतुष्पादं चतुर्धा व्यभजत् प्रभुः

    tato 'tra matsuto vyāso 'ṣṭāviṃśatitame 'ntare / vedam ekaṃ catuṣpādaṃ caturdhā vyabhajat prabhuḥ

  142. यथा तु तेन वै व्यस्ता वेदव्यासेन धीमता । वेदास् तथा समस्तैस् तैर् व्यस्ता व्यासैस् तथा मया

    yathā tu tena vai vyastā vedavyāsena dhīmatā / vedās tathā samastais tair vyastā vyāsais tathā mayā

  143. तद् अनेनैव वेदानां शाखाभेदान् द्विजोत्तम । चतुर्युगेषु रचितान् समस्तेष्व् अवधारय

    tad anenaiva vedānāṃ śākhābhedān dvijottama / caturyugeṣu racitān samasteṣv avadhāraya

  144. कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ऽन्यो हि भुवि मैत्रेय महाभारतकृद् भवेत्

    kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum / ko 'nyo hi bhuvi maitreya mahābhāratakṛd bhavet

  145. तेन व्यस्ता यथा वेदा मत्पुत्रेण महात्मना । द्वापरे ह्य् अत्र मैत्रेय तन् मे शृणु यथार्थतः

    tena vyastā yathā vedā matputreṇa mahātmanā / dvāpare hy atra maitreya tan me śṛṇu yathārthataḥ

  146. ब्रह्मणा चोदितो व्यासो वेदान् व्यस्तुं प्रचक्रमे । अथ शिष्यान् स जग्राह चतुरो वेदपारगान्

    brahmaṇā codito vyāso vedān vyastuṃ pracakrame / atha śiṣyān sa jagrāha caturo vedapāragān

  147. ऋग्वेदश्रावकं पैलं जग्राह स महामुनिः । वैशम्पायननामानं यजुर्वेदस्य चाग्रहीत्

    ṛgvedaśrāvakaṃ pailaṃ jagrāha sa mahāmuniḥ / vaiśampāyananāmānaṃ yajurvedasya cāgrahīt

  148. जैमिनिं सामवेदस्य तथैवाथर्ववेदवित् । सुमन्तुस् तस्य शिष्यो ऽभूद् वेदव्यासस्य धीमतः

    jaiminiṃ sāmavedasya tathaivātharvavedavit / sumantus tasya śiṣyo 'bhūd vedavyāsasya dhīmataḥ

  149. रोमहर्षणनामानं महाबुद्धिं महामुनिः । सूतं जग्राह शिष्यं स इतिहासपुराणयोः

    romaharṣaṇanāmānaṃ mahābuddhiṃ mahāmuniḥ / sūtaṃ jagrāha śiṣyaṃ sa itihāsapurāṇayoḥ

  150. श्२,द्७,ग्३ इन्स्।: एक आसीद् यजुर्वेदस् तं चतुर्धा व्यकल्पयत् । चातुर्होत्रम् अभूद् यस्मिंस् तेन यज्ञम् अथाकरोत्

    Ś2,D7,G3 ins.: eka āsīd yajurvedas taṃ caturdhā vyakalpayat / cāturhotram abhūd yasmiṃs tena yajñam athākarot

  151. आध्वर्यवं यजुर्भिस् तु ऋग्भिर् होत्रं तथा मुनिः । औद्गात्रं सामभिश् चक्रे ब्रह्मत्वं चाप्य् अथर्वभिः

    ādhvaryavaṃ yajurbhis tu ṛgbhir hotraṃ tathā muniḥ / audgātraṃ sāmabhiś cakre brahmatvaṃ cāpy atharvabhiḥ

  152. ततः स ऋच उद्धृत्य ऋग्वेदं कृतवान् मुनिः । यजूंषि च यजुर्वेदं सामवेदं च सामभिः

    tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavān muniḥ / yajūṃṣi ca yajurvedaṃ sāmavedaṃ ca sāmabhiḥ

  153. राज्ञस् त्व् अथर्ववेदेन सर्वकर्माणि स प्रभुः । कारयाम् आस मैत्रेय ब्रह्मत्वं च यथास्थितिः

    rājñas tv atharvavedena sarvakarmāṇi sa prabhuḥ / kārayām āsa maitreya brahmatvaṃ ca yathāsthitiḥ

  154. सो ऽयम् एको महावेदतरुस् तेन पृथक्कृतः । चतुर्धा तु ततो जातं वेदपादपकाननम्

    so 'yam eko mahāvedatarus tena pṛthakkṛtaḥ / caturdhā tu tato jātaṃ vedapādapakānanam

  155. बिभेद प्रथमं विप्र पैल ऋग्वेदपादपम् । इन्द्रप्रमतये प्रादाद् बाष्कलाय च संहिते

    bibheda prathamaṃ vipra paila ṛgvedapādapam / indrapramataye prādād bāṣkalāya ca saṃhite

  156. चतुर्धा स बिभेदाथ बाष्कलो निजसंहिताम् । बौध्यादिभ्यो ददौ तास् तु शिष्येभ्यः स महामतिः

    caturdhā sa bibhedātha bāṣkalo nijasaṃhitām / baudhyādibhyo dadau tās tu śiṣyebhyaḥ sa mahāmatiḥ

  157. बौध्याग्निमाठरौ तद्वद् याज्ञवल्क्यपराशरौ । प्रतिशाखास् तु शाखायास् तस्यास् ते जगृहुर् मुने

    baudhyāgnimāṭharau tadvad yājñavalkyaparāśarau / pratiśākhās tu śākhāyās tasyās te jagṛhur mune

  158. इन्द्रप्रमतिर् एकां तु संहितां स्वसुतं ततः । माण्डुकेयं महात्मानं मैत्रेयाध्यापयत् तदा

    indrapramatir ekāṃ tu saṃhitāṃ svasutaṃ tataḥ / māṇḍukeyaṃ mahātmānaṃ maitreyādhyāpayat tadā

  159. तस्य शिष्यप्रशिष्येभ्यः पुत्रशिष्यान् क्रमाद् ययौ

    tasya śiṣyapraśiṣyebhyaḥ putraśiṣyān kramād yayau

  160. वेदमित्रस् तु शाकल्यः संहितां ताम् अधीतवान् । चकार संहिताः पञ्च शिष्येभ्यः प्रददौ च ताः

    vedamitras tu śākalyaḥ saṃhitāṃ tām adhītavān / cakāra saṃhitāḥ pañca śiṣyebhyaḥ pradadau ca tāḥ

  161. तस्य शिष्यास् तु ये पञ्च तेषां नामानि मे शृणु । मुद्गलो गालवश् चैव वात्स्यः शालीय एव च । शिशिरः पञ्चमश् चासीत् मैत्रेय सुमहामुनिः

    tasya śiṣyās tu ye pañca teṣāṃ nāmāni me śṛṇu / mudgalo gālavaś caiva vātsyaḥ śālīya eva ca / śiśiraḥ pañcamaś cāsīt maitreya sumahāmuniḥ

  162. द्३,त्१।३,ग्३ इन्स्।: संहितात्रितयं चक्रे शाकपूणिर् अथेतरः । निरुक्तम् अकरोत् तद्वच् चतुर्थं मुनिसत्तम

    D3,T1.3,G3 ins.: saṃhitātritayaṃ cakre śākapūṇir athetaraḥ / niruktam akarot tadvac caturthaṃ munisattama

  163. क्रौञ्चो वैतालकिस् तद्वद् बलाकश् च महामुनिः । निरुक्तश् च चतुर्थो ऽभूद् वेदवेदाङ्गपारगः

    krauñco vaitālakis tadvad balākaś ca mahāmuniḥ / niruktaś ca caturtho 'bhūd vedavedāṅgapāragaḥ

  164. इत्य् एताः प्रतिशाखाभ्यो ऽप्य् अनुशाखा द्विजोत्तम । बाष्कलश् चापरास् तिस्रः संहिताः कृतवान् द्विज । शिष्यः कालायनिर् गार्ग्यस् तृतीयश् च तथा जवः

    ity etāḥ pratiśākhābhyo 'py anuśākhā dvijottama / bāṣkalaś cāparās tisraḥ saṃhitāḥ kṛtavān dvija / śiṣyaḥ kālāyanir gārgyas tṛtīyaś ca tathā javaḥ

  165. इत्य् एते बह्वृचाः प्रोक्ताः संहिता यैः प्रवर्तिताः

    ity ete bahvṛcāḥ proktāḥ saṃhitā yaiḥ pravartitāḥ

  166. ______________________________________________________ §पराशर उवाच: यजुर्वेदतरोः शाखाः सप्तविंशन् महामतिः । वैशम्पायननामासौ व्यासशिष्यश् चकार वै

    ______________________________________________________ §parāśara uvāca: yajurvedataroḥ śākhāḥ saptaviṃśan mahāmatiḥ / vaiśampāyananāmāsau vyāsaśiṣyaś cakāra vai

  167. शिष्येभ्यः प्रददौ ताश् च जगृहुस् ते ऽप्य् अनुक्रमात्

    śiṣyebhyaḥ pradadau tāś ca jagṛhus te 'py anukramāt

  168. याज्ञवल्क्यस् तु तस्याभूद् ब्रह्मरातसुतो द्विज । शिष्यः परमधर्मज्ञो गुरुवृत्तिपरः सदा

    yājñavalkyas tu tasyābhūd brahmarātasuto dvija / śiṣyaḥ paramadharmajño guruvṛttiparaḥ sadā

  169. ऋषिर् यो ऽद्य महामेरौ समाजेनागमिष्यति । तस्य वै सप्तरात्रात् तु ब्रह्महत्या भविष्यति

    ṛṣir yo 'dya mahāmerau samājenāgamiṣyati / tasya vai saptarātrāt tu brahmahatyā bhaviṣyati

  170. पूर्वम् एवं मुनिगणैः समयो ऽभूत् कृतो द्विज । वैशम्पायन एकस् तु तं व्यतिक्रान्तवांस् तदा

    pūrvam evaṃ munigaṇaiḥ samayo 'bhūt kṛto dvija / vaiśampāyana ekas tu taṃ vyatikrāntavāṃs tadā

  171. स्वस्रीयं बालकं सो ऽथ पदा स्पृष्टम् अघातयत्

    svasrīyaṃ bālakaṃ so 'tha padā spṛṣṭam aghātayat

  172. शिष्यान् आह च भोः शिष्या ब्रह्महत्यापहं व्रतम् । चरध्वं मत्कृते सर्वे न विचार्यम् इदं तथा

    śiṣyān āha ca bhoḥ śiṣyā brahmahatyāpahaṃ vratam / caradhvaṃ matkṛte sarve na vicāryam idaṃ tathā

  173. अथाह याज्ञवल्क्यस् तं किम् एभिर् भगवन् द्विजैः । क्लेशितैर् अल्पतेजोभिश् चरिष्ये ऽहम् इदं व्रतम्

    athāha yājñavalkyas taṃ kim ebhir bhagavan dvijaiḥ / kleśitair alpatejobhiś cariṣye 'ham idaṃ vratam

  174. ततः क्रुद्धो गुरुः प्राह याज्ञवल्क्यं महामतिः । मुच्यतां यत् त्वयाधीतं मत्तो विप्रावमानक

    tataḥ kruddho guruḥ prāha yājñavalkyaṃ mahāmatiḥ / mucyatāṃ yat tvayādhītaṃ matto viprāvamānaka

  175. निस्तेजसो वदस्य् एतान् यस् त्वं ब्राह्मणपुंगवान् । तेन शिष्येण नार्थो ऽस्ति ममाज्ञाभङ्गकारिणा

    nistejaso vadasy etān yas tvaṃ brāhmaṇapuṃgavān / tena śiṣyeṇa nārtho 'sti mamājñābhaṅgakāriṇā

  176. याज्ञवल्क्यस् ततः प्राह भक्त्यैतत् ते मयोदितम् । ममाप्य् अलं त्वयाधीतं यन् मया तद् इदं द्विज

    yājñavalkyas tataḥ prāha bhaktyaitat te mayoditam / mamāpy alaṃ tvayādhītaṃ yan mayā tad idaṃ dvija

  177. §पराशर उवाच: इत्य् उक्त्वा रुधिराक्तानि सरूपाणि यजूंषि सः । छर्दयित्वा ददौ तस्मै ययौ च स्वेच्छया मुनिः

    §parāśara uvāca: ity uktvā rudhirāktāni sarūpāṇi yajūṃṣi saḥ / chardayitvā dadau tasmai yayau ca svecchayā muniḥ

  178. यजूंष्य् अथ विसृष्टानि याज्ञवल्क्येन वै द्विज । जगृहुस् तित्तिरीभूत्वा तैत्तिरीयास् तु ते ततः

    yajūṃṣy atha visṛṣṭāni yājñavalkyena vai dvija / jagṛhus tittirībhūtvā taittirīyās tu te tataḥ

  179. ब्रह्महत्या व्रतं चीर्णं गुरुणा चोदितैस् तु यैः । चरकाध्वर्यवस् ते तु चरणान् मुनिसत्तम

    brahmahatyā vrataṃ cīrṇaṃ guruṇā coditais tu yaiḥ / carakādhvaryavas te tu caraṇān munisattama

  180. याज्ञवल्क्यो ऽपि मैत्रेय प्राणायामपरायणः । तुष्टाव प्रणतः सूर्यं यजूंष्य् अभिलषंस् ततः

    yājñavalkyo 'pi maitreya prāṇāyāmaparāyaṇaḥ / tuṣṭāva praṇataḥ sūryaṃ yajūṃṣy abhilaṣaṃs tataḥ

  181. §याज्ञवल्क्य उवाच: नमः सवित्रे द्वाराय मुक्तेर् अमिततेजसे । ऋग्यजुःसामभूताय त्रयीधामवते नमः

    §yājñavalkya uvāca: namaḥ savitre dvārāya mukter amitatejase / ṛgyajuḥsāmabhūtāya trayīdhāmavate namaḥ

  182. नमो ऽग्नीषोमभूताय जगतः कारणात्मने । भास्कराय परं तेजः सौषुम्णम् उरु बिभ्रते

    namo 'gnīṣomabhūtāya jagataḥ kāraṇātmane / bhāskarāya paraṃ tejaḥ sauṣumṇam uru bibhrate

  183. कलाकाष्ठानिमेषादिकालज्ञानात्मने नमः । ध्येयाय विष्णुरूपाय परमाक्षररूपिणे

    kalākāṣṭhānimeṣādikālajñānātmane namaḥ / dhyeyāya viṣṇurūpāya paramākṣararūpiṇe

  184. बिभर्ति यः सुरगणान् आप्यायेन्दुं स्वरश्मिभिः । स्वधामृतेन च पितॄंस् तस्मै तृप्त्यात्मने नमः

    bibharti yaḥ suragaṇān āpyāyenduṃ svaraśmibhiḥ / svadhāmṛtena ca pitṝṃs tasmai tṛptyātmane namaḥ

  185. श्,द्२।७ इन्स्।: हिमाम्बुघर्मवृष्टीनां कर्ता भर्ता च यः प्रभुः । तस्मै त्रिकालभूताय नमः सूर्याय वेधसे

    Ś,D2.7 ins.: himāmbugharmavṛṣṭīnāṃ kartā bhartā ca yaḥ prabhuḥ / tasmai trikālabhūtāya namaḥ sūryāya vedhase

  186. अपहन्ति तमो यश् च जगतो ऽस्य जगत्पतिः । सत्त्वधामधरो देवो नमस् तस्मै विवस्वते

    apahanti tamo yaś ca jagato 'sya jagatpatiḥ / sattvadhāmadharo devo namas tasmai vivasvate

  187. सत्कर्मयोग्यो न जनो नैवापः शौचकारणम् । यस्मिन्न् अनुदिते तस्मै नमो देवाय भास्वते

    satkarmayogyo na jano naivāpaḥ śaucakāraṇam / yasminn anudite tasmai namo devāya bhāsvate

  188. स्पृष्टो यदंशुभिर् लोकः क्रियायोग्यो ऽभिजायते । पवित्रताकारणाय तस्मै शुद्धात्मने नमः

    spṛṣṭo yadaṃśubhir lokaḥ kriyāyogyo 'bhijāyate / pavitratākāraṇāya tasmai śuddhātmane namaḥ

  189. नमः सवित्रे सूर्याय भास्कराय विवस्वते । आदित्यायादिभूताय देवादीनां नमो नमः

    namaḥ savitre sūryāya bhāskarāya vivasvate / ādityāyādibhūtāya devādīnāṃ namo namaḥ

  190. हिरण्मयं रथं यस्य केतवो ऽमृतधारिणः । वहन्ति भुवनालोकचक्षुषस् तं नमाम्य् अहम्

    hiraṇmayaṃ rathaṃ yasya ketavo 'mṛtadhāriṇaḥ / vahanti bhuvanālokacakṣuṣas taṃ namāmy aham

  191. §पराशर उवाच: इत्य् एवमादिभिस् तेन स्तूयमानः स्तवै रविः । वाजिरूपधरः प्राह व्रीयताम् इति वाञ्छितम्

    §parāśara uvāca: ity evamādibhis tena stūyamānaḥ stavai raviḥ / vājirūpadharaḥ prāha vrīyatām iti vāñchitam

  192. याज्ञवल्क्यस् तदा प्राह प्रणिपत्य दिवाकरम् । यजूंषि तानि मे देहि यानि सन्ति न मे गुरौ

    yājñavalkyas tadā prāha praṇipatya divākaram / yajūṃṣi tāni me dehi yāni santi na me gurau

  193. §पराशर उवाच: एवम् उक्तो ददौ तस्मै यजूंषि भगवान् रविः । अयातयामसंज्ञानि यानि वेत्ति न तद्गुरुः

    §parāśara uvāca: evam ukto dadau tasmai yajūṃṣi bhagavān raviḥ / ayātayāmasaṃjñāni yāni vetti na tadguruḥ

  194. यजूंषि यैर् अधीतानि तानि विप्रैर् द्विजोत्तम । वाजिनस् ते समाख्याताः सूर्यो ऽश्वः सो ऽभवद् यतः

    yajūṃṣi yair adhītāni tāni viprair dvijottama / vājinas te samākhyātāḥ sūryo 'śvaḥ so 'bhavad yataḥ

  195. शाखाभेदास् तु तेषां वै दश पञ्च च वाजिनाम् । कण्वाद्याः सुमहाभागा याज्ञवल्क्यप्रवर्तिताः

    śākhābhedās tu teṣāṃ vai daśa pañca ca vājinām / kaṇvādyāḥ sumahābhāgā yājñavalkyapravartitāḥ

  196. ______________________________________________________ §पराशर उवाच: सामवेदतरोः शाखा व्यासशिष्यः स जैमिनिः । क्रमेण येन मैत्रेय बिभेद शृणु तन् मम

    ______________________________________________________ §parāśara uvāca: sāmavedataroḥ śākhā vyāsaśiṣyaḥ sa jaiminiḥ / krameṇa yena maitreya bibheda śṛṇu tan mama

  197. श्,द्७ इन्स्।: सुमन्तुस् तस्य पुत्रो ऽभूत् सुकर्मास्याप्य् अभूत् सुतः । अधीतवन्ताव् एकैकां संहितां तौ महामुनी

    Ś,D7 ins.: sumantus tasya putro 'bhūt sukarmāsyāpy abhūt sutaḥ / adhītavantāv ekaikāṃ saṃhitāṃ tau mahāmunī

  198. साहस्रं संहिताभेदं सुकर्मा तत्सुतस् ततः । चकार तं च तच्छिष्यौ जगृहाते महाव्रतौ

    sāhasraṃ saṃhitābhedaṃ sukarmā tatsutas tataḥ / cakāra taṃ ca tacchiṣyau jagṛhāte mahāvratau

  199. श्२,द्७ इन्स्।: हिरण्यनाभः कौसल्यः पौष्पिञ्जिश् च द्विजोत्तम । उदीच्याः सामगाः शिष्यास् तस्य पञ्चदश स्मृताः

    Ś2,D7 ins.: hiraṇyanābhaḥ kausalyaḥ pauṣpiñjiś ca dvijottama / udīcyāḥ sāmagāḥ śiṣyās tasya pañcadaśa smṛtāḥ

  200. हिरण्यनाभात् तावत्यः संहिता यैर् द्विजोत्तमैः । गृहीतास् ते ऽपि चोच्यन्ते पण्डितैः प्राच्यसामगाः

    hiraṇyanābhāt tāvatyaḥ saṃhitā yair dvijottamaiḥ / gṛhītās te 'pi cocyante paṇḍitaiḥ prācyasāmagāḥ

  201. लोकाक्षिः कुथुमिश् चैव कुषीदी लाङ्गलिस् तथा । पौष्पिञ्जिशिष्यास् तद्भेदैः संहिता बहुलीकृताः

    lokākṣiḥ kuthumiś caiva kuṣīdī lāṅgalis tathā / pauṣpiñjiśiṣyās tadbhedaiḥ saṃhitā bahulīkṛtāḥ

  202. हिरण्यनाभशिष्यश् च चतुर्विंशतिसंहिताः । प्रोवाच कृतिनामासौ शिष्येभ्यः सुमहामतिः

    hiraṇyanābhaśiṣyaś ca caturviṃśatisaṃhitāḥ / provāca kṛtināmāsau śiṣyebhyaḥ sumahāmatiḥ

  203. तैश् चापि सामवेदो ऽसौ शाखाभिर् बहुलीकृतः । अथर्वणाम् अथो वक्ष्ये संहितानां समुच्चयम् । अथर्ववेदं स मुनिः सुमन्तुर् अमितद्युतिः

    taiś cāpi sāmavedo 'sau śākhābhir bahulīkṛtaḥ / atharvaṇām atho vakṣye saṃhitānāṃ samuccayam / atharvavedaṃ sa muniḥ sumantur amitadyutiḥ

  204. शिष्यम् अध्यापयाम् आस कबन्धं सो ऽपि तं द्विधा । कृत्वा तु देवदर्शाय तथा पथ्याय दत्तवान्

    śiṣyam adhyāpayām āsa kabandhaṃ so 'pi taṃ dvidhā / kṛtvā tu devadarśāya tathā pathyāya dattavān

  205. देवदर्शस्य शिष्यास् तु मौद्गो ब्रह्मबलिस् तथा । शौल्कायनिः पिप्पलादस् तथान्यो मुनिसत्तम

    devadarśasya śiṣyās tu maudgo brahmabalis tathā / śaulkāyaniḥ pippalādas tathānyo munisattama

  206. पथ्यस्यापि त्रयः शिष्याः कृता यैर् द्विज संहिताः । जाजलिः कुमुदादिश् च तृतीयः शौनको द्विज

    pathyasyāpi trayaḥ śiṣyāḥ kṛtā yair dvija saṃhitāḥ / jājaliḥ kumudādiś ca tṛtīyaḥ śaunako dvija

  207. शौनकस् तु द्विधा कृत्वा ददाव् एकां तु बभ्रवे । द्वितीयां संहितां प्रादात् सैन्धवाय च संज्ञिने

    śaunakas tu dvidhā kṛtvā dadāv ekāṃ tu babhrave / dvitīyāṃ saṃhitāṃ prādāt saindhavāya ca saṃjñine

  208. सैन्धवान् मुञ्जकेशश् च ऽभिनद् वेदं द्विधा पुनः । नक्षत्रकल्पो वेदानां संहितानां तथैव च

    saindhavān muñjakeśaś ca 'bhinad vedaṃ dvidhā punaḥ / nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca

  209. चतुर्थः स्याद् आङ्गिरसः शान्तिकल्पश् च पञ्चमः । श्रेष्ठास् त्व् अथर्वणाम् एते संहितानां विकल्पकाः

    caturthaḥ syād āṅgirasaḥ śāntikalpaś ca pañcamaḥ / śreṣṭhās tv atharvaṇām ete saṃhitānāṃ vikalpakāḥ

  210. आख्यानैश् चाप्य् उपाख्यानैर् गाथाभिः कल्पशुद्धिभिः । पुराणसंहितां चक्रे पुराणार्थविशारदः

    ākhyānaiś cāpy upākhyānair gāthābhiḥ kalpaśuddhibhiḥ / purāṇasaṃhitāṃ cakre purāṇārthaviśāradaḥ

  211. श्२,द्७ इन्स्।: प्रख्यातो व्यासशिष्यो ऽभूत् सूतो वै रोमहर्षणः । पुराणसंहितां तस्मै ददौ व्यासो महामुनिः

    Ś2,D7 ins.: prakhyāto vyāsaśiṣyo 'bhūt sūto vai romaharṣaṇaḥ / purāṇasaṃhitāṃ tasmai dadau vyāso mahāmuniḥ

  212. सुमतिश् चाग्निवर्चाश् च मित्रायुः शांशपायनः । अकृतव्रणो ऽथ सावर्णिः षट् शिष्यास् तस्य चाभवन्

    sumatiś cāgnivarcāś ca mitrāyuḥ śāṃśapāyanaḥ / akṛtavraṇo 'tha sāvarṇiḥ ṣaṭ śiṣyās tasya cābhavan

  213. काश्यपः संहिताकर्ता सावर्णिः शांशपायनः । रोमहर्षणिका चान्या तिसॄणां मूलसंहिता

    kāśyapaḥ saṃhitākartā sāvarṇiḥ śāṃśapāyanaḥ / romaharṣaṇikā cānyā tisṝṇāṃ mūlasaṃhitā

  214. चतुष्टयेनाप्य् एतेन संहितानाम् इदं मुने

    catuṣṭayenāpy etena saṃhitānām idaṃ mune

  215. आद्यं सर्वपुराणानां पुराणं ब्राह्मम् उच्यते । अष्टादश पुराणानि पुराणज्ञाः प्रचक्षते

    ādyaṃ sarvapurāṇānāṃ purāṇaṃ brāhmam ucyate / aṣṭādaśa purāṇāni purāṇajñāḥ pracakṣate

  216. ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम्

    brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā / tathānyaṃ nāradīyaṃ ca mārkaṇḍeyaṃ ca saptamam

  217. आग्नेयम् अष्टमं चैव भविष्यं नवमं तथा । दशमं ब्रह्मवैवर्तं लैङ्गम् एकादशं स्मृतम्

    āgneyam aṣṭamaṃ caiva bhaviṣyaṃ navamaṃ tathā / daśamaṃ brahmavaivartaṃ laiṅgam ekādaśaṃ smṛtam

  218. वाराहं द्वादशं चैव स्कान्दं चात्र त्रयोदशम् । चतुर्दशं वामनं च कौर्मं पञ्चदशं स्मृतम् । मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम्

    vārāhaṃ dvādaśaṃ caiva skāndaṃ cātra trayodaśam / caturdaśaṃ vāmanaṃ ca kaurmaṃ pañcadaśaṃ smṛtam / mātsyaṃ ca gāruḍaṃ caiva brahmāṇḍaṃ ca tataḥ param

  219. द्३,म्०, एद्। वेङ्क्। इन्स्।: सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च । सर्वेष्व् एतेषु कथ्यन्ते वंशानुचरितं च यत्

    D3,M0, ed. Veṅk. ins.: sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca / sarveṣv eteṣu kathyante vaṃśānucaritaṃ ca yat

  220. यद् एतत् तव मैत्रेय पुराणं कथ्यते मया । एतद् वैष्णवसंज्ञं वै पाद्मस्य समनन्तरम्

    yad etat tava maitreya purāṇaṃ kathyate mayā / etad vaiṣṇavasaṃjñaṃ vai pādmasya samanantaram

  221. सर्गे च प्रतिसर्गे च वंशमन्वन्तरादिषु । कथ्यते भगवान् विष्णुर् अशेषेष्व् एव सत्तम

    sarge ca pratisarge ca vaṃśamanvantarādiṣu / kathyate bhagavān viṣṇur aśeṣeṣv eva sattama

  222. अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्य् एताश् चतुर्दश

    aṅgāni caturo vedā mīmāṃsā nyāyavistaraḥ / purāṇaṃ dharmaśāstraṃ ca vidyā hy etāś caturdaśa

  223. आयुर्वेदो धनुर्वेदो गान्धर्वश् चैव ते त्रयः । अर्थशास्त्रं चतुर्थं तु विद्या ह्य् अष्टादशैव ताः

    āyurvedo dhanurvedo gāndharvaś caiva te trayaḥ / arthaśāstraṃ caturthaṃ tu vidyā hy aṣṭādaśaiva tāḥ

  224. ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः । राजर्षयः पुनस् तेभ्य ऋषिप्रकृतयस् त्रयः

    jñeyā brahmarṣayaḥ pūrvaṃ tebhyo devarṣayaḥ punaḥ / rājarṣayaḥ punas tebhya ṛṣiprakṛtayas trayaḥ

  225. इति शाखाः समाख्याताः शाखाभेदास् तथैव च । कर्तारश् चैव शाखानां भेदहेतुस् तथोदितः

    iti śākhāḥ samākhyātāḥ śākhābhedās tathaiva ca / kartāraś caiva śākhānāṃ bhedahetus tathoditaḥ

  226. सर्वमन्वन्तरेष्व् एवं शाखाभेदाः समाः स्मृताः

    sarvamanvantareṣv evaṃ śākhābhedāḥ samāḥ smṛtāḥ

  227. प्राजापत्या श्रुतिर् नित्या तद्विकल्पास् त्व् इमे द्विज

    prājāpatyā śrutir nityā tadvikalpās tv ime dvija

  228. एतत् तवोदितं सर्वं यत् पृष्टो ऽहम् इह त्वया । मैत्रेय वेदसंबद्धं किम् अन्यत् कथयामि ते

    etat tavoditaṃ sarvaṃ yat pṛṣṭo 'ham iha tvayā / maitreya vedasaṃbaddhaṃ kim anyat kathayāmi te

  229. ______________________________________________________ §मैत्रेय उवाच: यथावत् कथितं सर्वं यत् पृष्टो ऽसि मया गुरो । श्रोतुम् इच्छाम्य् अहं त्व् एकं तद् भवान् प्रब्रवीतु मे

    ______________________________________________________ §maitreya uvāca: yathāvat kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā guro / śrotum icchāmy ahaṃ tv ekaṃ tad bhavān prabravītu me

  230. श्२ इन्स्।: सप्तद्वीपानि पातालवीथ्यश् च सुमहामुने । सप्त लोकाश् च ये ऽन्तःस्था ब्रह्माण्डस्यास्य सर्वतः

    Ś2 ins.: saptadvīpāni pātālavīthyaś ca sumahāmune / sapta lokāś ca ye 'ntaḥsthā brahmāṇḍasyāsya sarvataḥ

  231. स्थूलैः सूक्ष्मैस् तथासूक्ष्मैः सूक्ष्मात् सूक्ष्मतरैस् तथा । स्थूलैः स्थूलतरैश् चैतत् सर्वं प्राणिभिर् आवृतम्

    sthūlaiḥ sūkṣmais tathāsūkṣmaiḥ sūkṣmāt sūkṣmatarais tathā / sthūlaiḥ sthūlataraiś caitat sarvaṃ prāṇibhir āvṛtam

  232. अङ्गुलस्याष्टभागो ऽपि न सो ऽस्ति मुनिसत्तम । न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः

    aṅgulasyāṣṭabhāgo 'pi na so 'sti munisattama / na santi prāṇino yatra karmabandhanibandhanāḥ

  233. सर्वे चैते वशं यान्ति यमस्य भगवन् किल । आयुषो ऽन्ते ततो यान्ति यातनास् तत्प्रचोदिताः

    sarve caite vaśaṃ yānti yamasya bhagavan kila / āyuṣo 'nte tato yānti yātanās tatpracoditāḥ

  234. यातनाभ्यः परिभ्रष्टा देवाद्यास्व् अथ योनिषु । जन्तवः परिवर्तन्ते शास्त्राणाम् एष निर्णयः

    yātanābhyaḥ paribhraṣṭā devādyāsv atha yoniṣu / jantavaḥ parivartante śāstrāṇām eṣa nirṇayaḥ

  235. सो ऽहम् इच्छामि तच् छ्रोतुं यमस्य वशवर्तिनः । न भवन्ति नरा येन तत् कर्म कथयामलम्

    so 'ham icchāmi tac chrotuṃ yamasya vaśavartinaḥ / na bhavanti narā yena tat karma kathayāmalam

  236. §पराशर उवाच: अयम् एव मुने प्रश्नो नकुलेन महात्मना । पृष्टः पितामहः प्राह भीष्मो यत् तच् छृणुष्व मे

    §parāśara uvāca: ayam eva mune praśno nakulena mahātmanā / pṛṣṭaḥ pitāmahaḥ prāha bhīṣmo yat tac chṛṇuṣva me

  237. §भीष्म उवाच: पुरा ममागतो वत्स सखा कालिङ्गको द्विजः । माम् उवाच स पृष्टो वै मया जातिस्मरो मुनिः

    §bhīṣma uvāca: purā mamāgato vatsa sakhā kāliṅgako dvijaḥ / mām uvāca sa pṛṣṭo vai mayā jātismaro muniḥ

  238. तेनाख्यातम् इदं चेदम् इत्थं चैतद् भविष्यति । तथा च तद् अभूद् वत्स यथोक्तं तेन धीमता

    tenākhyātam idaṃ cedam itthaṃ caitad bhaviṣyati / tathā ca tad abhūd vatsa yathoktaṃ tena dhīmatā

  239. स पृष्टश् च मया भूयः श्रद्दधानेन वै द्विजः । यद् यद् आह न तद् दृष्टम् अन्यथा हि मया क्वचित्

    sa pṛṣṭaś ca mayā bhūyaḥ śraddadhānena vai dvijaḥ / yad yad āha na tad dṛṣṭam anyathā hi mayā kvacit

  240. एकदा तु मया पृष्टम् यद् एतद् भवतोदितम् । प्राह कालिङ्गको विप्रः स्मृत्वा तस्य मुनेर् वचः

    ekadā tu mayā pṛṣṭam yad etad bhavatoditam / prāha kāliṅgako vipraḥ smṛtvā tasya muner vacaḥ

  241. जातिस्मरेण कथितं रहस्यं परमं मम । यमकिंकरयोर् यो ऽभूत् संवादस् तं ब्रवीमि ते

    jātismareṇa kathitaṃ rahasyaṃ paramaṃ mama / yamakiṃkarayor yo 'bhūt saṃvādas taṃ bravīmi te

  242. ग्१,म्१।२ इन्स्।: §कालिङ्ग उवाच: स्वपुरुषम् अभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनप्रपन्नान् प्रभुर् अहम् अन्यनृणां न वैष्णवानाम्

    G1,M1.2 ins.: §kāliṅga uvāca: svapuruṣam abhivīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle / parihara madhusūdanaprapannān prabhur aham anyanṛṇāṃ na vaiṣṇavānām

  243. अहम् अमरगणार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः ॥ विप्_३,७।१५अब् ॥ म्१।२ इन्स्।: हरिगुरुविमुखान् प्रशास्मि मर्त्यान् हरिचरणप्रणतान् नमस्करोमि । सुगतिम् अभिलषामि वासुदेवाद् अहम् अपि भागवतस्थितान्तरात्मा ॥ विप्_३,७।१५अब्*११ ॥ हरिगुरुवशगो ऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः ॥ विप्_३,७।१५च्द् ॥ म्१।२ इन्स्।: वर्षशतम् अपीह धर्म्यमानं व्रजति न काञ्चनतामयः कदाचित् । न हि शशिकलुषच्छविः कदाचित् तिमिरपराभवताम् उपैति चन्द्रः । वृषगणकणभक्षशंकरोक्तिर् दशबलपञ्चशिखाक्षपादवादान् । मुकुलितकरकुङ्मलैः सुरेन्द्रैः सततनमस्कृतपादपङ्कजाय । कटकमुकुटकर्णिकादिभेदैः कनकम् अभेदम् अपीष्यते यथैकम् । सुरपशुमनुजादिकल्पनाभिर् हरिर् अखिलाभिर् उदीर्यते तथैकः

    aham amaragaṇārcitena dhātrā yama iti lokahitāhite niyuktaḥ // ViP_3,7.15ab // M1.2 ins.: hariguruvimukhān praśāsmi martyān haricaraṇapraṇatān namaskaromi / sugatim abhilaṣāmi vāsudevād aham api bhāgavatasthitāntarātmā // ViP_3,7.15ab*11 // hariguruvaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi viṣṇuḥ // ViP_3,7.15cd // M1.2 ins.: varṣaśatam apīha dharmyamānaṃ vrajati na kāñcanatāmayaḥ kadācit / na hi śaśikaluṣacchaviḥ kadācit timiraparābhavatām upaiti candraḥ / vṛṣagaṇakaṇabhakṣaśaṃkaroktir daśabalapañcaśikhākṣapādavādān / mukulitakarakuṅmalaiḥ surendraiḥ satatanamaskṛtapādapaṅkajāya / kaṭakamukuṭakarṇikādibhedaiḥ kanakam abhedam apīṣyate yathaikam / surapaśumanujādikalpanābhir harir akhilābhir udīryate tathaikaḥ

  244. क्षितिजलपरमाणवो ऽनिलान्ते पुनर् अपि यान्ति यथैकतां धरित्र्याः । सुरपशुमनुजादयस् तथान्ते गुणकलुषेण सनातनेन तेन

    kṣitijalaparamāṇavo 'nilānte punar api yānti yathaikatāṃ dharitryāḥ / surapaśumanujādayas tathānte guṇakaluṣeṇa sanātanena tena

  245. हरिम् अमरगणार्चिताङ्घ्रिपद्मं प्रणमति यः परमार्थतो हि मर्त्यः । तम् अपगतसमस्तपापबन्धं व्रज परिहृत्य यथाग्निम् आज्यसिक्तम्

    harim amaragaṇārcitāṅghripadmaṃ praṇamati yaḥ paramārthato hi martyaḥ / tam apagatasamastapāpabandhaṃ vraja parihṛtya yathāgnim ājyasiktam

  246. इति यमवचनं निशम्य पाशी यमपुरुषस् तम् उवाच धर्मराजम् । कथय मम विभो समस्तधातुर् भवति हरेः खलु यादृशो ऽस्य भक्तः

    iti yamavacanaṃ niśamya pāśī yamapuruṣas tam uvāca dharmarājam / kathaya mama vibho samastadhātur bhavati hareḥ khalu yādṛśo 'sya bhaktaḥ

  247. §यम उवाच: न चलति निजवर्णधर्मतो यः सममतिर् आत्मसुहृद्विपक्षपक्षे । न हरति न च हन्ति किंचिद् उच्चैः सितमनसं तम् अवैहि विष्णुभक्तम्

    §yama uvāca: na calati nijavarṇadharmato yaḥ samamatir ātmasuhṛdvipakṣapakṣe / na harati na ca hanti kiṃcid uccaiḥ sitamanasaṃ tam avaihi viṣṇubhaktam

  248. कलिकलुषमलेन यस्य नात्मा विमलमतेर् मलिनीकृतो ऽस्तमोहे । मनसि कृतजनार्दनं मनुष्यं सततम् अवैहि हरेर् अतीव भक्तम्

    kalikaluṣamalena yasya nātmā vimalamater malinīkṛto 'stamohe / manasi kṛtajanārdanaṃ manuṣyaṃ satatam avaihi harer atīva bhaktam

  249. कनकम् अपि रहस्य् अवेक्ष्य बुद्ध्या तृणम् इव यः समवैति वै परस्वम् । भवति च भगवत्य् अनन्यचेताः पुरुषवरं तम् अवैहि विष्णुभक्तम्

    kanakam api rahasy avekṣya buddhyā tṛṇam iva yaḥ samavaiti vai parasvam / bhavati ca bhagavaty ananyacetāḥ puruṣavaraṃ tam avaihi viṣṇubhaktam

  250. स्फटिकगिरिशिलामलः क्व विष्णुर् मनसि नृणां क्व च मत्सरादिदोषः । न हि तुहिनमयूखरश्मिपुञ्जे भवति हुताशनदीप्तिजः प्रतापः

    sphaṭikagiriśilāmalaḥ kva viṣṇur manasi nṛṇāṃ kva ca matsarādidoṣaḥ / na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ

  251. विमलमतिर् अमत्सरः प्रशान्तः शुचिचरितो ऽखिलसत्त्वमित्रभूतः । प्रियहितवचनो ऽस्तमानमायो वसति सदा हृदि तस्य वासुदेवः

    vimalamatir amatsaraḥ praśāntaḥ śucicarito 'khilasattvamitrabhūtaḥ / priyahitavacano 'stamānamāyo vasati sadā hṛdi tasya vāsudevaḥ

  252. वसति हृदि सनातने च तस्मिन् भवति पुमाञ् जगतो ऽस्य सौम्यरूपः । क्षितिरसम् अतिरम्यम् आत्मनो ऽन्तः कथयति चारुतयैव शालपोतः

    vasati hṛdi sanātane ca tasmin bhavati pumāñ jagato 'sya saumyarūpaḥ / kṣitirasam atiramyam ātmano 'ntaḥ kathayati cārutayaiva śālapotaḥ

  253. यमनियमविधूतकल्मषाणाम् अनुदिनम् अच्युतसक्तमानसानाम् । अपगतमदमानमत्सराणां व्रज भट दूरतरेण मानवानाम्

    yamaniyamavidhūtakalmaṣāṇām anudinam acyutasaktamānasānām / apagatamadamānamatsarāṇāṃ vraja bhaṭa dūratareṇa mānavānām

  254. हृदि यदि भगवान् अनादिर् आस्ते हरिर् असिशङ्खगदाधरो ऽव्ययात्मा । तदघम् अघविघातकर्तृभिन्नं भवति कथं सति चान्धकारम् अर्के

    hṛdi yadi bhagavān anādir āste harir asiśaṅkhagadādharo 'vyayātmā / tadagham aghavighātakartṛbhinnaṃ bhavati kathaṃ sati cāndhakāram arke

  255. हरति परधनं निहन्ति जन्तून् वदति तथानृतनिष्ठुराणि यश् च । अशुभजनितदुर्मदस्य पुंसः कलुषमतेर् हृदि तस्य नास्त्य् अनन्तः

    harati paradhanaṃ nihanti jantūn vadati tathānṛtaniṣṭhurāṇi yaś ca / aśubhajanitadurmadasya puṃsaḥ kaluṣamater hṛdi tasya nāsty anantaḥ

  256. न सहति परसंपदं विनिन्दां कलुषमतिः कुरुते सताम् असाधुः । न यजति न ददाति यश् च सन्तं मनसि न तस्य जनार्दनो ऽधमस्य

    na sahati parasaṃpadaṃ vinindāṃ kaluṣamatiḥ kurute satām asādhuḥ / na yajati na dadāti yaś ca santaṃ manasi na tasya janārdano 'dhamasya

  257. परमसुहृदि बान्धवे कलत्रे सुततनयापितृमातृभृत्यवर्गे । शठमतिर् उपयाति यो ऽर्थतृष्णां तम् अधमचेष्टम् अवैहि नास्य भक्तम्

    paramasuhṛdi bāndhave kalatre sutatanayāpitṛmātṛbhṛtyavarge / śaṭhamatir upayāti yo 'rthatṛṣṇāṃ tam adhamaceṣṭam avaihi nāsya bhaktam

  258. अशुभमतिर् असत्प्रवृत्तिसक्तः सततम् अनार्यविशालसङ्गमत्तः । अनुदिनकृतपापबन्धयत्नः पुरुषपशुर् न हि वासुदेवभक्तः

    aśubhamatir asatpravṛttisaktaḥ satatam anāryaviśālasaṅgamattaḥ / anudinakṛtapāpabandhayatnaḥ puruṣapaśur na hi vāsudevabhaktaḥ

  259. सकलम् इदम् अहं च वासुदेवः परमपुमान् परमेश्वरः स एकः । इति मतिर् अमला भवत्य् अनन्ते हृदयगते व्रज तान् विहाय दूरात्

    sakalam idam ahaṃ ca vāsudevaḥ paramapumān parameśvaraḥ sa ekaḥ / iti matir amalā bhavaty anante hṛdayagate vraja tān vihāya dūrāt

  260. कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे । भव शरणम् इतीरयन्ति ये वै त्यज भट दूरतरेण तान् अपापान्

    kamalanayana vāsudeva viṣṇo dharaṇidharācyuta śaṅkhacakrapāṇe / bhava śaraṇam itīrayanti ye vai tyaja bhaṭa dūratareṇa tān apāpān

  261. वसति मनसि यस्य सो ऽव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते । तव गतिर् अथवा ममास्ति चक्र प्रतिहतवीर्यबलस्य सो ऽन्यलोक्यः

    vasati manasi yasya so 'vyayātmā puruṣavarasya na tasya dṛṣṭipāte / tava gatir athavā mamāsti cakra pratihatavīryabalasya so 'nyalokyaḥ

  262. §कालिङ्ग उवाच: इति निजभटशासनाय देवो रवितनयः स किलाह धर्मराजः । मम कथितम् इदं च तेन तुभ्यं कुरुवर सम्यग् इदं मयापि चोक्तम्

    §kāliṅga uvāca: iti nijabhaṭaśāsanāya devo ravitanayaḥ sa kilāha dharmarājaḥ / mama kathitam idaṃ ca tena tubhyaṃ kuruvara samyag idaṃ mayāpi coktam

  263. §भीष्म उवाच: नकुलैतन् ममाख्यातं पूर्वं तेन द्विजन्मना । कलिङ्गदेशाद् अभ्येत्य प्रीयता सुमहात्मना

    §bhīṣma uvāca: nakulaitan mamākhyātaṃ pūrvaṃ tena dvijanmanā / kaliṅgadeśād abhyetya prīyatā sumahātmanā

  264. मयाप्य् एतद् यथान्यायं सम्यग् वत्स तवोदितम् । यथा विष्णुम् ऋते नान्यत् त्राणं संसारसागरे

    mayāpy etad yathānyāyaṃ samyag vatsa tavoditam / yathā viṣṇum ṛte nānyat trāṇaṃ saṃsārasāgare

  265. किंकरा दण्डपाशौ वा न यमो न च यातना । समर्थास् तस्य यस्यात्मा केशवालम्बनः सदा

    kiṃkarā daṇḍapāśau vā na yamo na ca yātanā / samarthās tasya yasyātmā keśavālambanaḥ sadā

  266. §पराशर उवाच: एतन् मुने तवाख्यातं गीतं वैवस्वतेन यत् । त्वत्प्रश्नानुगतं सम्यक् किम् अन्यच् छ्रोतुम् इच्छसि

    §parāśara uvāca: etan mune tavākhyātaṃ gītaṃ vaivasvatena yat / tvatpraśnānugataṃ samyak kim anyac chrotum icchasi

  267. ______________________________________________________ §मैत्रेय उवाच: भगवन् भगवान् देवः संसारविजिगीषुभिः । समाख्याहि जगन्नाथो विष्णुर् आराध्यते यथा

    ______________________________________________________ §maitreya uvāca: bhagavan bhagavān devaḥ saṃsāravijigīṣubhiḥ / samākhyāhi jagannātho viṣṇur ārādhyate yathā

  268. द्७ इन्स्।: आराधिताच् च गोविन्दाद् आराधनपरैर् नरैः । यत् प्राप्यते फलं श्रोतुं तच् चेच्छामि महामुने

    D7 ins.: ārādhitāc ca govindād ārādhanaparair naraiḥ / yat prāpyate phalaṃ śrotuṃ tac cecchāmi mahāmune

  269. §पराशर उवाच: यत् पृच्छति भवान् एतत् सगरेण महात्मना । और्वः प्राह यथा पृष्टस् तन् मे कथयतः शृणु

    §parāśara uvāca: yat pṛcchati bhavān etat sagareṇa mahātmanā / aurvaḥ prāha yathā pṛṣṭas tan me kathayataḥ śṛṇu

  270. सगरः प्रणिपत्येदम् और्वं पप्रच्छ भार्गवम् । विष्णोर् आराधनोपायसंबन्धं मुनिसत्तम

    sagaraḥ praṇipatyedam aurvaṃ papraccha bhārgavam / viṣṇor ārādhanopāyasaṃbandhaṃ munisattama

  271. फलं चाराधिते विष्णौ यत् पुंसाम् अभिजायते । स चाह पृष्टो यत् तेन तन् मैत्रेयाखिलं शृणु

    phalaṃ cārādhite viṣṇau yat puṃsām abhijāyate / sa cāha pṛṣṭo yat tena tan maitreyākhilaṃ śṛṇu

  272. §और्व उवाच: भौमान् मनोरथान् स्वर्गं स्वर्गवन्द्यं तथास्पदम् । प्राप्नोत्य् आराधिते विष्णौ निर्वाणम् अपि चोत्तमम्

    §aurva uvāca: bhaumān manorathān svargaṃ svargavandyaṃ tathāspadam / prāpnoty ārādhite viṣṇau nirvāṇam api cottamam

  273. यद् यद् इच्छति यावच् च फलम् आराधिते ऽच्युते । तत् तद् आप्नोति राजेन्द्र भूरि स्वल्पम् अथापि वा

    yad yad icchati yāvac ca phalam ārādhite 'cyute / tat tad āpnoti rājendra bhūri svalpam athāpi vā

  274. यत् तु पृच्छसि भूपाल कथम् आराध्यते हि सः । तद् अहं सकलं तुभ्यं कथयामि निबोध मे

    yat tu pṛcchasi bhūpāla katham ārādhyate hi saḥ / tad ahaṃ sakalaṃ tubhyaṃ kathayāmi nibodha me

  275. वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुर् आराध्यते पन्था नान्यस् तत्तोषकारणम्

    varṇāśramācāravatā puruṣeṇa paraḥ pumān / viṣṇur ārādhyate panthā nānyas tattoṣakāraṇam

  276. यजन् यज्ञान् यजत्य् एनं जपत्य् एनं जपन् नृप । घ्नंस् तथान्यान् हिनस्त्य् एनं सर्वभूतो यतो हरिः

    yajan yajñān yajaty enaṃ japaty enaṃ japan nṛpa / ghnaṃs tathānyān hinasty enaṃ sarvabhūto yato hariḥ

  277. तस्मात् सदाचारवता पुरुषेण जनार्दनः । आराध्यते स्ववर्णोक्तधर्मानुष्ठानकारिणा

    tasmāt sadācāravatā puruṣeṇa janārdanaḥ / ārādhyate svavarṇoktadharmānuṣṭhānakāriṇā

  278. ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् च पृथिवीपते । स्वधर्मतत्परो विष्णुम् आराधयति नान्यथा

    brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ca pṛthivīpate / svadharmatatparo viṣṇum ārādhayati nānyathā

  279. परापवादं पैशुन्यम् अनृतं च न भाषते । अन्योद्वेगकरं वापि तोष्यते तेन केशवः

    parāpavādaṃ paiśunyam anṛtaṃ ca na bhāṣate / anyodvegakaraṃ vāpi toṣyate tena keśavaḥ

  280. परपत्नीपरद्रव्यपरहिंसासु यो मतिम् । न करोति पुमान् भूप तोष्यते तेन केशवः

    parapatnīparadravyaparahiṃsāsu yo matim / na karoti pumān bhūpa toṣyate tena keśavaḥ

  281. न ताडयति नो हन्ति प्राणिनो ऽन्यांश् च देहिनः । यो मनुष्यो मनुष्येन्द्र तोष्यते तेन केशवः

    na tāḍayati no hanti prāṇino 'nyāṃś ca dehinaḥ / yo manuṣyo manuṣyendra toṣyate tena keśavaḥ

  282. देवद्विजगुरूणां यः शुश्रूषासु सदोद्यतः । तोष्यते तेन गोविन्दः पुरुषेण नरेश्वर

    devadvijagurūṇāṃ yaḥ śuśrūṣāsu sadodyataḥ / toṣyate tena govindaḥ puruṣeṇa nareśvara

  283. यथात्मनि च पुत्रे च सर्वभूतेषु यस् तथा । हितकामो हरिस् तेन तोष्यते सर्वदा सुखम्

    yathātmani ca putre ca sarvabhūteṣu yas tathā / hitakāmo haris tena toṣyate sarvadā sukham

  284. यस्य रागादिदोषेण न दुष्टं नृप मानसम् । विशुद्धचेतसा विष्णुस् तोष्यते तेन सर्वदा

    yasya rāgādidoṣeṇa na duṣṭaṃ nṛpa mānasam / viśuddhacetasā viṣṇus toṣyate tena sarvadā

  285. वर्णाश्रमेषु ये धर्माः शास्त्रोक्ता नृपसत्तम । तेषु तिष्ठन् नरो विष्णुम् आराधयति नान्यथा

    varṇāśrameṣu ye dharmāḥ śāstroktā nṛpasattama / teṣu tiṣṭhan naro viṣṇum ārādhayati nānyathā

  286. §सगर उवाच: तद् अहं श्रोतुम् इच्छामि वर्णधर्मान् अशेषतः । तथैवाश्रमधर्मांश् च द्विजवर्य ब्रवीहि तान्

    §sagara uvāca: tad ahaṃ śrotum icchāmi varṇadharmān aśeṣataḥ / tathaivāśramadharmāṃś ca dvijavarya bravīhi tān

  287. §और्व उवाच: ब्राह्मणक्षत्रियविशां शूद्राणां च यथाक्रमम् । त्वम् एकाग्रमना भूत्वा शृणु धर्मान् मयोदितान्

    §aurva uvāca: brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca yathākramam / tvam ekāgramanā bhūtvā śṛṇu dharmān mayoditān

  288. दानं दद्याद् यजेद् देवान् यज्ञैः स्वाध्यायतत्परः । नित्योदकी भवेद् विप्रः कुर्याच् चाग्निपरिग्रहम्

    dānaṃ dadyād yajed devān yajñaiḥ svādhyāyatatparaḥ / nityodakī bhaved vipraḥ kuryāc cāgniparigraham

  289. वृत्त्यर्थं याजयेच् चान्यान् अन्यान् अध्यापयेत् तथा । कुर्यात् प्रतिग्रहादानं गुर्वर्थं न्यायतो द्विजः

    vṛttyarthaṃ yājayec cānyān anyān adhyāpayet tathā / kuryāt pratigrahādānaṃ gurvarthaṃ nyāyato dvijaḥ

  290. सर्वलोकहितं कुर्यान् नाहितं कस्यचिद् द्विजः । मैत्री समस्तभूतेषु ब्राह्मणस्योत्तमं धनम्

    sarvalokahitaṃ kuryān nāhitaṃ kasyacid dvijaḥ / maitrī samastabhūteṣu brāhmaṇasyottamaṃ dhanam

  291. ग्राव्णि रत्ने च पारक्ये समबुद्धिर् भवेद् द्विजः । ऋताव् अभिगमः पत्न्यां शस्यते चास्य पार्थिव

    grāvṇi ratne ca pārakye samabuddhir bhaved dvijaḥ / ṛtāv abhigamaḥ patnyāṃ śasyate cāsya pārthiva

  292. दानानि दद्याद् इच्छातो द्विजेभ्यः क्षत्रियो ऽपि हि । यजेच् च विविधैर् यज्ञैर् अधीयीत च पार्थिवः

    dānāni dadyād icchāto dvijebhyaḥ kṣatriyo 'pi hi / yajec ca vividhair yajñair adhīyīta ca pārthivaḥ

  293. शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका । तस्यापि प्रथमे कल्पे पृथिवीपरिपालनम्

    śastrājīvo mahīrakṣā pravarā tasya jīvikā / tasyāpi prathame kalpe pṛthivīparipālanam

  294. धरित्रीपालनेनैव कृतकृत्यो नराधिपः । भवन्ति नृपतेर् अंशा यतो यज्ञादिकर्मणाम्

    dharitrīpālanenaiva kṛtakṛtyo narādhipaḥ / bhavanti nṛpater aṃśā yato yajñādikarmaṇām

  295. दुष्टानां शासनाद् राजा शिष्टानां परिपालनात् । प्राप्नोत्य् अभिमतांल् लोकान् वर्णसंस्थाकरो नृपः

    duṣṭānāṃ śāsanād rājā śiṣṭānāṃ paripālanāt / prāpnoty abhimatāṃl lokān varṇasaṃsthākaro nṛpaḥ

  296. पशुपाल्यं वणिज्यं च कृषिं च मनुजेश्वर । वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः

    paśupālyaṃ vaṇijyaṃ ca kṛṣiṃ ca manujeśvara / vaiśyāya jīvikāṃ brahmā dadau lokapitāmahaḥ

  297. तस्याप्य् अध्ययनं यज्ञो दानं धर्मश् च शस्यते । नित्यनैमित्तिकादीनाम् अनुष्ठानं च कर्मणाम्

    tasyāpy adhyayanaṃ yajño dānaṃ dharmaś ca śasyate / nityanaimittikādīnām anuṣṭhānaṃ ca karmaṇām

  298. द्विजातिसंश्रयं कर्म तादर्थ्यं तेन पोषणम् । क्रयविक्रयजैर् वापि धनैः कारूद्भवेन वा

    dvijātisaṃśrayaṃ karma tādarthyaṃ tena poṣaṇam / krayavikrayajair vāpi dhanaiḥ kārūdbhavena vā

  299. म्०।३,एद्। वेङ्क्। इन्स्।: दानं च दद्याच् छूद्रो ऽपि पाकयज्ञैर् यजेत च । पित्र्यादिकं च वै सर्वं शूद्रः कुर्वीत तेन वै

    M0.3,ed. Veṅk. ins.: dānaṃ ca dadyāc chūdro 'pi pākayajñair yajeta ca / pitryādikaṃ ca vai sarvaṃ śūdraḥ kurvīta tena vai

  300. भृत्यादिभरणार्थाय सर्वेषां च परिग्रहः । ऋतुकालाभिगमनं स्वदारेषु महीपते

    bhṛtyādibharaṇārthāya sarveṣāṃ ca parigrahaḥ / ṛtukālābhigamanaṃ svadāreṣu mahīpate

  301. दया समस्तभूतेषु तितिक्षा नाभिमानिता । सत्यं शौचम् अनायासो मङ्गलं प्रियवादिता

    dayā samastabhūteṣu titikṣā nābhimānitā / satyaṃ śaucam anāyāso maṅgalaṃ priyavāditā

  302. श्२,द्७ इन्स्।: मैत्र्य् अस्पृहा तथा तद्वद् अकार्पण्यं नरेश्वर । अनसूया च सामान्या वर्णानां कथिता गुणाः

    Ś2,D7 ins.: maitry aspṛhā tathā tadvad akārpaṇyaṃ nareśvara / anasūyā ca sāmānyā varṇānāṃ kathitā guṇāḥ

  303. आश्रमाणां च सर्वेषाम् एते सामान्यलक्षणाः । गुणांस् तथापद्धर्मांश् च विप्रादीनाम् इमाञ् छृणु

    āśramāṇāṃ ca sarveṣām ete sāmānyalakṣaṇāḥ / guṇāṃs tathāpaddharmāṃś ca viprādīnām imāñ chṛṇu

  304. क्षात्रं कर्म द्विजस्योक्तं वैश्यकर्म तथापदि । राजन्यस्य च वैश्योक्तं शूद्रकर्म न चैतयोः

    kṣātraṃ karma dvijasyoktaṃ vaiśyakarma tathāpadi / rājanyasya ca vaiśyoktaṃ śūdrakarma na caitayoḥ

  305. सामर्थ्ये सति तत् त्याज्यम् उभाभ्याम् अपि पार्थिव । तद् एवापदि कर्तव्यं न कुर्यात् कर्मसंकरम्

    sāmarthye sati tat tyājyam ubhābhyām api pārthiva / tad evāpadi kartavyaṃ na kuryāt karmasaṃkaram

  306. इत्य् एते कथिता राजन् वर्णधर्मा मया तव । धर्मम् आश्रमिणां सम्यग् ब्रुवतो मे निशामय

    ity ete kathitā rājan varṇadharmā mayā tava / dharmam āśramiṇāṃ samyag bruvato me niśāmaya

  307. ______________________________________________________ §और्व उवाच: बालः कृतोपनयनो वेदाहरणतत्परः । गुरुगेहे वसेद् भूप ब्रह्मचारी समाहितः

    ______________________________________________________ §aurva uvāca: bālaḥ kṛtopanayano vedāharaṇatatparaḥ / gurugehe vased bhūpa brahmacārī samāhitaḥ

  308. शौचाचारवता तत्र कार्यं शुश्रूषणं गुरोः । व्रतानि चरता ग्राह्यो वेदश् च कृतबुद्धिना

    śaucācāravatā tatra kāryaṃ śuśrūṣaṇaṃ guroḥ / vratāni caratā grāhyo vedaś ca kṛtabuddhinā

  309. उभे संध्ये रविं भूप तथैवाग्निं समाहितः । उपतिष्ठेत् तथा कुर्याद् गुरोर् अप्य् अभिवादनम्

    ubhe saṃdhye raviṃ bhūpa tathaivāgniṃ samāhitaḥ / upatiṣṭhet tathā kuryād guror apy abhivādanam

  310. स्थिते तिष्ठेद् व्रजेद् याते नीचैर् आसीत चासति । शिष्यो गुरौ नृपश्रेष्ठ प्रतिकूलं न संचरेत्

    sthite tiṣṭhed vrajed yāte nīcair āsīta cāsati / śiṣyo gurau nṛpaśreṣṭha pratikūlaṃ na saṃcaret

  311. तेनैवोक्तः पठेद् वेदं नान्यचित्तः पुरः स्थितः । अनुज्ञातश् च भिक्षान्नम् अश्नीयाद् गुरुणा ततः

    tenaivoktaḥ paṭhed vedaṃ nānyacittaḥ puraḥ sthitaḥ / anujñātaś ca bhikṣānnam aśnīyād guruṇā tataḥ

  312. अवगाहेद् अपः पूर्वम् आचार्येणावगाहिताः । समिज्जलादिकं चास्य काल्यं काल्यम् उपानयेत्

    avagāhed apaḥ pūrvam ācāryeṇāvagāhitāḥ / samijjalādikaṃ cāsya kālyaṃ kālyam upānayet

  313. गृहीतग्राह्यवेदश् च ततो ऽनुज्ञाम् अवाप्य वै । गार्हस्थ्यम् आवसेत् प्राज्ञो निष्पन्नगुरुनिष्कृतिः

    gṛhītagrāhyavedaś ca tato 'nujñām avāpya vai / gārhasthyam āvaset prājño niṣpannaguruniṣkṛtiḥ

  314. विधिनावाप्तदारस् तु धनं प्राप्य स्वकर्मणा । गृहस्थकार्यम् अखिलं कुर्याद् भूपाल शक्तितः

    vidhināvāptadāras tu dhanaṃ prāpya svakarmaṇā / gṛhasthakāryam akhilaṃ kuryād bhūpāla śaktitaḥ

  315. निवापेन पितॄन् अर्चेद् यज्ञैर् देवांस् तथातिथीन् । अन्नैर् मुनींश् च स्वाध्यायैर् अपत्येन प्रजापतिम्

    nivāpena pitṝn arced yajñair devāṃs tathātithīn / annair munīṃś ca svādhyāyair apatyena prajāpatim

  316. बलिकर्मणा च भूतानि वात्सल्येनाखिलं जगत् । प्राप्नोति लोकान् पुरुषो निजकर्मसमार्जितान्

    balikarmaṇā ca bhūtāni vātsalyenākhilaṃ jagat / prāpnoti lokān puruṣo nijakarmasamārjitān

  317. भिक्षाभुजश् च ये केचित् परिव्राड्ब्रह्मचारिणः । ते ऽप्य् अत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै परम्

    bhikṣābhujaś ca ye kecit parivrāḍbrahmacāriṇaḥ / te 'py atraiva pratiṣṭhante gārhasthyaṃ tena vai param

  318. वेदाहरणकार्येण तीर्थस्नानाय च प्रभो । अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च

    vedāharaṇakāryeṇa tīrthasnānāya ca prabho / aṭanti vasudhāṃ viprāḥ pṛthivīdarśanāya ca

  319. अनिकेता ह्य् अनाहारा यत्रसायंगृहास् तु ये । तेषां गृहस्थः सर्वेषां प्रतिष्ठा योनिर् एव च

    aniketā hy anāhārā yatrasāyaṃgṛhās tu ye / teṣāṃ gṛhasthaḥ sarveṣāṃ pratiṣṭhā yonir eva ca

  320. तेषां स्वागतदानादि वक्तव्यं मधुरं नृप । गृहागतानां दद्याच् च शयनासनभोजनम्

    teṣāṃ svāgatadānādi vaktavyaṃ madhuraṃ nṛpa / gṛhāgatānāṃ dadyāc ca śayanāsanabhojanam

  321. अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति

    atithir yasya bhagnāśo gṛhāt pratinivartate / sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati

  322. अवज्ञानम् अहंकारो दम्भश् चैव गृहे सतः । परितापोपघातौ च पारुष्यं च न शस्यते

    avajñānam ahaṃkāro dambhaś caiva gṛhe sataḥ / paritāpopaghātau ca pāruṣyaṃ ca na śasyate

  323. यस् तु सम्यक् करोत्य् एवं गृहस्थः परमं विधिम् । सर्वबन्धविमुक्तो ऽसौ लोकान् आप्नोत्य् अनुत्तमान्

    yas tu samyak karoty evaṃ gṛhasthaḥ paramaṃ vidhim / sarvabandhavimukto 'sau lokān āpnoty anuttamān

  324. वयःपरिणतौ राजन् कृतकृत्यो गृहाश्रमी । पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा

    vayaḥpariṇatau rājan kṛtakṛtyo gṛhāśramī / putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā

  325. पर्णमूलफलाहारः केशश्मश्रुजटाधरः । भूमिशायी भवेत् तत्र मुनिः सर्वातिथिर् नृप

    parṇamūlaphalāhāraḥ keśaśmaśrujaṭādharaḥ / bhūmiśāyī bhavet tatra muniḥ sarvātithir nṛpa

  326. चर्मकाशकुशैः कुर्यात् परिधानोत्तरीयके । तद्वत् त्रिषवणं स्नानं शस्तम् अस्य नरेश्वर

    carmakāśakuśaiḥ kuryāt paridhānottarīyake / tadvat triṣavaṇaṃ snānaṃ śastam asya nareśvara

  327. देवताभ्यर्चनं होमः सर्वाभ्यागतपूजनम् । भिक्षाबलिप्रदानं च शस्तम् अस्य नरेश्वर

    devatābhyarcanaṃ homaḥ sarvābhyāgatapūjanam / bhikṣābalipradānaṃ ca śastam asya nareśvara

  328. वन्यस्नेहेन गात्राणाम् अभ्यङ्गश् चास्य शस्यते । तपस्यतश् च राजेन्द्र शीतोष्णादिसहिष्णुता

    vanyasnehena gātrāṇām abhyaṅgaś cāsya śasyate / tapasyataś ca rājendra śītoṣṇādisahiṣṇutā

  329. यस् त्व् एतां नियतश् चर्यां वानप्रस्थश् चरेन् मुनिः । स दहत्य् अग्निवद् दोषाञ् जयेल् लोकांश् च शाश्वतान्

    yas tv etāṃ niyataś caryāṃ vānaprasthaś caren muniḥ / sa dahaty agnivad doṣāñ jayel lokāṃś ca śāśvatān

  330. चतुर्थश् चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः । तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि

    caturthaś cāśramo bhikṣoḥ procyate yo manīṣibhiḥ / tasya svarūpaṃ gadato mama śrotuṃ nṛpārhasi

  331. पुत्रद्रव्यकलत्रेषु त्यक्तस्नेहो नराधिप । चतुर्थम् आश्रमस्थानं गच्छेन् निर्धूतमत्सरः

    putradravyakalatreṣu tyaktasneho narādhipa / caturtham āśramasthānaṃ gacchen nirdhūtamatsaraḥ

  332. त्रैवर्गिकांस् त्यजेत् सर्वान् आरम्भान् अवनीपते । मित्रादिषु समो मैत्रः समस्तेष्व् एव जन्तुषु

    traivargikāṃs tyajet sarvān ārambhān avanīpate / mitrādiṣu samo maitraḥ samasteṣv eva jantuṣu

  333. जरायुजाण्डजादीनां वाङ्मनःकर्मभिः क्वचित् । युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश् च वर्जयेत्

    jarāyujāṇḍajādīnāṃ vāṅmanaḥkarmabhiḥ kvacit / yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃś ca varjayet

  334. एकरात्रस्थितिर् ग्रामे पञ्चरात्रस्थितिः पुरे । तथा तिष्ठेद् यथा प्रीतिर् द्वेषो वा नास्य जायते

    ekarātrasthitir grāme pañcarātrasthitiḥ pure / tathā tiṣṭhed yathā prītir dveṣo vā nāsya jāyate

  335. प्राणयात्रानिमित्तं च व्यङ्गारे भुक्तवज्जने । काले प्रशस्तवर्णानां भिक्षार्थं पर्यटेद् गृहान्

    prāṇayātrānimittaṃ ca vyaṅgāre bhuktavajjane / kāle praśastavarṇānāṃ bhikṣārthaṃ paryaṭed gṛhān

  336. कामः क्रोधस् तथा दर्पमोहलोभादयश् च ये । तांस् तु दोषान् परित्यज्य परिव्राड् निर्ममो भवेत्

    kāmaḥ krodhas tathā darpamohalobhādayaś ca ye / tāṃs tu doṣān parityajya parivrāḍ nirmamo bhavet

  337. अभयं सर्वभूतेभ्यो दत्त्वा यश् चरते मुनिः । न तस्य सर्वभूतेभ्यो भयम् उत्पद्यते क्वचित्

    abhayaṃ sarvabhūtebhyo dattvā yaś carate muniḥ / na tasya sarvabhūtebhyo bhayam utpadyate kvacit

  338. कृत्वाग्निहोत्रं स्वशरीरसंस्थं शारीरम् अग्निं स्वमुखे जुहोति । विप्रस् तु भिक्षोपगतैर् हविर्भिश् चिताग्निना स व्रजति स्म लोकान्

    kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīram agniṃ svamukhe juhoti / vipras tu bhikṣopagatair havirbhiś citāgninā sa vrajati sma lokān

  339. मोक्षाश्रमं यश् चरते यथोक्तं शुचिः स्वसंकल्पितबुद्धियुक्तः । अनिन्धनं ज्योतिर् इव प्रशान्तः स ब्रह्मलोकं श्रयते द्विजातिः

    mokṣāśramaṃ yaś carate yathoktaṃ śuciḥ svasaṃkalpitabuddhiyuktaḥ / anindhanaṃ jyotir iva praśāntaḥ sa brahmalokaṃ śrayate dvijātiḥ

  340. ______________________________________________________ §सगर उवाच: कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास् तथा । पुंसः क्रियाम् अहं श्रोतुम् इच्छामि द्विजसत्तम

    ______________________________________________________ §sagara uvāca: kathitaṃ cāturāśramyaṃ cāturvarṇyakriyās tathā / puṃsaḥ kriyām ahaṃ śrotum icchāmi dvijasattama

  341. नित्यां नैमित्तिकीं काम्यां क्रियां पुंसाम् अशेषतः । समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्य् असि मे मतः

    nityāṃ naimittikīṃ kāmyāṃ kriyāṃ puṃsām aśeṣataḥ / samākhyāhi bhṛguśreṣṭha sarvajño hy asi me mataḥ

  342. §और्व उवाच: यद् एतद् उक्तं भवता नित्यनैमित्तिकाश्रितम् । तद् अहं कथयिष्यामि शृणुष्वैकमना नृप

    §aurva uvāca: yad etad uktaṃ bhavatā nityanaimittikāśritam / tad ahaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa

  343. जातस्य जातकर्मादि क्रियाकाण्डम् अशेषतः । पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम्

    jātasya jātakarmādi kriyākāṇḍam aśeṣataḥ / putrasya kurvīta pitā śrāddhaṃ cābhyudayātmakam

  344. युग्मांस् तु प्राङ्मुखान् विप्रान् भोजयेन् मनुजेश्वर । यथावृत्ति तथा कुर्याद् दैवं पित्र्यं द्विजन्मनाम्

    yugmāṃs tu prāṅmukhān viprān bhojayen manujeśvara / yathāvṛtti tathā kuryād daivaṃ pitryaṃ dvijanmanām

  345. दध्ना यवैः सबदरैर् मिश्रान् पिण्डान् मुदा युतः । नान्दीमुखेभ्यस् तीर्थेन दद्याद् दैवेन पार्थिव

    dadhnā yavaiḥ sabadarair miśrān piṇḍān mudā yutaḥ / nāndīmukhebhyas tīrthena dadyād daivena pārthiva

  346. प्राजापत्येन वा सर्वम् उपचारं प्रदक्षिणम् । कुर्वीत तत् तथाशेषवृद्धिकालेषु भूपते

    prājāpatyena vā sarvam upacāraṃ pradakṣiṇam / kurvīta tat tathāśeṣavṛddhikāleṣu bhūpate

  347. ततश् च नाम कुर्वीत पितैव दशमे ऽहनि । देवपूर्वं नराख्यं हि शर्मवर्मादिसंयुतम्

    tataś ca nāma kurvīta pitaiva daśame 'hani / devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam

  348. श्,द्७ इन्स्।: शर्मेति ब्राह्मणस्योक्तं वर्मेति क्षत्रसंश्रयम् । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः

    Ś,D7 ins.: śarmeti brāhmaṇasyoktaṃ varmeti kṣatrasaṃśrayam / guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ

  349. नार्थहीनं न चाशस्तं नापशब्दयुतं तथा । नामङ्गल्यं जुगुप्स्यं वा नाम कुर्यात् समाक्षरम्

    nārthahīnaṃ na cāśastaṃ nāpaśabdayutaṃ tathā / nāmaṅgalyaṃ jugupsyaṃ vā nāma kuryāt samākṣaram

  350. नातिदीर्घं न ह्रस्वं वा नातिगुर्वक्षरान्वितम् । सुखोच्चार्यं तु तन् नाम कुर्याद् यत् प्रवणाक्षरम्

    nātidīrghaṃ na hrasvaṃ vā nātigurvakṣarānvitam / sukhoccāryaṃ tu tan nāma kuryād yat pravaṇākṣaram

  351. ततो ऽनन्तरसंस्कारसंस्कृतो गुरुवेश्मनि । यथोक्तं विधिम् आश्रित्य कुर्याद् विद्यापरिग्रहम्

    tato 'nantarasaṃskārasaṃskṛto guruveśmani / yathoktaṃ vidhim āśritya kuryād vidyāparigraham

  352. गृहीतविद्यो गुरवे दत्त्वा च गुरुदक्षिणाम् । गार्हस्थ्यम् इच्छन् भूपाल कुर्याद् दारपरिग्रहम्

    gṛhītavidyo gurave dattvā ca gurudakṣiṇām / gārhasthyam icchan bhūpāla kuryād dāraparigraham

  353. ब्रह्मचर्येण वा कालं कुर्यात् संकल्पपूर्वकम् । गुरोः शुश्रूषणं कुर्यात् तत्पुत्रादेर् अथापि वा

    brahmacaryeṇa vā kālaṃ kuryāt saṃkalpapūrvakam / guroḥ śuśrūṣaṇaṃ kuryāt tatputrāder athāpi vā

  354. वैखानसो वापि भवेत् परिव्राड् अथवेच्छया । पूर्वसंकल्पितं यादृक् तादृक् कुर्यान् महीपते

    vaikhānaso vāpi bhavet parivrāḍ athavecchayā / pūrvasaṃkalpitaṃ yādṛk tādṛk kuryān mahīpate

  355. वर्षैर् एकगुणां भार्याम् उद्वहेत् त्रिगुणः स्वयम् । नातिकेशाम् अकेशां वा नातिकृष्णां न पिङ्गलाम्

    varṣair ekaguṇāṃ bhāryām udvahet triguṇaḥ svayam / nātikeśām akeśāṃ vā nātikṛṣṇāṃ na piṅgalām

  356. निसर्गतो विकलाङ्गीम् अधिकाङ्गीं च नोद्वहेत् । नाविशुद्धां सरोमां वा ऽकुलजां वातिरोगिणीम्

    nisargato vikalāṅgīm adhikāṅgīṃ ca nodvahet / nāviśuddhāṃ saromāṃ vā 'kulajāṃ vātirogiṇīm

  357. न दुष्टां दुष्टवाचालां व्यङ्गिनीं पितृमातृतः । न श्मश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम्

    na duṣṭāṃ duṣṭavācālāṃ vyaṅginīṃ pitṛmātṛtaḥ / na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim

  358. न घर्घरस्वरां क्षामवाक्यां काकस्वरां न च । नातिबद्धेक्षणां तद्वद् वृत्ताक्षीं नोद्वहेत् स्त्रियम्

    na ghargharasvarāṃ kṣāmavākyāṃ kākasvarāṃ na ca / nātibaddhekṣaṇāṃ tadvad vṛttākṣīṃ nodvahet striyam

  359. यस्याश् च लोमशे जङ्घे गुल्फौ यस्यास् तथोन्नतौ । कूपो यस्या हसन्त्याश् च गण्डयोस् तां च नोद्वहेत्

    yasyāś ca lomaśe jaṅghe gulphau yasyās tathonnatau / kūpo yasyā hasantyāś ca gaṇḍayos tāṃ ca nodvahet

  360. श्१,ञ्,व्१,ब्१।२,द्८ इन्स्।: नातिरूक्षच्छविं पाण्डुकरजाम् अरुणेक्षणाम् । आपीनहस्तपादां च न कन्याम् उद्वहेद् बुधः

    Ś1,Ñ,V1,B1.2,D8 ins.: nātirūkṣacchaviṃ pāṇḍukarajām aruṇekṣaṇām / āpīnahastapādāṃ ca na kanyām udvahed budhaḥ

  361. न वामनां नातिदीर्घां नोद्वहेत् संहतभ्रुवम् । न चातिच्छिद्रदशनां न करालमुखीं नरः

    na vāmanāṃ nātidīrghāṃ nodvahet saṃhatabhruvam / na cāticchidradaśanāṃ na karālamukhīṃ naraḥ

  362. पञ्चमीं मातृपक्षाच् च पितृपक्षाच् च सप्तमीम् । गृहस्थस् तूद्वहेत् कन्यां न्याय्येन विधिना नृप

    pañcamīṃ mātṛpakṣāc ca pitṛpakṣāc ca saptamīm / gṛhasthas tūdvahet kanyāṃ nyāyyena vidhinā nṛpa

  363. ब्राह्मो दैवस् तथैवार्षः प्राजापत्यस् तथासुरः । गान्धर्वराक्षसौ चान्यौ पैशाचश् चाष्टमो ऽधमः

    brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ / gāndharvarākṣasau cānyau paiśācaś cāṣṭamo 'dhamaḥ

  364. श्,द्७ इन्स्।: एतेषां यस्य यो धर्मो वर्णस्योक्तो महर्षिभिः । कुर्वीत दाराहरणं तेनान्यं परिवर्जयेत्

    Ś,D7 ins.: eteṣāṃ yasya yo dharmo varṇasyokto maharṣibhiḥ / kurvīta dārāharaṇaṃ tenānyaṃ parivarjayet

  365. सधर्मचारिणीं प्राप्य गार्हस्थ्यं सहितस् तया । समुद्वहेद् ददात्य् एतत् सम्यगूढं महाफलम्

    sadharmacāriṇīṃ prāpya gārhasthyaṃ sahitas tayā / samudvahed dadāty etat samyagūḍhaṃ mahāphalam

  366. ______________________________________________________ §सगर उवाच: गृहस्थस्य सदाचारं श्रोतुम् इच्छाम्य् अहं मुने । लोकाद् अस्मात् परस्माच् च यम् आतिष्ठन् न हीयते

    ______________________________________________________ §sagara uvāca: gṛhasthasya sadācāraṃ śrotum icchāmy ahaṃ mune / lokād asmāt parasmāc ca yam ātiṣṭhan na hīyate

  367. §और्व उवाच: श्रूयतां पृथिवीपाल सदाचारस्य लक्षणम् । सदाचारवता पुंसा जितौ लोकाव् उभाव् अपि

    §aurva uvāca: śrūyatāṃ pṛthivīpāla sadācārasya lakṣaṇam / sadācāravatā puṃsā jitau lokāv ubhāv api

  368. साधवः क्षीणदोषास् तु सच्छब्दः साधुवाचकः । तेषाम् आचरणं यत् तु सदाचारः स उच्यते

    sādhavaḥ kṣīṇadoṣās tu sacchabdaḥ sādhuvācakaḥ / teṣām ācaraṇaṃ yat tu sadācāraḥ sa ucyate

  369. सप्तर्षयो ऽथ मनवः प्रजानां पतयस् तथा । सदाचारस्य वक्तारः कर्तारश् च महीपते

    saptarṣayo 'tha manavaḥ prajānāṃ patayas tathā / sadācārasya vaktāraḥ kartāraś ca mahīpate

  370. ब्राह्मे मुहूर्ते स्वस्थे च मानसे मतिमान् नृप । विबुद्धश् चिन्तयेद् धर्मम् अर्थं चास्याविरोधिनम्

    brāhme muhūrte svasthe ca mānase matimān nṛpa / vibuddhaś cintayed dharmam arthaṃ cāsyāvirodhinam

  371. अपीडया तयोः कामम् उभयोर् अपि चिन्तयेत् । दृष्टादृष्टविनाशाय त्रिवर्गे समदर्शिता

    apīḍayā tayoḥ kāmam ubhayor api cintayet / dṛṣṭādṛṣṭavināśāya trivarge samadarśitā

  372. परित्यजेद् अर्थकामौ धर्मपीडाकरौ नृप । धर्मम् अप्य् असुखोदर्कं लोकविक्रुष्टम् एव च

    parityajed arthakāmau dharmapīḍākarau nṛpa / dharmam apy asukhodarkaṃ lokavikruṣṭam eva ca

  373. ततः कल्यं समुत्थाय कुर्यान् मैत्रं नरेश्वर

    tataḥ kalyaṃ samutthāya kuryān maitraṃ nareśvara

  374. नैरृत्याम् इषुविक्षेपम् अतीत्याभ्यधिकं भुवः । दूराद् आवसथान् मूत्रं पुरीषं च समुत्सृजेत्

    nairṛtyām iṣuvikṣepam atītyābhyadhikaṃ bhuvaḥ / dūrād āvasathān mūtraṃ purīṣaṃ ca samutsṛjet

  375. पादावसेचनोच्छिष्टे प्रक्षिपेन् न गृहाङ्गणे

    pādāvasecanocchiṣṭe prakṣipen na gṛhāṅgaṇe

  376. आत्मच्छायां तरुच्छायां गोसूर्याग्न्यनिलांस् तथा । गुरुं द्विजातींश् च बुधो न मेहेत कदाचन

    ātmacchāyāṃ tarucchāyāṃ gosūryāgnyanilāṃs tathā / guruṃ dvijātīṃś ca budho na meheta kadācana

  377. न कृष्टे सस्यमध्ये वा गोव्रजे जनसंसदि । न वर्त्मनि न नद्यादितीर्थेषु पुरुषर्षभ

    na kṛṣṭe sasyamadhye vā govraje janasaṃsadi / na vartmani na nadyāditīrtheṣu puruṣarṣabha

  378. नाप्सु नैवाम्भसस् तीरे श्मशाने न समाचरेत् । उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम्

    nāpsu naivāmbhasas tīre śmaśāne na samācaret / utsargaṃ vai purīṣasya mūtrasya ca visarjanam

  379. उदङ्मुखो दिवा मूत्रं विपरीतमुखो निशि । कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव

    udaṅmukho divā mūtraṃ viparītamukho niśi / kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva

  380. तृणैर् आस्तीर्य वसुधां वस्त्रप्रावृतमस्तकः । तिष्ठेन् नातिचिरं तत्र नैव किंचिद् उदीरयेत्

    tṛṇair āstīrya vasudhāṃ vastraprāvṛtamastakaḥ / tiṣṭhen nāticiraṃ tatra naiva kiṃcid udīrayet

  381. वल्मीकमूषिकोत्खातां मृदं नान्तर्जलां तथा । शौचावशिष्टां गेहाच् च नादद्याल् लेपसंभवाम्

    valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāṃ tathā / śaucāvaśiṣṭāṃ gehāc ca nādadyāl lepasaṃbhavām

  382. अन्तःप्राण्यवपन्नां च हलोत्खातां च पार्थिव । परित्यजेन् मृदश् चैताः सकलाः शौचसाधने

    antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva / parityajen mṛdaś caitāḥ sakalāḥ śaucasādhane

  383. एका लिङ्गे गुदे तिस्रो दश वामकरे नृप ॥ विप्_३,११।१८अब् ॥ अफ़्तेर् १८अ त्२।३,ग्२ इन्स्।: ॥॥ ॥॥ उभयोर् मृद्वयं स्मृतम् ॥ विप्_३,११।१८अ*१९:१ ॥ पञ्चापाने गृहस्थस्य ॥॥ ॥॥ ॥ विप्_३,११।१८अ*१९:२ ॥ हस्तद्वये च सप्तान्या मृदः शौचोपपादिकाः ॥ विप्_३,११।१८च्द् ॥ अच्छेनागन्धफेनेन जलेनाबुद्बुदेन च । आचामेत मृदं भूयस् तथा दद्यात् समाहितः

    ekā liṅge gude tisro daśa vāmakare nṛpa // ViP_3,11.18ab // After 18a T2.3,G2 ins.: .... .... ubhayor mṛdvayaṃ smṛtam // ViP_3,11.18a*19:1 // pañcāpāne gṛhasthasya .... .... // ViP_3,11.18a*19:2 // hastadvaye ca saptānyā mṛdaḥ śaucopapādikāḥ // ViP_3,11.18cd // acchenāgandhaphenena jalenābudbudena ca / ācāmeta mṛdaṃ bhūyas tathā dadyāt samāhitaḥ

  384. निष्पादिताङ्घ्रिशौचस् तु पादाव् अभ्युक्ष्य वै पुनः । त्रिः पिबेत् सलिलं तेन तथा द्विः परिमार्जयेत्

    niṣpāditāṅghriśaucas tu pādāv abhyukṣya vai punaḥ / triḥ pibet salilaṃ tena tathā dviḥ parimārjayet

  385. शीर्षण्यानि ततः खानि मूर्धानं च नृपालभेत् । बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत्

    śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca nṛpālabhet / bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet

  386. श्२,द्७ इन्स्।: स्वाचान्तश् च ततः कुर्यात् पुमान् केशप्रसाधनम् । आदर्शाञ्जनमाङ्गल्यं दुर्वाद्यालम्भनानि च

    Ś2,D7 ins.: svācāntaś ca tataḥ kuryāt pumān keśaprasādhanam / ādarśāñjanamāṅgalyaṃ durvādyālambhanāni ca

  387. ततः स्ववर्णधर्मेण वृत्त्यर्थं च धनार्जनम् । कुर्वीत श्रद्धासंपन्नो यजेच् च पृथिवीपते

    tataḥ svavarṇadharmeṇa vṛttyarthaṃ ca dhanārjanam / kurvīta śraddhāsaṃpanno yajec ca pṛthivīpate

  388. सोमसंस्था हविःसंस्थाः पाकसंस्थाश् च संस्थिताः । धने यतो मनुष्याणां यतेतातो धनार्जने

    somasaṃsthā haviḥsaṃsthāḥ pākasaṃsthāś ca saṃsthitāḥ / dhane yato manuṣyāṇāṃ yatetāto dhanārjane

  389. नदीनदतडागेषु देवखातजलेषु च । नित्यक्रियार्थं स्नायीत गिरिप्रस्रवणेषु च

    nadīnadataḍāgeṣu devakhātajaleṣu ca / nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca

  390. कूपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि । स्नायीतोद्धृततोयेन अथवा भुव्य् असंभवे

    kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi / snāyītoddhṛtatoyena athavā bhuvy asaṃbhave

  391. शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम् । तेषाम् एव हि तीर्थेन कुर्वीत सुसमाहितः

    śucivastradharaḥ snāto devarṣipitṛtarpaṇam / teṣām eva hi tīrthena kurvīta susamāhitaḥ

  392. त्रिर् अपः प्रीणनार्थाय देवानाम् अपवर्जयेत् । तथर्षीणां यथान्यायं सकृच् चापि प्रजापतेः

    trir apaḥ prīṇanārthāya devānām apavarjayet / tatharṣīṇāṃ yathānyāyaṃ sakṛc cāpi prajāpateḥ

  393. पितॄणां प्रीणनार्थाय त्रिर् अपः पृथिवीपते । पितामहेभ्यश् च तथा प्रीणयेत् प्रपितामहान्

    pitṝṇāṃ prīṇanārthāya trir apaḥ pṛthivīpate / pitāmahebhyaś ca tathā prīṇayet prapitāmahān

  394. मातामहाय तत्पित्रे तत्पित्रे च समाहितः । दद्यात् पैत्रेण तीर्थेन काम्यं चान्यच् छृणुष्व मे

    mātāmahāya tatpitre tatpitre ca samāhitaḥ / dadyāt paitreṇa tīrthena kāmyaṃ cānyac chṛṇuṣva me

  395. मात्रे प्रमात्रे तन्मात्रे गुरुपत्न्यै तथा नृप । गुरवे मातुलादीनां स्निग्धमित्राय भूभुजे

    mātre pramātre tanmātre gurupatnyai tathā nṛpa / gurave mātulādīnāṃ snigdhamitrāya bhūbhuje

  396. इदं चापि जपेद् अम्बु दद्याद् आत्मेच्छया नृप । उपकाराय भूतानां कृतदेवादितर्पणः

    idaṃ cāpi japed ambu dadyād ātmecchayā nṛpa / upakārāya bhūtānāṃ kṛtadevāditarpaṇaḥ

  397. देवासुरास् तथा यक्षा नागा गन्धर्वराक्षसाः । पिशाचा गुह्यकाः सिद्धाः कूष्माण्डास् तरवः खगाः

    devāsurās tathā yakṣā nāgā gandharvarākṣasāḥ / piśācā guhyakāḥ siddhāḥ kūṣmāṇḍās taravaḥ khagāḥ

  398. जलेचरा भूनिलया वाय्वाधाराश् च जन्तवः । तृप्तिम् एते प्रयान्त्व् आशु मद्दत्तेनाम्बुनाखिलाः

    jalecarā bhūnilayā vāyvādhārāś ca jantavaḥ / tṛptim ete prayāntv āśu maddattenāmbunākhilāḥ

  399. नरकेषु समस्तेषु यातनासु च ये स्थिताः । तेषाम् आप्यायनायैतद् दीयते सलिलं मया

    narakeṣu samasteṣu yātanāsu ca ye sthitāḥ / teṣām āpyāyanāyaitad dīyate salilaṃ mayā

  400. ये बान्धवाबान्धवा वा ये ऽन्यजन्मनि बान्धवाः । ते तृप्तिम् अखिला यान्तु ये चास्मत्तोयकाङ्क्षिणः

    ye bāndhavābāndhavā vā ye 'nyajanmani bāndhavāḥ / te tṛptim akhilā yāntu ye cāsmattoyakāṅkṣiṇaḥ

  401. यत्र क्वचन संस्थानां क्षुत्तृष्णोपहतात्मनाम् । इदम् अप्य् अक्षयं चास्तु मया दत्तं तिलोदकम्

    yatra kvacana saṃsthānāṃ kṣuttṛṣṇopahatātmanām / idam apy akṣayaṃ cāstu mayā dattaṃ tilodakam

  402. काम्योदकप्रदानं ते मयैतत् कथितं नृप । यद् दत्त्वा प्रीणयेद् एतन् मनुष्यः सकलं जगत् । जगदाप्यायनोद्भूतं पुण्यम् आप्नोति चानघ

    kāmyodakapradānaṃ te mayaitat kathitaṃ nṛpa / yad dattvā prīṇayed etan manuṣyaḥ sakalaṃ jagat / jagadāpyāyanodbhūtaṃ puṇyam āpnoti cānagha

  403. दत्त्वा काम्योदकं सम्यग् एतेभ्यः श्रद्धयान्वितः । आचम्य च ततो दद्यात् सूर्याय सलिलाञ्जलिम्

    dattvā kāmyodakaṃ samyag etebhyaḥ śraddhayānvitaḥ / ācamya ca tato dadyāt sūryāya salilāñjalim

  404. नमो विवस्वते ब्रह्मन् भास्वते विष्णुतेजसे । जगत्सवित्रे शुचये सवित्रे कर्मदायिने

    namo vivasvate brahman bhāsvate viṣṇutejase / jagatsavitre śucaye savitre karmadāyine

  405. ततो गृहार्चनं कुर्याद् अभीष्टसुरपूजनम् । जलाभिषेकपुष्पाणां धूपादेश् च निवेदनैः

    tato gṛhārcanaṃ kuryād abhīṣṭasurapūjanam / jalābhiṣekapuṣpāṇāṃ dhūpādeś ca nivedanaiḥ

  406. अपूर्वम् अग्निहोत्रं च कुर्यात् प्राग् ब्रह्मणे ततः

    apūrvam agnihotraṃ ca kuryāt prāg brahmaṇe tataḥ

  407. प्रजापतिं समुद्दिश्य दद्याद् आहुतिम् आदरात् । गृहेभ्यः काश्यपायाथ ततो ऽनुमतये क्रमात्

    prajāpatiṃ samuddiśya dadyād āhutim ādarāt / gṛhebhyaḥ kāśyapāyātha tato 'numataye kramāt

  408. तच्छेषं मणिकेभ्यो ऽथ पर्जन्येभ्यः क्षिपेत् ततः । द्वारे धातुर् विधातुश् च मध्ये च ब्रह्मणः क्षिपेत्

    taccheṣaṃ maṇikebhyo 'tha parjanyebhyaḥ kṣipet tataḥ / dvāre dhātur vidhātuś ca madhye ca brahmaṇaḥ kṣipet

  409. गृहस्य पुरुषव्याघ्र दिग्देवान् अपि मे शृणु

    gṛhasya puruṣavyāghra digdevān api me śṛṇu

  410. इन्द्राय धर्मराजाय वरुणाय तथेन्दवे । प्राच्यादिषु बुधो दद्याद् धुतशेषात्मकं बलिम्

    indrāya dharmarājāya varuṇāya tathendave / prācyādiṣu budho dadyād dhutaśeṣātmakaṃ balim

  411. प्रागुत्तरे च दिग्भागे धन्वन्तरिबलिं बुधः । निर्वपेद् वैश्वदेवं च कर्म कुर्याद् अतः परम्

    prāguttare ca digbhāge dhanvantaribaliṃ budhaḥ / nirvaped vaiśvadevaṃ ca karma kuryād ataḥ param

  412. वायव्ये वायवे दिक्षु समस्तासु ततो दिशाम् । ब्रह्मणे चान्तरिक्षाय भानवे च क्षिपेद् बलिम्

    vāyavye vāyave dikṣu samastāsu tato diśām / brahmaṇe cāntarikṣāya bhānave ca kṣiped balim

  413. विश्वेदेवान् विश्वभूतांस् तथा विश्वपतीन् पितॄन् । यक्ष्माणं च समुद्दिश्य बलिं दद्यान् नरेश्वर

    viśvedevān viśvabhūtāṃs tathā viśvapatīn pitṝn / yakṣmāṇaṃ ca samuddiśya baliṃ dadyān nareśvara

  414. ततो ऽन्यद् अन्नम् आदाय भूमिभागे शुचौ बुधः । दद्याद् अशेषभूतेभ्यः स्वेच्छया तत्समाहितः

    tato 'nyad annam ādāya bhūmibhāge śucau budhaḥ / dadyād aśeṣabhūtebhyaḥ svecchayā tatsamāhitaḥ

  415. देवा मनुष्याः पशवो वयांसि सिद्धाः सयक्षोरगदैत्यसङ्घाः । प्रेताः पिशाचास् तरवः समस्ता ये चान्नम् इच्छन्ति मया प्रदत्तम्

    devā manuṣyāḥ paśavo vayāṃsi siddhāḥ sayakṣoragadaityasaṅghāḥ / pretāḥ piśācās taravaḥ samastā ye cānnam icchanti mayā pradattam

  416. पिपीलिकाः कीटपतंगकाद्या बुभुक्षिताः कर्मनिबन्धबद्धाः । प्रयान्तु ते तृप्तिम् इदं मयान्नं तेभ्यो विसृष्टं सुखिनो भवन्तु

    pipīlikāḥ kīṭapataṃgakādyā bubhukṣitāḥ karmanibandhabaddhāḥ / prayāntu te tṛptim idaṃ mayānnaṃ tebhyo visṛṣṭaṃ sukhino bhavantu

  417. येषां न माता न पिता न बन्धुर् नैवान्नसिद्धिर् न तदान्नम् अस्ति । तत्तृप्तये ऽन्नं भुवि दत्तम् एतत् ते यान्तु तृप्तिं मुदिता भवन्तु

    yeṣāṃ na mātā na pitā na bandhur naivānnasiddhir na tadānnam asti / tattṛptaye 'nnaṃ bhuvi dattam etat te yāntu tṛptiṃ muditā bhavantu

  418. भूतानि सर्वाणि तथान्नम् एतद् अहं च विष्णुर् न यतो ऽन्यद् अस्ति । तस्माद् अहं भूतनिकायभूतम् अन्नं प्रयच्छामि भवाय तेषाम्

    bhūtāni sarvāṇi tathānnam etad ahaṃ ca viṣṇur na yato 'nyad asti / tasmād ahaṃ bhūtanikāyabhūtam annaṃ prayacchāmi bhavāya teṣām

  419. चतुर्दशो भूतगणो य एष तत्र स्थिता ये ऽखिलभूतसङ्घाः । तृप्त्यर्थम् अन्नं हि मया निसृष्टं तेषाम् इदं ते मुदिता भवन्तु

    caturdaśo bhūtagaṇo ya eṣa tatra sthitā ye 'khilabhūtasaṅghāḥ / tṛptyartham annaṃ hi mayā nisṛṣṭaṃ teṣām idaṃ te muditā bhavantu

  420. इत्य् उच्चार्य नरो दद्याद् अन्नं श्रद्धासमन्वितः । भुवि भूतोपकाराय गृही सर्वाश्रयो यतः

    ity uccārya naro dadyād annaṃ śraddhāsamanvitaḥ / bhuvi bhūtopakārāya gṛhī sarvāśrayo yataḥ

  421. श्वचण्डालविहंगानां भुवि दद्यात् ततो नरः । ये चान्ये पतिताः केचिद् अपात्रा भुवि मानवाः

    śvacaṇḍālavihaṃgānāṃ bhuvi dadyāt tato naraḥ / ye cānye patitāḥ kecid apātrā bhuvi mānavāḥ

  422. ततो गोदोहमात्रं वै कालं तिष्ठेद् गृहाङ्गणे । अतिथिग्रहणार्थाय तदूर्ध्वं वा यथेच्छया

    tato godohamātraṃ vai kālaṃ tiṣṭhed gṛhāṅgaṇe / atithigrahaṇārthāya tadūrdhvaṃ vā yathecchayā

  423. अतिथिं तत्र संप्राप्तं पूजयेत् स्वागतादिना । तथासनप्रदानेन पादप्रक्षालनेन च

    atithiṃ tatra saṃprāptaṃ pūjayet svāgatādinā / tathāsanapradānena pādaprakṣālanena ca

  424. श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च । गच्छतश् चानुयानेन प्रीतिम् उत्पादयेद् गृही

    śraddhayā cānnadānena priyapraśnottareṇa ca / gacchataś cānuyānena prītim utpādayed gṛhī

  425. अज्ञातकुलनामानम् अन्यतः समुपागतम् । पूजयेद् अतिथिं सम्यङ् नैकग्रामनिवासिनम्

    ajñātakulanāmānam anyataḥ samupāgatam / pūjayed atithiṃ samyaṅ naikagrāmanivāsinam

  426. अकिंचनम् असंबन्धम् अन्यदेशाद् उपागतम् । असंपूज्यातिथिं भुञ्जन् भोक्तुकामं व्रजत्य् अधः

    akiṃcanam asaṃbandham anyadeśād upāgatam / asaṃpūjyātithiṃ bhuñjan bhoktukāmaṃ vrajaty adhaḥ

  427. स्वाध्यायगोत्रचरणम् अपृष्ट्वा च तथा कुलम् । हिरण्यगर्भबुद्ध्या तं मन्येताभ्यागतं गृही

    svādhyāyagotracaraṇam apṛṣṭvā ca tathā kulam / hiraṇyagarbhabuddhyā taṃ manyetābhyāgataṃ gṛhī

  428. पित्रर्थं चापरं विप्रम् एकम् अप्य् आशयेन् नृप । तद्देश्यं विदिताचारसंभूतिं पाञ्चयज्ञिकम्

    pitrarthaṃ cāparaṃ vipram ekam apy āśayen nṛpa / taddeśyaṃ viditācārasaṃbhūtiṃ pāñcayajñikam

  429. अन्नाग्रं च समुद्धृत्य हन्तकारोपकल्पितम् । निर्वापभूतं भूपाल श्रोत्रियायोपपादयेत्

    annāgraṃ ca samuddhṛtya hantakāropakalpitam / nirvāpabhūtaṃ bhūpāla śrotriyāyopapādayet

  430. दद्याच् च भिक्षात्रितयं परिव्राड्ब्रह्मचारिणाम् । इच्छया च बुधो दद्याद् विभवे सत्य् अवारितम्

    dadyāc ca bhikṣātritayaṃ parivrāḍbrahmacāriṇām / icchayā ca budho dadyād vibhave saty avāritam

  431. इत्य् एते ऽतिथयः प्रोक्ताः प्रागुक्ता भिक्षवश् च ये । चतुरः पूजयेद् एतान् नृयज्ञर्णात् प्रमुच्यते

    ity ete 'tithayaḥ proktāḥ prāguktā bhikṣavaś ca ye / caturaḥ pūjayed etān nṛyajñarṇāt pramucyate

  432. अतिथिर् यस्य भग्नाशो गृहाद् यात्य् अन्यतोमुखः । स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति

    atithir yasya bhagnāśo gṛhād yāty anyatomukhaḥ / sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati

  433. धाता प्रजापतिः शक्रो वह्निर् वसुगणो ऽर्यमा । प्रविश्यातिथिम् एते वै भुञ्जन्ते ऽन्नं नरेश्वर

    dhātā prajāpatiḥ śakro vahnir vasugaṇo 'ryamā / praviśyātithim ete vai bhuñjante 'nnaṃ nareśvara

  434. द्१,म्१ इन्स्।: तस्माद् अतिथिपूजायां यतेत सततं नरः । स केवलम् अघं भुङ्क्ते यो भुङ्क्ते त्व् अतिथिं विना

    D1,M1 ins.: tasmād atithipūjāyāṃ yateta satataṃ naraḥ / sa kevalam aghaṃ bhuṅkte yo bhuṅkte tv atithiṃ vinā

  435. ततः सुवासिनीदुःखिगर्भिणीवृद्धबालकान् । भोजयेत् संस्कृतान्नेन प्रथमं चरमं गृही

    tataḥ suvāsinīduḥkhigarbhiṇīvṛddhabālakān / bhojayet saṃskṛtānnena prathamaṃ caramaṃ gṛhī

  436. अभुक्तवत्सु चैतेषु भुञ्जन् भुङ्क्ते ऽतिदुष्कृतम् । मृतश् च नरकं गत्वा श्लेष्मभुग् जायते नरः

    abhuktavatsu caiteṣu bhuñjan bhuṅkte 'tiduṣkṛtam / mṛtaś ca narakaṃ gatvā śleṣmabhug jāyate naraḥ

  437. अस्नाताशी मलं भुङ्क्ते ह्य् अजपी पूयशोणितम् । असंस्कृतान्नभुङ् मूत्रं बालादिप्रथमं शकृत्

    asnātāśī malaṃ bhuṅkte hy ajapī pūyaśoṇitam / asaṃskṛtānnabhuṅ mūtraṃ bālādiprathamaṃ śakṛt

  438. त्३, एद्। वेङ्क्। इन्स्। अफ़्तेर् ७३, ग्२ अफ़्तेर् ७३अब्, द्३ बेफ़ोरे ७४अब्: तस्माच् छृणुष्व राजेन्द्र यथा भुञ्जीत वै गृही । भुञ्जतश् च यथा पुंसः पापबन्धो न जायते

    T3, ed. Veṅk. ins. after 73, G2 after 73ab, D3 before 74ab: tasmāc chṛṇuṣva rājendra yathā bhuñjīta vai gṛhī / bhuñjataś ca yathā puṃsaḥ pāpabandho na jāyate

  439. इह चारोग्यम् अतुलं बलवृद्धिस् तथा नृप । भवत्य् अरिष्टशान्तिश् च वैरिपक्षाभिचारिका

    iha cārogyam atulaṃ balavṛddhis tathā nṛpa / bhavaty ariṣṭaśāntiś ca vairipakṣābhicārikā

  440. स्नातो यथावत् कृत्वा च देवर्षिपितृतर्पणम् । प्रशस्तरत्नपाणिश् च भुञ्जीत प्रयतो गृही

    snāto yathāvat kṛtvā ca devarṣipitṛtarpaṇam / praśastaratnapāṇiś ca bhuñjīta prayato gṛhī

  441. कृते जपे हुते वह्नौ शुद्धवस्त्रधरो नृप । दत्त्वातिथिभ्यो विप्रेभ्यो गुरुभ्यः संश्रिताय च । पुण्यगन्धधरः शस्तमाल्यधारी नरेश्वर

    kṛte jape hute vahnau śuddhavastradharo nṛpa / dattvātithibhyo viprebhyo gurubhyaḥ saṃśritāya ca / puṇyagandhadharaḥ śastamālyadhārī nareśvara

  442. नैकवस्त्रधरो ऽथार्द्रपाणिपादो नरेश्वर । विशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः

    naikavastradharo 'thārdrapāṇipādo nareśvara / viśuddhavadanaḥ prīto bhuñjīta na vidiṅmukhaḥ

  443. प्राङ्मुखोदङ्मुखो वापि न चैवान्यमना नरः । अन्नं प्रशस्तं पथ्यं च प्रोक्षितं प्रोक्षणोदकैः

    prāṅmukhodaṅmukho vāpi na caivānyamanā naraḥ / annaṃ praśastaṃ pathyaṃ ca prokṣitaṃ prokṣaṇodakaiḥ

  444. न कुत्सिताहृतं नैव जुगुप्सावद् असंस्कृतम् । दत्त्वा तु भुक्तं शिष्येभ्यः क्षुधितेभ्यस् तथा गृही

    na kutsitāhṛtaṃ naiva jugupsāvad asaṃskṛtam / dattvā tu bhuktaṃ śiṣyebhyaḥ kṣudhitebhyas tathā gṛhī

  445. प्रशस्तशुद्धपात्रेषु भुञ्जीताकुपितो नृप

    praśastaśuddhapātreṣu bhuñjītākupito nṛpa

  446. नासन्दीसंस्थिते पात्रे नादेशे च नरेश्वर । नाकाले नातिसंकीर्णे दत्त्वाग्रं च नरो ऽग्नये

    nāsandīsaṃsthite pātre nādeśe ca nareśvara / nākāle nātisaṃkīrṇe dattvāgraṃ ca naro 'gnaye

  447. मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप । अन्यत्र फलमांसेभ्यः शुष्कशाकादिकांस् तथा

    mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa / anyatra phalamāṃsebhyaḥ śuṣkaśākādikāṃs tathā

  448. तद्वद् बादरिकेभ्यश् च गुडपक्वेभ्य एव च । भुञ्जीतोद्धृतसाराणि न कदाचिन् नरेश्वर

    tadvad bādarikebhyaś ca guḍapakvebhya eva ca / bhuñjītoddhṛtasārāṇi na kadācin nareśvara

  449. नाशेषं पुरुषो ऽश्नीयाद् अन्यत्र जगतीपते । मध्वम्बुदधिसर्पिभ्यः सक्तुभ्यश् च विवेकवान्

    nāśeṣaṃ puruṣo 'śnīyād anyatra jagatīpate / madhvambudadhisarpibhyaḥ saktubhyaś ca vivekavān

  450. अश्नीयात् तन्मना भूत्वा पूर्वं तु मधुरं रसम् । लवणाम्लौ तथा मध्ये कटुतिक्तादिकं ततः

    aśnīyāt tanmanā bhūtvā pūrvaṃ tu madhuraṃ rasam / lavaṇāmlau tathā madhye kaṭutiktādikaṃ tataḥ

  451. प्राग् द्रवं पुरुषो ऽश्नन् वै मध्ये च कठिनाशनम् । पुनर् अन्ते द्रवाशी तु बलारोग्ये न मुञ्चति

    prāg dravaṃ puruṣo 'śnan vai madhye ca kaṭhināśanam / punar ante dravāśī tu balārogye na muñcati

  452. अनिन्द्यं भक्षयेद् इत्थं वाग्यतो ऽन्नम् अकुत्सयन् । पञ्चग्रासं महामौनं प्राणाद्याप्यायनाय तत्

    anindyaṃ bhakṣayed itthaṃ vāgyato 'nnam akutsayan / pañcagrāsaṃ mahāmaunaṃ prāṇādyāpyāyanāya tat

  453. भुक्त्वा सम्यग् अथाचम्य प्राङ्मुखोदङ्मुखो ऽपि वा । यथावत् पुनर् आचामेत् पाणी प्रक्षाल्य मूलतः

    bhuktvā samyag athācamya prāṅmukhodaṅmukho 'pi vā / yathāvat punar ācāmet pāṇī prakṣālya mūlataḥ

  454. स्वस्थः प्रशान्तचित्तस् तु कृतासनपरिग्रहः । अभीष्टदेवतानां तु कुर्वीत स्मरणं नरः

    svasthaḥ praśāntacittas tu kṛtāsanaparigrahaḥ / abhīṣṭadevatānāṃ tu kurvīta smaraṇaṃ naraḥ

  455. अग्निर् आप्याययत्व् अन्नं पार्थिवं पवनेरितः । दत्तावकाशं नभसा जरयत्व् अस्तु मे सुखम्

    agnir āpyāyayatv annaṃ pārthivaṃ pavaneritaḥ / dattāvakāśaṃ nabhasā jarayatv astu me sukham

  456. अन्नं बलाय मे भूमेर् अपाम् अग्न्यनिलस्य च । भवत्व् एतत् परिणतौ ममास्त्व् अव्याहतं सुखम्

    annaṃ balāya me bhūmer apām agnyanilasya ca / bhavatv etat pariṇatau mamāstv avyāhataṃ sukham

  457. प्राणापानसमानानाम् उदानव्यानयोस् तथा । अन्नं पुष्टिकरं चास्तु ममास्त्व् अव्याहतं सुखम्

    prāṇāpānasamānānām udānavyānayos tathā / annaṃ puṣṭikaraṃ cāstu mamāstv avyāhataṃ sukham

  458. अगस्तिर् अग्निर् वडवानलश् च भुक्तं मयान्नं जरयत्व् अशेषम् । सुखं च मे तत्परिणामसंभवं यच्छन्त्व् अरोगो मम चास्तु देहे

    agastir agnir vaḍavānalaś ca bhuktaṃ mayānnaṃ jarayatv aśeṣam / sukhaṃ ca me tatpariṇāmasaṃbhavaṃ yacchantv arogo mama cāstu dehe

  459. द्४ इन्स्।: विष्णुः समस्तेन्द्रियदेहदेही प्रधानभूतो भगवान् यथैकः । सत्येन तेनान्नम् अशेषम् एतद् आरोग्यदं मे परिणामम् एतु

    D4 ins.: viṣṇuḥ samastendriyadehadehī pradhānabhūto bhagavān yathaikaḥ / satyena tenānnam aśeṣam etad ārogyadaṃ me pariṇāmam etu

  460. विष्णुर् अत्ता तथैवान्नं परिणामश् च वै यथा । सत्येन तेन वै भुक्तं जीर्यत्व् अन्नम् इदं तथा

    viṣṇur attā tathaivānnaṃ pariṇāmaś ca vai yathā / satyena tena vai bhuktaṃ jīryatv annam idaṃ tathā

  461. इत्य् उच्चार्य स्वहस्तेन परिमृज्य तथोदरम् । अनायासप्रदायीनि कुर्यात् कर्माण्य् अतन्द्रितः

    ity uccārya svahastena parimṛjya tathodaram / anāyāsapradāyīni kuryāt karmāṇy atandritaḥ

  462. सच्छास्त्रादिविनोदेन सन्मार्गाद् अविरोधिना । दिनं नयेत् ततः संध्याम् उपतिष्ठेत् समाहितः

    sacchāstrādivinodena sanmārgād avirodhinā / dinaṃ nayet tataḥ saṃdhyām upatiṣṭhet samāhitaḥ

  463. दिनान्तसंध्यां सूर्येण पूर्वाम् ऋक्षैर् युतां बुधः । उपतिष्ठेद् यथान्यायं सम्यग् आचम्य पार्थिव

    dināntasaṃdhyāṃ sūryeṇa pūrvām ṛkṣair yutāṃ budhaḥ / upatiṣṭhed yathānyāyaṃ samyag ācamya pārthiva

  464. सर्वकालम् उपस्थानं संध्ययोः पार्थिवेष्यते । अन्यत्रसूतकाशौचविभ्रमातुरभीतितः

    sarvakālam upasthānaṃ saṃdhyayoḥ pārthiveṣyate / anyatrasūtakāśaucavibhramāturabhītitaḥ

  465. सूर्येणाभ्युदितो यश् च त्यक्तः सूर्येण च स्वपन् । अन्यत्रातुरभावात् तु प्रायश्चित्तीयते नरः

    sūryeṇābhyudito yaś ca tyaktaḥ sūryeṇa ca svapan / anyatrāturabhāvāt tu prāyaścittīyate naraḥ

  466. तस्माद् अनुदिते सूर्ये समुत्थाय महीपते । उपतिष्ठेन् नरः संध्याम् अस्वपंश् च दिनान्तजाम्

    tasmād anudite sūrye samutthāya mahīpate / upatiṣṭhen naraḥ saṃdhyām asvapaṃś ca dināntajām

  467. उपतिष्ठन्ति ये संध्यां न पूर्वां न च पश्चिमाम् । व्रजन्ति ते दुरात्मानस् तामिस्रं नरकं नृप

    upatiṣṭhanti ye saṃdhyāṃ na pūrvāṃ na ca paścimām / vrajanti te durātmānas tāmisraṃ narakaṃ nṛpa

  468. पुनः पाकम् उपादाय सायम् अप्य् अवनीपते । वैश्वदेवनिमित्तं वै पत्न्य् अमन्त्रं बलिं हरेत्

    punaḥ pākam upādāya sāyam apy avanīpate / vaiśvadevanimittaṃ vai patny amantraṃ baliṃ haret

  469. तत्रापि श्वपचादिभ्यस् तथैवान्नापवर्जनम्

    tatrāpi śvapacādibhyas tathaivānnāpavarjanam

  470. अतिथिं चागतं तत्र स्वशक्त्या पूजयेद् बुधः । पादशौचासनप्रह्वस्वागतोक्त्या च पूजनम् । ततश् चान्नप्रदानेन शयनेन च पार्थिव

    atithiṃ cāgataṃ tatra svaśaktyā pūjayed budhaḥ / pādaśaucāsanaprahvasvāgatoktyā ca pūjanam / tataś cānnapradānena śayanena ca pārthiva

  471. दिनातिथौ तु विमुखे गते यत् पातकं नृप । तद् एवाष्टगुणं पुंसां सूर्योढे विमुखे गते

    dinātithau tu vimukhe gate yat pātakaṃ nṛpa / tad evāṣṭaguṇaṃ puṃsāṃ sūryoḍhe vimukhe gate

  472. तस्मात् स्वशक्त्या राजेन्द्र सूर्योढम् अतिथिं नरः । पूजयेत् पूजिते तस्मिन् पूजिताः सर्वदेवताः

    tasmāt svaśaktyā rājendra sūryoḍham atithiṃ naraḥ / pūjayet pūjite tasmin pūjitāḥ sarvadevatāḥ

  473. अन्नशाकाम्बुदानेन स्वशक्त्या प्रीणयेत् पुमान् । शयनप्रस्तरमहीप्रदानैर् अथवापि तम्

    annaśākāmbudānena svaśaktyā prīṇayet pumān / śayanaprastaramahīpradānair athavāpi tam

  474. कृतपादादिशौचश् च भुक्त्वा सायं ततो गृही । गच्छेद् अस्फुटितां शय्याम् अपि दारुमयीं नृप

    kṛtapādādiśaucaś ca bhuktvā sāyaṃ tato gṛhī / gacched asphuṭitāṃ śayyām api dārumayīṃ nṛpa

  475. नाविशालां न वा भग्नां नासमां मलिनां न च । न च जन्तुमयीं शय्याम् अधितिष्ठेद् अनास्तृताम्

    nāviśālāṃ na vā bhagnāṃ nāsamāṃ malināṃ na ca / na ca jantumayīṃ śayyām adhitiṣṭhed anāstṛtām

  476. प्राच्यां दिशि शिरः शस्तं याम्यायाम् अथवा नृप । सदैव स्वपतः पुंसो विपरीतं तु रोगदम्

    prācyāṃ diśi śiraḥ śastaṃ yāmyāyām athavā nṛpa / sadaiva svapataḥ puṃso viparītaṃ tu rogadam

  477. ऋताव् उपगमः शस्तः स्वपत्न्याम् अवनीपते । पुन्नामर्क्षे शुभे काले ज्येष्ठयुग्मासु रात्रिषु

    ṛtāv upagamaḥ śastaḥ svapatnyām avanīpate / punnāmarkṣe śubhe kāle jyeṣṭhayugmāsu rātriṣu

  478. नास्नातां तु स्त्रियं गच्छेन् नातुरां न रजस्वलाम् । नानिष्टां न प्रकुपितां नाप्रशस्तां न गर्भिणीम्

    nāsnātāṃ tu striyaṃ gacchen nāturāṃ na rajasvalām / nāniṣṭāṃ na prakupitāṃ nāpraśastāṃ na garbhiṇīm

  479. नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् । क्षुत्क्षामाम् अतिभुक्तां वा स्वयं चैभिर् गुणैर् युतः

    nādakṣiṇāṃ nānyakāmāṃ nākāmāṃ nānyayoṣitam / kṣutkṣāmām atibhuktāṃ vā svayaṃ caibhir guṇair yutaḥ

  480. स्नातः स्रग्गन्धधृक् प्रीतः नाध्मातः क्षुधितो ऽपि वा । सकामः सानुरागश् च व्यवायं पुरुषो व्रजेत्

    snātaḥ sraggandhadhṛk prītaḥ nādhmātaḥ kṣudhito 'pi vā / sakāmaḥ sānurāgaś ca vyavāyaṃ puruṣo vrajet

  481. चतुर्दश्य् अष्टमी चैव अमावास्याथ पूर्णिमा । पर्वाण्य् एतानि राजेन्द्र रविसंक्रान्तिर् एव च

    caturdaśy aṣṭamī caiva amāvāsyātha pūrṇimā / parvāṇy etāni rājendra ravisaṃkrāntir eva ca

  482. तैलस्त्रीमांससंभोगी पर्वस्व् एतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः

    tailastrīmāṃsasaṃbhogī parvasv eteṣu vai pumān / viṇmūtrabhojanaṃ nāma prayāti narakaṃ mṛtaḥ

  483. अशेषपर्वस्व् एतेषु तस्मात् संयमिभिर् बुधैः । भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर् नरैः

    aśeṣaparvasv eteṣu tasmāt saṃyamibhir budhaiḥ / bhāvyaṃ sacchāstradevejyādhyānajapyaparair naraiḥ

  484. नान्ययोनाव् अयोनौ वा नोपयुक्तौषधस् तथा । देवद्विजगुरूणां च व्यवायी नाश्रये भवेत्

    nānyayonāv ayonau vā nopayuktauṣadhas tathā / devadvijagurūṇāṃ ca vyavāyī nāśraye bhavet

  485. चैत्यचत्वरतीरेषु नैव गोष्ठे चतुष्पथे । नैव श्मशानोपवने सलिलेषु महीपते

    caityacatvaratīreṣu naiva goṣṭhe catuṣpathe / naiva śmaśānopavane salileṣu mahīpate

  486. प्रोक्तपर्वस्व् अशेषेषु नैव भूपाल संध्ययोः । गच्छेद् व्यवायं मतिमान् न मूत्रोच्चारपीडितः

    proktaparvasv aśeṣeṣu naiva bhūpāla saṃdhyayoḥ / gacched vyavāyaṃ matimān na mūtroccārapīḍitaḥ

  487. पर्वस्व् अभिगमो ऽधन्यो दिवा पापप्रदो नृप । भुवि रोगप्रदो नॄणाम् अप्रशस्तो जलाशये

    parvasv abhigamo 'dhanyo divā pāpaprado nṛpa / bhuvi rogaprado nṝṇām apraśasto jalāśaye

  488. परदारान् न गच्छेत मनसापि कदाचन । किम् उ वाचास्थिबन्धो ऽपि नास्ति तेषु व्यवायिनाम्

    paradārān na gaccheta manasāpi kadācana / kim u vācāsthibandho 'pi nāsti teṣu vyavāyinām

  489. मृतो नरकम् अभ्येति हीयते ऽत्रापि चायुषः । परदाररतिः पुंसाम् उभयत्रापि भीतिदा

    mṛto narakam abhyeti hīyate 'trāpi cāyuṣaḥ / paradāraratiḥ puṃsām ubhayatrāpi bhītidā

  490. इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् । यथोक्तदोषहीनेषु सकामेष्व् अनृताव् अपि

    iti matvā svadāreṣu ṛtumatsu budho vrajet / yathoktadoṣahīneṣu sakāmeṣv anṛtāv api

  491. ______________________________________________________ §और्व उवाच: देवगोब्राह्मणान् सिद्धवृद्धाचार्यांस् तथार्चयेत् । द्विकालं च नमेत् संध्याम् अग्नीन् उपचरेत् तथा

    ______________________________________________________ §aurva uvāca: devagobrāhmaṇān siddhavṛddhācāryāṃs tathārcayet / dvikālaṃ ca namet saṃdhyām agnīn upacaret tathā

  492. सदानुपहते वस्त्रे प्रशस्ताश् च तथौषधीः । गारुडानि च रत्नानि बिभृयात् प्रयतो नरः

    sadānupahate vastre praśastāś ca tathauṣadhīḥ / gāruḍāni ca ratnāni bibhṛyāt prayato naraḥ

  493. प्रस्निग्धामलकेशश् च सुगन्धश् चारुवेषधृक् । सिताः सुमनसो हृद्या बिभृयाच् च नरः सदा

    prasnigdhāmalakeśaś ca sugandhaś cāruveṣadhṛk / sitāḥ sumanaso hṛdyā bibhṛyāc ca naraḥ sadā

  494. किंचित् परस्वं न हरेन् नाल्पम् अप्य् अप्रियं वदेत् । प्रियं च नानृतं ब्रूयान् नान्यदोषान् उदीरयेत्

    kiṃcit parasvaṃ na haren nālpam apy apriyaṃ vadet / priyaṃ ca nānṛtaṃ brūyān nānyadoṣān udīrayet

  495. नान्यस्त्रियं तथा वैरं रोचयेत् पुरुषेश्वर । न दुष्टयानम् आरोहेत् कूलच्छायां न संश्रयेत्

    nānyastriyaṃ tathā vairaṃ rocayet puruṣeśvara / na duṣṭayānam ārohet kūlacchāyāṃ na saṃśrayet

  496. विद्विष्टपतितोन्मत्तबहुवैरादिकीटकैः । बन्धकीबन्धकीभर्तृक्षुद्रानृतकथैः सह

    vidviṣṭapatitonmattabahuvairādikīṭakaiḥ / bandhakībandhakībhartṛkṣudrānṛtakathaiḥ saha

  497. तथातिव्ययशीलैश् च परिवादरतैः शठैः । बुधो मैत्रीं न कुर्वीत नैकः पन्थानम् आश्रयेत्

    tathātivyayaśīlaiś ca parivādarataiḥ śaṭhaiḥ / budho maitrīṃ na kurvīta naikaḥ panthānam āśrayet

  498. नावगाहेज् जलौघस्य वेगम् अग्रे नरेश्वर । प्रदीप्तं वेश्म न विशेन् नारोहेच् छिखरं तरोः

    nāvagāhej jalaughasya vegam agre nareśvara / pradīptaṃ veśma na viśen nārohec chikharaṃ taroḥ

  499. न कुर्याद् दन्तसंघर्षं न कुष्णीयाच् च नासिकाम् । नासंवृतमुखो जृम्भेच् श्वासकासौ च वर्जयेत्

    na kuryād dantasaṃgharṣaṃ na kuṣṇīyāc ca nāsikām / nāsaṃvṛtamukho jṛmbhec śvāsakāsau ca varjayet

  500. नोच्चैर् हसेत् सशब्दं च न मुञ्चेत् पवनं बुधः । नखान् न खादयेच् छिन्द्यान् न तृणं न महीं लिखेत्

    noccair haset saśabdaṃ ca na muñcet pavanaṃ budhaḥ / nakhān na khādayec chindyān na tṛṇaṃ na mahīṃ likhet

  501. न श्मश्रु भक्षयेल् लोष्टं न मृद् नीयाद् विचक्षणः । ज्योतींष्य् अमेध्यः शस्तानि नाभिवीक्षेत च प्रभो

    na śmaśru bhakṣayel loṣṭaṃ na mṛd nīyād vicakṣaṇaḥ / jyotīṃṣy amedhyaḥ śastāni nābhivīkṣeta ca prabho

  502. नग्नां परस्त्रियं चैव सूर्यं चास्तमनोदये । न हुंकुर्याच् छवं चैव शवगन्धो हि सोमजः

    nagnāṃ parastriyaṃ caiva sūryaṃ cāstamanodaye / na huṃkuryāc chavaṃ caiva śavagandho hi somajaḥ

  503. चतुष्पथं चैत्यतरुं श्मशानोपवनानि च । दुष्टस्त्रीसंनिकर्षं च वर्जयेन् निशि सर्वदा

    catuṣpathaṃ caityataruṃ śmaśānopavanāni ca / duṣṭastrīsaṃnikarṣaṃ ca varjayen niśi sarvadā

  504. पूज्यदेवद्विजज्योतिश्छायां नातिक्रमेद् बुधः । नैकः शून्याटवीं गच्छेन् न च शून्यगृहे वसेत्

    pūjyadevadvijajyotiśchāyāṃ nātikramed budhaḥ / naikaḥ śūnyāṭavīṃ gacchen na ca śūnyagṛhe vaset

  505. केशास्थिकण्टकामेध्यबलिभस्मतुषांस् तथा । स्नानार्द्रधरणीं चैव दूरतः परिवर्जयेत्

    keśāsthikaṇṭakāmedhyabalibhasmatuṣāṃs tathā / snānārdradharaṇīṃ caiva dūrataḥ parivarjayet

  506. नानार्यान् आश्रयेत् कांश्चिन् न जिह्मं रोचयेद् बुधः । उपसर्पेत न व्यालांश् चिरं तिष्ठेन् न चोत्थितः

    nānāryān āśrayet kāṃścin na jihmaṃ rocayed budhaḥ / upasarpeta na vyālāṃś ciraṃ tiṣṭhen na cotthitaḥ

  507. अतीव जागरस्वप्ने तद्वत् स्थानासने बुधः । न सेवेत तथा शय्यां व्यायामं च नरेश्वर

    atīva jāgarasvapne tadvat sthānāsane budhaḥ / na seveta tathā śayyāṃ vyāyāmaṃ ca nareśvara

  508. दंष्ट्रिणः शृङ्गिणश् चैव प्राज्ञो दूरेण वर्जयेत् । अवश्यायं च राजेन्द्र पुरो वातातपौ तथा

    daṃṣṭriṇaḥ śṛṅgiṇaś caiva prājño dūreṇa varjayet / avaśyāyaṃ ca rājendra puro vātātapau tathā

  509. न स्नायान् न स्वपेन् नग्नो न चैवोपस्पृशेद् बुधः । मुक्तकच्छश् च नाचामेद् देवाद्यर्चां च वर्जयेत्

    na snāyān na svapen nagno na caivopaspṛśed budhaḥ / muktakacchaś ca nācāmed devādyarcāṃ ca varjayet

  510. होमदेवार्चनाद्यासु क्रियास्व् आचमने तथा । नैकवस्त्रः प्रवर्तेत द्विजवाचनके जपे

    homadevārcanādyāsu kriyāsv ācamane tathā / naikavastraḥ pravarteta dvijavācanake jape

  511. नासमञ्जसशीलैस् तु सहासीत कदाचन । सद्वृत्तसंनिकर्षो हि क्षणार्धम् अपि शस्यते

    nāsamañjasaśīlais tu sahāsīta kadācana / sadvṛttasaṃnikarṣo hi kṣaṇārdham api śasyate

  512. विरोधं नोत्तमैर् गच्छेन् नाधमैश् च सदा बुधः । विवाहश् च विवादश् च तुल्यशीलैर् नृपेष्यते

    virodhaṃ nottamair gacchen nādhamaiś ca sadā budhaḥ / vivāhaś ca vivādaś ca tulyaśīlair nṛpeṣyate

  513. नारभेत कलिं प्राज्ञः शुष्कवैरं च वर्जयेत् । अप्य् अल्पहानिः सोढव्या वैरेणार्थागमं त्यजेत्

    nārabheta kaliṃ prājñaḥ śuṣkavairaṃ ca varjayet / apy alpahāniḥ soḍhavyā vaireṇārthāgamaṃ tyajet

  514. स्नातो नाङ्गानि निर्मार्जेत् स्नानशाट्या न पाणिना । न च निर्धूनयेत् केशान् नाचामेच् चैव चोत्थितः

    snāto nāṅgāni nirmārjet snānaśāṭyā na pāṇinā / na ca nirdhūnayet keśān nācāmec caiva cotthitaḥ

  515. पादेन नाक्रमेत् पादं न पूज्याभिमुखं नयेत् । वीरासनं गुरोर् अग्रे भजेत विनयान्वितः

    pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet / vīrāsanaṃ guror agre bhajeta vinayānvitaḥ

  516. अपसव्यं न गच्छेच् च देवागारचतुष्पथान् । माङ्गल्यपूज्यांश् च ततो विपरीतान् न दक्षिणम्

    apasavyaṃ na gacchec ca devāgāracatuṣpathān / māṅgalyapūjyāṃś ca tato viparītān na dakṣiṇam

  517. सोमाग्न्यर्काम्बुवायूनां पूज्यानां च न संमुखम् । कुर्यात् ष्ठीवनविण्मूत्रसमुत्सर्गं च पण्डितः

    somāgnyarkāmbuvāyūnāṃ pūjyānāṃ ca na saṃmukham / kuryāt ṣṭhīvanaviṇmūtrasamutsargaṃ ca paṇḍitaḥ

  518. तिष्ठन् न मूत्रयेत् तद्वत् पन्थानं नावमूत्रयेत् । श्लेष्मविण्मूत्ररक्तानि सर्वदैव न लङ्घयेत्

    tiṣṭhan na mūtrayet tadvat panthānaṃ nāvamūtrayet / śleṣmaviṇmūtraraktāni sarvadaiva na laṅghayet

  519. श्लेष्मसिंहानकोत्सर्गो नान्नकाले प्रशस्यते । बलिमङ्गलजप्यादौ न होमे न महाजने

    śleṣmasiṃhānakotsargo nānnakāle praśasyate / balimaṅgalajapyādau na home na mahājane

  520. योषितो नावमन्येत न चासां विश्वसेद् बुधः । न चैवेर्ष्युर् भवेत् तासु नाधिकुर्यात् कदाचन

    yoṣito nāvamanyeta na cāsāṃ viśvased budhaḥ / na caiverṣyur bhavet tāsu nādhikuryāt kadācana

  521. मङ्गल्यपुष्परत्नाज्यपूज्यान् अनभिवाद्य च । न निष्क्रमेद् गृहात् प्राज्ञः सदाचारपरो नृप

    maṅgalyapuṣparatnājyapūjyān anabhivādya ca / na niṣkramed gṛhāt prājñaḥ sadācāraparo nṛpa

  522. चतुष्पथान् नमस् कुर्यात् काले होमपरो भवेत् । दीनान् अभ्युद्धरेत् साधून् उपासीत बहुश्रुतान्

    catuṣpathān namas kuryāt kāle homaparo bhavet / dīnān abhyuddharet sādhūn upāsīta bahuśrutān

  523. देवर्षिपूजकः सम्यक् पितृपिण्डोदकप्रदः । सत्कर्ता चातिथीनां यः स लोकान् उत्तमान् व्रजेत्

    devarṣipūjakaḥ samyak pitṛpiṇḍodakapradaḥ / satkartā cātithīnāṃ yaḥ sa lokān uttamān vrajet

  524. द्५ इन्स्।: एकाग्रचित्तस्य दृढव्रतस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य । हितं मितं प्रियं काले वश्यात्मा यो ऽभिभाषते । स याति लोकान् आह्लादहेतुभूतान् नृपाक्षयान्

    D5 ins.: ekāgracittasya dṛḍhavratasya sarvendriyaprītinivartakasya / hitaṃ mitaṃ priyaṃ kāle vaśyātmā yo 'bhibhāṣate / sa yāti lokān āhlādahetubhūtān nṛpākṣayān

  525. धीमान् ह्रीमान् क्षमायुक्त आस्तिको विनयान्वितः । विद्याभिजनवृद्धानां याति लोकान् अनुत्तमान्

    dhīmān hrīmān kṣamāyukta āstiko vinayānvitaḥ / vidyābhijanavṛddhānāṃ yāti lokān anuttamān

  526. अकालगर्जितादौ तु पर्वस्व् आशौचकादिषु । अनध्यायं बुधः कुर्याद् उपरागादिके तथा

    akālagarjitādau tu parvasv āśaucakādiṣu / anadhyāyaṃ budhaḥ kuryād uparāgādike tathā

  527. शमं नयति यः क्रुद्धान् सर्वबन्धुर् अमत्सरी । भीताश्वासनकृत् साधुः स्वर्गस् तस्याल्पकं फलम्

    śamaṃ nayati yaḥ kruddhān sarvabandhur amatsarī / bhītāśvāsanakṛt sādhuḥ svargas tasyālpakaṃ phalam

  528. वर्षातपादिके छत्री दण्डी रात्र्यटवीषु च । शरीरत्राणकामो वै सोपानत्कः सदा व्रजेत्

    varṣātapādike chatrī daṇḍī rātryaṭavīṣu ca / śarīratrāṇakāmo vai sopānatkaḥ sadā vrajet

  529. नोर्ध्वं न तिर्यग् दूरं वा निरीक्षन् पर्यटेद् बुधः । युगमात्रं महीपृष्ठं नरो गच्छेद् विलोकयन्

    nordhvaṃ na tiryag dūraṃ vā nirīkṣan paryaṭed budhaḥ / yugamātraṃ mahīpṛṣṭhaṃ naro gacched vilokayan

  530. दोषहेतून् अशेषांश् च वश्यात्मा यो निरस्यति । तस्य धर्मार्थकामानां हानिर् नाल्पापि जायते

    doṣahetūn aśeṣāṃś ca vaśyātmā yo nirasyati / tasya dharmārthakāmānāṃ hānir nālpāpi jāyate

  531. ग्२।३,एद्। वेङ्क्। इन्स्।: पापे ऽप्य् अपापः पुरुषे ऽप्य् अभिधत्ते प्रियाणि यः । मैत्रीद्रवान्तःकरणस् तस्य मुक्तिः करे स्थिता

    G2.3,ed. Veṅk. ins.: pāpe 'py apāpaḥ puruṣe 'py abhidhatte priyāṇi yaḥ / maitrīdravāntaḥkaraṇas tasya muktiḥ kare sthitā

  532. ये कामक्रोधलोभानां वीतरागा न गोचरे । सदाचारस्थितास् तेषाम् अनुभावैर् धृता मही

    ye kāmakrodhalobhānāṃ vītarāgā na gocare / sadācārasthitās teṣām anubhāvair dhṛtā mahī

  533. तस्मात् सत्यं वदेत् प्राज्ञो यत् परप्रीतिकारणम् । सत्यं यत् परदुःखाय तत्र मौनपरो भवेत्

    tasmāt satyaṃ vadet prājño yat paraprītikāraṇam / satyaṃ yat paraduḥkhāya tatra maunaparo bhavet

  534. प्रियम् उक्तं हितं नैतद् इति मत्वा न तद् वदेत् । श्रेयस् तत्र हितं वाक्यं यद्य् अप्य् अत्यन्तम् अप्रियम्

    priyam uktaṃ hitaṃ naitad iti matvā na tad vadet / śreyas tatra hitaṃ vākyaṃ yady apy atyantam apriyam

  535. प्राणिनाम् उपकाराय यद् एवेह परत्र च । कर्मणा मनसा वाचा तद् एव मतिमान् भजेत्

    prāṇinām upakārāya yad eveha paratra ca / karmaṇā manasā vācā tad eva matimān bhajet

  536. ______________________________________________________ §और्व उवाच: सचैलस्य पितुः स्नानं जाते पुत्रे विधीयते । जातकर्म तथा कुर्याच् श्राद्धम् अभ्युदये च यत्

    ______________________________________________________ §aurva uvāca: sacailasya pituḥ snānaṃ jāte putre vidhīyate / jātakarma tathā kuryāc śrāddham abhyudaye ca yat

  537. युग्मान् देवांश् च पित्र्यांश् च सम्यक् सव्यक्रमाद् द्विजान् । पूजयेद् भोजयेच् चैव तन्मना नान्यमानसः

    yugmān devāṃś ca pitryāṃś ca samyak savyakramād dvijān / pūjayed bhojayec caiva tanmanā nānyamānasaḥ

  538. दध्यक्षतैः सबदरैः प्राङ्मुखोदङ्मुखो ऽपि वा । देवतीर्थेन वै पिण्डान् दद्यात् कायेन वा नृप

    dadhyakṣataiḥ sabadaraiḥ prāṅmukhodaṅmukho 'pi vā / devatīrthena vai piṇḍān dadyāt kāyena vā nṛpa

  539. नान्दीमुखः पितृगणस् तेन श्राद्धेन पार्थिव । प्रीयते तत् तु कर्तव्यं पुरुषैः सर्ववृद्धिषु

    nāndīmukhaḥ pitṛgaṇas tena śrāddhena pārthiva / prīyate tat tu kartavyaṃ puruṣaiḥ sarvavṛddhiṣu

  540. कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनः । नामकर्मणि बालानां चूडाकर्मादिके तथा

    kanyāputravivāheṣu praveśe navaveśmanaḥ / nāmakarmaṇi bālānāṃ cūḍākarmādike tathā

  541. सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने । नान्दीमुखं पितृगणं पूजयेत् प्रयतो गृही

    sīmantonnayane caiva putrādimukhadarśane / nāndīmukhaṃ pitṛgaṇaṃ pūjayet prayato gṛhī

  542. पितृपूजाक्रमः प्रोक्तो वृद्धाव् एष समासतः । श्रूयताम् अवनीपाल प्रेतकर्मक्रियाविधिः

    pitṛpūjākramaḥ prokto vṛddhāv eṣa samāsataḥ / śrūyatām avanīpāla pretakarmakriyāvidhiḥ

  543. प्रेतदेहं शुभैः स्नानैः स्नापितं स्रग्विभूषितम् । दग्ध्वा ग्रामाद् बहिः स्नात्वा सचैलाः सलिलाशये

    pretadehaṃ śubhaiḥ snānaiḥ snāpitaṃ sragvibhūṣitam / dagdhvā grāmād bahiḥ snātvā sacailāḥ salilāśaye

  544. यत्र तत्र स्थितायैतद् अमुकायेति वादिनः । दक्षिणाभिमुखा दद्युर् बान्धवाः सलिलाञ्जलिम्

    yatra tatra sthitāyaitad amukāyeti vādinaḥ / dakṣiṇābhimukhā dadyur bāndhavāḥ salilāñjalim

  545. प्रविष्टाश् च समं गोभिर् ग्रामं नक्षत्रदर्शने । कटधर्मांस् ततः कुर्युर् भूमौ प्रस्तरशायिनः

    praviṣṭāś ca samaṃ gobhir grāmaṃ nakṣatradarśane / kaṭadharmāṃs tataḥ kuryur bhūmau prastaraśāyinaḥ

  546. दातव्यो ऽनुदिनं पिण्डः प्रेताय भुवि पार्थिव । दिवा च भक्तं भोक्तव्यम् अमांसं मनुजर्षभ

    dātavyo 'nudinaṃ piṇḍaḥ pretāya bhuvi pārthiva / divā ca bhaktaṃ bhoktavyam amāṃsaṃ manujarṣabha

  547. दिनानि तानि चेच्छातः कर्तव्यं विप्रभोजनम् । प्रेतस् तृप्तिं तथा याति बन्धुवर्गेण भुञ्जता

    dināni tāni cecchātaḥ kartavyaṃ viprabhojanam / pretas tṛptiṃ tathā yāti bandhuvargeṇa bhuñjatā

  548. प्रथमे ऽह्नि तृतीये च सप्तमे नवमे तथा । वस्त्रत्यागं बहिःस्नानं कृत्वा दद्यात् तिलोदकम्

    prathame 'hni tṛtīye ca saptame navame tathā / vastratyāgaṃ bahiḥsnānaṃ kṛtvā dadyāt tilodakam

  549. श्२,द्७ इन्स्।: चतुर्थे ऽह्नि च कर्तव्यं भस्मास्थिचयनं नृप । तदूर्ध्वम् अङ्गस्पर्शश् च सपिण्डानाम् अपीष्यते

    Ś2,D7 ins.: caturthe 'hni ca kartavyaṃ bhasmāsthicayanaṃ nṛpa / tadūrdhvam aṅgasparśaś ca sapiṇḍānām apīṣyate

  550. योग्याः सर्वक्रियाणां तु समानसलिलास् तथा । अनुलेपनपुष्पादिभोगाद् अन्यत्र पार्थिव

    yogyāḥ sarvakriyāṇāṃ tu samānasalilās tathā / anulepanapuṣpādibhogād anyatra pārthiva

  551. शय्यासनोपभोगश् च सपिण्डानाम् अपीष्यते । भस्मास्थिचयनाद् ऊर्ध्वं संयोगो न तु योषिताम्

    śayyāsanopabhogaś ca sapiṇḍānām apīṣyate / bhasmāsthicayanād ūrdhvaṃ saṃyogo na tu yoṣitām

  552. बाले देशान्तरस्थे च पतिते च मुनौ मृते । सद्यः शौचं तथेच्छातो जलाग्न्युद्बन्धनादिषु

    bāle deśāntarasthe ca patite ca munau mṛte / sadyaḥ śaucaṃ tathecchāto jalāgnyudbandhanādiṣu

  553. मृतबन्धोर् दशाहानि कुलस्यान्नं न भुज्यते । दानं प्रतिग्रहो यज्ञः स्वाध्यायश् च निवर्तते

    mṛtabandhor daśāhāni kulasyānnaṃ na bhujyate / dānaṃ pratigraho yajñaḥ svādhyāyaś ca nivartate

  554. विप्रस्यैतद् द्वादशाहं राजन्यस्याप्य् अशौचकम् । अर्धमासं तु वैश्यस्य मासं शूद्रस्य शुद्धये

    viprasyaitad dvādaśāhaṃ rājanyasyāpy aśaucakam / ardhamāsaṃ tu vaiśyasya māsaṃ śūdrasya śuddhaye

  555. अयुजो भोजयेत् कामं द्विजान् आद्ये ततो दिने । दद्याद् दर्भेषु पिण्डं च प्रेतायोच्छिष्टसंनिधौ

    ayujo bhojayet kāmaṃ dvijān ādye tato dine / dadyād darbheṣu piṇḍaṃ ca pretāyocchiṣṭasaṃnidhau

  556. वार्यायुधप्रतोदास् तु दण्डश् च द्विजभोजनात् । स्प्रष्टव्यो ऽनन्तरं वर्णैः शुध्येरंस् ते ततः क्रमात्

    vāryāyudhapratodās tu daṇḍaś ca dvijabhojanāt / spraṣṭavyo 'nantaraṃ varṇaiḥ śudhyeraṃs te tataḥ kramāt

  557. ततः स्ववर्णधर्मा ये विप्रादीनाम् उदाहृताः । तान् कुर्वीत पुमाञ् जीवेन् निजधर्मार्जनैस् तथा

    tataḥ svavarṇadharmā ye viprādīnām udāhṛtāḥ / tān kurvīta pumāñ jīven nijadharmārjanais tathā

  558. मृते ऽहनि च कर्तव्यम् एकोद्दिष्टम् अतः परम् । आह्वानादिक्रियादैवनियोगरहितं हि तत्

    mṛte 'hani ca kartavyam ekoddiṣṭam ataḥ param / āhvānādikriyādaivaniyogarahitaṃ hi tat

  559. एको ऽर्घ्यस् तत्र दातव्यस् तथैवैकं पवित्रकम् । प्रेताय पिण्डो दातव्यो भुक्तवत्सु द्विजातिषु

    eko 'rghyas tatra dātavyas tathaivaikaṃ pavitrakam / pretāya piṇḍo dātavyo bhuktavatsu dvijātiṣu

  560. प्रश्नश् च तत्राभिरतिर् यजमानद्विजन्मनाम् । अक्षय्यम् अमुकस्येति वक्तव्यं विरतौ तथा

    praśnaś ca tatrābhiratir yajamānadvijanmanām / akṣayyam amukasyeti vaktavyaṃ viratau tathā

  561. एकोद्दिष्टमयो धर्म इत्थम् आवत्सरात् स्मृतः । सपिण्डीकरणं तस्मिन् काले राजेन्द्र तच् छृणु

    ekoddiṣṭamayo dharma ittham āvatsarāt smṛtaḥ / sapiṇḍīkaraṇaṃ tasmin kāle rājendra tac chṛṇu

  562. एकोद्दिष्टविधानेन कार्यं तद् अपि पार्थिव ॥ विप्_३,१३।२७अब् ॥ अफ़्तेर् २७अब्, द्३,ग्२,एद्। वेङ्क्। इन्स्।: संवत्सरे ऽथ षष्ठे वा मासि वा द्वादशे ऽह्नि वा ॥ विप्_३,१३।२७अब्*२७ ॥ तिलगन्धोदकैर् युक्तं तत्र पात्रचतुष्टयम् ॥ विप्_३,१३।२७च्द् ॥ पात्रं प्रेतस्य तत्रैकं पैत्रं पात्रत्रयं तथा । सेचयेत् पितृपात्रेषु प्रेतपात्रं नृप त्रिषु

    ekoddiṣṭavidhānena kāryaṃ tad api pārthiva // ViP_3,13.27ab // After 27ab, D3,G2,ed. Veṅk. ins.: saṃvatsare 'tha ṣaṣṭhe vā māsi vā dvādaśe 'hni vā // ViP_3,13.27ab*27 // tilagandhodakair yuktaṃ tatra pātracatuṣṭayam // ViP_3,13.27cd // pātraṃ pretasya tatraikaṃ paitraṃ pātratrayaṃ tathā / secayet pitṛpātreṣu pretapātraṃ nṛpa triṣu

  563. ततः पितृत्वम् आपन्ने तस्मिन् प्रेते महीपते । श्राद्धधर्मैर् अशेषैस् तु तत्पूर्वान् अर्चयेत् पितॄन्

    tataḥ pitṛtvam āpanne tasmin prete mahīpate / śrāddhadharmair aśeṣais tu tatpūrvān arcayet pitṝn

  564. पुत्रः पौत्रः प्रपौत्रो वा बन्धुर् वा भ्रातृसंततिः । सपिण्डसंततिर् वापि क्रियार्हो नृप जायते

    putraḥ pautraḥ prapautro vā bandhur vā bhrātṛsaṃtatiḥ / sapiṇḍasaṃtatir vāpi kriyārho nṛpa jāyate

  565. तेषाम् अभावे सर्वेषां समानोदकसंततिः । मातृपक्षस्य पिण्डेन संबद्धा ये जलेन वा

    teṣām abhāve sarveṣāṃ samānodakasaṃtatiḥ / mātṛpakṣasya piṇḍena saṃbaddhā ye jalena vā

  566. कुलद्वये ऽपि चोच्छिन्ने स्त्रीभिः कार्याः क्रिया नृप । संघातान्तर्गतैर् वापि कार्याः प्रेतस्य याः क्रियाः । उत्सन्नबन्धुरिक्थानां कारयेद् अवनीपतिः

    kuladvaye 'pi cocchinne strībhiḥ kāryāḥ kriyā nṛpa / saṃghātāntargatair vāpi kāryāḥ pretasya yāḥ kriyāḥ / utsannabandhurikthānāṃ kārayed avanīpatiḥ

  567. पूर्वाः क्रिया मध्यमाश् च तथा चैवोत्तराः क्रियाः । त्रिःप्रकाराः क्रिया ह्य् एतास् तासां भेदं शृणुष्व मे

    pūrvāḥ kriyā madhyamāś ca tathā caivottarāḥ kriyāḥ / triḥprakārāḥ kriyā hy etās tāsāṃ bhedaṃ śṛṇuṣva me

  568. आदाहवार्यायुधादिस्पर्शाद्यन्तास् तु याः क्रियाः । ताः पूर्वा मध्यमा मासि मास्य् एकोद्दिष्टसंज्ञिताः

    ādāhavāryāyudhādisparśādyantās tu yāḥ kriyāḥ / tāḥ pūrvā madhyamā māsi māsy ekoddiṣṭasaṃjñitāḥ

  569. प्रेते पितृत्वम् आपन्ने सपिण्डीकरणाद् अनु । क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः

    prete pitṛtvam āpanne sapiṇḍīkaraṇād anu / kriyante yāḥ kriyāḥ pitryāḥ procyante tā nṛpottarāḥ

  570. पितृमातृसपिण्डैस् तु समानसलिलैस् तथा । तत्संघातगतैश् चैव राज्ञा वा धनहारिणा

    pitṛmātṛsapiṇḍais tu samānasalilais tathā / tatsaṃghātagataiś caiva rājñā vā dhanahāriṇā

  571. पूर्वाः क्रियास् तु कर्तव्याः पुत्राद्यैर् एव चोत्तराः । दौहित्रैर् वा नरश्रेष्ठ कार्यास् तत्तनयैस् तथा

    pūrvāḥ kriyās tu kartavyāḥ putrādyair eva cottarāḥ / dauhitrair vā naraśreṣṭha kāryās tattanayais tathā

  572. मृताहनि च कर्तव्याः स्त्रीणाम् अप्य् उत्तराः क्रियाः । प्रतिसंवत्सरं राजन्न् एकोद्दिष्टविधानतः

    mṛtāhani ca kartavyāḥ strīṇām apy uttarāḥ kriyāḥ / pratisaṃvatsaraṃ rājann ekoddiṣṭavidhānataḥ

  573. तस्माद् उत्तरसंज्ञा याः क्रियास् ताः शृणु पार्थिव । यदा यदा च कर्तव्या विधिना येन चानघ

    tasmād uttarasaṃjñā yāḥ kriyās tāḥ śṛṇu pārthiva / yadā yadā ca kartavyā vidhinā yena cānagha

  574. ______________________________________________________ §और्व उवाच: ब्रह्मेन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान् । विश्वेदेवान् ऋषिगणान् वयांसि मनुजान् पशून्

    ______________________________________________________ §aurva uvāca: brahmendrarudranāsatyasūryāgnivasumārutān / viśvedevān ṛṣigaṇān vayāṃsi manujān paśūn

  575. सरीसृपान् पितृगणान् यच् चान्यद् भूतसंज्ञितम् । श्राद्धं श्रद्धान्वितः कुर्वन् तर्पयत्य् अखिलं जगत्

    sarīsṛpān pitṛgaṇān yac cānyad bhūtasaṃjñitam / śrāddhaṃ śraddhānvitaḥ kurvan tarpayaty akhilaṃ jagat

  576. मासि मास्य् असिते पक्षे पञ्चदश्यां नरेश्वर । तथाष्टकासु कुर्वीत काम्यान् कालाञ् छृणुष्व मे

    māsi māsy asite pakṣe pañcadaśyāṃ nareśvara / tathāṣṭakāsu kurvīta kāmyān kālāñ chṛṇuṣva me

  577. श्राद्धार्हम् आगतं द्रव्यं विशिष्टम् अथवा द्विजम् । श्राद्धं कुर्वीत विज्ञाय व्यतीपाते ऽयने तथा

    śrāddhārham āgataṃ dravyaṃ viśiṣṭam athavā dvijam / śrāddhaṃ kurvīta vijñāya vyatīpāte 'yane tathā

  578. विषुवे चापि संप्राप्ते ग्रहणे शशिसूर्ययोः । समस्तेष्व् एव भूपाल राशिष्व् अर्के च गच्छति

    viṣuve cāpi saṃprāpte grahaṇe śaśisūryayoḥ / samasteṣv eva bhūpāla rāśiṣv arke ca gacchati

  579. नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने । इच्छाश्राद्धानि कुर्वीत नवसस्यागमे तथा

    nakṣatragrahapīḍāsu duṣṭasvapnāvalokane / icchāśrāddhāni kurvīta navasasyāgame tathā

  580. अमावास्या यदा मैत्रविशाखास्वातियोगिनी । श्राद्धैः पितृगणस् तृप्तिं तथाप्नोत्य् अष्टवार्षिकीम्

    amāvāsyā yadā maitraviśākhāsvātiyoginī / śrāddhaiḥ pitṛgaṇas tṛptiṃ tathāpnoty aṣṭavārṣikīm

  581. अमावास्या यदा पुष्ये रौद्रे चर्क्षे पुनर्वसौ । द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरो ऽर्चिताः

    amāvāsyā yadā puṣye raudre carkṣe punarvasau / dvādaśābdaṃ tadā tṛptiṃ prayānti pitaro 'rcitāḥ

  582. वासवाजैकपादर्क्षे पितॄणां तृप्तिम् इच्छताम् । वारुणे चाप्य् अमावास्या देवानाम् अपि दुर्लभा

    vāsavājaikapādarkṣe pitṝṇāṃ tṛptim icchatām / vāruṇe cāpy amāvāsyā devānām api durlabhā

  583. नवस्व् ऋक्षेष्व् अमावास्या यदैतेष्व् अवनीपते । तदा तृप्तिप्रदं श्राद्धं पितॄणां शृणु चापरम्

    navasv ṛkṣeṣv amāvāsyā yadaiteṣv avanīpate / tadā tṛptipradaṃ śrāddhaṃ pitṝṇāṃ śṛṇu cāparam

  584. गीतं सनत्कुमारेण यद्ऽइलाय महात्मने । पृच्छते पितृभक्ताय श्रद्धयावनताय च

    gītaṃ sanatkumāreṇa yad'ilāya mahātmane / pṛcchate pitṛbhaktāya śraddhayāvanatāya ca

  585. §सनत्कुमार उवाच: वैशाखमासस्य च या तृतीया नवम्य् असौ कार्त्तिकशुक्लपक्षे । नभस्यमासस्य तु कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे

    §sanatkumāra uvāca: vaiśākhamāsasya ca yā tṛtīyā navamy asau kārttikaśuklapakṣe / nabhasyamāsasya tu kṛṣṇapakṣe trayodaśī pañcadaśī ca māghe

  586. एता युगाद्यास् तिथयश् चतस्रो ऽप्य् अनन्तपुण्या नृप संप्रदिष्टाः ॥ विप्_३,१४।१३अब् ॥ श्२,द्७ इन्स्। अफ़्तेर् १३अब्: द्वे शुक्ले द्वे तथा कृष्णे युगाद्ये मुनयो विदुः ॥ विप्_३,१४।१३अब्*२८:१ ॥ शुक्ले पूर्वाह्निके ग्राह्ये कृष्णे चैवापराह्निके ॥ विप्_३,१४।१३अब्*२८:२ ॥ युगाद्येषु युगान्तेषु दत्तम् अक्षयम् इष्यते ॥ विप्_३,१४।१३अब्*२८:३ ॥ उपप्लवे चन्द्रमसो रवेश् च त्रिष्व् अष्टकास्व् अप्य् अयनद्वये च ॥ विप्_३,१४।१३च्द् ॥ श्,द्१।६।७ इन्स्।, द्५ इन्स्। ल्। १-२ अफ़्तेर् १३अब् अन्द् ल्। ३-४ अफ़्तेर् १३: चन्द्रक्षये माघवमासि यत्र दिनक्षये वै विषुवद्द्वयं च । पानीयम् अप्य् अत्र तिलैर् विमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः । श्राद्धं कृतं तेन समाः सहस्रं रहस्यम् एतत् पितरो वदन्ति

    etā yugādyās tithayaś catasro 'py anantapuṇyā nṛpa saṃpradiṣṭāḥ // ViP_3,14.13ab // Ś2,D7 ins. after 13ab: dve śukle dve tathā kṛṣṇe yugādye munayo viduḥ // ViP_3,14.13ab*28:1 // śukle pūrvāhnike grāhye kṛṣṇe caivāparāhnike // ViP_3,14.13ab*28:2 // yugādyeṣu yugānteṣu dattam akṣayam iṣyate // ViP_3,14.13ab*28:3 // upaplave candramaso raveś ca triṣv aṣṭakāsv apy ayanadvaye ca // ViP_3,14.13cd // Ś,D1.6.7 ins., D5 ins. l. 1-2 after 13ab and l. 3-4 after 13: candrakṣaye māghavamāsi yatra dinakṣaye vai viṣuvaddvayaṃ ca / pānīyam apy atra tilair vimiśraṃ dadyāt pitṛbhyaḥ prayato manuṣyaḥ / śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyam etat pitaro vadanti

  587. माघासिते पञ्चदशी कदाचिद् उपैति योगं यदि वारुणेन । ऋक्षेण कालः स परः पितॄणां न ह्य् अल्पपुण्यैर् नृप लभ्यते ऽसौ

    māghāsite pañcadaśī kadācid upaiti yogaṃ yadi vāruṇena / ṛkṣeṇa kālaḥ sa paraḥ pitṝṇāṃ na hy alpapuṇyair nṛpa labhyate 'sau

  588. काले धनिष्ठा यदि नाम तस्मिन् भवन्ति भूपाल तदा पितृभ्यः । दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर् मनुष्यैः

    kāle dhaniṣṭhā yadi nāma tasmin bhavanti bhūpāla tadā pitṛbhyaḥ / dattaṃ jalānnaṃ pradadāti tṛptiṃ varṣāyutaṃ tatkulajair manuṣyaiḥ

  589. तत्रैव चेद् भाद्रपदास् तु पूर्वाः काले तदा यत् क्रियते पितृभ्यः । श्राद्धं परां तृप्तिम् उपेत्य तेन युगं समग्रं पितरः स्वपन्ति

    tatraiva ced bhādrapadās tu pūrvāḥ kāle tadā yat kriyate pitṛbhyaḥ / śrāddhaṃ parāṃ tṛptim upetya tena yugaṃ samagraṃ pitaraḥ svapanti

  590. गङ्गां शतद्रूम् अथ वा विपाशां सरस्वतीं नैमिषगोमतीं वा । ततो ऽवगाह्यार्चनम् आदरेण कृत्वा पितॄणां दुरितानि हन्ति

    gaṅgāṃ śatadrūm atha vā vipāśāṃ sarasvatīṃ naimiṣagomatīṃ vā / tato 'vagāhyārcanam ādareṇa kṛtvā pitṝṇāṃ duritāni hanti

  591. गायन्ति चैतत् पितरः सदैव वर्षामघातृप्तिम् अवाप्य भूयः । माघासितान्ते शुभतीर्थतोयैर् यास्याम तृप्तिं तनयादिदत्तैः

    gāyanti caitat pitaraḥ sadaiva varṣāmaghātṛptim avāpya bhūyaḥ / māghāsitānte śubhatīrthatoyair yāsyāma tṛptiṃ tanayādidattaiḥ

  592. चित्तं च वित्तं च नृणां विशुद्धं शस्तश् च कालः कथितो विधिश् च । पात्रं यथोक्तं परमा च भक्तिर् नृणां प्रयच्छत्य् अभिवाञ्छितानि

    cittaṃ ca vittaṃ ca nṛṇāṃ viśuddhaṃ śastaś ca kālaḥ kathito vidhiś ca / pātraṃ yathoktaṃ paramā ca bhaktir nṛṇāṃ prayacchaty abhivāñchitāni

  593. पितृगीतांस् तथैवात्र श्लोकांस् तांश् च शृणुष्व मे । श्रुत्वा तथैव भवता भाव्यं तत्रादृतात्मना

    pitṛgītāṃs tathaivātra ślokāṃs tāṃś ca śṛṇuṣva me / śrutvā tathaiva bhavatā bhāvyaṃ tatrādṛtātmanā

  594. अपि धन्यः कुले जायाद् अस्माकं मतिमान् नरः । अकुर्वन् वित्तशाठ्यं यः पिण्डान्नो निर्वपिष्यति

    api dhanyaḥ kule jāyād asmākaṃ matimān naraḥ / akurvan vittaśāṭhyaṃ yaḥ piṇḍānno nirvapiṣyati

  595. रत्नवस्त्रमहीयानमहाभोगादिकं वसु । विभवे सति विप्रेभ्यो यो ऽस्मान् उद्दिश्य दास्यति

    ratnavastramahīyānamahābhogādikaṃ vasu / vibhave sati viprebhyo yo 'smān uddiśya dāsyati

  596. अन्नेन वा यथाशक्त्या काले ऽस्मिन् भक्तिनम्रधीः । भोजयिष्यति विप्राग्र्यांस् तन्मात्रविभवो नरः

    annena vā yathāśaktyā kāle 'smin bhaktinamradhīḥ / bhojayiṣyati viprāgryāṃs tanmātravibhavo naraḥ

  597. असमर्थो ऽन्नदानस्य धान्यम् आमं स्वशक्तितः । प्रदास्यति द्विजाग्रेभ्यः स्वल्पाल्पां वापि दक्षिणाम्

    asamartho 'nnadānasya dhānyam āmaṃ svaśaktitaḥ / pradāsyati dvijāgrebhyaḥ svalpālpāṃ vāpi dakṣiṇām

  598. तत्राप्य् असामर्थ्ययुतः कराग्राग्रस्थितांस् तिलान् । प्रणम्य द्विजमुख्याय कस्मैचिद् भूप दास्यति

    tatrāpy asāmarthyayutaḥ karāgrāgrasthitāṃs tilān / praṇamya dvijamukhyāya kasmaicid bhūpa dāsyati

  599. तिलैः सप्ताष्टभिर् वापि समवेताञ् जलाञ्जलीन् । भक्तिनम्रः समुद्दिश्य भुव्य् अस्माकं प्रदास्यति

    tilaiḥ saptāṣṭabhir vāpi samavetāñ jalāñjalīn / bhaktinamraḥ samuddiśya bhuvy asmākaṃ pradāsyati

  600. यतः कुतश्चित् संप्राप्य गोभ्यो वापि गवाह्निकम् । अभावे प्रीणयन्न् अस्माञ् श्रद्धायुक्तः प्रदास्यति

    yataḥ kutaścit saṃprāpya gobhyo vāpi gavāhnikam / abhāve prīṇayann asmāñ śraddhāyuktaḥ pradāsyati

  601. सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः । सूर्यादिलोकपालानाम् इदम् उच्चैर् पठिष्यति

    sarvābhāve vanaṃ gatvā kakṣamūlapradarśakaḥ / sūryādilokapālānām idam uccair paṭhiṣyati

  602. न मे ऽस्ति वित्तं न धनं च नान्यच् छ्राद्धोपयोग्यं स्वपितॄन् नतो ऽस्मि । तृप्यन्तु भक्त्या पितरो मयैतौ कृतौ भुजौ वर्त्मनि मारुतस्य

    na me 'sti vittaṃ na dhanaṃ ca nānyac chrāddhopayogyaṃ svapitṝn nato 'smi / tṛpyantu bhaktyā pitaro mayaitau kṛtau bhujau vartmani mārutasya

  603. §और्व उवाच: इत्य् एतत् पितृभिर् गीतं भावाभावप्रयोजनम् । यः करोति कृतं तेन श्राद्धं भवति पार्थिव

    §aurva uvāca: ity etat pitṛbhir gītaṃ bhāvābhāvaprayojanam / yaḥ karoti kṛtaṃ tena śrāddhaṃ bhavati pārthiva

  604. ______________________________________________________ §और्व उवाच: ब्राह्मणान् भोजयेच् छ्राद्धे यद्गुणांस् तान् निबोध मे

    ______________________________________________________ §aurva uvāca: brāhmaṇān bhojayec chrāddhe yadguṇāṃs tān nibodha me

  605. त्रिणाचिकेतस् त्रिमधुस् त्रिसुपर्णः षडङ्गवित् । वेदविच् छ्रोत्रियो योगी तथा वै ज्येष्ठसामगः

    triṇāciketas trimadhus trisuparṇaḥ ṣaḍaṅgavit / vedavic chrotriyo yogī tathā vai jyeṣṭhasāmagaḥ

  606. ऋत्विक्स्वस्रीयदौहित्रजामातृश्वशुरास् तथा । मातुलो ऽथ तपोनिष्ठः पञ्चाग्न्यभिरतस् तथा । शिष्याः संबन्धिनश् चैव मातापितृरतश् च यः

    ṛtviksvasrīyadauhitrajāmātṛśvaśurās tathā / mātulo 'tha taponiṣṭhaḥ pañcāgnyabhiratas tathā / śiṣyāḥ saṃbandhinaś caiva mātāpitṛrataś ca yaḥ

  607. एतान् नियोजयेच् छ्राद्धे पूर्वोक्तान् प्रथमं नृप । ब्राह्मणान् पितृपुष्ट्यर्थम् अनुकल्पेष्व् अनन्तरान्

    etān niyojayec chrāddhe pūrvoktān prathamaṃ nṛpa / brāhmaṇān pitṛpuṣṭyartham anukalpeṣv anantarān

  608. मित्रध्रुक् कुनखी क्लीबः श्यावदन्तस् तथा द्विजः । कन्यादूषयिता वह्निवेदोज्झः सोमविक्रयी

    mitradhruk kunakhī klībaḥ śyāvadantas tathā dvijaḥ / kanyādūṣayitā vahnivedojjhaḥ somavikrayī

  609. अभिशस्तस् तथा स्तेनः पिशुनो ग्रामयाजकः । भृतकाध्यापकस् तद्वद् भृतकाध्यापितश् च यः

    abhiśastas tathā stenaḥ piśuno grāmayājakaḥ / bhṛtakādhyāpakas tadvad bhṛtakādhyāpitaś ca yaḥ

  610. परपूर्वापतिश् चैव मातापित्रोस् तथोज्झकः ॥ विप्_३,१५।७अब् ॥ द्३।४,त्२ इन्स्।: तथा भ्रातृपरित्यागी दूषकः सर्वनिन्दकः ॥ विप्_३,१५।७अब्*३० ॥ वृषलीसूतिपोष्टा च वृषलीपतिर् एव च ॥ विप्_३,१५।७च्द् ॥ तथा देवलकश् चैव श्राद्धे नार्हति केतनम्

    parapūrvāpatiś caiva mātāpitros tathojjhakaḥ // ViP_3,15.7ab // D3.4,T2 ins.: tathā bhrātṛparityāgī dūṣakaḥ sarvanindakaḥ // ViP_3,15.7ab*30 // vṛṣalīsūtipoṣṭā ca vṛṣalīpatir eva ca // ViP_3,15.7cd // tathā devalakaś caiva śrāddhe nārhati ketanam

  611. प्रथमे ऽह्नि बुधः शस्ताञ् श्रोत्रियादीन् निमन्त्रयेत् । कथयेच् च तदैवैषां नियोगान् पितृदैविकान्

    prathame 'hni budhaḥ śastāñ śrotriyādīn nimantrayet / kathayec ca tadaivaiṣāṃ niyogān pitṛdaivikān

  612. ततः क्रोधव्यवायादीन् आयासं च द्विजैः सह । यजमानो न कुर्वीत दोषस् तत्र महान् अयम्

    tataḥ krodhavyavāyādīn āyāsaṃ ca dvijaiḥ saha / yajamāno na kurvīta doṣas tatra mahān ayam

  613. श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च । व्यवायी रेतसो गर्ते मज्जयत्य् आत्मनः पितॄन्

    śrāddhe niyukto bhuktvā vā bhojayitvā niyujya ca / vyavāyī retaso garte majjayaty ātmanaḥ pitṝn

  614. तस्मात् प्रथमम् अत्रोक्तं द्विजाग्र्याणां निमन्त्रणम् । अनिमन्त्र्य द्विजान् गेहम् आगतान् भोजयेद् यतीन्

    tasmāt prathamam atroktaṃ dvijāgryāṇāṃ nimantraṇam / animantrya dvijān geham āgatān bhojayed yatīn

  615. पादशौचादिना गेहम् आगतान् पूजयेद् द्विजान्

    pādaśaucādinā geham āgatān pūjayed dvijān

  616. पवित्रपाणिर् आचान्तान् आसनेषूपवेशयेत् । पितॄणाम् अयुजो युग्मान् देवानाम् इच्छया द्विजान्

    pavitrapāṇir ācāntān āsaneṣūpaveśayet / pitṝṇām ayujo yugmān devānām icchayā dvijān

  617. देवानाम् एकम् एकं वा पितॄणां च नियोजयेत्

    devānām ekam ekaṃ vā pitṝṇāṃ ca niyojayet

  618. तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् । कुर्वीत भक्तिसंपन्नस् तन्त्रं वा वैश्वदेविकम्

    tathā mātāmahaśrāddhaṃ vaiśvadevasamanvitam / kurvīta bhaktisaṃpannas tantraṃ vā vaiśvadevikam

  619. प्राङ्मुखान् भोजयेद् विप्रान् देवानाम् उभयात्मकान् । पितृपैतामहानां च भोजयेच् चाप्य् उदङ्मुखान्

    prāṅmukhān bhojayed viprān devānām ubhayātmakān / pitṛpaitāmahānāṃ ca bhojayec cāpy udaṅmukhān

  620. पृथक् तयोः केचिद् आहुः श्राद्धस्य करणं नृप । एकत्रैकेन पाकेन वदन्त्य् अन्ये महर्षयः

    pṛthak tayoḥ kecid āhuḥ śrāddhasya karaṇaṃ nṛpa / ekatraikena pākena vadanty anye maharṣayaḥ

  621. विष्टरार्थं कुशान् दत्त्वा संपूज्यार्घ्यं विधानतः । कुर्याद् आवाहनं प्राज्ञो देवानां तदनुज्ञया

    viṣṭarārthaṃ kuśān dattvā saṃpūjyārghyaṃ vidhānataḥ / kuryād āvāhanaṃ prājño devānāṃ tadanujñayā

  622. यवाम्बुना च देवानां दद्याद् अर्घ्यं विधानतः । स्रग्गन्धधूपदीपांश् च दत्त्वा तेभ्यो यथाविधि

    yavāmbunā ca devānāṃ dadyād arghyaṃ vidhānataḥ / sraggandhadhūpadīpāṃś ca dattvā tebhyo yathāvidhi

  623. पितॄणाम् अपसव्यं तत् सर्वम् एवोपकल्पयेत् । अनुज्ञां च ततः प्राप्य दत्त्वा दर्भान् द्विधाकृतान्

    pitṝṇām apasavyaṃ tat sarvam evopakalpayet / anujñāṃ ca tataḥ prāpya dattvā darbhān dvidhākṛtān

  624. मन्त्रपूर्वं पितॄणां तु कुर्याद् आवाहनं बुधः । तिलाम्बुना चापसव्यं दद्याद् अर्घ्यादिकं नृप

    mantrapūrvaṃ pitṝṇāṃ tu kuryād āvāhanaṃ budhaḥ / tilāmbunā cāpasavyaṃ dadyād arghyādikaṃ nṛpa

  625. काले तत्रातिथिं प्राप्तम् अन्नकामं नृपाध्वगम् । ब्राह्मणैर् अभ्यनुज्ञातः कामं तम् अपि भोजयेत्

    kāle tatrātithiṃ prāptam annakāmaṃ nṛpādhvagam / brāhmaṇair abhyanujñātaḥ kāmaṃ tam api bhojayet

  626. योगिनो विविधै रूपैर् नराणाम् उपकारिणः । भ्रमन्ति पृथिवीम् एताम् अविज्ञातस्वरूपिणः

    yogino vividhai rūpair narāṇām upakāriṇaḥ / bhramanti pṛthivīm etām avijñātasvarūpiṇaḥ

  627. तस्माद् अभ्यर्चयेत् प्राप्तं श्राद्धकाले ऽतिथिं बुधः । श्राद्धक्रियाफलं हन्ति नरेन्द्रापूजितो ऽतिथिः

    tasmād abhyarcayet prāptaṃ śrāddhakāle 'tithiṃ budhaḥ / śrāddhakriyāphalaṃ hanti narendrāpūjito 'tithiḥ

  628. जुहुयाद् व्यञ्जनक्षारवर्जम् अन्नं ततो ऽनले । अनुज्ञातो द्विजैस् तैस् तु त्रिकृत्वः पुरुषर्षभ

    juhuyād vyañjanakṣāravarjam annaṃ tato 'nale / anujñāto dvijais tais tu trikṛtvaḥ puruṣarṣabha

  629. अग्नये कव्यवाहाय स्वाहेत्य् आदौ नृपाहुतिः । सोमाय वै पितृमते दातव्या तदनन्तरम्

    agnaye kavyavāhāya svāhety ādau nṛpāhutiḥ / somāya vai pitṛmate dātavyā tadanantaram

  630. वैवस्वताय चैवान्या तृतीया दीयते ततः । हुतावशिष्टम् अल्पाल्पं विप्रपात्रेषु निर्वपेत्

    vaivasvatāya caivānyā tṛtīyā dīyate tataḥ / hutāvaśiṣṭam alpālpaṃ viprapātreṣu nirvapet

  631. ततो ऽन्नं मृष्टम् अत्यर्थम् अभीष्टम् अतिसंस्कृतम् । दत्त्वा जुषध्वम् इच्छातो वाच्यम् एतद् अनिष्ठुरम्

    tato 'nnaṃ mṛṣṭam atyartham abhīṣṭam atisaṃskṛtam / dattvā juṣadhvam icchāto vācyam etad aniṣṭhuram

  632. भोक्तव्यं तैश् च तच्चित्तैर् मौनिभिः सुमुखैः सुखम् । अक्रुध्यता चात्वरता देयं तेनापि भक्तितः

    bhoktavyaṃ taiś ca taccittair maunibhiḥ sumukhaiḥ sukham / akrudhyatā cātvaratā deyaṃ tenāpi bhaktitaḥ

  633. रक्षोघ्नमन्त्रपठनं भूमेर् आस्तरणं तिलैः । कृत्वा ध्येयाः स्वपितरस् त एव द्विजसत्तमाः

    rakṣoghnamantrapaṭhanaṃ bhūmer āstaraṇaṃ tilaiḥ / kṛtvā dhyeyāḥ svapitaras ta eva dvijasattamāḥ

  634. पिता पितामहश् चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्व् अद्य विप्रदेहेषु संस्थिताः

    pitā pitāmahaś caiva tathaiva prapitāmahaḥ / mama tṛptiṃ prayāntv adya vipradeheṣu saṃsthitāḥ

  635. पिता पितामहश् चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्व् अग्निहोमाप्यायितमूर्तयः

    pitā pitāmahaś caiva tathaiva prapitāmahaḥ / mama tṛptiṃ prayāntv agnihomāpyāyitamūrtayaḥ

  636. पिता पितामहश् चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु पिण्डेन मया दत्तेन भूतले

    pitā pitāmahaś caiva tathaiva prapitāmahaḥ / tṛptiṃ prayāntu piṇḍena mayā dattena bhūtale

  637. पिता पितामहश् चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु मे भक्त्या यन् मयैतद् इहाहृतम्

    pitā pitāmahaś caiva tathaiva prapitāmahaḥ / tṛptiṃ prayāntu me bhaktyā yan mayaitad ihāhṛtam

  638. मातामहस् तृप्तिम् उपैतु तस्य तथा पिता तस्य पिता तथान्यः । विश्वे च देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः

    mātāmahas tṛptim upaitu tasya tathā pitā tasya pitā tathānyaḥ / viśve ca devāḥ paramāṃ prayāntu tṛptiṃ praṇaśyantu ca yātudhānāḥ

  639. यज्ञेश्वरो हव्यसमस्तकव्य भोक्ताव्ययात्मा हरिर् ईश्वरो ऽत्र । तत्संनिधानाद् अपयान्तु सद्यो रक्षांस्य् अशेषाण्य् असुराश् च सर्वे

    yajñeśvaro havyasamastakavya bhoktāvyayātmā harir īśvaro 'tra / tatsaṃnidhānād apayāntu sadyo rakṣāṃsy aśeṣāṇy asurāś ca sarve

  640. तृप्तेषु तेषु विकिरेद् अन्नं विप्रेषु भूतले । दद्याच् चाचमनार्थाय तेभ्यो वारि सकृत् सकृत्

    tṛpteṣu teṣu vikired annaṃ vipreṣu bhūtale / dadyāc cācamanārthāya tebhyo vāri sakṛt sakṛt

  641. सुतृप्तैस् तैर् अनुज्ञातः सर्वेणान्नेन भूतले । सतिलेन ततः पिण्डान् सम्यग् दद्यात् समाहितः

    sutṛptais tair anujñātaḥ sarveṇānnena bhūtale / satilena tataḥ piṇḍān samyag dadyāt samāhitaḥ

  642. पितृतीर्थेन सलिलं दद्याद् अथ जलाञ्जलिम् । मातामहेभ्यस् तेनैव पिण्डांस् तीर्थेन निर्वपेत्

    pitṛtīrthena salilaṃ dadyād atha jalāñjalim / mātāmahebhyas tenaiva piṇḍāṃs tīrthena nirvapet

  643. श्२,ञ्२,व्१,ब्२,द्५।७।८ इन्स्।: दक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजितम् । स्वपित्रे प्रथमं पिण्डं दद्याद् उच्छिष्टसंनिधौ

    Ś2,Ñ2,V1,B2,D5.7.8 ins.: dakṣiṇāgreṣu darbheṣu puṣpadhūpādipūjitam / svapitre prathamaṃ piṇḍaṃ dadyād ucchiṣṭasaṃnidhau

  644. पितामहाय चैवान्यं तत्पित्रे च तथा परम् । दर्भमूले लेपभुजः प्रीणयेल् लेपघर्षणैः

    pitāmahāya caivānyaṃ tatpitre ca tathā param / darbhamūle lepabhujaḥ prīṇayel lepagharṣaṇaiḥ

  645. पिण्डैर् मातामहांस् तद्वद् गन्धमाल्यादिसंयुतैः । पूजयित्वा द्विजाग्र्याणां दद्याद् आचमनं ततः

    piṇḍair mātāmahāṃs tadvad gandhamālyādisaṃyutaiḥ / pūjayitvā dvijāgryāṇāṃ dadyād ācamanaṃ tataḥ

  646. पितृभ्यः प्रथमं भक्त्या तन्मनस्को नरेश्वर । सुस्वधेत्य् आशिषा युक्तां दद्याच् छक्त्या च दक्षिणाम्

    pitṛbhyaḥ prathamaṃ bhaktyā tanmanasko nareśvara / susvadhety āśiṣā yuktāṃ dadyāc chaktyā ca dakṣiṇām

  647. दत्त्वा च दक्षिणां तेभ्यो वाचयेद् वैश्वदेविकान् । प्रीयन्ताम् इति ये विश्वेदेवास् तेन इतीरयेत्

    dattvā ca dakṣiṇāṃ tebhyo vācayed vaiśvadevikān / prīyantām iti ye viśvedevās tena itīrayet

  648. तथेति चोक्ते तैर् विप्रैः प्रार्थनीयास् तथाशिषः । पश्चाद् विसर्जयेद् देवान् पूर्वं पैत्रान् महामते

    tatheti cokte tair vipraiḥ prārthanīyās tathāśiṣaḥ / paścād visarjayed devān pūrvaṃ paitrān mahāmate

  649. मातामहानाम् अप्य् एवं सह देवैः क्रमः स्मृतः । भोजने च स्वशक्त्या च दाने तद्वद् विसर्जने

    mātāmahānām apy evaṃ saha devaiḥ kramaḥ smṛtaḥ / bhojane ca svaśaktyā ca dāne tadvad visarjane

  650. आपादशौचनात् पूर्वं कुर्याद् देवद्विजन्मसु । विसर्जनं तु प्रथमं पैत्रं मातामहेषु वै

    āpādaśaucanāt pūrvaṃ kuryād devadvijanmasu / visarjanaṃ tu prathamaṃ paitraṃ mātāmaheṣu vai

  651. विसर्जयेत् प्रीतिवचः सन्मानाभ्यर्चितांस् ततः । निवर्तेताभ्यनुज्ञात आद्वारात् तान् अनुव्रजेत्

    visarjayet prītivacaḥ sanmānābhyarcitāṃs tataḥ / nivartetābhyanujñāta ādvārāt tān anuvrajet

  652. ततस् तु वैश्वदेवाख्यां कुर्यान् नित्यक्रियां बुधः । भुञ्जीयाच् च समं पूज्यभृत्यबन्धुभिर् आत्मनः

    tatas tu vaiśvadevākhyāṃ kuryān nityakriyāṃ budhaḥ / bhuñjīyāc ca samaṃ pūjyabhṛtyabandhubhir ātmanaḥ

  653. एवं श्राद्धं बुधः कुर्यात् पैत्रं मातामहं तथा । श्राद्धैर् आप्यायिता दद्युः सर्वकामान् पितामहाः

    evaṃ śrāddhaṃ budhaḥ kuryāt paitraṃ mātāmahaṃ tathā / śrāddhair āpyāyitā dadyuḥ sarvakāmān pitāmahāḥ

  654. त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस् तिलाः । रजतस्य तथा दानं कथासंदर्शनादिकम्

    trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ / rajatasya tathā dānaṃ kathāsaṃdarśanādikam

  655. वर्ज्यानि कुर्वता श्राद्धं कोपो ऽध्वगमनं त्वरा । भोक्तुर् अप्य् अत्र राजेन्द्र त्रयम् एतन् न शस्यते

    varjyāni kurvatā śrāddhaṃ kopo 'dhvagamanaṃ tvarā / bhoktur apy atra rājendra trayam etan na śasyate

  656. विश्वेदेवाः सपितरस् तथा मातामहा नृप । कुलं चाप्याय्यते पुंसां सर्वं श्राद्धं प्रकुर्वताम्

    viśvedevāḥ sapitaras tathā mātāmahā nṛpa / kulaṃ cāpyāyyate puṃsāṃ sarvaṃ śrāddhaṃ prakurvatām

  657. सोमाधारः पितृगणो योगाधारश् च चन्द्रमाः । श्राद्धे योगिनियोगस् तु तस्माद् भूपाल शस्यते

    somādhāraḥ pitṛgaṇo yogādhāraś ca candramāḥ / śrāddhe yoginiyogas tu tasmād bhūpāla śasyate

  658. सहस्रस्यापि विप्राणां योगी चेत् पुरतः स्थितः । सर्वान् भोक्तॄंस् तारयति यजमानं तथा नृप

    sahasrasyāpi viprāṇāṃ yogī cet purataḥ sthitaḥ / sarvān bhoktṝṃs tārayati yajamānaṃ tathā nṛpa

  659. ______________________________________________________ §और्व उवाच: हविष्यमत्स्यमांसैस् तु शशस्य शकुनस्य च । सौकरच्छागलैणेयरौरवैर् गवयेन च

    ______________________________________________________ §aurva uvāca: haviṣyamatsyamāṃsais tu śaśasya śakunasya ca / saukaracchāgalaiṇeyarauravair gavayena ca

  660. औरभ्रगव्यैश् च तथा मासवृद्ध्या पितामहाः । प्रयान्ति तृप्तिं मांसैस् तु नित्यं वार्ध्रीणसाम् इषैः

    aurabhragavyaiś ca tathā māsavṛddhyā pitāmahāḥ / prayānti tṛptiṃ māṃsais tu nityaṃ vārdhrīṇasām iṣaiḥ

  661. खड्गमांसम् अतीवात्र कालशाकं तथा मधु । शस्तानि कर्मण्य् अत्यन्ततृप्तिदानि नरेश्वर

    khaḍgamāṃsam atīvātra kālaśākaṃ tathā madhu / śastāni karmaṇy atyantatṛptidāni nareśvara

  662. गयाम् उपेत्य यः श्राद्धं करोति पृथिवीपते । सफलं तस्य तज् जन्म जायते पितृतुष्टिदम्

    gayām upetya yaḥ śrāddhaṃ karoti pṛthivīpate / saphalaṃ tasya taj janma jāyate pitṛtuṣṭidam

  663. प्रसातिकाः सनीवाराः श्यामाका द्विविधास् तथा । वन्यौषधीप्रधानास् तु श्राद्धार्हाः पुरुषर्षभ

    prasātikāḥ sanīvārāḥ śyāmākā dvividhās tathā / vanyauṣadhīpradhānās tu śrāddhārhāḥ puruṣarṣabha

  664. यवाः प्रियंगवो मुद्गा गोधूमा व्रीहयस् तिलाः । निष्पावाः कोविदाराश् च सर्षपाश् चात्र शोभनाः

    yavāḥ priyaṃgavo mudgā godhūmā vrīhayas tilāḥ / niṣpāvāḥ kovidārāś ca sarṣapāś cātra śobhanāḥ

  665. अकृताग्रयणं यच् च धान्यजातं नरेश्वर । राजमाषान् अणूंश् चैव मसूरांश् च विवर्जयेत्

    akṛtāgrayaṇaṃ yac ca dhānyajātaṃ nareśvara / rājamāṣān aṇūṃś caiva masūrāṃś ca vivarjayet

  666. अलाबुं गृञ्जनं चैव पलाण्डुं पिण्डमूलकम् । गन्धारकं करम्भाणि लवणान्य् औषराणि च

    alābuṃ gṛñjanaṃ caiva palāṇḍuṃ piṇḍamūlakam / gandhārakaṃ karambhāṇi lavaṇāny auṣarāṇi ca

  667. आरक्ताश् चैव निर्यासाः प्रत्यक्षलवणानि च । वर्ज्यान्य् एतानि वै श्राद्धे यच् च वाचा न शस्यते

    āraktāś caiva niryāsāḥ pratyakṣalavaṇāni ca / varjyāny etāni vai śrāddhe yac ca vācā na śasyate

  668. नक्ताहृतम् अनुत्सृष्टं तृप्यते न च यत्र गौः । दुर्गन्धि फेनिलं चाम्बु श्राद्धयोग्यं न पार्थिव

    naktāhṛtam anutsṛṣṭaṃ tṛpyate na ca yatra gauḥ / durgandhi phenilaṃ cāmbu śrāddhayogyaṃ na pārthiva

  669. क्षीरम् एकशफानां यद् औष्ट्रम् आविकम् एव च । मार्गं च माहिषं चैव वर्जयेच् छ्राद्धकर्मणि

    kṣīram ekaśaphānāṃ yad auṣṭram āvikam eva ca / mārgaṃ ca māhiṣaṃ caiva varjayec chrāddhakarmaṇi

  670. षण्डापविद्धचण्डालपाषण्ड्युन्मत्तरोगिभिः । कृकवाकुश्वनग्नैश् च वानरग्रामसूकरैः

    ṣaṇḍāpaviddhacaṇḍālapāṣaṇḍyunmattarogibhiḥ / kṛkavākuśvanagnaiś ca vānaragrāmasūkaraiḥ

  671. उदक्यासूतिकाशौचिमृतहारैश् च वीक्षिते । श्राद्धे सुरा न पितरो भुञ्जते पुरुषर्षभ

    udakyāsūtikāśaucimṛtahāraiś ca vīkṣite / śrāddhe surā na pitaro bhuñjate puruṣarṣabha

  672. तस्मात् परिश्रिते कुर्याच् श्राद्धं श्रद्धासमन्वितः । उर्व्यां च तिलविक्षेपाद् यातुधानान् निवारयेत्

    tasmāt pariśrite kuryāc śrāddhaṃ śraddhāsamanvitaḥ / urvyāṃ ca tilavikṣepād yātudhānān nivārayet

  673. न पूति नैवोपपन्नं केशकीटादिभिर् नृप । न चैवाभिषवैर् मिश्रम् अन्नं पर्युषितं तथा

    na pūti naivopapannaṃ keśakīṭādibhir nṛpa / na caivābhiṣavair miśram annaṃ paryuṣitaṃ tathā

  674. श्रद्धासमन्वितैर् दत्तं पितृभ्यो नामगोत्रतः । यदाहारास् तु ते जातास् तदाहारत्वम् एति तत्

    śraddhāsamanvitair dattaṃ pitṛbhyo nāmagotrataḥ / yadāhārās tu te jātās tadāhāratvam eti tat

  675. श्रूयन्ते चापि पितृभिर् गीता गाथा महीपते । इक्ष्वाकोर् मनुपुत्रस्य कलापोपवने पुरा

    śrūyante cāpi pitṛbhir gītā gāthā mahīpate / ikṣvākor manuputrasya kalāpopavane purā

  676. अपि नस् ते भविष्यन्ति कुले सन्मार्गशीलिनः । गयाम् उपेत्य ये पिण्डान् दास्यन्त्य् अस्माकम् आदरात्

    api nas te bhaviṣyanti kule sanmārgaśīlinaḥ / gayām upetya ye piṇḍān dāsyanty asmākam ādarāt

  677. अपि नः स कुले जायाद् यो नो दद्यात् त्रयोदशीम् । पायसं मधुसर्पिभ्यां वर्षासु च मघासु च

    api naḥ sa kule jāyād yo no dadyāt trayodaśīm / pāyasaṃ madhusarpibhyāṃ varṣāsu ca maghāsu ca

  678. गौरीं वाप्य् उद्वहेत् कन्यां नीलं वा वृषम् उत्सृजेत् । यजेत वाश्वमेधेन विधिवद् दक्षिणावता

    gaurīṃ vāpy udvahet kanyāṃ nīlaṃ vā vṛṣam utsṛjet / yajeta vāśvamedhena vidhivad dakṣiṇāvatā

  679. ______________________________________________________ §पराशर उवाच: इत्य् आह भगवान् और्वः सगराय महात्मने । सदाचारान् पुरा सम्यङ् मैत्रेय परिपृच्छते

    ______________________________________________________ §parāśara uvāca: ity āha bhagavān aurvaḥ sagarāya mahātmane / sadācārān purā samyaṅ maitreya paripṛcchate

  680. श्२,द्७ इन्स्।: मयाप्य् एतद् अशेषेण कथितं भवतो द्विज । समुल्लङ्घ्य सदाचारं कश्चिन् नाप्नोति शोभनम्

    Ś2,D7 ins.: mayāpy etad aśeṣeṇa kathitaṃ bhavato dvija / samullaṅghya sadācāraṃ kaścin nāpnoti śobhanam

  681. §मैत्रेय उवाच: षण्डापविद्धप्रमुखा विदिता भगवन् मया । उदक्याद्याश् च ये सर्वे नग्नम् इच्छामि वेदितुम्

    §maitreya uvāca: ṣaṇḍāpaviddhapramukhā viditā bhagavan mayā / udakyādyāś ca ye sarve nagnam icchāmi veditum

  682. को नग्नः किंसमाचारो नग्नसंज्ञां नरो लभेत् । नग्नस्वरूपम् इच्छामि यथावत् गदितं त्वया

    ko nagnaḥ kiṃsamācāro nagnasaṃjñāṃ naro labhet / nagnasvarūpam icchāmi yathāvat gaditaṃ tvayā

  683. द्४,त्२।३,ग्२,एद्। वेङ्क्। इन्स्।: §पराशर उवाच: ऋग्यजुःसामसंज्ञेयं त्रयी वर्णावृतिर् द्विज । एताम् उज्झति यो मोहात् स नग्नः पातकी स्मृतः

    D4,T2.3,G2,ed. Veṅk. ins.: §parāśara uvāca: ṛgyajuḥsāmasaṃjñeyaṃ trayī varṇāvṛtir dvija / etām ujjhati yo mohāt sa nagnaḥ pātakī smṛtaḥ

  684. त्रयी समस्तवर्णानां द्विज संवरणं यतः । नग्नो भवत्य् उज्झितायाम् अतस् तस्याम् असंशयम्

    trayī samastavarṇānāṃ dvija saṃvaraṇaṃ yataḥ / nagno bhavaty ujjhitāyām atas tasyām asaṃśayam

  685. इदं च श्रूयताम् अन्यद् भीष्माय सुमहात्मने । कथयाम् आस धर्मज्ञो वसिष्ठो ऽस्मत्पितामहः

    idaṃ ca śrūyatām anyad bhīṣmāya sumahātmane / kathayām āsa dharmajño vasiṣṭho 'smatpitāmahaḥ

  686. मयापि तस्य गदतः श्रुतम् एतन् महात्मनः । नग्नसंबन्धि मैत्रेय यत् पृष्टो ऽहम् इह त्वया

    mayāpi tasya gadataḥ śrutam etan mahātmanaḥ / nagnasaṃbandhi maitreya yat pṛṣṭo 'ham iha tvayā

  687. देवासुरम् अभूद् युद्धं दिव्यम् अब्दं पुरा द्विज । तस्मिन् पराजिता देवा दैत्यैर् ह्रादपुरोगमैः

    devāsuram abhūd yuddhaṃ divyam abdaṃ purā dvija / tasmin parājitā devā daityair hrādapurogamaiḥ

  688. क्षीरोदस्योत्तरं कूलं गत्वातप्यन्त वै तपः । विष्णोर् आराधनार्थाय जगुश् चेमं स्तवं तदा

    kṣīrodasyottaraṃ kūlaṃ gatvātapyanta vai tapaḥ / viṣṇor ārādhanārthāya jaguś cemaṃ stavaṃ tadā

  689. §देवा ऊचुः: आराधनाय लोकानां विष्णोर् ईशस्य यां गिरम् । वक्ष्यामो भगवान् आद्यस् तया विष्णुः प्रसीदतु

    §devā ūcuḥ: ārādhanāya lokānāṃ viṣṇor īśasya yāṃ giram / vakṣyāmo bhagavān ādyas tayā viṣṇuḥ prasīdatu

  690. यतो भूतान्य् अशेषाणि प्रसूतानि महात्मनः । यस्मिंश् च लयम् एष्यन्ति कस् तं संस्तोतुम् ईश्वरः

    yato bhūtāny aśeṣāṇi prasūtāni mahātmanaḥ / yasmiṃś ca layam eṣyanti kas taṃ saṃstotum īśvaraḥ

  691. तथाप्य् अरातिविध्वंसध्वस्तवीर्या भवार्थिनः । त्वां स्तोष्यामस् तवोक्तीनां याथार्थ्यं नैव गोचरे

    tathāpy arātividhvaṃsadhvastavīryā bhavārthinaḥ / tvāṃ stoṣyāmas tavoktīnāṃ yāthārthyaṃ naiva gocare

  692. त्वम् उर्वी सलिलं वह्निर् वायुर् आकाशम् एव च । समस्तम् अन्तःकरणं प्रधानं तत्परः पुमान्

    tvam urvī salilaṃ vahnir vāyur ākāśam eva ca / samastam antaḥkaraṇaṃ pradhānaṃ tatparaḥ pumān

  693. एकं तवैतद् भूतात्मन् मूर्तामूर्तमयं वपुः । आब्रह्मस्तम्बपर्यन्तं स्थानकालविभेदवत्

    ekaṃ tavaitad bhūtātman mūrtāmūrtamayaṃ vapuḥ / ābrahmastambaparyantaṃ sthānakālavibhedavat

  694. तत्रेश तव यत् पूर्वं त्वन्नाभिकमलोद्भवम् । रूपं सर्गोपकाराय तस्मै ब्रह्मात्मने नमः

    tatreśa tava yat pūrvaṃ tvannābhikamalodbhavam / rūpaṃ sargopakārāya tasmai brahmātmane namaḥ

  695. शक्रार्करुद्रवस्वश्विमरुत्सोमादिभेदवत् । वयम् एवं स्वरूपं ते तस्मै देवात्मने नमः

    śakrārkarudravasvaśvimarutsomādibhedavat / vayam evaṃ svarūpaṃ te tasmai devātmane namaḥ

  696. दम्भप्रायम् असंबोधि तितिक्षादमवर्जितम् । यद् रूपं तव गोविन्द तस्मै दैत्यात्मने नमः

    dambhaprāyam asaṃbodhi titikṣādamavarjitam / yad rūpaṃ tava govinda tasmai daityātmane namaḥ

  697. नातिज्ञानवहा यस्मिन् नाड्यः स्तिमिततेजसि । शब्दादिलोभि यत् तस्मै तुभ्यं यक्षात्मने नमः

    nātijñānavahā yasmin nāḍyaḥ stimitatejasi / śabdādilobhi yat tasmai tubhyaṃ yakṣātmane namaḥ

  698. क्रौर्यमायामयं घोरं यच् च रूपं तवासितम् । निशाचरात्मने तस्मै नमस् ते पुरुषोत्तम

    krauryamāyāmayaṃ ghoraṃ yac ca rūpaṃ tavāsitam / niśācarātmane tasmai namas te puruṣottama

  699. स्वर्गस्थधर्मिसद्धर्मफलोपकरणं तव । धर्माख्यं च तथा रूपं नमस् तस्मै जनार्दन

    svargasthadharmisaddharmaphalopakaraṇaṃ tava / dharmākhyaṃ ca tathā rūpaṃ namas tasmai janārdana

  700. हर्षप्रायम् असंसर्गि गतिमद् गमनादिषु । सिद्धात्मंस् तव यद् रूपं तस्मै सिद्धात्मने नमः

    harṣaprāyam asaṃsargi gatimad gamanādiṣu / siddhātmaṃs tava yad rūpaṃ tasmai siddhātmane namaḥ

  701. अतितिक्षाधनं क्रूरम् उपभोगसहं हरे । द्विजिह्वं तव यद् रूपं तस्मै सर्पात्मने नमः

    atitikṣādhanaṃ krūram upabhogasahaṃ hare / dvijihvaṃ tava yad rūpaṃ tasmai sarpātmane namaḥ

  702. अवबोधि च यच् छान्तम् अदोषम् अपकल्मषम् । ऋषिरूपात्मने तस्मै विष्णो रूपाय ते नमः

    avabodhi ca yac chāntam adoṣam apakalmaṣam / ṛṣirūpātmane tasmai viṣṇo rūpāya te namaḥ

  703. भक्षयत्य् अथ कल्पान्ते भूतानि यद् अवारितम् । त्वद्रूपं पुण्डरीकाक्ष तस्मै कालात्मने नमः

    bhakṣayaty atha kalpānte bhūtāni yad avāritam / tvadrūpaṃ puṇḍarīkākṣa tasmai kālātmane namaḥ

  704. संभक्ष्य सर्वभूतानि देवादीन्य् अविशेषतः । नृत्यत्य् अन्ते च यद् रूपं तस्मै रुद्रात्मने नमः

    saṃbhakṣya sarvabhūtāni devādīny aviśeṣataḥ / nṛtyaty ante ca yad rūpaṃ tasmai rudrātmane namaḥ

  705. प्रवृत्त्या रजसो यच् च कर्मणां कारणात्मकम् । जनार्दन नमस् तस्मै त्वद्रूपाय नरात्मने

    pravṛttyā rajaso yac ca karmaṇāṃ kāraṇātmakam / janārdana namas tasmai tvadrūpāya narātmane

  706. अष्टाविंशद्वधोपेतं यद् रूपं तामसं तव । उन्मार्गगामि सर्वात्मंस् तस्मै पश्वात्मने नमः

    aṣṭāviṃśadvadhopetaṃ yad rūpaṃ tāmasaṃ tava / unmārgagāmi sarvātmaṃs tasmai paśvātmane namaḥ

  707. यज्ञाङ्गभूतं यद् रूपं जगतः सिद्धिसाधनम् । वृक्षादिभेदैर् यद् भेदि तस्मै मुख्यात्मने नमः

    yajñāṅgabhūtaṃ yad rūpaṃ jagataḥ siddhisādhanam / vṛkṣādibhedair yad bhedi tasmai mukhyātmane namaḥ

  708. तिर्यङ्मनुष्यदेवादिव्योमशब्दादिकं च यत् । रूपं तवादेः सर्वस्य तस्मै सर्वात्मने नमः

    tiryaṅmanuṣyadevādivyomaśabdādikaṃ ca yat / rūpaṃ tavādeḥ sarvasya tasmai sarvātmane namaḥ

  709. प्रधानबुद्ध्यादिमयाद् अशेषाद् यद् अन्यद् अस्मात् परमं परात्मन् । रूपं तवाद्यं न यद् अन्यतुल्यं तस्मै नमः कारणकारणाय

    pradhānabuddhyādimayād aśeṣād yad anyad asmāt paramaṃ parātman / rūpaṃ tavādyaṃ na yad anyatulyaṃ tasmai namaḥ kāraṇakāraṇāya

  710. शुक्लादिदीर्घादिघनादिहीनम् अगोचरे यच् च विशेषणानाम् । शुद्धातिशुद्धं परमर्षिदृश्यं रूपाय तस्मै भगवन् नताः स्मः

    śuklādidīrghādighanādihīnam agocare yac ca viśeṣaṇānām / śuddhātiśuddhaṃ paramarṣidṛśyaṃ rūpāya tasmai bhagavan natāḥ smaḥ

  711. यन् नः शरीरेषु यद् अन्यदेहेष्व् अशेषवस्तुष्व् अजम् अव्ययं यत् । यस्माच् च नान्यद् व्यतिरिक्तम् अस्ति ब्रह्मस्वरूपाय नताः स्म तस्मै

    yan naḥ śarīreṣu yad anyadeheṣv aśeṣavastuṣv ajam avyayaṃ yat / yasmāc ca nānyad vyatiriktam asti brahmasvarūpāya natāḥ sma tasmai

  712. सकलम् इदम् अजस्य यस्य रूपं परमपदात्मवतः सनातनस्य । तम् अनिधनम् अशेषबीजभूतं प्रभुम् अमलं प्रणताः स्म वासुदेवम्

    sakalam idam ajasya yasya rūpaṃ paramapadātmavataḥ sanātanasya / tam anidhanam aśeṣabījabhūtaṃ prabhum amalaṃ praṇatāḥ sma vāsudevam

  713. §पराशर उवाच: स्तोत्रस्यास्यावसाने तु ददृशुः परमेश्वरम् । शङ्खचक्रगदापाणिं गरुडस्थं सुरा हरिम्

    §parāśara uvāca: stotrasyāsyāvasāne tu dadṛśuḥ parameśvaram / śaṅkhacakragadāpāṇiṃ garuḍasthaṃ surā harim

  714. तम् ऊचुः सकला देवाः प्रणिपातपुरःसरम् । प्रसीद देव दैत्येभ्यस् त्राहीति शरणार्थिनः

    tam ūcuḥ sakalā devāḥ praṇipātapuraḥsaram / prasīda deva daityebhyas trāhīti śaraṇārthinaḥ

  715. त्रैलोक्यं यज्ञभागाश् च दैत्यैर् ह्रादपुरोगमैः । हृतं नो ब्रह्मणो ऽप्य् आज्ञाम् उल्लङ्घ्य परमेश्वर

    trailokyaṃ yajñabhāgāś ca daityair hrādapurogamaiḥ / hṛtaṃ no brahmaṇo 'py ājñām ullaṅghya parameśvara

  716. यद्य् अप्य् अशेषभूतस्य वयं ते च तवांशकाः । तथाप्य् अविद्याभेदेन भिन्नं पश्यामहे जगत्

    yady apy aśeṣabhūtasya vayaṃ te ca tavāṃśakāḥ / tathāpy avidyābhedena bhinnaṃ paśyāmahe jagat

  717. स्ववर्णधर्माभिरता वेदमार्गानुसारिणः । न शक्यास् ते ऽरयो हन्तुम् अस्माभिस् तपसान्विताः

    svavarṇadharmābhiratā vedamārgānusāriṇaḥ / na śakyās te 'rayo hantum asmābhis tapasānvitāḥ

  718. तम् उपायम् अशेषात्मन्न् अस्माकं दातुम् अर्हसि । येन तान् असुरान् हन्तुं भवेम भगवन् क्षमाः

    tam upāyam aśeṣātmann asmākaṃ dātum arhasi / yena tān asurān hantuṃ bhavema bhagavan kṣamāḥ

  719. §पराशर उवाच: इत्य् उक्तो भगवांस् तेभ्यो मायामोहं शरीरतः । समुत्पाद्य ददौ विष्णुः प्राह चेदं सुरोत्तमान्

    §parāśara uvāca: ity ukto bhagavāṃs tebhyo māyāmohaṃ śarīrataḥ / samutpādya dadau viṣṇuḥ prāha cedaṃ surottamān

  720. मायामोहो ऽयम् अखिलान् दैत्यांस् तान् मोहयिष्यति । ततो वध्या भविष्यन्ति वेदमार्गबहिष्कृताः

    māyāmoho 'yam akhilān daityāṃs tān mohayiṣyati / tato vadhyā bhaviṣyanti vedamārgabahiṣkṛtāḥ

  721. स्थितौ स्थितस्य मे वध्या यावन्तः परिपन्थिनः । ब्रह्मणो ह्य् अधिकारस्य देवा दैत्यादिकाः सुराः

    sthitau sthitasya me vadhyā yāvantaḥ paripanthinaḥ / brahmaṇo hy adhikārasya devā daityādikāḥ surāḥ

  722. तद् गच्छत न भीः कार्या मायामोहो ऽयम् अग्रतः । गच्छत्व् अद्योपकाराय भवतां भविता सुराः

    tad gacchata na bhīḥ kāryā māyāmoho 'yam agrataḥ / gacchatv adyopakārāya bhavatāṃ bhavitā surāḥ

  723. §पराशर उवाच: इत्य् उक्ताः प्रणिपत्यैनं ययुर् देवा यथागतम् । मायामोहो ऽपि तैः सार्धं ययौ यत्र महासुराः

    §parāśara uvāca: ity uktāḥ praṇipatyainaṃ yayur devā yathāgatam / māyāmoho 'pi taiḥ sārdhaṃ yayau yatra mahāsurāḥ

  724. ______________________________________________________ §पराशर उवाच: तपस्य् अभिरतान् सो ऽथ मायामोहो महासुरान् । मैत्रेय ददृशे गत्वा नर्मदातीरसंश्रयान्

    ______________________________________________________ §parāśara uvāca: tapasy abhiratān so 'tha māyāmoho mahāsurān / maitreya dadṛśe gatvā narmadātīrasaṃśrayān

  725. ततो दिगम्बरो मुण्डो बर्हिपत्रधरो द्विज । मायामोहो ऽसुरान् श्लक्ष्णम् इदं वचनम् अब्रवीत्

    tato digambaro muṇḍo barhipatradharo dvija / māyāmoho 'surān ślakṣṇam idaṃ vacanam abravīt

  726. §मायामोह उवाच: भो दैत्यपतयो ब्रूत यदर्थं तप्यते तपः । ऐहिकं वाथ पारत्र्यं तपसः फलम् इच्छथ

    §māyāmoha uvāca: bho daityapatayo brūta yadarthaṃ tapyate tapaḥ / aihikaṃ vātha pāratryaṃ tapasaḥ phalam icchatha

  727. §असुरा ऊचुः: पारत्र्यफललाभाय तपश्चर्या महामते । अस्माभिर् इयम् आरब्धा किं वा ते ऽत्र विवक्षितम्

    §asurā ūcuḥ: pāratryaphalalābhāya tapaścaryā mahāmate / asmābhir iyam ārabdhā kiṃ vā te 'tra vivakṣitam

  728. §मायामोह उवाच: कुरुध्वं मम वाक्यानि यदि मुक्तिम् अभीप्सथ । अर्हध्वं धर्मम् एतं च मुक्तिद्वारम् असंवृतम्

    §māyāmoha uvāca: kurudhvaṃ mama vākyāni yadi muktim abhīpsatha / arhadhvaṃ dharmam etaṃ ca muktidvāram asaṃvṛtam

  729. धर्मो विमुक्तेर् अर्हो ऽयं नैतस्माद् अपरः परः । अत्रैवावस्थिताः स्वर्गं विमुक्तिं वा गमिष्यथ

    dharmo vimukter arho 'yaṃ naitasmād aparaḥ paraḥ / atraivāvasthitāḥ svargaṃ vimuktiṃ vā gamiṣyatha

  730. अर्हध्वं धर्मम् एतं च सर्वे यूयं महाबलाः

    arhadhvaṃ dharmam etaṃ ca sarve yūyaṃ mahābalāḥ

  731. §पराशर उवाच: एवंप्रकारैर् बहुभिर् युक्तिदर्शनवर्धितैः । मायामोहेन दैत्यास् ते वेदमार्गाद् अपाकृताः

    §parāśara uvāca: evaṃprakārair bahubhir yuktidarśanavardhitaiḥ / māyāmohena daityās te vedamārgād apākṛtāḥ

  732. धर्मायैतद् अधर्माय सद् एतन् न सद् इत्य् अपि । विमुक्तये त्व् इदं नैतद् विमुक्तिं संप्रयच्छति

    dharmāyaitad adharmāya sad etan na sad ity api / vimuktaye tv idaṃ naitad vimuktiṃ saṃprayacchati

  733. परमार्थो ऽयम् अत्यर्थं परमार्थो न चाप्य् अयम्

    paramārtho 'yam atyarthaṃ paramārtho na cāpy ayam

  734. कार्यम् एतद् अकार्यं च नैतद् एवं स्फुटं त्व् इदम् । दिग्वाससाम् अयं धर्मो धर्मो ऽयं बहुवाससाम्

    kāryam etad akāryaṃ ca naitad evaṃ sphuṭaṃ tv idam / digvāsasām ayaṃ dharmo dharmo 'yaṃ bahuvāsasām

  735. इत्य् अनेकान्तवादं च मायामोहेन नैकधा । तेन दर्शयता दैत्याः स्वधर्मांस् त्याजिता द्विज

    ity anekāntavādaṃ ca māyāmohena naikadhā / tena darśayatā daityāḥ svadharmāṃs tyājitā dvija

  736. अर्हथेमं महाधर्मं मायामोहेन ते यतः । प्रोक्तास् तम् आश्रिता धर्मम् अर्हतास् तेन ते ऽभवन्

    arhathemaṃ mahādharmaṃ māyāmohena te yataḥ / proktās tam āśritā dharmam arhatās tena te 'bhavan

  737. त्रयीधर्मसमुत्सर्गं मायामोहेन ते ऽसुराः । कारितास् तन्मया ह्य् आसंस् तथान्ये तत्प्रबोधिताः

    trayīdharmasamutsargaṃ māyāmohena te 'surāḥ / kāritās tanmayā hy āsaṃs tathānye tatprabodhitāḥ

  738. तैर् अप्य् अन्ये परे तैश् च तैर् अप्य् अन्ये परे च तैः । अल्पैर् अहोभिः संत्यक्ता तैर् दैत्यैः प्रायशस् त्रयी

    tair apy anye pare taiś ca tair apy anye pare ca taiḥ / alpair ahobhiḥ saṃtyaktā tair daityaiḥ prāyaśas trayī

  739. पुनश् च रक्ताम्बरधृङ् मायामोहो ऽजितेक्षणः । अन्यान् आहासुरान् गत्वा मृद्वल्पमधुराक्षरम्

    punaś ca raktāmbaradhṛṅ māyāmoho 'jitekṣaṇaḥ / anyān āhāsurān gatvā mṛdvalpamadhurākṣaram

  740. §मायामोह उवाच: स्वर्गार्थं यदि वो वाञ्छा निर्वाणार्थम् अथासुराः । तद् अलं पशुघातादिदुष्टधर्मं निबोधत

    §māyāmoha uvāca: svargārthaṃ yadi vo vāñchā nirvāṇārtham athāsurāḥ / tad alaṃ paśughātādiduṣṭadharmaṃ nibodhata

  741. विज्ञानमयम् एवैतद् अशेषम् अवगच्छत । बुध्यध्वं मे वचः सम्यग् बुधैर् एवम् उदीरितम्

    vijñānamayam evaitad aśeṣam avagacchata / budhyadhvaṃ me vacaḥ samyag budhair evam udīritam

  742. जगद् एतद् अनाधारं भ्रान्तिज्ञानार्थतत्परम् । रागादिदुष्टम् अत्यर्थं भ्राम्यते भवसंकटे

    jagad etad anādhāraṃ bhrāntijñānārthatatparam / rāgādiduṣṭam atyarthaṃ bhrāmyate bhavasaṃkaṭe

  743. §पराशर उवाच: एवं बुध्यत बुध्यध्वं बुध्यतैवम् इतीरयन् । मायामोहः स दैत्येयान् धर्मम् अत्याजयन् निजम्

    §parāśara uvāca: evaṃ budhyata budhyadhvaṃ budhyataivam itīrayan / māyāmohaḥ sa daityeyān dharmam atyājayan nijam

  744. नानाप्रकारवचनं स तेषां युक्तियोजितम् । तथा तथावदद् धर्मं तत्यजुस् ते यथा यथा

    nānāprakāravacanaṃ sa teṣāṃ yuktiyojitam / tathā tathāvadad dharmaṃ tatyajus te yathā yathā

  745. ते ऽप्य् अन्येषां तथैवोचुर् अन्यैर् अन्ये तथोदिताः । मैत्रेय तत्यजुर् धर्मं वेदस्मृत्युदितं परम्

    te 'py anyeṣāṃ tathaivocur anyair anye tathoditāḥ / maitreya tatyajur dharmaṃ vedasmṛtyuditaṃ param

  746. अन्यान् अप्य् अन्यपाषण्डप्रकारैर् बहुभिर् द्विज । दैतेयान् मोहयाम् आस मायामोहो ऽतिमोहकृत्

    anyān apy anyapāṣaṇḍaprakārair bahubhir dvija / daiteyān mohayām āsa māyāmoho 'timohakṛt

  747. स्वल्पेनैव हि कालेन मायामोहेन ते ऽसुराः । मोहितास् तत्यजुः सर्वां त्रयीमार्गाश्रितां कथाम्

    svalpenaiva hi kālena māyāmohena te 'surāḥ / mohitās tatyajuḥ sarvāṃ trayīmārgāśritāṃ kathām

  748. केचिद् विनिन्दां वेदानां देवानाम् अपरे द्विज । यज्ञकर्मकलापस्य तथान्ये च द्विजन्मनाम्

    kecid vinindāṃ vedānāṃ devānām apare dvija / yajñakarmakalāpasya tathānye ca dvijanmanām

  749. नैतद् युक्तिसहं वाक्यं हिंसा धर्माय नेष्यते । हवींष्य् अनलदग्धानि फलायेत्य् अर्भकोदितम्

    naitad yuktisahaṃ vākyaṃ hiṃsā dharmāya neṣyate / havīṃṣy analadagdhāni phalāyety arbhakoditam

  750. यज्ञैर् अनेकैर् देवत्वम् अवाप्येन्द्रेण भुज्यते । शम्यादि यदि चेत् काष्ठं तद्वरं पत्रभुक् पशुः

    yajñair anekair devatvam avāpyendreṇa bhujyate / śamyādi yadi cet kāṣṭhaṃ tadvaraṃ patrabhuk paśuḥ

  751. अफ़्तेर् २७च् म्१ इन्स्।: निहतस्य पशोर् यज्ञे स्वर्गप्राप्तिर् यदीष्यते । स्वपिता यजमानेन किं नु तस्मान् न हन्यते

    After 27c M1 ins.: nihatasya paśor yajñe svargaprāptir yadīṣyate / svapitā yajamānena kiṃ nu tasmān na hanyate

  752. तृप्तये जायते पुंसो भुक्तम् अन्येन चेत् ततः । दद्याच् छ्राद्धं श्रद्धयान्नं न वहेयुः प्रवासिनः

    tṛptaye jāyate puṃso bhuktam anyena cet tataḥ / dadyāc chrāddhaṃ śraddhayānnaṃ na vaheyuḥ pravāsinaḥ

  753. जनश्रद्धेयम् इत्य् एतद् अवगम्य ततो ऽत्र वः । उपेक्षा श्रेयसी वाक्यं रोचतां यन् मयेरितम्

    janaśraddheyam ity etad avagamya tato 'tra vaḥ / upekṣā śreyasī vākyaṃ rocatāṃ yan mayeritam

  754. न ह्य् आप्तवादा नभसो निपतन्ति महासुराः । युक्तिमद् वचनं ग्राह्यं मयान्यैश् च भवद्विधैः

    na hy āptavādā nabhaso nipatanti mahāsurāḥ / yuktimad vacanaṃ grāhyaṃ mayānyaiś ca bhavadvidhaiḥ

  755. §पराशर उवाच: मायामोहेन ते दैत्याः प्रकारैर् बहुभिस् तथा । व्युत्थापिता यथा नैषां त्रयीं कश्चिद् अरोचयत्

    §parāśara uvāca: māyāmohena te daityāḥ prakārair bahubhis tathā / vyutthāpitā yathā naiṣāṃ trayīṃ kaścid arocayat

  756. इत्थम् उन्मार्गयातेषु तेषु दैत्येषु ते ऽमराः । उद्योगं परमं कृत्वा युद्धाय समुपस्थिताः

    ittham unmārgayāteṣu teṣu daityeṣu te 'marāḥ / udyogaṃ paramaṃ kṛtvā yuddhāya samupasthitāḥ

  757. ततो देवासुरं युद्धं पुनर् एवाभवद् द्विज । हताश् च ते ऽसुरा देवैः सन्मार्गपरिपन्थिनः

    tato devāsuraṃ yuddhaṃ punar evābhavad dvija / hatāś ca te 'surā devaiḥ sanmārgaparipanthinaḥ

  758. सद्धर्मकवचस् तेषाम् अभूद् यः प्रथमं द्विज । तेन रक्षाभवत् पूर्वं नेशुर् नष्टे च तत्र ते

    saddharmakavacas teṣām abhūd yaḥ prathamaṃ dvija / tena rakṣābhavat pūrvaṃ neśur naṣṭe ca tatra te

  759. ततो मैत्रेय तन्मार्गवर्तिनो ये ऽभवञ् जनाः । नग्नास् ते तैर् यतस् त्यक्तं त्रयीसंवरणं वृथा

    tato maitreya tanmārgavartino ye 'bhavañ janāḥ / nagnās te tair yatas tyaktaṃ trayīsaṃvaraṇaṃ vṛthā

  760. एद्। वेङ्क्। इन्स्।: ब्रह्मचारी गृहस्थश् च वानप्रस्थस् तथाश्रमाः । परिव्राड् वा चतुर्थो ऽत्र पञ्चमो नोपपद्यते

    ed. Veṅk. ins.: brahmacārī gṛhasthaś ca vānaprasthas tathāśramāḥ / parivrāḍ vā caturtho 'tra pañcamo nopapadyate

  761. यस् तु संत्यज्य गार्हस्थ्यं वानप्रस्थो न जायते । परिव्राड् वापि मैत्रेय स नग्नः पापकृन् नरः

    yas tu saṃtyajya gārhasthyaṃ vānaprastho na jāyate / parivrāḍ vāpi maitreya sa nagnaḥ pāpakṛn naraḥ

  762. नित्यानां कर्मणां विप्र तस्य हानिर् अहर्निशम् । अकुर्वन् विहितं कर्म शक्तः पतति तद्दिने

    nityānāṃ karmaṇāṃ vipra tasya hānir aharniśam / akurvan vihitaṃ karma śaktaḥ patati taddine

  763. प्रायश्चित्तेन महता शुद्धिं प्राप्नोत्य् अनापदि । पक्षं नित्यक्रियाहानेः कर्ता मैत्रेय मानवः

    prāyaścittena mahatā śuddhiṃ prāpnoty anāpadi / pakṣaṃ nityakriyāhāneḥ kartā maitreya mānavaḥ

  764. संवत्सरं क्रियाहानिर् यस्य पुंसो ऽभिजायते । तस्यावलोकनात् सूर्यो निरीक्ष्यः साधुभिः सदा

    saṃvatsaraṃ kriyāhānir yasya puṃso 'bhijāyate / tasyāvalokanāt sūryo nirīkṣyaḥ sādhubhiḥ sadā

  765. स्पृष्टे स्नानं सचैलस्य शुद्धिहेतुर् महामुने । पुंसो भवति तस्योक्ता न शुद्धिः पापकर्मणः

    spṛṣṭe snānaṃ sacailasya śuddhihetur mahāmune / puṃso bhavati tasyoktā na śuddhiḥ pāpakarmaṇaḥ

  766. देवर्षिपितृभूतानि यस्य निःश्वस्य वेश्मनि । प्रयान्त्य् अनर्चितान्य् अत्र न तस्मात् पापकृन् नरः

    devarṣipitṛbhūtāni yasya niḥśvasya veśmani / prayānty anarcitāny atra na tasmāt pāpakṛn naraḥ

  767. देवादिनिःश्वासहतं शरीरं यस्य वेश्म च । न तेन संकरं कुर्याद् गृहासनपरिच्छदैः

    devādiniḥśvāsahataṃ śarīraṃ yasya veśma ca / na tena saṃkaraṃ kuryād gṛhāsanaparicchadaiḥ

  768. संभाषणानुप्रश्नादि सहास्यं चैव कुर्वतः । जायते तुल्यता पुंसस् तेनैव द्विज वत्सरम्

    saṃbhāṣaṇānupraśnādi sahāsyaṃ caiva kurvataḥ / jāyate tulyatā puṃsas tenaiva dvija vatsaram

  769. अथ भुङ्क्ते गृहे तस्य करोत्य् आस्यां तथासने । शेते चाप्य् एकशयने स सद्यस् तत्समो भवेत्

    atha bhuṅkte gṛhe tasya karoty āsyāṃ tathāsane / śete cāpy ekaśayane sa sadyas tatsamo bhavet

  770. देवतापितृभूतानि तथानभ्यर्च्य यो ऽतिथीन् । भुङ्क्ते स पातकं भुङ्क्ते निष्कृतिस् तस्य कीदृशी

    devatāpitṛbhūtāni tathānabhyarcya yo 'tithīn / bhuṅkte sa pātakaṃ bhuṅkte niṣkṛtis tasya kīdṛśī

  771. ब्राह्मणाद्याश् च ये वर्णाः स्वधर्माद् अन्यतोमुखम् । यान्ति ते नग्नसंज्ञां तु हीनकर्मस्व् अवस्थिताः

    brāhmaṇādyāś ca ye varṇāḥ svadharmād anyatomukham / yānti te nagnasaṃjñāṃ tu hīnakarmasv avasthitāḥ

  772. चतुर्णां यत्र वर्णानां मैत्रेयात्यन्तसंकरः । तत्रास्या साधुवृत्तीनाम् उपघाताय जायते

    caturṇāṃ yatra varṇānāṃ maitreyātyantasaṃkaraḥ / tatrāsyā sādhuvṛttīnām upaghātāya jāyate

  773. अनभ्यर्च्य ऋषीन् देवान् पितृभूतातिथींस् तथा । यो भुङ्क्ते तस्य संभाषात् पतन्ति नरके नराः

    anabhyarcya ṛṣīn devān pitṛbhūtātithīṃs tathā / yo bhuṅkte tasya saṃbhāṣāt patanti narake narāḥ

  774. तस्माद् एतान् नरो नग्नांस् त्रयीसंत्यागदूषितान् । सर्वदा वर्जयेत् प्राज्ञ आलापस्पर्शनादिषु

    tasmād etān naro nagnāṃs trayīsaṃtyāgadūṣitān / sarvadā varjayet prājña ālāpasparśanādiṣu

  775. श्रद्धावद्भिः कृतं यत्नाद् देवान् पितृपितामहान् । न प्रीणयति तच् छ्राद्धं यद्य् एभिर् अवलोकितम्

    śraddhāvadbhiḥ kṛtaṃ yatnād devān pitṛpitāmahān / na prīṇayati tac chrāddhaṃ yady ebhir avalokitam

  776. श्रूयते च पुरा ख्यातो राजा शतधनुर् भुवि । पत्नी च शैब्या तस्याभूद् अतिधर्मपरायणा

    śrūyate ca purā khyāto rājā śatadhanur bhuvi / patnī ca śaibyā tasyābhūd atidharmaparāyaṇā

  777. पतिव्रता महाभागा सत्यशौचदयान्विता । सर्वलक्षणसंपन्ना संपन्ना विनयेन च

    pativratā mahābhāgā satyaśaucadayānvitā / sarvalakṣaṇasaṃpannā saṃpannā vinayena ca

  778. स तु राजा तया सार्धं देवदेवं जनार्दनम् । आराधयाम् आस विभुं परमेण समाधिना

    sa tu rājā tayā sārdhaṃ devadevaṃ janārdanam / ārādhayām āsa vibhuṃ parameṇa samādhinā

  779. होमैर् जपैस् तथा दानैर् उपवासैश् च भक्तितः । पूजाभिश् चानुदिवसं तन्मना नान्यमानसः

    homair japais tathā dānair upavāsaiś ca bhaktitaḥ / pūjābhiś cānudivasaṃ tanmanā nānyamānasaḥ

  780. एकदा तु समं स्नातौ तौ तु भार्यापती जले । भागीरथ्याः समुत्तीर्णौ कार्त्तिक्यां समुपोषितौ । पाषण्डिनम् अपश्येताम् आयान्तं संमुखं द्विज

    ekadā tu samaṃ snātau tau tu bhāryāpatī jale / bhāgīrathyāḥ samuttīrṇau kārttikyāṃ samupoṣitau / pāṣaṇḍinam apaśyetām āyāntaṃ saṃmukhaṃ dvija

  781. चापाचार्यस्य तस्यासौ सखा राज्ञो महात्मनः । अतस् तद्गौरवात् तेन सहालापम् अथाकरोत्

    cāpācāryasya tasyāsau sakhā rājño mahātmanaḥ / atas tadgauravāt tena sahālāpam athākarot

  782. न तु सा वाग्यता देवी तस्य पत्नी यतव्रता । उपोषितास्मीति रविं तस्मिन् दृष्टे ददर्श च

    na tu sā vāgyatā devī tasya patnī yatavratā / upoṣitāsmīti raviṃ tasmin dṛṣṭe dadarśa ca

  783. समागम्य यथान्यायं दम्पती तौ यथाविधि । विष्णोः पूजादिकं सर्वं कृतवन्तौ द्विजोत्तम

    samāgamya yathānyāyaṃ dampatī tau yathāvidhi / viṣṇoḥ pūjādikaṃ sarvaṃ kṛtavantau dvijottama

  784. कालेन गच्छता राजा ममारासौ सपत्नजित् । अन्वारुरोह तं देवी चितास्थं भूपतिं पतिम्

    kālena gacchatā rājā mamārāsau sapatnajit / anvāruroha taṃ devī citāsthaṃ bhūpatiṃ patim

  785. स तु तेनापचारेण श्वा जज्ञे वसुधाधिपः । उपोषितेन पाषण्डसंभाषो यः कृतो ऽभवत्

    sa tu tenāpacāreṇa śvā jajñe vasudhādhipaḥ / upoṣitena pāṣaṇḍasaṃbhāṣo yaḥ kṛto 'bhavat

  786. सापि जातिस्मरा जज्ञे काशिराजसुता शुभा । सर्वविज्ञानसंपन्ना सर्वलक्षणभूषिता

    sāpi jātismarā jajñe kāśirājasutā śubhā / sarvavijñānasaṃpannā sarvalakṣaṇabhūṣitā

  787. तां पिता दातुकामो ऽभूद् वराय विनिवारितः । तयैव तन्व्या विरतो विवाहारम्भतो नृपः

    tāṃ pitā dātukāmo 'bhūd varāya vinivāritaḥ / tayaiva tanvyā virato vivāhārambhato nṛpaḥ

  788. ततः सा दिव्यया दृष्ट्या दृष्ट्वा श्वानं निजं पतिम् । वैदिशाख्यं पुरं गत्वा तदवस्थं ददर्श तम्

    tataḥ sā divyayā dṛṣṭyā dṛṣṭvā śvānaṃ nijaṃ patim / vaidiśākhyaṃ puraṃ gatvā tadavasthaṃ dadarśa tam

  789. तं दृष्ट्वैव महाभागा श्वानभूतं पतिं तथा । ददौ तस्मै वराहारं सत्कारप्रवणं शुभम्

    taṃ dṛṣṭvaiva mahābhāgā śvānabhūtaṃ patiṃ tathā / dadau tasmai varāhāraṃ satkārapravaṇaṃ śubham

  790. भुञ्जन् दत्तं तया सो ऽन्नम् अतिमिष्टम् अभीप्सितम् । श्वजातिललितं कुर्वन् बहु चाटु चकार वै

    bhuñjan dattaṃ tayā so 'nnam atimiṣṭam abhīpsitam / śvajātilalitaṃ kurvan bahu cāṭu cakāra vai

  791. अतीव व्रीडिता बाला कुर्वता चाटु तेन सा । प्रणामपूर्वम् आहेदं दयितं तं कुयोनिजम्

    atīva vrīḍitā bālā kurvatā cāṭu tena sā / praṇāmapūrvam āhedaṃ dayitaṃ taṃ kuyonijam

  792. §पत्न्य् उवाच: स्मर्यतां तन् महाराज दाक्षिण्यललितं त्वया । येन श्वयोनिम् आपन्नो मम चाटुकरो भवान्

    §patny uvāca: smaryatāṃ tan mahārāja dākṣiṇyalalitaṃ tvayā / yena śvayonim āpanno mama cāṭukaro bhavān

  793. पाषण्डिनं समाभाष्य तीर्थस्नानाद् अनन्तरम् । प्राप्तो ऽसि कुत्सितां योनिं किं न स्मरसि तत् प्रभो

    pāṣaṇḍinaṃ samābhāṣya tīrthasnānād anantaram / prāpto 'si kutsitāṃ yoniṃ kiṃ na smarasi tat prabho

  794. §पराशर उवाच: तयैवं स्मारिते तत्र पूर्वजातिकृते तदा । दध्यौ चिरम् अथावाप निर्वेदम् अतिदुर्लभम्

    §parāśara uvāca: tayaivaṃ smārite tatra pūrvajātikṛte tadā / dadhyau ciram athāvāpa nirvedam atidurlabham

  795. निर्विण्णचित्तः स ततो निर्गम्य नगराद् बहिः । मरुप्रपतनं कृत्वा शार्गालीं योनिम् आगतः

    nirviṇṇacittaḥ sa tato nirgamya nagarād bahiḥ / maruprapatanaṃ kṛtvā śārgālīṃ yonim āgataḥ

  796. सापि द्वितीये संप्राप्ते वर्षे दिव्येन चक्षुषा । ज्ञात्वा सृगालं तं द्रष्टुं ययौ कोलाहलं गिरिम्

    sāpi dvitīye saṃprāpte varṣe divyena cakṣuṣā / jñātvā sṛgālaṃ taṃ draṣṭuṃ yayau kolāhalaṃ girim

  797. तत्रापि दृष्ट्वा तं प्राह शार्गालीं योनिम् आगतम् । भर्तारम् अपि चार्वङ्गी तनया पृथिवीक्षितः

    tatrāpi dṛṣṭvā taṃ prāha śārgālīṃ yonim āgatam / bhartāram api cārvaṅgī tanayā pṛthivīkṣitaḥ

  798. §पत्न्य् उवाच: अपि स्मरसि राजेन्द्र श्वयोनिस्थस्य यन् मया । प्रोक्तं ते पूर्वचरितं पाषण्डालापसंश्रयम्

    §patny uvāca: api smarasi rājendra śvayonisthasya yan mayā / proktaṃ te pūrvacaritaṃ pāṣaṇḍālāpasaṃśrayam

  799. §पराशर उवाच: पुनस् तयोक्तं तज् ज्ञात्वा सत्यं सत्यवतां वरः । कानने स निराहारस् तत्याज स्वं कलेवरम्

    §parāśara uvāca: punas tayoktaṃ taj jñātvā satyaṃ satyavatāṃ varaḥ / kānane sa nirāhāras tatyāja svaṃ kalevaram

  800. भूयस् ततो वृकं जातं गत्वा तं निर्जने वने । स्मारयाम् आस भर्तारं पूर्ववृत्तम् अनिन्दिता

    bhūyas tato vṛkaṃ jātaṃ gatvā taṃ nirjane vane / smārayām āsa bhartāraṃ pūrvavṛttam aninditā

  801. न त्वं वृको महाभाग राजा शतधनुर् भवान् । श्वा भूत्वा त्वं शृगालो ऽभूर् वृकत्वं साम्प्रतं गतः

    na tvaṃ vṛko mahābhāga rājā śatadhanur bhavān / śvā bhūtvā tvaṃ śṛgālo 'bhūr vṛkatvaṃ sāmprataṃ gataḥ

  802. §पराशर उवाच: स्मारितेन यथा व्यक्तस् तेनात्मा गृध्रतां गतः । अपापा सा पुनश् चैनं बोधयाम् आस भामिनी

    §parāśara uvāca: smāritena yathā vyaktas tenātmā gṛdhratāṃ gataḥ / apāpā sā punaś cainaṃ bodhayām āsa bhāminī

  803. नरेन्द्र स्मर्यताम् आत्मा ह्य् अलं ते गृध्रचेष्टया । पाषण्डालापजातो ऽयं दोषो यद् गृध्रतां गतः

    narendra smaryatām ātmā hy alaṃ te gṛdhraceṣṭayā / pāṣaṇḍālāpajāto 'yaṃ doṣo yad gṛdhratāṃ gataḥ

  804. ततः काकत्वम् आपन्नं समनन्तरजन्मनि । उवाच तन्वी भर्तारम् उपलभ्यात्मयोगतः

    tataḥ kākatvam āpannaṃ samanantarajanmani / uvāca tanvī bhartāram upalabhyātmayogataḥ

  805. अशेषा भूभृतः पूर्वं वश्या यस्मै बलिं ददुः । स त्वं काकत्वम् आपन्नो जातो ऽद्य बलिभुक् प्रभो

    aśeṣā bhūbhṛtaḥ pūrvaṃ vaśyā yasmai baliṃ daduḥ / sa tvaṃ kākatvam āpanno jāto 'dya balibhuk prabho

  806. एवम् एव च काकत्वे स्मारितः स पुरातनम् । तत्याज भूपतिः प्राणान् मयूरत्वम् अवाप च

    evam eva ca kākatve smāritaḥ sa purātanam / tatyāja bhūpatiḥ prāṇān mayūratvam avāpa ca

  807. मयूरत्वे ततः सा वै चकारानुगतं शुभा । दत्तैः प्रतिक्षणं भोज्यैर् बाला तज्जातिभोजनैः

    mayūratve tataḥ sā vai cakārānugataṃ śubhā / dattaiḥ pratikṣaṇaṃ bhojyair bālā tajjātibhojanaiḥ

  808. ततस् तु जनको राजा वाजिमेधं महाक्रतुम् । चकार तस्यावभृथे स्नापयाम् आस तं तदा

    tatas tu janako rājā vājimedhaṃ mahākratum / cakāra tasyāvabhṛthe snāpayām āsa taṃ tadā

  809. सस्नौ स्वयं च तन्वङ्गी स्मारयाम् आस चापि तम् । यथासौ श्वशृगालाद्या योनीर् जग्राह पार्थिवः

    sasnau svayaṃ ca tanvaṅgī smārayām āsa cāpi tam / yathāsau śvaśṛgālādyā yonīr jagrāha pārthivaḥ

  810. स्मृतजन्मक्रमः सो ऽथ तत्याज स्वं कलेवरम् । जज्ञे च जनकस्यैव पुत्रो ऽसौ सुमहात्मनः

    smṛtajanmakramaḥ so 'tha tatyāja svaṃ kalevaram / jajñe ca janakasyaiva putro 'sau sumahātmanaḥ

  811. ततः सा पितरं तन्वी विवाहार्थम् अचोदयत् । स चापि कारयाम् आस पिता तस्याः स्वयंवरम्

    tataḥ sā pitaraṃ tanvī vivāhārtham acodayat / sa cāpi kārayām āsa pitā tasyāḥ svayaṃvaram

  812. स्वयंवरे कृते सा तं संप्राप्तं पतिम् आत्मनः । वरयाम् आस भूयो ऽपि भर्तृभावेन भामिनी

    svayaṃvare kṛte sā taṃ saṃprāptaṃ patim ātmanaḥ / varayām āsa bhūyo 'pi bhartṛbhāvena bhāminī

  813. बुभुजे च तया सार्धं संभोगान् नृपनन्दनः । पितर्य् उपरते राज्यं विदेहेषु चकार सः

    bubhuje ca tayā sārdhaṃ saṃbhogān nṛpanandanaḥ / pitary uparate rājyaṃ videheṣu cakāra saḥ

  814. इयाज यज्ञान् सुबहून् ददौ दानानि चार्थिनाम् । पुत्रान् उत्पादयाम् आस युयुधे च सहारिभिः

    iyāja yajñān subahūn dadau dānāni cārthinām / putrān utpādayām āsa yuyudhe ca sahāribhiḥ

  815. राज्यं कृत्वा यथान्यायं पालयित्वा वसुंधराम् । तत्याज स प्रियान् प्राणान् संग्रामे धर्मतो नृपः

    rājyaṃ kṛtvā yathānyāyaṃ pālayitvā vasuṃdharām / tatyāja sa priyān prāṇān saṃgrāme dharmato nṛpaḥ

  816. ततश् चितास्थं तं भूयो भर्तारं सा शुभेक्षणा । अन्वारुरोह विधिवद् यथापूर्वं मुदावती

    tataś citāsthaṃ taṃ bhūyo bhartāraṃ sā śubhekṣaṇā / anvāruroha vidhivad yathāpūrvaṃ mudāvatī

  817. ततो ऽवाप तया सार्धं राजपुत्र्या स पार्थिवः । ऐन्द्रान् अतीत्य वै लोकांल् लोकान् कामदुहो ऽक्षयान्

    tato 'vāpa tayā sārdhaṃ rājaputryā sa pārthivaḥ / aindrān atītya vai lokāṃl lokān kāmaduho 'kṣayān

  818. स्वर्गाक्षयत्वम् अतुलं दाम्पत्यम् अतिदुर्लभम् । प्राप्तं पुण्यफलं प्राप्य संशुद्धिं तां द्विजोत्तम

    svargākṣayatvam atulaṃ dāmpatyam atidurlabham / prāptaṃ puṇyaphalaṃ prāpya saṃśuddhiṃ tāṃ dvijottama

  819. एष पाषण्डसंभाषदोषः प्रोक्तो मया द्विज । तथाश्वमेधावभृथस्नानमाहात्म्यम् एव च

    eṣa pāṣaṇḍasaṃbhāṣadoṣaḥ prokto mayā dvija / tathāśvamedhāvabhṛthasnānamāhātmyam eva ca

  820. तस्मात् पाषण्डिभिः पापैर् आलापस्पर्शनं त्यजेत् । विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः

    tasmāt pāṣaṇḍibhiḥ pāpair ālāpasparśanaṃ tyajet / viśeṣataḥ kriyākāle yajñādau cāpi dīkṣitaḥ

  821. क्रियाहानिर् गृहे यस्य मासम् एकं प्रजायते । तस्यावलोकनात् सूर्यं पश्येत मतिमान् नरः

    kriyāhānir gṛhe yasya māsam ekaṃ prajāyate / tasyāvalokanāt sūryaṃ paśyeta matimān naraḥ

  822. किं पुनर् यैस् तु संत्यक्ता त्रयी सर्वात्मना द्विज । परान्नभोजिभिः पापैर् वेदवादविरोधिभिः

    kiṃ punar yais tu saṃtyaktā trayī sarvātmanā dvija / parānnabhojibhiḥ pāpair vedavādavirodhibhiḥ

  823. अफ़्तेर् ९९, एद्। वेङ्क्। इन्स्।: पाषण्डिनो विकर्मस्थान् बैडालव्रतिकाञ् छठान् । हैतुकान् बकवृत्तींश् च वाङ्मात्रेणापि नार्चयेत्

    After 99, ed. Veṅk. ins.: pāṣaṇḍino vikarmasthān baiḍālavratikāñ chaṭhān / haitukān bakavṛttīṃś ca vāṅmātreṇāpi nārcayet

  824. श्२,ब्२,द्७ इन्स्।: ब्२ चोन्त्।: दूराद् अपास्तः संपर्कस् सहास्यापि च पापिभिः । पाषण्डिभिर् दुराचारैस् तस्मात् तान् परिवर्जयेत्

    Ś2,B2,D7 ins.: B2 cont.: dūrād apāstaḥ saṃparkas sahāsyāpi ca pāpibhiḥ / pāṣaṇḍibhir durācārais tasmāt tān parivarjayet

  825. एते नग्नास् तवाख्याता दृष्ट्या श्राद्धोपघातकाः । येषां संभाषणात् पुंसां दिनपुण्यं प्रणश्यति

    ete nagnās tavākhyātā dṛṣṭyā śrāddhopaghātakāḥ / yeṣāṃ saṃbhāṣaṇāt puṃsāṃ dinapuṇyaṃ praṇaśyati

  826. एते पाषण्डिनः पापा न ह्य् एतान् आलपेद् बुधः । पुण्यं नश्यति संभाषाद् एतेषां तद्दिनोद्भवम्

    ete pāṣaṇḍinaḥ pāpā na hy etān ālaped budhaḥ / puṇyaṃ naśyati saṃbhāṣād eteṣāṃ taddinodbhavam

  827. पुंसां जटाधरणमौण्ड्यवतां वृथैव मोघाशिनाम् अखिलशौचनिराकृतानाम् । तोयप्रदानपितृपिण्डबहिष्कृतानां संभाषणाद् अपि नरा नरकं प्रयान्ति

    puṃsāṃ jaṭādharaṇamauṇḍyavatāṃ vṛthaiva moghāśinām akhilaśaucanirākṛtānām / toyapradānapitṛpiṇḍabahiṣkṛtānāṃ saṃbhāṣaṇād api narā narakaṃ prayānti

  828. श्२,द्७,ग्३ इन्स्।: आर्षादि बहुधा स्थानं देवर्षिरचिताश्रयम्

    Ś2,D7,G3 ins.: ārṣādi bahudhā sthānaṃ devarṣiracitāśrayam

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *2 line 1 before ViP 3.4.10 (Pathak Critical Edition apparatus).

  829. इतिहासम् इति प्रोक्तं स्थविष्ठाद्भुतकर्मयुक्

    itihāsam iti proktaṃ sthaviṣṭhādbhutakarmayuk

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *2 line 2 before ViP 3.4.10 (Pathak Critical Edition apparatus).

  830. द्३,त्१।३,ग्३ इन्स्।: एतानि पञ्चनामानि संहितायाः समाश्रिताः

    D3,T1.3,G3 ins.: etāni pañcanāmāni saṃhitāyāḥ samāśritāḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *3 before ViP 3.4.22 (Pathak Critical Edition apparatus).

  831. श्,द्२।७ इन्स्।: नमो ऽग्नीसोमभूताय सर्वसिद्धिकराय च

    Ś,D2.7 ins.: namo 'gnīsomabhūtāya sarvasiddhikarāya ca

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *4 before ViP 3.5.19 (Pathak Critical Edition apparatus).

  832. श्,द्७ इन्स्।: ऋग्यजुःशाखिशाखो ऽयं शाखासंख्य्या प्रपञ्चिता

    Ś,D7 ins.: ṛgyajuḥśākhiśākho 'yaṃ śākhāsaṃkhyyā prapañcitā

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *5 line 1 before ViP 3.6.1 (Pathak Critical Edition apparatus).

  833. सामाथर्वपुराणोक्तं शाखासंज्ञाथ कथ्यते

    sāmātharvapurāṇoktaṃ śākhāsaṃjñātha kathyate

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *5 line 2 before ViP 3.6.1 (Pathak Critical Edition apparatus).

  834. श्२,द्७ इन्स्।: पुत्रम् अध्यापयाम् आस सुमन्तुम् अथ जैमिनिः

    Ś2,D7 ins.: putram adhyāpayām āsa sumantum atha jaiminiḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *6 line 1 before ViP 3.6.3 (Pathak Critical Edition apparatus).

  835. सुमन्तुश् चपि सुमुलं पुत्रम् अध्यापयन् मुनिः

    sumantuś capi sumulaṃ putram adhyāpayan muniḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *6 line 2 before ViP 3.6.3 (Pathak Critical Edition apparatus).

  836. श्२,द्७ इन्स्।: स्वयं दृष्ट्वार्थकथनं प्राहुर् आख्यानकं बुधाः

    Ś2,D7 ins.: svayaṃ dṛṣṭvārthakathanaṃ prāhur ākhyānakaṃ budhāḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *7 line 1 before ViP 3.6.15 (Pathak Critical Edition apparatus).

  837. श्रुतस्यार्थस्य कथनम् उपाख्यानं प्रचक्षते

    śrutasyārthasya kathanam upākhyānaṃ pracakṣate

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *7 line 2 before ViP 3.6.15 (Pathak Critical Edition apparatus).

  838. द्३,म्०, एद्। वेङ्क्। इन्स्।: महापुराणान्य् एतानि ह्य् अष्टादश महामुने

    D3,M0, ed. Veṅk. ins.: mahāpurāṇāny etāni hy aṣṭādaśa mahāmune

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *8 line 1 before ViP 3.6.23 (Pathak Critical Edition apparatus).

  839. तथा चोपपुराणानि मुनिभिः कथितानि च

    tathā copapurāṇāni munibhiḥ kathitāni ca

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *8 line 2 before ViP 3.6.23 (Pathak Critical Edition apparatus).

  840. श्२ इन्स्।: वेदराशिर् अपारो ऽसाव् उक्तः शाखाविभागतः

    Ś2 ins.: vedarāśir apāro 'sāv uktaḥ śākhāvibhāgataḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *9 line 1 before ViP 3.7.1 (Pathak Critical Edition apparatus).

  841. xxxx परो धर्मो वर्णादीनाम् अथोच्यते

    xxxx paro dharmo varṇādīnām athocyate

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *9 line 2 before ViP 3.7.1 (Pathak Critical Edition apparatus).

  842. ग्१,म्१।२ इन्स्।: नरके पच्यमानस् तु यमेन परिभाषितः

    G1,M1.2 ins.: narake pacyamānas tu yamena paribhāṣitaḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *10 line 1 before ViP 3.7.13 (Pathak Critical Edition apparatus).

  843. किं त्वया नार्चितो देवः केशवः क्लेशनाशनः

    kiṃ tvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *10 line 2 before ViP 3.7.13 (Pathak Critical Edition apparatus).

  844. द्७ इन्स्।: विष्णुभक्तादिचिह्नं यो निजधर्मः पुरोदितः

    D7 ins.: viṣṇubhaktādicihnaṃ yo nijadharmaḥ puroditaḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *13 line 1 before ViP 3.8.1 (Pathak Critical Edition apparatus).

  845. तम् एवातिस्फुटं वक्तुं पञ्चाध्यायी विधीयते

    tam evātisphuṭaṃ vaktuṃ pañcādhyāyī vidhīyate

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *13 line 2 before ViP 3.8.1 (Pathak Critical Edition apparatus).

  846. म्०।३,एद्। वेङ्क्। इन्स्।: शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्य् अमायया

    M0.3,ed. Veṅk. ins.: śūdrasya sannatiḥ śaucaṃ sevā svāminy amāyayā

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *14 line 1 before ViP 3.8.32 (Pathak Critical Edition apparatus).

  847. अमन्त्रयज्ञा ह्य् अस्ते ऽयं तत्सङ्गो विप्ररक्षणम्

    amantrayajñā hy aste 'yaṃ tatsaṅgo viprarakṣaṇam

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *14 line 2 before ViP 3.8.32 (Pathak Critical Edition apparatus).

  848. श्२,द्७ इन्स्।: शरीरं या तृतीयेन स्वशुभेनापि कर्मणा

    Ś2,D7 ins.: śarīraṃ yā tṛtīyena svaśubhenāpi karmaṇā

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *15 line 1 before ViP 3.8.35 (Pathak Critical Edition apparatus).

  849. अत्यन्तं न तु कर्तव्यम् अनायासः स उच्यते

    atyantaṃ na tu kartavyam anāyāsaḥ sa ucyate

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *15 line 2 before ViP 3.8.35 (Pathak Critical Edition apparatus).

  850. श्,द्७ इन्स्।: नामधेयं दशम्यां तु केचिद् इच्छन्ति पार्थिव

    Ś,D7 ins.: nāmadheyaṃ daśamyāṃ tu kecid icchanti pārthiva

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *16 line 1 before ViP 3.10.8 (Pathak Critical Edition apparatus).

  851. द्वादश्याम् अथवा राजन् मासे पूर्णे ऽथवा परे

    dvādaśyām athavā rājan māse pūrṇe 'thavā pare

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *16 line 2 before ViP 3.10.8 (Pathak Critical Edition apparatus).

  852. श्१,ञ्,व्१,ब्१।२,द्८ इन्स्।: नोद्वहेत् तादृशीं कन्यां प्राज्ञः कार्यविशारदः

    Ś1,Ñ,V1,B1.2,D8 ins.: nodvahet tādṛśīṃ kanyāṃ prājñaḥ kāryaviśāradaḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *17 before ViP 3.10.20 (Pathak Critical Edition apparatus).

  853. श्,द्७ इन्स्।: यज्ञेषु ऋत्विजे दैव आदायार्षस् तु गोद्वयम्

    Ś,D7 ins.: yajñeṣu ṛtvije daiva ādāyārṣas tu godvayam

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *18 line 1 before ViP 3.10.24 (Pathak Critical Edition apparatus).

  854. सहौ तौ चरतां धर्मं प्राजापत्यो विधिः स्मृतः

    sahau tau caratāṃ dharmaṃ prājāpatyo vidhiḥ smṛtaḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *18 line 2 before ViP 3.10.24 (Pathak Critical Edition apparatus).

  855. श्२,द्७ इन्स्।: प्रक्षाल्य पादौ हस्तौ च त्रिः पिबेद् अम्बु वीक्षितम्

    Ś2,D7 ins.: prakṣālya pādau hastau ca triḥ pibed ambu vīkṣitam

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *20 line 1 before ViP 3.11.21 (Pathak Critical Edition apparatus).

  856. संवृत्याङ्गुष्ठमूलेन द्विः प्रमृजेत् ततो मुखम्

    saṃvṛtyāṅguṣṭhamūlena dviḥ pramṛjet tato mukham

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *20 line 2 before ViP 3.11.21 (Pathak Critical Edition apparatus).

  857. संहताभिस् त्रिभिः पूर्वं सोष्टं तु समुपस्पृशेत्

    saṃhatābhis tribhiḥ pūrvaṃ soṣṭaṃ tu samupaspṛśet

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *20 line 3 before ViP 3.11.21 (Pathak Critical Edition apparatus).

  858. अङ्गुष्ठेन प्रदेशिन्या xxxxxxxx [लचुन]

    aṅguṣṭhena pradeśinyā xxxxxxxx [lacuna]

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *20 line 4 before ViP 3.11.21 (Pathak Critical Edition apparatus).

  859. अङ्गुष्ठानामिकाभ्यां च चक्षुः श्रोत्रं पुनः पुनः

    aṅguṣṭhānāmikābhyāṃ ca cakṣuḥ śrotraṃ punaḥ punaḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *20 line 5 before ViP 3.11.21 (Pathak Critical Edition apparatus).

  860. कनिष्ठाङ्गुष्ठतो नाभिं हृदयं तु तलेन वै

    kaniṣṭhāṅguṣṭhato nābhiṃ hṛdayaṃ tu talena vai

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *20 line 6 before ViP 3.11.21 (Pathak Critical Edition apparatus).

  861. सर्वाङ्गेषु शिरः पश्चाच् चाश्रेण [??] संस्पृशेद् इति

    sarvāṅgeṣu śiraḥ paścāc cāśreṇa [??] saṃspṛśed iti

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *20 line 7 before ViP 3.11.21 (Pathak Critical Edition apparatus).

  862. द्१,म्१ इन्स्।: ये च विष्णुपरा नित्यं ये च विखानसाश्रमाः

    D1,M1 ins.: ye ca viṣṇuparā nityaṃ ye ca vikhānasāśramāḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *21 line 1 before ViP 3.11.69 (Pathak Critical Edition apparatus).

  863. पञ्चरात्रं विधानज्ञा ये च विष्णुपरायणाः

    pañcarātraṃ vidhānajñā ye ca viṣṇuparāyaṇāḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *21 line 2 before ViP 3.11.69 (Pathak Critical Edition apparatus).

  864. विष्णुरूपधरा ये ते विष्णुम् एव समाश्रिताः

    viṣṇurūpadharā ye te viṣṇum eva samāśritāḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *21 line 3 before ViP 3.11.69 (Pathak Critical Edition apparatus).

  865. सर्वो विष्णुमयो लोक इति मत्वा स्थिताश् च ये

    sarvo viṣṇumayo loka iti matvā sthitāś ca ye

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *21 line 4 before ViP 3.11.69 (Pathak Critical Edition apparatus).

  866. सर्व एते ह्य् अतिथयो मृष्या वै सार्वकालिकम्

    sarva ete hy atithayo mṛṣyā vai sārvakālikam

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *21 line 5 before ViP 3.11.69 (Pathak Critical Edition apparatus).

  867. एतेषाम् एकम् अतिथिं पूजयेत् पुण्यलोकभाक्

    eteṣām ekam atithiṃ pūjayet puṇyalokabhāk

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *21 line 6 before ViP 3.11.69 (Pathak Critical Edition apparatus).

  868. त्३, एद्। वेङ्क्। इन्स्। अफ़्तेर् ७३, ग्२ अफ़्तेर् ७३अब्, द्३ बेफ़ोरे ७४अब्: अभूताशी कृमिं भुङ्क्ते अदाता विषम् अश्नुते

    T3, ed. Veṅk. ins. after 73, G2 after 73ab, D3 before 74ab: abhūtāśī kṛmiṃ bhuṅkte adātā viṣam aśnute

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *22 before ViP 3.11.73 (Pathak Critical Edition apparatus).

  869. द्४ इन्स्।: देहेषु सर्वेषु यथा च देही ॥॥

    D4 ins.: deheṣu sarveṣu yathā ca dehī ....

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *23 before ViP 3.11.94 (Pathak Critical Edition apparatus).

  870. द्५ इन्स्।: एकाग्रचित्तस्य दृढव्रतस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य । अध्यात्मयोगे यतमानसस्य मोक्षो ध्रुवं नित्यम् अहिंसकस्य

    D5 ins.: ekāgracittasya dṛḍhavratasya sarvendriyaprītinivartakasya / adhyātmayoge yatamānasasya mokṣo dhruvaṃ nityam ahiṃsakasya

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *24 before ViP 3.12.33 (Pathak Critical Edition apparatus).

  871. ग्२।३,एद्। वेङ्क्। इन्स्।: सदाचाररतः प्राज्ञो विद्याविनयशिक्षितः

    G2.3,ed. Veṅk. ins.: sadācārarataḥ prājño vidyāvinayaśikṣitaḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *25 before ViP 3.12.40 (Pathak Critical Edition apparatus).

  872. श्२,द्७ इन्स्।: ततो ऽनुबन्धुवर्गस् तु भुवि दद्यात् तिलोदकम्

    Ś2,D7 ins.: tato 'nubandhuvargas tu bhuvi dadyāt tilodakam

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *26 before ViP 3.13.13 (Pathak Critical Edition apparatus).

  873. एता युगाद्यास् तिथयश् चतस्रो ऽप्य् अनन्तपुण्या नृप संप्रदिष्टाः ॥ विप्_३,१४।१३अब् ॥ श्२,द्७ इन्स्। अफ़्तेर् १३अब्: द्वे शुक्ले द्वे तथा कृष्णे युगाद्ये मुनयो विदुः ॥ विप्_३,१४।१३अब्*२८:१ ॥ शुक्ले पूर्वाह्निके ग्राह्ये कृष्णे चैवापराह्निके ॥ विप्_३,१४।१३अब्*२८:२ ॥ युगाद्येषु युगान्तेषु दत्तम् अक्षयम् इष्यते ॥ विप्_३,१४।१३अब्*२८:३ ॥ उपप्लवे चन्द्रमसो रवेश् च त्रिष्व् अष्टकास्व् अप्य् अयनद्वये च ॥ विप्_३,१४।१३च्द् ॥ श्,द्१।६।७ इन्स्।, द्५ इन्स्। ल्। १-२ अफ़्तेर् १३अब् अन्द् ल्। ३-४ अफ़्तेर् १३: चन्द्रक्षये माघवमासि यत्र दिनक्षये वै विषुवद्द्वयं च । मन्वन्तराद्यास् तिथयस् तथैव छायागजस्य व्यतिपातकालः

    etā yugādyās tithayaś catasro 'py anantapuṇyā nṛpa saṃpradiṣṭāḥ // ViP_3,14.13ab // Ś2,D7 ins. after 13ab: dve śukle dve tathā kṛṣṇe yugādye munayo viduḥ // ViP_3,14.13ab*28:1 // śukle pūrvāhnike grāhye kṛṣṇe caivāparāhnike // ViP_3,14.13ab*28:2 // yugādyeṣu yugānteṣu dattam akṣayam iṣyate // ViP_3,14.13ab*28:3 // upaplave candramaso raveś ca triṣv aṣṭakāsv apy ayanadvaye ca // ViP_3,14.13cd // Ś,D1.6.7 ins., D5 ins. l. 1-2 after 13ab and l. 3-4 after 13: candrakṣaye māghavamāsi yatra dinakṣaye vai viṣuvaddvayaṃ ca / manvantarādyās tithayas tathaiva chāyāgajasya vyatipātakālaḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *29 before ViP 3.14.13 (Pathak Critical Edition apparatus).

  874. श्२,ञ्२,व्१,ब्२,द्५।७।८ इन्स्।: दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत्

    Ś2,Ñ2,V1,B2,D5.7.8 ins.: dakṣiṇāpravaṇaṃ caiva prayatnenopapādayet

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *31 line 1 before ViP 3.15.40 (Pathak Critical Edition apparatus).

  875. अवकाशेषु चोक्षेषु जलतीरेषु चैव हि

    avakāśeṣu cokṣeṣu jalatīreṣu caiva hi

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *31 line 2 before ViP 3.15.40 (Pathak Critical Edition apparatus).

  876. श्२,द्७ इन्स्।: एवं नवभिर् अध्यायैस् त्रयीधर्मः प्रपञ्चितः

    Ś2,D7 ins.: evaṃ navabhir adhyāyais trayīdharmaḥ prapañcitaḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *32 line 1 before ViP 3.17.1 (Pathak Critical Edition apparatus).

  877. तत्परित्यागनिन्दार्थम् अध्यायद्वयम् उत्तरम्

    tatparityāganindārtham adhyāyadvayam uttaram

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *32 line 2 before ViP 3.17.1 (Pathak Critical Edition apparatus).

  878. द्४,त्२।३,ग्२,एद्। वेङ्क्। इन्स्।: श्रोतुं धर्मभृतां श्रेष्ठ न ह्य् अस्त्य् अविदितं तव

    D4,T2.3,G2,ed. Veṅk. ins.: śrotuṃ dharmabhṛtāṃ śreṣṭha na hy asty aviditaṃ tava

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *33 before ViP 3.17.4 (Pathak Critical Edition apparatus).

  879. अफ़्तेर् २७च् म्१ इन्स्।: ॥॥ ॥॥ भवेद् यज्ञस्य साधनम्

    After 27c M1 ins.: .... .... bhaved yajñasya sādhanam

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *34 line 1 before ViP 3.18.27 (Pathak Critical Edition apparatus).

  880. तदाहारस् तदा नित्यं ॥॥ ॥॥

    tadāhāras tadā nityaṃ .... ....

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *34 line 2 before ViP 3.18.27 (Pathak Critical Edition apparatus).

  881. एद्। वेङ्क्। इन्स्।: कृताश् च ते ऽसुरा देवैर् नानावेदविनिन्दकाः

    ed. Veṅk. ins.: kṛtāś ca te 'surā devair nānāvedavinindakāḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *35 before ViP 3.18.36 (Pathak Critical Edition apparatus).

  882. अफ़्तेर् ९९, एद्। वेङ्क्। इन्स्।: सहालापस् तु संसर्गः सहास्या चातिपापिनी

    After 99, ed. Veṅk. ins.: sahālāpas tu saṃsargaḥ sahāsyā cātipāpinī

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *36 line 1 before ViP 3.18.99 (Pathak Critical Edition apparatus).

  883. पाषण्डिभिर् दुराचारैस् तस्मात् तान् परिवर्जयेत्

    pāṣaṇḍibhir durācārais tasmāt tān parivarjayet

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *36 line 2 before ViP 3.18.99 (Pathak Critical Edition apparatus).

  884. श्२,ब्२,द्७ इन्स्।: भ्रष्टः स्वधर्मात् पाषण्डो विकर्मस्थो निषिद्धकृत्

    Ś2,B2,D7 ins.: bhraṣṭaḥ svadharmāt pāṣaṇḍo vikarmastho niṣiddhakṛt

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *37 line 1 before ViP 3.18.100 (Pathak Critical Edition apparatus).

  885. यस्य धर्मस्य यो नित्यं सुरध्वज इवोच्छ्रितः

    yasya dharmasya yo nityaṃ suradhvaja ivocchritaḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *37 line 2 before ViP 3.18.100 (Pathak Critical Edition apparatus).

  886. प्रच्छन्नानि च पापानि बैडालं नाम तद्व्रतम्

    pracchannāni ca pāpāni baiḍālaṃ nāma tadvratam

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *37 line 3 before ViP 3.18.100 (Pathak Critical Edition apparatus).

  887. प्रियं वक्ति पुरो ऽन्यत्र विप्रियं कुरुते भृशम्

    priyaṃ vakti puro 'nyatra vipriyaṃ kurute bhṛśam

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *37 line 4 before ViP 3.18.100 (Pathak Critical Edition apparatus).

  888. त्यक्तापराधचेष्टश् च शठो ऽयं कथितो बुधैः

    tyaktāparādhaceṣṭaś ca śaṭho 'yaṃ kathito budhaiḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *37 line 5 before ViP 3.18.100 (Pathak Critical Edition apparatus).

  889. संदेहकृद् धेतुभिर् यः सत्कर्मसु स हैतुकः

    saṃdehakṛd dhetubhir yaḥ satkarmasu sa haitukaḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *37 line 6 before ViP 3.18.100 (Pathak Critical Edition apparatus).

  890. अर्वाग्दृष्टिर् निकृतिकाः स्वार्थसाधनतत्पराः

    arvāgdṛṣṭir nikṛtikāḥ svārthasādhanatatparāḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *37 line 7 before ViP 3.18.100 (Pathak Critical Edition apparatus).

  891. ब्२ चोन्त्।: शठो मिथ्याविनीतश् च बकवृत्तिर् उदाहृतः

    B2 cont.: śaṭho mithyāvinītaś ca bakavṛttir udāhṛtaḥ

    Meaning (English) — Pathak Critical Edition apparatus

    Manuscript insertion *38 before ViP 3.18.100 (Pathak Critical Edition apparatus).