Vishnu Purana · अध्याय 3
Aṃśa 3 — Manvantaras and Vedas
तृतीयोऽंशः
The fourteen manvantaras; arrangement of the Vedas by Vyāsa; the four āśramas; śrāddha and the duties of householders; the dialogue of the messenger of Yama with the wicked.
- ViP 3.1.1Open verse →
______________________________________________________ §मैत्रेय उवाच: कथिता गुरुणा सम्यग् भूसमुद्रादिसंस्थितिः । सूर्यादीनां च संस्थानं ज्योतिषाम् अपि विस्तरात्
______________________________________________________ §maitreya uvāca: kathitā guruṇā samyag bhūsamudrādisaṃsthitiḥ / sūryādīnāṃ ca saṃsthānaṃ jyotiṣām api vistarāt
- ViP 3.1.2Open verse →
देवादीनां तथा सृष्टिर् ऋषीणां चापि वर्णिता । चातुर्वर्ण्यस्य चोत्पत्तिस् तिर्यग्योनिगतस्य च
devādīnāṃ tathā sṛṣṭir ṛṣīṇāṃ cāpi varṇitā / cāturvarṇyasya cotpattis tiryagyonigatasya ca
- ViP 3.1.3Open verse →
ध्रुवप्रह्लादचरितं विस्तराच् च त्वयोदितम् । मन्वन्तराण्य् अशेषाणि श्रोतुम् इच्छाम्य् अनुक्रमात्
dhruvaprahlādacaritaṃ vistarāc ca tvayoditam / manvantarāṇy aśeṣāṇi śrotum icchāmy anukramāt
- ViP 3.1.4Open verse →
मन्वन्तराधिपांश् चैव शक्रदेवपुरोगमान् । भवता कथितान् एताञ् श्रोतुम् इच्छाम्य् अहं गुरो
manvantarādhipāṃś caiva śakradevapurogamān / bhavatā kathitān etāñ śrotum icchāmy ahaṃ guro
- ViP 3.1.5Open verse →
§पराशर उवाच: अतीतानागतानीह यानि मन्वन्तराणि वै । तान्य् अहं भवते सम्यक् कथयामि यथाक्रमम्
§parāśara uvāca: atītānāgatānīha yāni manvantarāṇi vai / tāny ahaṃ bhavate samyak kathayāmi yathākramam
- ViP 3.1.6Open verse →
स्वायंभुवो मनुः पूर्वं मनुः स्वारोचिषस् तथा । उत्तमस् तामसश् चैव रैवतश् चाक्षुषस् तथा
svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣas tathā / uttamas tāmasaś caiva raivataś cākṣuṣas tathā
- ViP 3.1.7Open verse →
षड् एते मनवो ऽतीताः साम्प्रतं तु रवेः सुतः । वैवस्वतो ऽयं यस्यैतत् सप्तमं वर्तते ऽन्तरम्
ṣaḍ ete manavo 'tītāḥ sāmprataṃ tu raveḥ sutaḥ / vaivasvato 'yaṃ yasyaitat saptamaṃ vartate 'ntaram
- ViP 3.1.8Open verse →
स्वायंभुवं तु कथितं कल्पादाव् अन्तरं मया । देवास् तत्रर्षयश् चैव यथावत् कथिता मया
svāyaṃbhuvaṃ tu kathitaṃ kalpādāv antaraṃ mayā / devās tatrarṣayaś caiva yathāvat kathitā mayā
- ViP 3.1.9Open verse →
अत ऊर्ध्वं प्रवक्ष्यामि मनोः स्वारोचिषस्य तु । मन्वन्तराधिपान् सम्यग् देवर्षींस् तत्सुतांस् तथा
ata ūrdhvaṃ pravakṣyāmi manoḥ svārociṣasya tu / manvantarādhipān samyag devarṣīṃs tatsutāṃs tathā
- ViP 3.1.10Open verse →
पारावताः सतुषिता देवाः स्वारोचिषे ऽन्तरे । विपश्चित् तत्र देवेन्द्रो मैत्रेयासीन् महाबलः
pārāvatāḥ satuṣitā devāḥ svārociṣe 'ntare / vipaścit tatra devendro maitreyāsīn mahābalaḥ
- ViP 3.1.11Open verse →
ऊर्जः स्तम्भस् तथा प्राणो दत्तोलिर् ऋषभस् तथा । निश्चरश् चार्वरीवांश् च तत्र सप्तर्षयो ऽभवन्
ūrjaḥ stambhas tathā prāṇo dattolir ṛṣabhas tathā / niścaraś cārvarīvāṃś ca tatra saptarṣayo 'bhavan
- ViP 3.1.12Open verse →
चैत्रकिंपुरुषाद्याश् च सुताः स्वारोचिषस्य तु । द्वितीयम् एतत् कथितम् अन्तरं शृणु चोत्तरम्
caitrakiṃpuruṣādyāś ca sutāḥ svārociṣasya tu / dvitīyam etat kathitam antaraṃ śṛṇu cottaram
- ViP 3.1.13Open verse →
तृतीये ऽप्य् अन्तरे ब्रह्मन्न् उत्तमो नाम यो मनुः । सुशान्तिर् नाम देवेन्द्रो मैत्रेयाभूत् सुरेश्वरः
tṛtīye 'py antare brahmann uttamo nāma yo manuḥ / suśāntir nāma devendro maitreyābhūt sureśvaraḥ
- ViP 3.1.14Open verse →
सुधामानस् तथा सत्याः शिवाश् चासन् प्रतर्दनाः । वशवर्तिनश् च पञ्चैते गणा द्वादशकाः स्मृताः
sudhāmānas tathā satyāḥ śivāś cāsan pratardanāḥ / vaśavartinaś ca pañcaite gaṇā dvādaśakāḥ smṛtāḥ
- ViP 3.1.15Open verse →
वसिष्ठतनयास् तत्र सप्त सप्तर्षयो ऽभवन् । अजः परशुदिव्याद्यास् तथोत्तममनोः सुताः
vasiṣṭhatanayās tatra sapta saptarṣayo 'bhavan / ajaḥ paraśudivyādyās tathottamamanoḥ sutāḥ
- ViP 3.1.16Open verse →
तामसस्यान्तरे देवाः सुरूपा हरयस् तथा । सत्याश् च सुधियश् चैव सप्तविंशतिका गणाः
tāmasasyāntare devāḥ surūpā harayas tathā / satyāś ca sudhiyaś caiva saptaviṃśatikā gaṇāḥ
- ViP 3.1.17Open verse →
शिबिर् इन्द्रस् तथा चासीच् शतयज्ञोपलक्षणः । सप्तर्षयश् च ये तेषां तत्र नामानि मे शृणु
śibir indras tathā cāsīc śatayajñopalakṣaṇaḥ / saptarṣayaś ca ye teṣāṃ tatra nāmāni me śṛṇu
- ViP 3.1.18Open verse →
ज्योतिर्धामा पृथुः काव्यश् चैत्रो ऽग्निर् वनकस् तथा । पीवरश् चर्षयो ह्य् एते सप्त तत्रापि चान्तरे
jyotirdhāmā pṛthuḥ kāvyaś caitro 'gnir vanakas tathā / pīvaraś carṣayo hy ete sapta tatrāpi cāntare
- ViP 3.1.19Open verse →
नरः ख्यातिः शान्तहयो जानुजङ्घादयस् तथा । पुत्रास् तु तामसस्यासन् राजानः सुमहाबलाः
naraḥ khyātiḥ śāntahayo jānujaṅghādayas tathā / putrās tu tāmasasyāsan rājānaḥ sumahābalāḥ
- ViP 3.1.20Open verse →
पञ्चमे चापि मैत्रेय रैवतो नाम नामतः । मनुर् विभुश् च तत्रेन्द्रो देवांश् चैवान्तरे शृणु
pañcame cāpi maitreya raivato nāma nāmataḥ / manur vibhuś ca tatrendro devāṃś caivāntare śṛṇu
- ViP 3.1.21Open verse →
अमिताभा भूतरया वैकुण्ठाः ससुमेधसः । एते देवगणास् तत्र चतुर्दश चतुर्दश
amitābhā bhūtarayā vaikuṇṭhāḥ sasumedhasaḥ / ete devagaṇās tatra caturdaśa caturdaśa
- ViP 3.1.22Open verse →
हिरण्यरोमा वेदश्रीर् ऊर्ध्वबाहुस् तथापरः । वेदबाहुः सुधामा च पर्जन्यश् च महामुनिः । एते सप्तर्षयो विप्र तत्रासन् रैवते ऽन्तरे
hiraṇyaromā vedaśrīr ūrdhvabāhus tathāparaḥ / vedabāhuḥ sudhāmā ca parjanyaś ca mahāmuniḥ / ete saptarṣayo vipra tatrāsan raivate 'ntare
- ViP 3.1.23Open verse →
बलबन्धुः सुसंभाव्यः सत्यकाद्याश् च तत्सुताः । नरेन्द्राः सुमहावीर्या बभूवुर् मुनिसत्तम
balabandhuḥ susaṃbhāvyaḥ satyakādyāś ca tatsutāḥ / narendrāḥ sumahāvīryā babhūvur munisattama
- ViP 3.1.24Open verse →
स्वारोचिषश् चोत्तमश् च तामसो रैवतस् तथा । प्रियव्रतान्वया ह्य् एते चत्वारो मनवः स्मृताः
svārociṣaś cottamaś ca tāmaso raivatas tathā / priyavratānvayā hy ete catvāro manavaḥ smṛtāḥ
- ViP 3.1.25Open verse →
विष्णुम् आराध्य तपसा स राजर्षिः प्रियव्रतः । मन्वन्तराधिपान् एतांल् लब्धवान् आत्मवंशजान्
viṣṇum ārādhya tapasā sa rājarṣiḥ priyavrataḥ / manvantarādhipān etāṃl labdhavān ātmavaṃśajān
- ViP 3.1.26Open verse →
षष्ठे मन्वन्तरे चासीच् चाक्षुषाख्यस् तथा मनुः । मनोजवस् तथैवेन्द्रो देवान् अपि निबोध मे
ṣaṣṭhe manvantare cāsīc cākṣuṣākhyas tathā manuḥ / manojavas tathaivendro devān api nibodha me
- ViP 3.1.27Open verse →
आप्याः प्रसूता भव्याश् च पृथुगाश् च दिवौकसः । महानुभावा लेखाश् च पञ्चैते ह्य् अष्टका गणाः
āpyāḥ prasūtā bhavyāś ca pṛthugāś ca divaukasaḥ / mahānubhāvā lekhāś ca pañcaite hy aṣṭakā gaṇāḥ
- ViP 3.1.28Open verse →
सुमेधा विरजाश् चैव हविष्मान् उत्तमो मधुः । अतिनामा सहिष्णुश् च सप्तासन्न् इति चर्षयः
sumedhā virajāś caiva haviṣmān uttamo madhuḥ / atināmā sahiṣṇuś ca saptāsann iti carṣayaḥ
- ViP 3.1.29Open verse →
ऊरुः पूरुः शतद्युम्नप्रमुखाः सुमहाबलाः । चाक्षुषस्य मनोः पुत्राः पृथिवीपतयो ऽभवन्
ūruḥ pūruḥ śatadyumnapramukhāḥ sumahābalāḥ / cākṣuṣasya manoḥ putrāḥ pṛthivīpatayo 'bhavan
- ViP 3.1.30Open verse →
विवस्वतः सुतो विप्र श्राद्धदेवो महाद्युतिः । मनुः संवर्तते धीमान् साम्प्रतं सप्तमे ऽन्तरे
vivasvataḥ suto vipra śrāddhadevo mahādyutiḥ / manuḥ saṃvartate dhīmān sāmprataṃ saptame 'ntare
- ViP 3.1.31Open verse →
आदित्यवसुरुद्राद्या देवाश् चात्र महामुने । पुरंदरस् तथैवात्र मैत्रेय त्रिदशेश्वरः
ādityavasurudrādyā devāś cātra mahāmune / puraṃdaras tathaivātra maitreya tridaśeśvaraḥ
- ViP 3.1.32Open verse →
वसिष्ठः काश्यपो ऽथात्रिर् जमदग्निः सगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयो ऽत्र तु
vasiṣṭhaḥ kāśyapo 'thātrir jamadagniḥ sagautamaḥ / viśvāmitrabharadvājau sapta saptarṣayo 'tra tu
- ViP 3.1.33Open verse →
इक्ष्वाकुश् च नृगश् चैव धृष्टः शर्यातिर् एव च । नरिष्यन्तश् च विख्यातो नाभागो दिष्ट एव च
ikṣvākuś ca nṛgaś caiva dhṛṣṭaḥ śaryātir eva ca / nariṣyantaś ca vikhyāto nābhāgo diṣṭa eva ca
- ViP 3.1.34Open verse →
करूषश् च पृषध्रश् च वसुमांल् लोकविश्रुतः । मनोर् वैवस्वतस्यैते नव पुत्राः सुधार्मिकाः
karūṣaś ca pṛṣadhraś ca vasumāṃl lokaviśrutaḥ / manor vaivasvatasyaite nava putrāḥ sudhārmikāḥ
- ViP 3.1.35Open verse →
विष्णुशक्तिर् अनौपम्या सत्त्वोद्रिक्ता स्थितौ स्थिता । मन्वन्तरेष्व् अशेषेषु देवत्वेनाधितिष्ठति
viṣṇuśaktir anaupamyā sattvodriktā sthitau sthitā / manvantareṣv aśeṣeṣu devatvenādhitiṣṭhati
- ViP 3.1.36Open verse →
अंशेन तस्या जज्ञे ऽसौ यज्ञः स्वायंभुवे ऽन्तरे । आकूत्यां मानसो देव उत्पन्नः प्रथमे ऽन्तरे
aṃśena tasyā jajñe 'sau yajñaḥ svāyaṃbhuve 'ntare / ākūtyāṃ mānaso deva utpannaḥ prathame 'ntare
- ViP 3.1.37Open verse →
ततः पुनः स वै देवः प्राप्ते स्वारोचिषे ऽन्तरे । तुषितायां समुत्पन्नो ह्य् अजितस् तुषितैः सह
tataḥ punaḥ sa vai devaḥ prāpte svārociṣe 'ntare / tuṣitāyāṃ samutpanno hy ajitas tuṣitaiḥ saha
- ViP 3.1.38Open verse →
औत्तमे ह्य् अन्तरे चापि तुषितस् तु पुनः स वै । सत्यायाम् अभवत् सत्यः सत्यैः सह सुरोत्तमैः
auttame hy antare cāpi tuṣitas tu punaḥ sa vai / satyāyām abhavat satyaḥ satyaiḥ saha surottamaiḥ
- ViP 3.1.39Open verse →
तामसस्यान्तरे चैव संप्राप्ते पुनर् एव हि । हर्यायां हरिभिः सार्धं हरिर् एव बभूव ह
tāmasasyāntare caiva saṃprāpte punar eva hi / haryāyāṃ haribhiḥ sārdhaṃ harir eva babhūva ha
- ViP 3.1.40Open verse →
रैवते ऽप्य् अन्तरे देवः संभूत्यां मानसो ऽभवत् । संभूतो राजसैः सार्धं देवैर् देववरो हरिः
raivate 'py antare devaḥ saṃbhūtyāṃ mānaso 'bhavat / saṃbhūto rājasaiḥ sārdhaṃ devair devavaro hariḥ
- ViP 3.1.41Open verse →
चाक्षुषे चान्तरे देवो वैकुण्ठः पुरुषोत्तमः । विकुण्ठायाम् असौ जज्ञे वैकुण्ठैर् दैवतैः सह
cākṣuṣe cāntare devo vaikuṇṭhaḥ puruṣottamaḥ / vikuṇṭhāyām asau jajñe vaikuṇṭhair daivataiḥ saha
- ViP 3.1.42Open verse →
मन्वन्तरे तु संप्राप्ते तथा वैवस्वते द्विज । वामनः कश्यपाद् विष्णुर् अदित्यां संबभूव ह
manvantare tu saṃprāpte tathā vaivasvate dvija / vāmanaḥ kaśyapād viṣṇur adityāṃ saṃbabhūva ha
- ViP 3.1.43Open verse →
त्रिभिः क्रमैर् इमांल् लोकाञ् जित्वा येन महात्मना । पुरंदराय त्रैलोक्यं दत्तं निहतकण्टकम्
tribhiḥ kramair imāṃl lokāñ jitvā yena mahātmanā / puraṃdarāya trailokyaṃ dattaṃ nihatakaṇṭakam
- ViP 3.1.44Open verse →
इत्य् एतास् तनवस् तस्य सप्त मन्वन्तरेषु वै । सप्तस्व् एवाभवन् विप्र याभिः संरक्षिताः प्रजाः
ity etās tanavas tasya sapta manvantareṣu vai / saptasv evābhavan vipra yābhiḥ saṃrakṣitāḥ prajāḥ
- ViP 3.1.45Open verse →
यस्माद् विष्टम् इदं सर्वं तस्य शक्त्या महात्मनः । तस्मात् स प्रोच्यते विष्णुर् विशेर् धातोः प्रवेशनात्
yasmād viṣṭam idaṃ sarvaṃ tasya śaktyā mahātmanaḥ / tasmāt sa procyate viṣṇur viśer dhātoḥ praveśanāt
- ViP 3.1.46Open verse →
सर्वे च देवा मनवः समस्ताः सप्तर्षयो ये मनुसूनवश् च । इन्द्रश् च यो यस् त्रिदशेशभूतो विष्णोर् अशेषास् तु विभूतयस् ताः
sarve ca devā manavaḥ samastāḥ saptarṣayo ye manusūnavaś ca / indraś ca yo yas tridaśeśabhūto viṣṇor aśeṣās tu vibhūtayas tāḥ
- ViP 3.2.1Open verse →
______________________________________________________ §मैत्रेय उवाच: प्रोक्तान्य् एतानि भवता सप्त मन्वन्तराणि वै । भविष्याण्य् अपि विप्रर्षे ममाख्यातुं त्वम् अर्हसि
______________________________________________________ §maitreya uvāca: proktāny etāni bhavatā sapta manvantarāṇi vai / bhaviṣyāṇy api viprarṣe mamākhyātuṃ tvam arhasi
- ViP 3.2.2Open verse →
§पराशर उवाच: सूर्यस्य पत्नी संज्ञाभूत् तनया विश्वकर्मणः । मनुर् यमो यमी चैव तदपत्यानि वै मुने
§parāśara uvāca: sūryasya patnī saṃjñābhūt tanayā viśvakarmaṇaḥ / manur yamo yamī caiva tadapatyāni vai mune
- ViP 3.2.3Open verse →
असहन्ती तु सा भर्तुस् तेजश् छायां युयोज वै । भर्तुः शुश्रूषणे ऽरण्यं स्वयं च तपसे ययौ
asahantī tu sā bhartus tejaś chāyāṃ yuyoja vai / bhartuḥ śuśrūṣaṇe 'raṇyaṃ svayaṃ ca tapase yayau
- ViP 3.2.4Open verse →
संज्ञेयम् इत्य् अथार्कश् च छायायाम् आत्मजत्रयम् । शनैश्चरं मनुं चान्यं तपतीं चाप्य् अजीजनत्
saṃjñeyam ity athārkaś ca chāyāyām ātmajatrayam / śanaiścaraṃ manuṃ cānyaṃ tapatīṃ cāpy ajījanat
- ViP 3.2.5Open verse →
छायासंज्ञा ददौ शापं यमाय कुपिता यदा । तदान्येयम् असौ बुद्धिर् इत्य् आसीद् यमसूर्ययोः
chāyāsaṃjñā dadau śāpaṃ yamāya kupitā yadā / tadānyeyam asau buddhir ity āsīd yamasūryayoḥ
- ViP 3.2.6Open verse →
ततो विवस्वान् आख्याते तयैवारण्यसंस्थिताम् । समाधिदृष्ट्या ददृशे ताम् अश्वां तपसि स्थिताम्
tato vivasvān ākhyāte tayaivāraṇyasaṃsthitām / samādhidṛṣṭyā dadṛśe tām aśvāṃ tapasi sthitām
- ViP 3.2.7Open verse →
वाजिरूपधरः सो ऽपि तस्यां देवाव् अथाश्विनौ । जनयाम् आस रेवन्तं रेतसो ऽन्ते च भास्करः
vājirūpadharaḥ so 'pi tasyāṃ devāv athāśvinau / janayām āsa revantaṃ retaso 'nte ca bhāskaraḥ
- ViP 3.2.8Open verse →
आनिन्ये च पुनः संज्ञां स्वस्थानं भगवान् रविः । तेजसः शमनं चास्य विश्वकर्मा चकार ह
āninye ca punaḥ saṃjñāṃ svasthānaṃ bhagavān raviḥ / tejasaḥ śamanaṃ cāsya viśvakarmā cakāra ha
- ViP 3.2.9Open verse →
भ्रमम् आरोप्य सूर्यं तु तस्य तेजोविशातनम् । कृतवान् अष्टमं भागं न व्यशातयताव्ययम्
bhramam āropya sūryaṃ tu tasya tejoviśātanam / kṛtavān aṣṭamaṃ bhāgaṃ na vyaśātayatāvyayam
- ViP 3.2.10Open verse →
यत् सूर्याद् वैष्णवं तेजः शातितं विश्वकर्मणा । जाज्वल्यमानम् अपतत् तद् भूमौ मुनिसत्तम
yat sūryād vaiṣṇavaṃ tejaḥ śātitaṃ viśvakarmaṇā / jājvalyamānam apatat tad bhūmau munisattama
- ViP 3.2.11Open verse →
त्वष्टैव तेजसा तेन विष्णोश् चक्रम् अकल्पयत् । त्रिशूलं चैव शर्वस्य शिबिकां धनदस्य च
tvaṣṭaiva tejasā tena viṣṇoś cakram akalpayat / triśūlaṃ caiva śarvasya śibikāṃ dhanadasya ca
- ViP 3.2.12Open verse →
शक्तिं गुहस्य देवानाम् अन्येषां च यद् आयुधम् । तत् सर्वं तेजसा तेन विश्वकर्मा व्यवर्धयत्
śaktiṃ guhasya devānām anyeṣāṃ ca yad āyudham / tat sarvaṃ tejasā tena viśvakarmā vyavardhayat
- ViP 3.2.13Open verse →
छायासंज्ञासुतो यो ऽसौ द्वितीयः कथितो मनुः । पूर्वजस्य सवर्णो ऽसौ सावर्णिस् तेन कथ्यते
chāyāsaṃjñāsuto yo 'sau dvitīyaḥ kathito manuḥ / pūrvajasya savarṇo 'sau sāvarṇis tena kathyate
- ViP 3.2.14Open verse →
तस्य मन्वन्तरं ह्य् एतत् सावर्णिकम् अथाष्टमम् । तच् छृणुष्व महाभाग भविष्यं कथयामि ते
tasya manvantaraṃ hy etat sāvarṇikam athāṣṭamam / tac chṛṇuṣva mahābhāga bhaviṣyaṃ kathayāmi te
- ViP 3.2.15Open verse →
सावर्णिस् तु मनुर् यो ऽसौ मैत्रेय भविता ततः । सुतपाश् चामिताभाश् च मुख्याश् चापि तदा सुराः
sāvarṇis tu manur yo 'sau maitreya bhavitā tataḥ / sutapāś cāmitābhāś ca mukhyāś cāpi tadā surāḥ
- ViP 3.2.16Open verse →
तेषां गणस् तु देवानाम् एकैको विंशकः स्मृतः । सप्तर्षीन् अपि वक्ष्यामि भविष्यान् मुनिसत्तम
teṣāṃ gaṇas tu devānām ekaiko viṃśakaḥ smṛtaḥ / saptarṣīn api vakṣyāmi bhaviṣyān munisattama
- ViP 3.2.17Open verse →
दीप्तिमान् गालवो रामः कृपो द्रौणिस् तथापरः । मत्पुत्रश् च तथा व्यास ऋश्यशृङ्गश् च सप्तमः
dīptimān gālavo rāmaḥ kṛpo drauṇis tathāparaḥ / matputraś ca tathā vyāsa ṛśyaśṛṅgaś ca saptamaḥ
- ViP 3.2.18Open verse →
विष्णुप्रसादाद् अनघः पातालान्तरगोचरः । विरोचनसुतस् तेषां बलिर् इन्द्रो भविष्यति
viṣṇuprasādād anaghaḥ pātālāntaragocaraḥ / virocanasutas teṣāṃ balir indro bhaviṣyati
- ViP 3.2.19Open verse →
विरजाश् चार्वरीवंश् च निर्मोहाद्यास् तथापरे । सावर्णेस् तु मनोः पुत्रा भविष्यन्ति नरेश्वराः
virajāś cārvarīvaṃś ca nirmohādyās tathāpare / sāvarṇes tu manoḥ putrā bhaviṣyanti nareśvarāḥ
- ViP 3.2.20Open verse →
नवमो दक्षसावर्णिर् मैत्रेय भविता मनुः
navamo dakṣasāvarṇir maitreya bhavitā manuḥ
- ViP 3.2.21Open verse →
पारा मरीचिगर्भाश् च सुधर्माणस् तथा त्रिधा । भविष्यन्ति तदा देवा एकैको द्वादशो गणः
pārā marīcigarbhāś ca sudharmāṇas tathā tridhā / bhaviṣyanti tadā devā ekaiko dvādaśo gaṇaḥ
- ViP 3.2.22Open verse →
तेषाम् इन्द्रो महावीर्यो भविष्यत्य् अद्भुतो द्विज
teṣām indro mahāvīryo bhaviṣyaty adbhuto dvija
- ViP 3.2.23Open verse →
सवनो द्युतिमान् भव्यो वसुर् मेधातिथिस् तथा । ज्योतिष्मान् सप्तमः सत्यस् तत्रैते च महर्षयः
savano dyutimān bhavyo vasur medhātithis tathā / jyotiṣmān saptamaḥ satyas tatraite ca maharṣayaḥ
- ViP 3.2.24Open verse →
धृतकेतुर् दीप्तिकेतुः पञ्चहस्तो निरामयः । पृथुश्रवाद्याश् च तथा दक्षसावर्णिकात्मजाः
dhṛtaketur dīptiketuḥ pañcahasto nirāmayaḥ / pṛthuśravādyāś ca tathā dakṣasāvarṇikātmajāḥ
- ViP 3.2.25Open verse →
दशमो ब्रह्मसावर्णिर् भविष्यति मुने मनुः । सुधामानो विरुद्धाश् च शतसंख्यास् तथा सुराः
daśamo brahmasāvarṇir bhaviṣyati mune manuḥ / sudhāmāno viruddhāś ca śatasaṃkhyās tathā surāḥ
- ViP 3.2.26Open verse →
तेषाम् इन्द्रश् च भविता शान्तिर् नाम महाबलः । सप्तर्षयो भविष्यन्ति ये तदा ताञ् छृणुष्व च
teṣām indraś ca bhavitā śāntir nāma mahābalaḥ / saptarṣayo bhaviṣyanti ye tadā tāñ chṛṇuṣva ca
- ViP 3.2.27Open verse →
हविष्मान् सुकृतिः सत्यो ह्य् अपांमूर्तिस् तथापरः । नाभागो ऽप्रतिमौजाश् च सत्यकेतुस् तथैव च
haviṣmān sukṛtiḥ satyo hy apāṃmūrtis tathāparaḥ / nābhāgo 'pratimaujāś ca satyaketus tathaiva ca
- ViP 3.2.28Open verse →
सुक्षेत्रश् चोत्तमौजाश् च भूरिषेणादयो दश । ब्रह्मसावर्णिपुत्रास् तु रक्षिष्यन्ति वसुंधराम्
sukṣetraś cottamaujāś ca bhūriṣeṇādayo daśa / brahmasāvarṇiputrās tu rakṣiṣyanti vasuṃdharām
- ViP 3.2.29Open verse →
एकादशश् च भविता धर्मसावर्णिको मनुः
ekādaśaś ca bhavitā dharmasāvarṇiko manuḥ
- ViP 3.2.30Open verse →
विहंगमाः कामगमा निर्माणरुचयस् तथा । गणास् त्व् एते तदा मुख्या देवानां च भविष्यताम् । एकैकस् त्रिंशकस् तेषां गणश् चेन्द्रश् च वै वृषः
vihaṃgamāḥ kāmagamā nirmāṇarucayas tathā / gaṇās tv ete tadā mukhyā devānāṃ ca bhaviṣyatām / ekaikas triṃśakas teṣāṃ gaṇaś cendraś ca vai vṛṣaḥ
- ViP 3.2.31Open verse →
निश्चरश् चाग्नितेजाश् च वपुष्मान् विष्णुर् आरुणिः । हविष्मान् अनघश् चैते भव्याः सप्तर्षयस् तथा
niścaraś cāgnitejāś ca vapuṣmān viṣṇur āruṇiḥ / haviṣmān anaghaś caite bhavyāḥ saptarṣayas tathā
- ViP 3.2.32Open verse →
सर्वगः सर्वधर्मा च देवानीकादयस् तथा । भविष्यन्ति मनोस् तस्य तनयाः पृथिवीश्वराः
sarvagaḥ sarvadharmā ca devānīkādayas tathā / bhaviṣyanti manos tasya tanayāḥ pṛthivīśvarāḥ
- ViP 3.2.33Open verse →
रुद्रपुत्रस् तु सावर्णिर् भविता द्वादशो मनुः । ऋतधामा च तत्रेन्द्रो भविता शृणु मे सुरान्
rudraputras tu sāvarṇir bhavitā dvādaśo manuḥ / ṛtadhāmā ca tatrendro bhavitā śṛṇu me surān
- ViP 3.2.34Open verse →
हरिता लोहिता देवास् तथा सुमनसो द्विज । सुकर्माणः सुपाराश् च दशकाः पञ्च वै गणाः
haritā lohitā devās tathā sumanaso dvija / sukarmāṇaḥ supārāś ca daśakāḥ pañca vai gaṇāḥ
- ViP 3.2.35Open verse →
तपस्वी सुतपाश् चैव तपोमूर्तिस् तपोरतिः । तपोधृतिर् द्युतिश् चान्यः सप्तमस् तु तपोधनः
tapasvī sutapāś caiva tapomūrtis taporatiḥ / tapodhṛtir dyutiś cānyaḥ saptamas tu tapodhanaḥ
- ViP 3.2.36Open verse →
देववान् उपदेवश् च देवश्रेष्ठादयस् तथा । मनोस् तस्य महावीर्या भविष्यन्ति सुता नृपाः
devavān upadevaś ca devaśreṣṭhādayas tathā / manos tasya mahāvīryā bhaviṣyanti sutā nṛpāḥ
- ViP 3.2.37Open verse →
त्रयोदशो रौच्यनामा भविष्यति मुने मनुः
trayodaśo raucyanāmā bhaviṣyati mune manuḥ
- ViP 3.2.38Open verse →
सुत्रामाणः सुकर्माणः सुधर्माणस् तथा सुराः । त्रयस् त्रिंशद्विभेदास् ते देवानां ये तु वै गणाः
sutrāmāṇaḥ sukarmāṇaḥ sudharmāṇas tathā surāḥ / trayas triṃśadvibhedās te devānāṃ ye tu vai gaṇāḥ
- ViP 3.2.39Open verse →
दिवस्पतिर् महावीर्यस् तेषाम् इन्द्रो भविष्यति
divaspatir mahāvīryas teṣām indro bhaviṣyati
- ViP 3.2.40Open verse →
निर्मोहस् तत्त्वदर्शी च निष्प्रकम्पो निरुत्सुकः । धृतिमान् अव्ययश् चान्यः सप्तमः सुतपा मुनिः । सप्तर्षयस् त्व् इमे तस्य पुत्रान् अपि निबोध मे
nirmohas tattvadarśī ca niṣprakampo nirutsukaḥ / dhṛtimān avyayaś cānyaḥ saptamaḥ sutapā muniḥ / saptarṣayas tv ime tasya putrān api nibodha me
- ViP 3.2.41Open verse →
चित्रसेनविचित्राद्या भविष्यन्ति महीक्षितः
citrasenavicitrādyā bhaviṣyanti mahīkṣitaḥ
- ViP 3.2.42Open verse →
भौत्यश् चतुर्दशश् चात्र मैत्रेय भविता मनुः । शुचिर् इन्द्रः सुरगणास् तत्र पञ्च शृणुष्व तान्
bhautyaś caturdaśaś cātra maitreya bhavitā manuḥ / śucir indraḥ suragaṇās tatra pañca śṛṇuṣva tān
- ViP 3.2.43Open verse →
चाक्षुषाश् च पवित्राश् च कनिष्ठा भ्राजिरास् तथा । वाचावृद्धाश् च वै देवाः सप्तर्षीन् अपि मे शृणु
cākṣuṣāś ca pavitrāś ca kaniṣṭhā bhrājirās tathā / vācāvṛddhāś ca vai devāḥ saptarṣīn api me śṛṇu
- ViP 3.2.44Open verse →
अग्निबाहुः शुचिः शुक्रो मागधो ऽग्नीध्र एव च । युक्तस् तथा जितश् चान्यो मनुपुत्रान् अतः शृणु
agnibāhuḥ śuciḥ śukro māgadho 'gnīdhra eva ca / yuktas tathā jitaś cānyo manuputrān ataḥ śṛṇu
- ViP 3.2.45Open verse →
ऊरुगम्भीरबुध्नाद्या मनोस् तस्य सुता नृपाः । कथिता मुनिशार्दूल पालयिष्यन्ति ये महीम्
ūrugambhīrabudhnādyā manos tasya sutā nṛpāḥ / kathitā muniśārdūla pālayiṣyanti ye mahīm
- ViP 3.2.46Open verse →
चतुर्युगान्ते वेदानां जायते किल विप्लवः । प्रवर्तयन्ति तान् एत्य भुवि सप्तर्षयो दिवः
caturyugānte vedānāṃ jāyate kila viplavaḥ / pravartayanti tān etya bhuvi saptarṣayo divaḥ
- ViP 3.2.47Open verse →
कृते कृते स्मृतेर् विप्र प्रणेता जायते मनुः । देवा यज्ञभुजस् ते तु यावन् मन्वन्तरं तु तत्
kṛte kṛte smṛter vipra praṇetā jāyate manuḥ / devā yajñabhujas te tu yāvan manvantaraṃ tu tat
- ViP 3.2.48Open verse →
भवन्ति ये मनोः पुत्रा यावन् मन्वन्तरं तु तैः । तदन्वयोद्भवैश् चैव तावद् भूः परिपाल्यते
bhavanti ye manoḥ putrā yāvan manvantaraṃ tu taiḥ / tadanvayodbhavaiś caiva tāvad bhūḥ paripālyate
- ViP 3.2.49Open verse →
मनुः सप्तर्षयो देवा भूपालाश् च मनोः सुताः । मन्वन्तरे भवन्त्य् एते शक्रश् चैवाधिकारिणः
manuḥ saptarṣayo devā bhūpālāś ca manoḥ sutāḥ / manvantare bhavanty ete śakraś caivādhikāriṇaḥ
- ViP 3.2.50Open verse →
चतुर्दशभिर् एतैस् तु गतैर् मन्वन्तरैर् द्विज । सहस्रयुगपर्यन्तः कल्पो निःशेष उच्यते
caturdaśabhir etais tu gatair manvantarair dvija / sahasrayugaparyantaḥ kalpo niḥśeṣa ucyate
- ViP 3.2.51Open verse →
तावत्प्रमाणा च निशा ततो भवति सत्तम । ब्रह्मरूपधरः शेते शेषाहाव् अम्बुसंप्लवे
tāvatpramāṇā ca niśā tato bhavati sattama / brahmarūpadharaḥ śete śeṣāhāv ambusaṃplave
- ViP 3.2.52Open verse →
त्रैलोक्यम् अखिलं ग्रस्त्वा भगवान् आदिकृद् विभुः । स्वमायासंस्थितो विप्र सर्वभूतो जनार्दनः
trailokyam akhilaṃ grastvā bhagavān ādikṛd vibhuḥ / svamāyāsaṃsthito vipra sarvabhūto janārdanaḥ
- ViP 3.2.53Open verse →
ततः प्रबुद्धो भगवान् यथा पूर्वं तथा पुनः । सृष्टिं करोत्य् अव्ययात्मा कल्पे कल्पे रजोगुणः
tataḥ prabuddho bhagavān yathā pūrvaṃ tathā punaḥ / sṛṣṭiṃ karoty avyayātmā kalpe kalpe rajoguṇaḥ
- ViP 3.2.54Open verse →
मनवो भूभुजः सेन्द्रा देवाः सप्तर्षयस् तथा । सात्त्विको ऽंशः स्थितिकरो जगतो द्विजसत्तम
manavo bhūbhujaḥ sendrā devāḥ saptarṣayas tathā / sāttviko 'ṃśaḥ sthitikaro jagato dvijasattama
- ViP 3.2.55Open verse →
चतुर्युगे ऽप्य् असौ विष्णुः स्थितिव्यापारलक्षणः । युगव्यवस्थां कुरुते यथा मैत्रेय तच् छृणु
caturyuge 'py asau viṣṇuḥ sthitivyāpāralakṣaṇaḥ / yugavyavasthāṃ kurute yathā maitreya tac chṛṇu
- ViP 3.2.56Open verse →
कृते युगे परं ज्ञानं कपिलादिस्वरूपधृक् । ददाति सर्वभूतात्मा सर्वभूतहिते रतः
kṛte yuge paraṃ jñānaṃ kapilādisvarūpadhṛk / dadāti sarvabhūtātmā sarvabhūtahite rataḥ
- ViP 3.2.57Open verse →
चक्रवर्तिस्वरूपेण त्रेतायाम् अपि स प्रभुः । दुष्टानां निग्रहं कुर्वन् परिपाति जगत्त्रयम्
cakravartisvarūpeṇa tretāyām api sa prabhuḥ / duṣṭānāṃ nigrahaṃ kurvan paripāti jagattrayam
- ViP 3.2.58Open verse →
वेदम् एकं चतुर्भेदं कृत्वा शाखाशतैर् विभुः । करोति बहुलं भूयो वेदव्यासस्वरूपधृक्
vedam ekaṃ caturbhedaṃ kṛtvā śākhāśatair vibhuḥ / karoti bahulaṃ bhūyo vedavyāsasvarūpadhṛk
- ViP 3.2.59Open verse →
वेदांस् तु द्वापरे व्यस्य कलेर् अन्ते पुनर् हरिः । कल्किस्वरूपी दुर्वृत्तान् मार्गे स्थापयति प्रभुः
vedāṃs tu dvāpare vyasya kaler ante punar hariḥ / kalkisvarūpī durvṛttān mārge sthāpayati prabhuḥ
- ViP 3.2.60Open verse →
एवम् एष जगत् सर्वं परिपाति करोति च । हन्ति चान्तेष्व् अनन्तात्मा नास्त्य् अस्माद् व्यतिरेकि यत्
evam eṣa jagat sarvaṃ paripāti karoti ca / hanti cānteṣv anantātmā nāsty asmād vyatireki yat
- ViP 3.2.61Open verse →
भूतं भव्यं भविष्यं च सर्वभूतान् महात्मनः । तद् अत्रान्यत्र वा विप्र सद्भावः कथितस् तव
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvabhūtān mahātmanaḥ / tad atrānyatra vā vipra sadbhāvaḥ kathitas tava
- ViP 3.2.62Open verse →
मन्वन्तराण्य् अशेषाणि कथितानि मया तव । मन्वन्तराधिपांश् चैव किम् अन्यत् कथयामि ते
manvantarāṇy aśeṣāṇi kathitāni mayā tava / manvantarādhipāṃś caiva kim anyat kathayāmi te
- ViP 3.3.1Open verse →
______________________________________________________ §मैत्रेय उवाच: ज्ञातम् एतन् मया त्वत्तो यथा सर्वम् इदं जगत् । विष्णुर् विष्णौ विष्णुतश् च न परं विद्यते ततः
______________________________________________________ §maitreya uvāca: jñātam etan mayā tvatto yathā sarvam idaṃ jagat / viṣṇur viṣṇau viṣṇutaś ca na paraṃ vidyate tataḥ
- ViP 3.3.2Open verse →
एतत् तु श्रोतुम् इच्छामि व्यस्ता वेदा महात्मना । वेदव्यासस्वरूपेण यथा तेन युगे युगे
etat tu śrotum icchāmi vyastā vedā mahātmanā / vedavyāsasvarūpeṇa yathā tena yuge yuge
- ViP 3.3.3Open verse →
यस्मिन् यस्मिन् युगे व्यासो यो य आसीन् महामुने । तं तम् आचक्ष्व भगवञ् शाखाभेदांश् च मे वद
yasmin yasmin yuge vyāso yo ya āsīn mahāmune / taṃ tam ācakṣva bhagavañ śākhābhedāṃś ca me vada
- ViP 3.3.4Open verse →
§पराशर उवाच: वेदद्रुमस्य मैत्रेय शाखाभेदैः सहस्रशः । न शक्यो विस्तरो वक्तुं संक्षेपेण शृणुष्व तम्
§parāśara uvāca: vedadrumasya maitreya śākhābhedaiḥ sahasraśaḥ / na śakyo vistaro vaktuṃ saṃkṣepeṇa śṛṇuṣva tam
- ViP 3.3.5Open verse →
द्वापरे द्वापरे विष्णुर् व्यासरूपी महामुने । वेदम् एकं स बहुधा कुरुते जगतो हितः
dvāpare dvāpare viṣṇur vyāsarūpī mahāmune / vedam ekaṃ sa bahudhā kurute jagato hitaḥ
- ViP 3.3.6Open verse →
वीर्यं तेजो बलं चाल्पं मनुष्याणाम् अवेक्ष्य च । हिताय सर्वभूतानां वेदभेदान् करोति सः
vīryaṃ tejo balaṃ cālpaṃ manuṣyāṇām avekṣya ca / hitāya sarvabhūtānāṃ vedabhedān karoti saḥ
- ViP 3.3.7Open verse →
यया स कुरुते तन्वा वेदम् एकं पृथक् प्रभुः । वेदव्यासाभिधाना तु सा मूर्तिर् मधुविद्विषः
yayā sa kurute tanvā vedam ekaṃ pṛthak prabhuḥ / vedavyāsābhidhānā tu sā mūrtir madhuvidviṣaḥ
- ViP 3.3.8Open verse →
यस्मिन् मन्वन्तरे ये ये व्यासास् तांस् तान् निबोध मे । यथा च भेदः शाखानां व्यासेन क्रियते मुने
yasmin manvantare ye ye vyāsās tāṃs tān nibodha me / yathā ca bhedaḥ śākhānāṃ vyāsena kriyate mune
- ViP 3.3.9Open verse →
अष्टाविंशतिकृत्वो वै वेदो व्यस्तो महर्षिभिः । वैवस्वते ऽन्तरे तस्मिन् द्वापरेषु पुनः पुनः
aṣṭāviṃśatikṛtvo vai vedo vyasto maharṣibhiḥ / vaivasvate 'ntare tasmin dvāpareṣu punaḥ punaḥ
- ViP 3.3.10Open verse →
वेदव्यासा व्यतीता ये अष्टाविंशति सत्तम । चतुर्धा यैः कृतो वेदो द्वापरेषु पुनः पुनः
vedavyāsā vyatītā ye aṣṭāviṃśati sattama / caturdhā yaiḥ kṛto vedo dvāpareṣu punaḥ punaḥ
- ViP 3.3.11Open verse →
द्वापरे प्रथमे व्यस्ताः स्वयं वेदाः स्वयंभुवा । द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः
dvāpare prathame vyastāḥ svayaṃ vedāḥ svayaṃbhuvā / dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ
- ViP 3.3.12Open verse →
तृतीये चोशना व्यासश् चतुर्थे च बृहस्पतिः । सविता पञ्चमे व्यासो मृत्युः षष्ठे स्मृतः प्रभुः
tṛtīye cośanā vyāsaś caturthe ca bṛhaspatiḥ / savitā pañcame vyāso mṛtyuḥ ṣaṣṭhe smṛtaḥ prabhuḥ
- ViP 3.3.13Open verse →
सप्तमे च तथैवेन्द्रो वसिष्ठश् चाष्टमे स्मृतः । सारस्वतश् च नवमे त्रिधामा दशमे स्मृतः
saptame ca tathaivendro vasiṣṭhaś cāṣṭame smṛtaḥ / sārasvataś ca navame tridhāmā daśame smṛtaḥ
- ViP 3.3.14Open verse →
एकादशे तु त्रिवृषा भारद्वाजस् ततः परम् । त्रयोदशे चान्तरिक्षो वर्णी चापि चतुर्दशे
ekādaśe tu trivṛṣā bhāradvājas tataḥ param / trayodaśe cāntarikṣo varṇī cāpi caturdaśe
- ViP 3.3.15Open verse →
त्रय्यारुणः पञ्चदशे षोडशे तु धनंजयः । क्रतुंजयः सप्तदशे ऋणज्यो ऽष्टादशे स्मृतः
trayyāruṇaḥ pañcadaśe ṣoḍaśe tu dhanaṃjayaḥ / kratuṃjayaḥ saptadaśe ṛṇajyo 'ṣṭādaśe smṛtaḥ
- ViP 3.3.16Open verse →
ततो व्यासो भरद्वाजो भरद्वाजात् तु गौतमः । गौतमाद् उत्तमो व्यासो हर्यात्मा यो ऽभिधीयते
tato vyāso bharadvājo bharadvājāt tu gautamaḥ / gautamād uttamo vyāso haryātmā yo 'bhidhīyate
- ViP 3.3.17Open verse →
अथ हर्यात्मनो वेनः स्मृतो वाजश्रवास् तु यः । सोमः शुष्मायणस् तस्मात् तृणबिन्दुर् इति स्मृतः
atha haryātmano venaḥ smṛto vājaśravās tu yaḥ / somaḥ śuṣmāyaṇas tasmāt tṛṇabindur iti smṛtaḥ
- ViP 3.3.18Open verse →
ऋक्षो ऽभूद् भार्गवस् तस्माद् वाल्मीकिर् यो ऽभिधीयते । तस्माद् अस्मत्पिता शक्तिर् व्यासस् तस्माद् अहं मुने
ṛkṣo 'bhūd bhārgavas tasmād vālmīkir yo 'bhidhīyate / tasmād asmatpitā śaktir vyāsas tasmād ahaṃ mune
- ViP 3.3.19Open verse →
जातुकर्णो ऽभवन् मत्तः कृष्णद्वैपायनस् ततः । अष्टाविंशतिर् इत्य् एते वेदव्यासाः पुरातनाः
jātukarṇo 'bhavan mattaḥ kṛṣṇadvaipāyanas tataḥ / aṣṭāviṃśatir ity ete vedavyāsāḥ purātanāḥ
- ViP 3.3.20Open verse →
एको वेदश् चतुर्धा तु यैः कृतो द्वापरादिषु
eko vedaś caturdhā tu yaiḥ kṛto dvāparādiṣu
- ViP 3.3.21Open verse →
भविष्ये द्वापरे चापि द्रौणिर् व्यासो भविष्यति । व्यतीते मम पुत्रे ऽस्मिन् कृष्णद्वैपायने मुनौ
bhaviṣye dvāpare cāpi drauṇir vyāso bhaviṣyati / vyatīte mama putre 'smin kṛṣṇadvaipāyane munau
- ViP 3.3.22Open verse →
ध्रुवम् एकाक्षरं ब्रह्म ओम् इत्य् एवं व्यवस्थितम् । बृहत्वाद् बृंहणत्वाच् च तद् ब्रह्मेत्य् अभिधीयते
dhruvam ekākṣaraṃ brahma om ity evaṃ vyavasthitam / bṛhatvād bṛṃhaṇatvāc ca tad brahmety abhidhīyate
- ViP 3.3.23Open verse →
प्रणवावस्थितं नित्यं भूर् भुवः स्वर् इतीर्यते । ऋग्यजुःसामाथर्वाणं यत् तस्मै ब्रह्मणे नमः
praṇavāvasthitaṃ nityaṃ bhūr bhuvaḥ svar itīryate / ṛgyajuḥsāmātharvāṇaṃ yat tasmai brahmaṇe namaḥ
- ViP 3.3.24Open verse →
जगतः प्रलयोत्पत्तौ यत् तत् कारणसंज्ञितम् । महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः
jagataḥ pralayotpattau yat tat kāraṇasaṃjñitam / mahataḥ paramaṃ guhyaṃ tasmai subrahmaṇe namaḥ
- ViP 3.3.25Open verse →
अगाधापारम् अक्षय्यं जगत्संमोहनालयम् । संप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम्
agādhāpāram akṣayyaṃ jagatsaṃmohanālayam / saṃprakāśapravṛttibhyāṃ puruṣārthaprayojanam
- ViP 3.3.26Open verse →
सांख्यज्ञानवतां निष्ठा गतिः शमदमात्मनाम् । यत् तद् अव्यक्तम् अमृतं प्रवृत्तिर् ब्रह्म शाश्वतम्
sāṃkhyajñānavatāṃ niṣṭhā gatiḥ śamadamātmanām / yat tad avyaktam amṛtaṃ pravṛttir brahma śāśvatam
- ViP 3.3.27Open verse →
प्रधानम् आत्मयोनिश् च गुहासत्त्वं च शब्द्यते । अविभागं तथा शुक्रम् अक्षरं बहुधात्मकम्
pradhānam ātmayoniś ca guhāsattvaṃ ca śabdyate / avibhāgaṃ tathā śukram akṣaraṃ bahudhātmakam
- ViP 3.3.28Open verse →
परमब्रह्मणे तस्मै नित्यम् एव नमो नमः । यद् रूपं वासुदेवस्य परमात्मस्वरूपिणः
paramabrahmaṇe tasmai nityam eva namo namaḥ / yad rūpaṃ vāsudevasya paramātmasvarūpiṇaḥ
- ViP 3.3.29Open verse →
एतद् ब्रह्म त्रिधाभेदम् अभेदम् अपि स प्रभुः । सर्वभूतेष्व् अभेदो ऽसौ भिद्यते भिन्नबुद्धिभिः
etad brahma tridhābhedam abhedam api sa prabhuḥ / sarvabhūteṣv abhedo 'sau bhidyate bhinnabuddhibhiḥ
- ViP 3.3.30Open verse →
स ऋङ्मयः साममयः सर्वात्मा स यजुर्मयः । ऋग्यजुःसामसारात्मा स एवात्मा शरीरिणाम्
sa ṛṅmayaḥ sāmamayaḥ sarvātmā sa yajurmayaḥ / ṛgyajuḥsāmasārātmā sa evātmā śarīriṇām
- ViP 3.3.31Open verse →
स भिद्यते वेदमयः स वेदं करोति भेदैर् बहुभिः सशाखम् । शाखाप्रणेता स समस्तशाखा ज्ञानस्वरूपो भगवान् अनन्तः
sa bhidyate vedamayaḥ sa vedaṃ karoti bhedair bahubhiḥ saśākham / śākhāpraṇetā sa samastaśākhā jñānasvarūpo bhagavān anantaḥ
- ViP 3.4.1Open verse →
______________________________________________________ §पराशर उवाच: आद्यो वेदश् चतुष्पादः शतसाहस्रसंमितः । ततो दशगुणः कृत्स्नो यज्ञो ऽयं सर्वकामधुक्
______________________________________________________ §parāśara uvāca: ādyo vedaś catuṣpādaḥ śatasāhasrasaṃmitaḥ / tato daśaguṇaḥ kṛtsno yajño 'yaṃ sarvakāmadhuk
- ViP 3.4.2Open verse →
ततो ऽत्र मत्सुतो व्यासो ऽष्टाविंशतितमे ऽन्तरे । वेदम् एकं चतुष्पादं चतुर्धा व्यभजत् प्रभुः
tato 'tra matsuto vyāso 'ṣṭāviṃśatitame 'ntare / vedam ekaṃ catuṣpādaṃ caturdhā vyabhajat prabhuḥ
- ViP 3.4.3Open verse →
यथा तु तेन वै व्यस्ता वेदव्यासेन धीमता । वेदास् तथा समस्तैस् तैर् व्यस्ता व्यासैस् तथा मया
yathā tu tena vai vyastā vedavyāsena dhīmatā / vedās tathā samastais tair vyastā vyāsais tathā mayā
- ViP 3.4.4Open verse →
तद् अनेनैव वेदानां शाखाभेदान् द्विजोत्तम । चतुर्युगेषु रचितान् समस्तेष्व् अवधारय
tad anenaiva vedānāṃ śākhābhedān dvijottama / caturyugeṣu racitān samasteṣv avadhāraya
- ViP 3.4.5Open verse →
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ऽन्यो हि भुवि मैत्रेय महाभारतकृद् भवेत्
kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum / ko 'nyo hi bhuvi maitreya mahābhāratakṛd bhavet
- ViP 3.4.6Open verse →
तेन व्यस्ता यथा वेदा मत्पुत्रेण महात्मना । द्वापरे ह्य् अत्र मैत्रेय तन् मे शृणु यथार्थतः
tena vyastā yathā vedā matputreṇa mahātmanā / dvāpare hy atra maitreya tan me śṛṇu yathārthataḥ
- ViP 3.4.7Open verse →
ब्रह्मणा चोदितो व्यासो वेदान् व्यस्तुं प्रचक्रमे । अथ शिष्यान् स जग्राह चतुरो वेदपारगान्
brahmaṇā codito vyāso vedān vyastuṃ pracakrame / atha śiṣyān sa jagrāha caturo vedapāragān
- ViP 3.4.8Open verse →
ऋग्वेदश्रावकं पैलं जग्राह स महामुनिः । वैशम्पायननामानं यजुर्वेदस्य चाग्रहीत्
ṛgvedaśrāvakaṃ pailaṃ jagrāha sa mahāmuniḥ / vaiśampāyananāmānaṃ yajurvedasya cāgrahīt
- ViP 3.4.9Open verse →
जैमिनिं सामवेदस्य तथैवाथर्ववेदवित् । सुमन्तुस् तस्य शिष्यो ऽभूद् वेदव्यासस्य धीमतः
jaiminiṃ sāmavedasya tathaivātharvavedavit / sumantus tasya śiṣyo 'bhūd vedavyāsasya dhīmataḥ
- ViP 3.4.10Open verse →
रोमहर्षणनामानं महाबुद्धिं महामुनिः । सूतं जग्राह शिष्यं स इतिहासपुराणयोः
romaharṣaṇanāmānaṃ mahābuddhiṃ mahāmuniḥ / sūtaṃ jagrāha śiṣyaṃ sa itihāsapurāṇayoḥ
- ViP 3.4.11Open verse →
श्२,द्७,ग्३ इन्स्।: एक आसीद् यजुर्वेदस् तं चतुर्धा व्यकल्पयत् । चातुर्होत्रम् अभूद् यस्मिंस् तेन यज्ञम् अथाकरोत्
Ś2,D7,G3 ins.: eka āsīd yajurvedas taṃ caturdhā vyakalpayat / cāturhotram abhūd yasmiṃs tena yajñam athākarot
- ViP 3.4.12Open verse →
आध्वर्यवं यजुर्भिस् तु ऋग्भिर् होत्रं तथा मुनिः । औद्गात्रं सामभिश् चक्रे ब्रह्मत्वं चाप्य् अथर्वभिः
ādhvaryavaṃ yajurbhis tu ṛgbhir hotraṃ tathā muniḥ / audgātraṃ sāmabhiś cakre brahmatvaṃ cāpy atharvabhiḥ
- ViP 3.4.13Open verse →
ततः स ऋच उद्धृत्य ऋग्वेदं कृतवान् मुनिः । यजूंषि च यजुर्वेदं सामवेदं च सामभिः
tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavān muniḥ / yajūṃṣi ca yajurvedaṃ sāmavedaṃ ca sāmabhiḥ
- ViP 3.4.14Open verse →
राज्ञस् त्व् अथर्ववेदेन सर्वकर्माणि स प्रभुः । कारयाम् आस मैत्रेय ब्रह्मत्वं च यथास्थितिः
rājñas tv atharvavedena sarvakarmāṇi sa prabhuḥ / kārayām āsa maitreya brahmatvaṃ ca yathāsthitiḥ
- ViP 3.4.15Open verse →
सो ऽयम् एको महावेदतरुस् तेन पृथक्कृतः । चतुर्धा तु ततो जातं वेदपादपकाननम्
so 'yam eko mahāvedatarus tena pṛthakkṛtaḥ / caturdhā tu tato jātaṃ vedapādapakānanam
- ViP 3.4.16Open verse →
बिभेद प्रथमं विप्र पैल ऋग्वेदपादपम् । इन्द्रप्रमतये प्रादाद् बाष्कलाय च संहिते
bibheda prathamaṃ vipra paila ṛgvedapādapam / indrapramataye prādād bāṣkalāya ca saṃhite
- ViP 3.4.17Open verse →
चतुर्धा स बिभेदाथ बाष्कलो निजसंहिताम् । बौध्यादिभ्यो ददौ तास् तु शिष्येभ्यः स महामतिः
caturdhā sa bibhedātha bāṣkalo nijasaṃhitām / baudhyādibhyo dadau tās tu śiṣyebhyaḥ sa mahāmatiḥ
- ViP 3.4.18Open verse →
बौध्याग्निमाठरौ तद्वद् याज्ञवल्क्यपराशरौ । प्रतिशाखास् तु शाखायास् तस्यास् ते जगृहुर् मुने
baudhyāgnimāṭharau tadvad yājñavalkyaparāśarau / pratiśākhās tu śākhāyās tasyās te jagṛhur mune
- ViP 3.4.19Open verse →
इन्द्रप्रमतिर् एकां तु संहितां स्वसुतं ततः । माण्डुकेयं महात्मानं मैत्रेयाध्यापयत् तदा
indrapramatir ekāṃ tu saṃhitāṃ svasutaṃ tataḥ / māṇḍukeyaṃ mahātmānaṃ maitreyādhyāpayat tadā
- ViP 3.4.20Open verse →
तस्य शिष्यप्रशिष्येभ्यः पुत्रशिष्यान् क्रमाद् ययौ
tasya śiṣyapraśiṣyebhyaḥ putraśiṣyān kramād yayau
- ViP 3.4.21Open verse →
वेदमित्रस् तु शाकल्यः संहितां ताम् अधीतवान् । चकार संहिताः पञ्च शिष्येभ्यः प्रददौ च ताः
vedamitras tu śākalyaḥ saṃhitāṃ tām adhītavān / cakāra saṃhitāḥ pañca śiṣyebhyaḥ pradadau ca tāḥ
- ViP 3.4.22Open verse →
तस्य शिष्यास् तु ये पञ्च तेषां नामानि मे शृणु । मुद्गलो गालवश् चैव वात्स्यः शालीय एव च । शिशिरः पञ्चमश् चासीत् मैत्रेय सुमहामुनिः
tasya śiṣyās tu ye pañca teṣāṃ nāmāni me śṛṇu / mudgalo gālavaś caiva vātsyaḥ śālīya eva ca / śiśiraḥ pañcamaś cāsīt maitreya sumahāmuniḥ
- ViP 3.4.23Open verse →
द्३,त्१।३,ग्३ इन्स्।: संहितात्रितयं चक्रे शाकपूणिर् अथेतरः । निरुक्तम् अकरोत् तद्वच् चतुर्थं मुनिसत्तम
D3,T1.3,G3 ins.: saṃhitātritayaṃ cakre śākapūṇir athetaraḥ / niruktam akarot tadvac caturthaṃ munisattama
- ViP 3.4.24Open verse →
क्रौञ्चो वैतालकिस् तद्वद् बलाकश् च महामुनिः । निरुक्तश् च चतुर्थो ऽभूद् वेदवेदाङ्गपारगः
krauñco vaitālakis tadvad balākaś ca mahāmuniḥ / niruktaś ca caturtho 'bhūd vedavedāṅgapāragaḥ
- ViP 3.4.25Open verse →
इत्य् एताः प्रतिशाखाभ्यो ऽप्य् अनुशाखा द्विजोत्तम । बाष्कलश् चापरास् तिस्रः संहिताः कृतवान् द्विज । शिष्यः कालायनिर् गार्ग्यस् तृतीयश् च तथा जवः
ity etāḥ pratiśākhābhyo 'py anuśākhā dvijottama / bāṣkalaś cāparās tisraḥ saṃhitāḥ kṛtavān dvija / śiṣyaḥ kālāyanir gārgyas tṛtīyaś ca tathā javaḥ
- ViP 3.4.26Open verse →
इत्य् एते बह्वृचाः प्रोक्ताः संहिता यैः प्रवर्तिताः
ity ete bahvṛcāḥ proktāḥ saṃhitā yaiḥ pravartitāḥ
- ViP 3.5.1Open verse →
______________________________________________________ §पराशर उवाच: यजुर्वेदतरोः शाखाः सप्तविंशन् महामतिः । वैशम्पायननामासौ व्यासशिष्यश् चकार वै
______________________________________________________ §parāśara uvāca: yajurvedataroḥ śākhāḥ saptaviṃśan mahāmatiḥ / vaiśampāyananāmāsau vyāsaśiṣyaś cakāra vai
- ViP 3.5.2Open verse →
शिष्येभ्यः प्रददौ ताश् च जगृहुस् ते ऽप्य् अनुक्रमात्
śiṣyebhyaḥ pradadau tāś ca jagṛhus te 'py anukramāt
- ViP 3.5.3Open verse →
याज्ञवल्क्यस् तु तस्याभूद् ब्रह्मरातसुतो द्विज । शिष्यः परमधर्मज्ञो गुरुवृत्तिपरः सदा
yājñavalkyas tu tasyābhūd brahmarātasuto dvija / śiṣyaḥ paramadharmajño guruvṛttiparaḥ sadā
- ViP 3.5.4Open verse →
ऋषिर् यो ऽद्य महामेरौ समाजेनागमिष्यति । तस्य वै सप्तरात्रात् तु ब्रह्महत्या भविष्यति
ṛṣir yo 'dya mahāmerau samājenāgamiṣyati / tasya vai saptarātrāt tu brahmahatyā bhaviṣyati
- ViP 3.5.5Open verse →
पूर्वम् एवं मुनिगणैः समयो ऽभूत् कृतो द्विज । वैशम्पायन एकस् तु तं व्यतिक्रान्तवांस् तदा
pūrvam evaṃ munigaṇaiḥ samayo 'bhūt kṛto dvija / vaiśampāyana ekas tu taṃ vyatikrāntavāṃs tadā
- ViP 3.5.6Open verse →
स्वस्रीयं बालकं सो ऽथ पदा स्पृष्टम् अघातयत्
svasrīyaṃ bālakaṃ so 'tha padā spṛṣṭam aghātayat
- ViP 3.5.7Open verse →
शिष्यान् आह च भोः शिष्या ब्रह्महत्यापहं व्रतम् । चरध्वं मत्कृते सर्वे न विचार्यम् इदं तथा
śiṣyān āha ca bhoḥ śiṣyā brahmahatyāpahaṃ vratam / caradhvaṃ matkṛte sarve na vicāryam idaṃ tathā
- ViP 3.5.8Open verse →
अथाह याज्ञवल्क्यस् तं किम् एभिर् भगवन् द्विजैः । क्लेशितैर् अल्पतेजोभिश् चरिष्ये ऽहम् इदं व्रतम्
athāha yājñavalkyas taṃ kim ebhir bhagavan dvijaiḥ / kleśitair alpatejobhiś cariṣye 'ham idaṃ vratam
- ViP 3.5.9Open verse →
ततः क्रुद्धो गुरुः प्राह याज्ञवल्क्यं महामतिः । मुच्यतां यत् त्वयाधीतं मत्तो विप्रावमानक
tataḥ kruddho guruḥ prāha yājñavalkyaṃ mahāmatiḥ / mucyatāṃ yat tvayādhītaṃ matto viprāvamānaka
- ViP 3.5.10Open verse →
निस्तेजसो वदस्य् एतान् यस् त्वं ब्राह्मणपुंगवान् । तेन शिष्येण नार्थो ऽस्ति ममाज्ञाभङ्गकारिणा
nistejaso vadasy etān yas tvaṃ brāhmaṇapuṃgavān / tena śiṣyeṇa nārtho 'sti mamājñābhaṅgakāriṇā
- ViP 3.5.11Open verse →
याज्ञवल्क्यस् ततः प्राह भक्त्यैतत् ते मयोदितम् । ममाप्य् अलं त्वयाधीतं यन् मया तद् इदं द्विज
yājñavalkyas tataḥ prāha bhaktyaitat te mayoditam / mamāpy alaṃ tvayādhītaṃ yan mayā tad idaṃ dvija
- ViP 3.5.12Open verse →
§पराशर उवाच: इत्य् उक्त्वा रुधिराक्तानि सरूपाणि यजूंषि सः । छर्दयित्वा ददौ तस्मै ययौ च स्वेच्छया मुनिः
§parāśara uvāca: ity uktvā rudhirāktāni sarūpāṇi yajūṃṣi saḥ / chardayitvā dadau tasmai yayau ca svecchayā muniḥ
- ViP 3.5.13Open verse →
यजूंष्य् अथ विसृष्टानि याज्ञवल्क्येन वै द्विज । जगृहुस् तित्तिरीभूत्वा तैत्तिरीयास् तु ते ततः
yajūṃṣy atha visṛṣṭāni yājñavalkyena vai dvija / jagṛhus tittirībhūtvā taittirīyās tu te tataḥ
- ViP 3.5.14Open verse →
ब्रह्महत्या व्रतं चीर्णं गुरुणा चोदितैस् तु यैः । चरकाध्वर्यवस् ते तु चरणान् मुनिसत्तम
brahmahatyā vrataṃ cīrṇaṃ guruṇā coditais tu yaiḥ / carakādhvaryavas te tu caraṇān munisattama
- ViP 3.5.15Open verse →
याज्ञवल्क्यो ऽपि मैत्रेय प्राणायामपरायणः । तुष्टाव प्रणतः सूर्यं यजूंष्य् अभिलषंस् ततः
yājñavalkyo 'pi maitreya prāṇāyāmaparāyaṇaḥ / tuṣṭāva praṇataḥ sūryaṃ yajūṃṣy abhilaṣaṃs tataḥ
- ViP 3.5.16Open verse →
§याज्ञवल्क्य उवाच: नमः सवित्रे द्वाराय मुक्तेर् अमिततेजसे । ऋग्यजुःसामभूताय त्रयीधामवते नमः
§yājñavalkya uvāca: namaḥ savitre dvārāya mukter amitatejase / ṛgyajuḥsāmabhūtāya trayīdhāmavate namaḥ
- ViP 3.5.17Open verse →
नमो ऽग्नीषोमभूताय जगतः कारणात्मने । भास्कराय परं तेजः सौषुम्णम् उरु बिभ्रते
namo 'gnīṣomabhūtāya jagataḥ kāraṇātmane / bhāskarāya paraṃ tejaḥ sauṣumṇam uru bibhrate
- ViP 3.5.18Open verse →
कलाकाष्ठानिमेषादिकालज्ञानात्मने नमः । ध्येयाय विष्णुरूपाय परमाक्षररूपिणे
kalākāṣṭhānimeṣādikālajñānātmane namaḥ / dhyeyāya viṣṇurūpāya paramākṣararūpiṇe
- ViP 3.5.19Open verse →
बिभर्ति यः सुरगणान् आप्यायेन्दुं स्वरश्मिभिः । स्वधामृतेन च पितॄंस् तस्मै तृप्त्यात्मने नमः
bibharti yaḥ suragaṇān āpyāyenduṃ svaraśmibhiḥ / svadhāmṛtena ca pitṝṃs tasmai tṛptyātmane namaḥ
- ViP 3.5.20Open verse →
श्,द्२।७ इन्स्।: हिमाम्बुघर्मवृष्टीनां कर्ता भर्ता च यः प्रभुः । तस्मै त्रिकालभूताय नमः सूर्याय वेधसे
Ś,D2.7 ins.: himāmbugharmavṛṣṭīnāṃ kartā bhartā ca yaḥ prabhuḥ / tasmai trikālabhūtāya namaḥ sūryāya vedhase
- ViP 3.5.21Open verse →
अपहन्ति तमो यश् च जगतो ऽस्य जगत्पतिः । सत्त्वधामधरो देवो नमस् तस्मै विवस्वते
apahanti tamo yaś ca jagato 'sya jagatpatiḥ / sattvadhāmadharo devo namas tasmai vivasvate
- ViP 3.5.22Open verse →
सत्कर्मयोग्यो न जनो नैवापः शौचकारणम् । यस्मिन्न् अनुदिते तस्मै नमो देवाय भास्वते
satkarmayogyo na jano naivāpaḥ śaucakāraṇam / yasminn anudite tasmai namo devāya bhāsvate
- ViP 3.5.23Open verse →
स्पृष्टो यदंशुभिर् लोकः क्रियायोग्यो ऽभिजायते । पवित्रताकारणाय तस्मै शुद्धात्मने नमः
spṛṣṭo yadaṃśubhir lokaḥ kriyāyogyo 'bhijāyate / pavitratākāraṇāya tasmai śuddhātmane namaḥ
- ViP 3.5.24Open verse →
नमः सवित्रे सूर्याय भास्कराय विवस्वते । आदित्यायादिभूताय देवादीनां नमो नमः
namaḥ savitre sūryāya bhāskarāya vivasvate / ādityāyādibhūtāya devādīnāṃ namo namaḥ
- ViP 3.5.25Open verse →
हिरण्मयं रथं यस्य केतवो ऽमृतधारिणः । वहन्ति भुवनालोकचक्षुषस् तं नमाम्य् अहम्
hiraṇmayaṃ rathaṃ yasya ketavo 'mṛtadhāriṇaḥ / vahanti bhuvanālokacakṣuṣas taṃ namāmy aham
- ViP 3.5.26Open verse →
§पराशर उवाच: इत्य् एवमादिभिस् तेन स्तूयमानः स्तवै रविः । वाजिरूपधरः प्राह व्रीयताम् इति वाञ्छितम्
§parāśara uvāca: ity evamādibhis tena stūyamānaḥ stavai raviḥ / vājirūpadharaḥ prāha vrīyatām iti vāñchitam
- ViP 3.5.27Open verse →
याज्ञवल्क्यस् तदा प्राह प्रणिपत्य दिवाकरम् । यजूंषि तानि मे देहि यानि सन्ति न मे गुरौ
yājñavalkyas tadā prāha praṇipatya divākaram / yajūṃṣi tāni me dehi yāni santi na me gurau
- ViP 3.5.28Open verse →
§पराशर उवाच: एवम् उक्तो ददौ तस्मै यजूंषि भगवान् रविः । अयातयामसंज्ञानि यानि वेत्ति न तद्गुरुः
§parāśara uvāca: evam ukto dadau tasmai yajūṃṣi bhagavān raviḥ / ayātayāmasaṃjñāni yāni vetti na tadguruḥ
- ViP 3.5.29Open verse →
यजूंषि यैर् अधीतानि तानि विप्रैर् द्विजोत्तम । वाजिनस् ते समाख्याताः सूर्यो ऽश्वः सो ऽभवद् यतः
yajūṃṣi yair adhītāni tāni viprair dvijottama / vājinas te samākhyātāḥ sūryo 'śvaḥ so 'bhavad yataḥ
- ViP 3.5.30Open verse →
शाखाभेदास् तु तेषां वै दश पञ्च च वाजिनाम् । कण्वाद्याः सुमहाभागा याज्ञवल्क्यप्रवर्तिताः
śākhābhedās tu teṣāṃ vai daśa pañca ca vājinām / kaṇvādyāḥ sumahābhāgā yājñavalkyapravartitāḥ
- ViP 3.6.1Open verse →
______________________________________________________ §पराशर उवाच: सामवेदतरोः शाखा व्यासशिष्यः स जैमिनिः । क्रमेण येन मैत्रेय बिभेद शृणु तन् मम
______________________________________________________ §parāśara uvāca: sāmavedataroḥ śākhā vyāsaśiṣyaḥ sa jaiminiḥ / krameṇa yena maitreya bibheda śṛṇu tan mama
- ViP 3.6.2Open verse →
श्,द्७ इन्स्।: सुमन्तुस् तस्य पुत्रो ऽभूत् सुकर्मास्याप्य् अभूत् सुतः । अधीतवन्ताव् एकैकां संहितां तौ महामुनी
Ś,D7 ins.: sumantus tasya putro 'bhūt sukarmāsyāpy abhūt sutaḥ / adhītavantāv ekaikāṃ saṃhitāṃ tau mahāmunī
- ViP 3.6.3Open verse →
साहस्रं संहिताभेदं सुकर्मा तत्सुतस् ततः । चकार तं च तच्छिष्यौ जगृहाते महाव्रतौ
sāhasraṃ saṃhitābhedaṃ sukarmā tatsutas tataḥ / cakāra taṃ ca tacchiṣyau jagṛhāte mahāvratau
- ViP 3.6.4Open verse →
श्२,द्७ इन्स्।: हिरण्यनाभः कौसल्यः पौष्पिञ्जिश् च द्विजोत्तम । उदीच्याः सामगाः शिष्यास् तस्य पञ्चदश स्मृताः
Ś2,D7 ins.: hiraṇyanābhaḥ kausalyaḥ pauṣpiñjiś ca dvijottama / udīcyāḥ sāmagāḥ śiṣyās tasya pañcadaśa smṛtāḥ
- ViP 3.6.5Open verse →
हिरण्यनाभात् तावत्यः संहिता यैर् द्विजोत्तमैः । गृहीतास् ते ऽपि चोच्यन्ते पण्डितैः प्राच्यसामगाः
hiraṇyanābhāt tāvatyaḥ saṃhitā yair dvijottamaiḥ / gṛhītās te 'pi cocyante paṇḍitaiḥ prācyasāmagāḥ
- ViP 3.6.6Open verse →
लोकाक्षिः कुथुमिश् चैव कुषीदी लाङ्गलिस् तथा । पौष्पिञ्जिशिष्यास् तद्भेदैः संहिता बहुलीकृताः
lokākṣiḥ kuthumiś caiva kuṣīdī lāṅgalis tathā / pauṣpiñjiśiṣyās tadbhedaiḥ saṃhitā bahulīkṛtāḥ
- ViP 3.6.7Open verse →
हिरण्यनाभशिष्यश् च चतुर्विंशतिसंहिताः । प्रोवाच कृतिनामासौ शिष्येभ्यः सुमहामतिः
hiraṇyanābhaśiṣyaś ca caturviṃśatisaṃhitāḥ / provāca kṛtināmāsau śiṣyebhyaḥ sumahāmatiḥ
- ViP 3.6.8Open verse →
तैश् चापि सामवेदो ऽसौ शाखाभिर् बहुलीकृतः । अथर्वणाम् अथो वक्ष्ये संहितानां समुच्चयम् । अथर्ववेदं स मुनिः सुमन्तुर् अमितद्युतिः
taiś cāpi sāmavedo 'sau śākhābhir bahulīkṛtaḥ / atharvaṇām atho vakṣye saṃhitānāṃ samuccayam / atharvavedaṃ sa muniḥ sumantur amitadyutiḥ
- ViP 3.6.9Open verse →
शिष्यम् अध्यापयाम् आस कबन्धं सो ऽपि तं द्विधा । कृत्वा तु देवदर्शाय तथा पथ्याय दत्तवान्
śiṣyam adhyāpayām āsa kabandhaṃ so 'pi taṃ dvidhā / kṛtvā tu devadarśāya tathā pathyāya dattavān
- ViP 3.6.10Open verse →
देवदर्शस्य शिष्यास् तु मौद्गो ब्रह्मबलिस् तथा । शौल्कायनिः पिप्पलादस् तथान्यो मुनिसत्तम
devadarśasya śiṣyās tu maudgo brahmabalis tathā / śaulkāyaniḥ pippalādas tathānyo munisattama
- ViP 3.6.11Open verse →
पथ्यस्यापि त्रयः शिष्याः कृता यैर् द्विज संहिताः । जाजलिः कुमुदादिश् च तृतीयः शौनको द्विज
pathyasyāpi trayaḥ śiṣyāḥ kṛtā yair dvija saṃhitāḥ / jājaliḥ kumudādiś ca tṛtīyaḥ śaunako dvija
- ViP 3.6.12Open verse →
शौनकस् तु द्विधा कृत्वा ददाव् एकां तु बभ्रवे । द्वितीयां संहितां प्रादात् सैन्धवाय च संज्ञिने
śaunakas tu dvidhā kṛtvā dadāv ekāṃ tu babhrave / dvitīyāṃ saṃhitāṃ prādāt saindhavāya ca saṃjñine
- ViP 3.6.13Open verse →
सैन्धवान् मुञ्जकेशश् च ऽभिनद् वेदं द्विधा पुनः । नक्षत्रकल्पो वेदानां संहितानां तथैव च
saindhavān muñjakeśaś ca 'bhinad vedaṃ dvidhā punaḥ / nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca
- ViP 3.6.14Open verse →
चतुर्थः स्याद् आङ्गिरसः शान्तिकल्पश् च पञ्चमः । श्रेष्ठास् त्व् अथर्वणाम् एते संहितानां विकल्पकाः
caturthaḥ syād āṅgirasaḥ śāntikalpaś ca pañcamaḥ / śreṣṭhās tv atharvaṇām ete saṃhitānāṃ vikalpakāḥ
- ViP 3.6.15Open verse →
आख्यानैश् चाप्य् उपाख्यानैर् गाथाभिः कल्पशुद्धिभिः । पुराणसंहितां चक्रे पुराणार्थविशारदः
ākhyānaiś cāpy upākhyānair gāthābhiḥ kalpaśuddhibhiḥ / purāṇasaṃhitāṃ cakre purāṇārthaviśāradaḥ
- ViP 3.6.16Open verse →
श्२,द्७ इन्स्।: प्रख्यातो व्यासशिष्यो ऽभूत् सूतो वै रोमहर्षणः । पुराणसंहितां तस्मै ददौ व्यासो महामुनिः
Ś2,D7 ins.: prakhyāto vyāsaśiṣyo 'bhūt sūto vai romaharṣaṇaḥ / purāṇasaṃhitāṃ tasmai dadau vyāso mahāmuniḥ
- ViP 3.6.17Open verse →
सुमतिश् चाग्निवर्चाश् च मित्रायुः शांशपायनः । अकृतव्रणो ऽथ सावर्णिः षट् शिष्यास् तस्य चाभवन्
sumatiś cāgnivarcāś ca mitrāyuḥ śāṃśapāyanaḥ / akṛtavraṇo 'tha sāvarṇiḥ ṣaṭ śiṣyās tasya cābhavan
- ViP 3.6.18Open verse →
काश्यपः संहिताकर्ता सावर्णिः शांशपायनः । रोमहर्षणिका चान्या तिसॄणां मूलसंहिता
kāśyapaḥ saṃhitākartā sāvarṇiḥ śāṃśapāyanaḥ / romaharṣaṇikā cānyā tisṝṇāṃ mūlasaṃhitā
- ViP 3.6.19Open verse →
चतुष्टयेनाप्य् एतेन संहितानाम् इदं मुने
catuṣṭayenāpy etena saṃhitānām idaṃ mune
- ViP 3.6.20Open verse →
आद्यं सर्वपुराणानां पुराणं ब्राह्मम् उच्यते । अष्टादश पुराणानि पुराणज्ञाः प्रचक्षते
ādyaṃ sarvapurāṇānāṃ purāṇaṃ brāhmam ucyate / aṣṭādaśa purāṇāni purāṇajñāḥ pracakṣate
- ViP 3.6.21Open verse →
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम्
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā / tathānyaṃ nāradīyaṃ ca mārkaṇḍeyaṃ ca saptamam
- ViP 3.6.22Open verse →
आग्नेयम् अष्टमं चैव भविष्यं नवमं तथा । दशमं ब्रह्मवैवर्तं लैङ्गम् एकादशं स्मृतम्
āgneyam aṣṭamaṃ caiva bhaviṣyaṃ navamaṃ tathā / daśamaṃ brahmavaivartaṃ laiṅgam ekādaśaṃ smṛtam
- ViP 3.6.23Open verse →
वाराहं द्वादशं चैव स्कान्दं चात्र त्रयोदशम् । चतुर्दशं वामनं च कौर्मं पञ्चदशं स्मृतम् । मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम्
vārāhaṃ dvādaśaṃ caiva skāndaṃ cātra trayodaśam / caturdaśaṃ vāmanaṃ ca kaurmaṃ pañcadaśaṃ smṛtam / mātsyaṃ ca gāruḍaṃ caiva brahmāṇḍaṃ ca tataḥ param
- ViP 3.6.24Open verse →
द्३,म्०, एद्। वेङ्क्। इन्स्।: सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च । सर्वेष्व् एतेषु कथ्यन्ते वंशानुचरितं च यत्
D3,M0, ed. Veṅk. ins.: sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca / sarveṣv eteṣu kathyante vaṃśānucaritaṃ ca yat
- ViP 3.6.25Open verse →
यद् एतत् तव मैत्रेय पुराणं कथ्यते मया । एतद् वैष्णवसंज्ञं वै पाद्मस्य समनन्तरम्
yad etat tava maitreya purāṇaṃ kathyate mayā / etad vaiṣṇavasaṃjñaṃ vai pādmasya samanantaram
- ViP 3.6.26Open verse →
सर्गे च प्रतिसर्गे च वंशमन्वन्तरादिषु । कथ्यते भगवान् विष्णुर् अशेषेष्व् एव सत्तम
sarge ca pratisarge ca vaṃśamanvantarādiṣu / kathyate bhagavān viṣṇur aśeṣeṣv eva sattama
- ViP 3.6.27Open verse →
अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्य् एताश् चतुर्दश
aṅgāni caturo vedā mīmāṃsā nyāyavistaraḥ / purāṇaṃ dharmaśāstraṃ ca vidyā hy etāś caturdaśa
- ViP 3.6.28Open verse →
आयुर्वेदो धनुर्वेदो गान्धर्वश् चैव ते त्रयः । अर्थशास्त्रं चतुर्थं तु विद्या ह्य् अष्टादशैव ताः
āyurvedo dhanurvedo gāndharvaś caiva te trayaḥ / arthaśāstraṃ caturthaṃ tu vidyā hy aṣṭādaśaiva tāḥ
- ViP 3.6.29Open verse →
ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः । राजर्षयः पुनस् तेभ्य ऋषिप्रकृतयस् त्रयः
jñeyā brahmarṣayaḥ pūrvaṃ tebhyo devarṣayaḥ punaḥ / rājarṣayaḥ punas tebhya ṛṣiprakṛtayas trayaḥ
- ViP 3.6.30Open verse →
इति शाखाः समाख्याताः शाखाभेदास् तथैव च । कर्तारश् चैव शाखानां भेदहेतुस् तथोदितः
iti śākhāḥ samākhyātāḥ śākhābhedās tathaiva ca / kartāraś caiva śākhānāṃ bhedahetus tathoditaḥ
- ViP 3.6.31Open verse →
सर्वमन्वन्तरेष्व् एवं शाखाभेदाः समाः स्मृताः
sarvamanvantareṣv evaṃ śākhābhedāḥ samāḥ smṛtāḥ
- ViP 3.6.32Open verse →
प्राजापत्या श्रुतिर् नित्या तद्विकल्पास् त्व् इमे द्विज
prājāpatyā śrutir nityā tadvikalpās tv ime dvija
- ViP 3.6.33Open verse →
एतत् तवोदितं सर्वं यत् पृष्टो ऽहम् इह त्वया । मैत्रेय वेदसंबद्धं किम् अन्यत् कथयामि ते
etat tavoditaṃ sarvaṃ yat pṛṣṭo 'ham iha tvayā / maitreya vedasaṃbaddhaṃ kim anyat kathayāmi te
- ViP 3.7.1Open verse →
______________________________________________________ §मैत्रेय उवाच: यथावत् कथितं सर्वं यत् पृष्टो ऽसि मया गुरो । श्रोतुम् इच्छाम्य् अहं त्व् एकं तद् भवान् प्रब्रवीतु मे
______________________________________________________ §maitreya uvāca: yathāvat kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā guro / śrotum icchāmy ahaṃ tv ekaṃ tad bhavān prabravītu me
- ViP 3.7.2Open verse →
श्२ इन्स्।: सप्तद्वीपानि पातालवीथ्यश् च सुमहामुने । सप्त लोकाश् च ये ऽन्तःस्था ब्रह्माण्डस्यास्य सर्वतः
Ś2 ins.: saptadvīpāni pātālavīthyaś ca sumahāmune / sapta lokāś ca ye 'ntaḥsthā brahmāṇḍasyāsya sarvataḥ
- ViP 3.7.3Open verse →
स्थूलैः सूक्ष्मैस् तथासूक्ष्मैः सूक्ष्मात् सूक्ष्मतरैस् तथा । स्थूलैः स्थूलतरैश् चैतत् सर्वं प्राणिभिर् आवृतम्
sthūlaiḥ sūkṣmais tathāsūkṣmaiḥ sūkṣmāt sūkṣmatarais tathā / sthūlaiḥ sthūlataraiś caitat sarvaṃ prāṇibhir āvṛtam
- ViP 3.7.4Open verse →
अङ्गुलस्याष्टभागो ऽपि न सो ऽस्ति मुनिसत्तम । न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः
aṅgulasyāṣṭabhāgo 'pi na so 'sti munisattama / na santi prāṇino yatra karmabandhanibandhanāḥ
- ViP 3.7.5Open verse →
सर्वे चैते वशं यान्ति यमस्य भगवन् किल । आयुषो ऽन्ते ततो यान्ति यातनास् तत्प्रचोदिताः
sarve caite vaśaṃ yānti yamasya bhagavan kila / āyuṣo 'nte tato yānti yātanās tatpracoditāḥ
- ViP 3.7.6Open verse →
यातनाभ्यः परिभ्रष्टा देवाद्यास्व् अथ योनिषु । जन्तवः परिवर्तन्ते शास्त्राणाम् एष निर्णयः
yātanābhyaḥ paribhraṣṭā devādyāsv atha yoniṣu / jantavaḥ parivartante śāstrāṇām eṣa nirṇayaḥ
- ViP 3.7.7Open verse →
सो ऽहम् इच्छामि तच् छ्रोतुं यमस्य वशवर्तिनः । न भवन्ति नरा येन तत् कर्म कथयामलम्
so 'ham icchāmi tac chrotuṃ yamasya vaśavartinaḥ / na bhavanti narā yena tat karma kathayāmalam
- ViP 3.7.8Open verse →
§पराशर उवाच: अयम् एव मुने प्रश्नो नकुलेन महात्मना । पृष्टः पितामहः प्राह भीष्मो यत् तच् छृणुष्व मे
§parāśara uvāca: ayam eva mune praśno nakulena mahātmanā / pṛṣṭaḥ pitāmahaḥ prāha bhīṣmo yat tac chṛṇuṣva me
- ViP 3.7.9Open verse →
§भीष्म उवाच: पुरा ममागतो वत्स सखा कालिङ्गको द्विजः । माम् उवाच स पृष्टो वै मया जातिस्मरो मुनिः
§bhīṣma uvāca: purā mamāgato vatsa sakhā kāliṅgako dvijaḥ / mām uvāca sa pṛṣṭo vai mayā jātismaro muniḥ
- ViP 3.7.10Open verse →
तेनाख्यातम् इदं चेदम् इत्थं चैतद् भविष्यति । तथा च तद् अभूद् वत्स यथोक्तं तेन धीमता
tenākhyātam idaṃ cedam itthaṃ caitad bhaviṣyati / tathā ca tad abhūd vatsa yathoktaṃ tena dhīmatā
- ViP 3.7.11Open verse →
स पृष्टश् च मया भूयः श्रद्दधानेन वै द्विजः । यद् यद् आह न तद् दृष्टम् अन्यथा हि मया क्वचित्
sa pṛṣṭaś ca mayā bhūyaḥ śraddadhānena vai dvijaḥ / yad yad āha na tad dṛṣṭam anyathā hi mayā kvacit
- ViP 3.7.12Open verse →
एकदा तु मया पृष्टम् यद् एतद् भवतोदितम् । प्राह कालिङ्गको विप्रः स्मृत्वा तस्य मुनेर् वचः
ekadā tu mayā pṛṣṭam yad etad bhavatoditam / prāha kāliṅgako vipraḥ smṛtvā tasya muner vacaḥ
- ViP 3.7.13Open verse →
जातिस्मरेण कथितं रहस्यं परमं मम । यमकिंकरयोर् यो ऽभूत् संवादस् तं ब्रवीमि ते
jātismareṇa kathitaṃ rahasyaṃ paramaṃ mama / yamakiṃkarayor yo 'bhūt saṃvādas taṃ bravīmi te
- ViP 3.7.14Open verse →
ग्१,म्१।२ इन्स्।: §कालिङ्ग उवाच: स्वपुरुषम् अभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनप्रपन्नान् प्रभुर् अहम् अन्यनृणां न वैष्णवानाम्
G1,M1.2 ins.: §kāliṅga uvāca: svapuruṣam abhivīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle / parihara madhusūdanaprapannān prabhur aham anyanṛṇāṃ na vaiṣṇavānām
- ViP 3.7.16Open verse →
अहम् अमरगणार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः ॥ विप्_३,७।१५अब् ॥ म्१।२ इन्स्।: हरिगुरुविमुखान् प्रशास्मि मर्त्यान् हरिचरणप्रणतान् नमस्करोमि । सुगतिम् अभिलषामि वासुदेवाद् अहम् अपि भागवतस्थितान्तरात्मा ॥ विप्_३,७।१५अब्*११ ॥ हरिगुरुवशगो ऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः ॥ विप्_३,७।१५च्द् ॥ म्१।२ इन्स्।: वर्षशतम् अपीह धर्म्यमानं व्रजति न काञ्चनतामयः कदाचित् । न हि शशिकलुषच्छविः कदाचित् तिमिरपराभवताम् उपैति चन्द्रः । वृषगणकणभक्षशंकरोक्तिर् दशबलपञ्चशिखाक्षपादवादान् । मुकुलितकरकुङ्मलैः सुरेन्द्रैः सततनमस्कृतपादपङ्कजाय । कटकमुकुटकर्णिकादिभेदैः कनकम् अभेदम् अपीष्यते यथैकम् । सुरपशुमनुजादिकल्पनाभिर् हरिर् अखिलाभिर् उदीर्यते तथैकः
aham amaragaṇārcitena dhātrā yama iti lokahitāhite niyuktaḥ // ViP_3,7.15ab // M1.2 ins.: hariguruvimukhān praśāsmi martyān haricaraṇapraṇatān namaskaromi / sugatim abhilaṣāmi vāsudevād aham api bhāgavatasthitāntarātmā // ViP_3,7.15ab*11 // hariguruvaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi viṣṇuḥ // ViP_3,7.15cd // M1.2 ins.: varṣaśatam apīha dharmyamānaṃ vrajati na kāñcanatāmayaḥ kadācit / na hi śaśikaluṣacchaviḥ kadācit timiraparābhavatām upaiti candraḥ / vṛṣagaṇakaṇabhakṣaśaṃkaroktir daśabalapañcaśikhākṣapādavādān / mukulitakarakuṅmalaiḥ surendraiḥ satatanamaskṛtapādapaṅkajāya / kaṭakamukuṭakarṇikādibhedaiḥ kanakam abhedam apīṣyate yathaikam / surapaśumanujādikalpanābhir harir akhilābhir udīryate tathaikaḥ
- ViP 3.7.17Open verse →
क्षितिजलपरमाणवो ऽनिलान्ते पुनर् अपि यान्ति यथैकतां धरित्र्याः । सुरपशुमनुजादयस् तथान्ते गुणकलुषेण सनातनेन तेन
kṣitijalaparamāṇavo 'nilānte punar api yānti yathaikatāṃ dharitryāḥ / surapaśumanujādayas tathānte guṇakaluṣeṇa sanātanena tena
- ViP 3.7.18Open verse →
हरिम् अमरगणार्चिताङ्घ्रिपद्मं प्रणमति यः परमार्थतो हि मर्त्यः । तम् अपगतसमस्तपापबन्धं व्रज परिहृत्य यथाग्निम् आज्यसिक्तम्
harim amaragaṇārcitāṅghripadmaṃ praṇamati yaḥ paramārthato hi martyaḥ / tam apagatasamastapāpabandhaṃ vraja parihṛtya yathāgnim ājyasiktam
- ViP 3.7.19Open verse →
इति यमवचनं निशम्य पाशी यमपुरुषस् तम् उवाच धर्मराजम् । कथय मम विभो समस्तधातुर् भवति हरेः खलु यादृशो ऽस्य भक्तः
iti yamavacanaṃ niśamya pāśī yamapuruṣas tam uvāca dharmarājam / kathaya mama vibho samastadhātur bhavati hareḥ khalu yādṛśo 'sya bhaktaḥ
- ViP 3.7.20Open verse →
§यम उवाच: न चलति निजवर्णधर्मतो यः सममतिर् आत्मसुहृद्विपक्षपक्षे । न हरति न च हन्ति किंचिद् उच्चैः सितमनसं तम् अवैहि विष्णुभक्तम्
§yama uvāca: na calati nijavarṇadharmato yaḥ samamatir ātmasuhṛdvipakṣapakṣe / na harati na ca hanti kiṃcid uccaiḥ sitamanasaṃ tam avaihi viṣṇubhaktam
- ViP 3.7.21Open verse →
कलिकलुषमलेन यस्य नात्मा विमलमतेर् मलिनीकृतो ऽस्तमोहे । मनसि कृतजनार्दनं मनुष्यं सततम् अवैहि हरेर् अतीव भक्तम्
kalikaluṣamalena yasya nātmā vimalamater malinīkṛto 'stamohe / manasi kṛtajanārdanaṃ manuṣyaṃ satatam avaihi harer atīva bhaktam
- ViP 3.7.22Open verse →
कनकम् अपि रहस्य् अवेक्ष्य बुद्ध्या तृणम् इव यः समवैति वै परस्वम् । भवति च भगवत्य् अनन्यचेताः पुरुषवरं तम् अवैहि विष्णुभक्तम्
kanakam api rahasy avekṣya buddhyā tṛṇam iva yaḥ samavaiti vai parasvam / bhavati ca bhagavaty ananyacetāḥ puruṣavaraṃ tam avaihi viṣṇubhaktam
- ViP 3.7.23Open verse →
स्फटिकगिरिशिलामलः क्व विष्णुर् मनसि नृणां क्व च मत्सरादिदोषः । न हि तुहिनमयूखरश्मिपुञ्जे भवति हुताशनदीप्तिजः प्रतापः
sphaṭikagiriśilāmalaḥ kva viṣṇur manasi nṛṇāṃ kva ca matsarādidoṣaḥ / na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ
- ViP 3.7.24Open verse →
विमलमतिर् अमत्सरः प्रशान्तः शुचिचरितो ऽखिलसत्त्वमित्रभूतः । प्रियहितवचनो ऽस्तमानमायो वसति सदा हृदि तस्य वासुदेवः
vimalamatir amatsaraḥ praśāntaḥ śucicarito 'khilasattvamitrabhūtaḥ / priyahitavacano 'stamānamāyo vasati sadā hṛdi tasya vāsudevaḥ
- ViP 3.7.25Open verse →
वसति हृदि सनातने च तस्मिन् भवति पुमाञ् जगतो ऽस्य सौम्यरूपः । क्षितिरसम् अतिरम्यम् आत्मनो ऽन्तः कथयति चारुतयैव शालपोतः
vasati hṛdi sanātane ca tasmin bhavati pumāñ jagato 'sya saumyarūpaḥ / kṣitirasam atiramyam ātmano 'ntaḥ kathayati cārutayaiva śālapotaḥ
- ViP 3.7.26Open verse →
यमनियमविधूतकल्मषाणाम् अनुदिनम् अच्युतसक्तमानसानाम् । अपगतमदमानमत्सराणां व्रज भट दूरतरेण मानवानाम्
yamaniyamavidhūtakalmaṣāṇām anudinam acyutasaktamānasānām / apagatamadamānamatsarāṇāṃ vraja bhaṭa dūratareṇa mānavānām
- ViP 3.7.27Open verse →
हृदि यदि भगवान् अनादिर् आस्ते हरिर् असिशङ्खगदाधरो ऽव्ययात्मा । तदघम् अघविघातकर्तृभिन्नं भवति कथं सति चान्धकारम् अर्के
hṛdi yadi bhagavān anādir āste harir asiśaṅkhagadādharo 'vyayātmā / tadagham aghavighātakartṛbhinnaṃ bhavati kathaṃ sati cāndhakāram arke
- ViP 3.7.28Open verse →
हरति परधनं निहन्ति जन्तून् वदति तथानृतनिष्ठुराणि यश् च । अशुभजनितदुर्मदस्य पुंसः कलुषमतेर् हृदि तस्य नास्त्य् अनन्तः
harati paradhanaṃ nihanti jantūn vadati tathānṛtaniṣṭhurāṇi yaś ca / aśubhajanitadurmadasya puṃsaḥ kaluṣamater hṛdi tasya nāsty anantaḥ
- ViP 3.7.29Open verse →
न सहति परसंपदं विनिन्दां कलुषमतिः कुरुते सताम् असाधुः । न यजति न ददाति यश् च सन्तं मनसि न तस्य जनार्दनो ऽधमस्य
na sahati parasaṃpadaṃ vinindāṃ kaluṣamatiḥ kurute satām asādhuḥ / na yajati na dadāti yaś ca santaṃ manasi na tasya janārdano 'dhamasya
- ViP 3.7.30Open verse →
परमसुहृदि बान्धवे कलत्रे सुततनयापितृमातृभृत्यवर्गे । शठमतिर् उपयाति यो ऽर्थतृष्णां तम् अधमचेष्टम् अवैहि नास्य भक्तम्
paramasuhṛdi bāndhave kalatre sutatanayāpitṛmātṛbhṛtyavarge / śaṭhamatir upayāti yo 'rthatṛṣṇāṃ tam adhamaceṣṭam avaihi nāsya bhaktam
- ViP 3.7.31Open verse →
अशुभमतिर् असत्प्रवृत्तिसक्तः सततम् अनार्यविशालसङ्गमत्तः । अनुदिनकृतपापबन्धयत्नः पुरुषपशुर् न हि वासुदेवभक्तः
aśubhamatir asatpravṛttisaktaḥ satatam anāryaviśālasaṅgamattaḥ / anudinakṛtapāpabandhayatnaḥ puruṣapaśur na hi vāsudevabhaktaḥ
- ViP 3.7.32Open verse →
सकलम् इदम् अहं च वासुदेवः परमपुमान् परमेश्वरः स एकः । इति मतिर् अमला भवत्य् अनन्ते हृदयगते व्रज तान् विहाय दूरात्
sakalam idam ahaṃ ca vāsudevaḥ paramapumān parameśvaraḥ sa ekaḥ / iti matir amalā bhavaty anante hṛdayagate vraja tān vihāya dūrāt
- ViP 3.7.33Open verse →
कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे । भव शरणम् इतीरयन्ति ये वै त्यज भट दूरतरेण तान् अपापान्
kamalanayana vāsudeva viṣṇo dharaṇidharācyuta śaṅkhacakrapāṇe / bhava śaraṇam itīrayanti ye vai tyaja bhaṭa dūratareṇa tān apāpān
- ViP 3.7.34Open verse →
वसति मनसि यस्य सो ऽव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते । तव गतिर् अथवा ममास्ति चक्र प्रतिहतवीर्यबलस्य सो ऽन्यलोक्यः
vasati manasi yasya so 'vyayātmā puruṣavarasya na tasya dṛṣṭipāte / tava gatir athavā mamāsti cakra pratihatavīryabalasya so 'nyalokyaḥ
- ViP 3.7.35Open verse →
§कालिङ्ग उवाच: इति निजभटशासनाय देवो रवितनयः स किलाह धर्मराजः । मम कथितम् इदं च तेन तुभ्यं कुरुवर सम्यग् इदं मयापि चोक्तम्
§kāliṅga uvāca: iti nijabhaṭaśāsanāya devo ravitanayaḥ sa kilāha dharmarājaḥ / mama kathitam idaṃ ca tena tubhyaṃ kuruvara samyag idaṃ mayāpi coktam
- ViP 3.7.36Open verse →
§भीष्म उवाच: नकुलैतन् ममाख्यातं पूर्वं तेन द्विजन्मना । कलिङ्गदेशाद् अभ्येत्य प्रीयता सुमहात्मना
§bhīṣma uvāca: nakulaitan mamākhyātaṃ pūrvaṃ tena dvijanmanā / kaliṅgadeśād abhyetya prīyatā sumahātmanā
- ViP 3.7.37Open verse →
मयाप्य् एतद् यथान्यायं सम्यग् वत्स तवोदितम् । यथा विष्णुम् ऋते नान्यत् त्राणं संसारसागरे
mayāpy etad yathānyāyaṃ samyag vatsa tavoditam / yathā viṣṇum ṛte nānyat trāṇaṃ saṃsārasāgare
- ViP 3.7.38Open verse →
किंकरा दण्डपाशौ वा न यमो न च यातना । समर्थास् तस्य यस्यात्मा केशवालम्बनः सदा
kiṃkarā daṇḍapāśau vā na yamo na ca yātanā / samarthās tasya yasyātmā keśavālambanaḥ sadā
- ViP 3.7.39Open verse →
§पराशर उवाच: एतन् मुने तवाख्यातं गीतं वैवस्वतेन यत् । त्वत्प्रश्नानुगतं सम्यक् किम् अन्यच् छ्रोतुम् इच्छसि
§parāśara uvāca: etan mune tavākhyātaṃ gītaṃ vaivasvatena yat / tvatpraśnānugataṃ samyak kim anyac chrotum icchasi
- ViP 3.8.1Open verse →
______________________________________________________ §मैत्रेय उवाच: भगवन् भगवान् देवः संसारविजिगीषुभिः । समाख्याहि जगन्नाथो विष्णुर् आराध्यते यथा
______________________________________________________ §maitreya uvāca: bhagavan bhagavān devaḥ saṃsāravijigīṣubhiḥ / samākhyāhi jagannātho viṣṇur ārādhyate yathā
- ViP 3.8.2Open verse →
द्७ इन्स्।: आराधिताच् च गोविन्दाद् आराधनपरैर् नरैः । यत् प्राप्यते फलं श्रोतुं तच् चेच्छामि महामुने
D7 ins.: ārādhitāc ca govindād ārādhanaparair naraiḥ / yat prāpyate phalaṃ śrotuṃ tac cecchāmi mahāmune
- ViP 3.8.3Open verse →
§पराशर उवाच: यत् पृच्छति भवान् एतत् सगरेण महात्मना । और्वः प्राह यथा पृष्टस् तन् मे कथयतः शृणु
§parāśara uvāca: yat pṛcchati bhavān etat sagareṇa mahātmanā / aurvaḥ prāha yathā pṛṣṭas tan me kathayataḥ śṛṇu
- ViP 3.8.4Open verse →
सगरः प्रणिपत्येदम् और्वं पप्रच्छ भार्गवम् । विष्णोर् आराधनोपायसंबन्धं मुनिसत्तम
sagaraḥ praṇipatyedam aurvaṃ papraccha bhārgavam / viṣṇor ārādhanopāyasaṃbandhaṃ munisattama
- ViP 3.8.5Open verse →
फलं चाराधिते विष्णौ यत् पुंसाम् अभिजायते । स चाह पृष्टो यत् तेन तन् मैत्रेयाखिलं शृणु
phalaṃ cārādhite viṣṇau yat puṃsām abhijāyate / sa cāha pṛṣṭo yat tena tan maitreyākhilaṃ śṛṇu
- ViP 3.8.6Open verse →
§और्व उवाच: भौमान् मनोरथान् स्वर्गं स्वर्गवन्द्यं तथास्पदम् । प्राप्नोत्य् आराधिते विष्णौ निर्वाणम् अपि चोत्तमम्
§aurva uvāca: bhaumān manorathān svargaṃ svargavandyaṃ tathāspadam / prāpnoty ārādhite viṣṇau nirvāṇam api cottamam
- ViP 3.8.7Open verse →
यद् यद् इच्छति यावच् च फलम् आराधिते ऽच्युते । तत् तद् आप्नोति राजेन्द्र भूरि स्वल्पम् अथापि वा
yad yad icchati yāvac ca phalam ārādhite 'cyute / tat tad āpnoti rājendra bhūri svalpam athāpi vā
- ViP 3.8.8Open verse →
यत् तु पृच्छसि भूपाल कथम् आराध्यते हि सः । तद् अहं सकलं तुभ्यं कथयामि निबोध मे
yat tu pṛcchasi bhūpāla katham ārādhyate hi saḥ / tad ahaṃ sakalaṃ tubhyaṃ kathayāmi nibodha me
- ViP 3.8.9Open verse →
वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुर् आराध्यते पन्था नान्यस् तत्तोषकारणम्
varṇāśramācāravatā puruṣeṇa paraḥ pumān / viṣṇur ārādhyate panthā nānyas tattoṣakāraṇam
- ViP 3.8.10Open verse →
यजन् यज्ञान् यजत्य् एनं जपत्य् एनं जपन् नृप । घ्नंस् तथान्यान् हिनस्त्य् एनं सर्वभूतो यतो हरिः
yajan yajñān yajaty enaṃ japaty enaṃ japan nṛpa / ghnaṃs tathānyān hinasty enaṃ sarvabhūto yato hariḥ
- ViP 3.8.11Open verse →
तस्मात् सदाचारवता पुरुषेण जनार्दनः । आराध्यते स्ववर्णोक्तधर्मानुष्ठानकारिणा
tasmāt sadācāravatā puruṣeṇa janārdanaḥ / ārādhyate svavarṇoktadharmānuṣṭhānakāriṇā
- ViP 3.8.12Open verse →
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् च पृथिवीपते । स्वधर्मतत्परो विष्णुम् आराधयति नान्यथा
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ca pṛthivīpate / svadharmatatparo viṣṇum ārādhayati nānyathā
- ViP 3.8.13Open verse →
परापवादं पैशुन्यम् अनृतं च न भाषते । अन्योद्वेगकरं वापि तोष्यते तेन केशवः
parāpavādaṃ paiśunyam anṛtaṃ ca na bhāṣate / anyodvegakaraṃ vāpi toṣyate tena keśavaḥ
- ViP 3.8.14Open verse →
परपत्नीपरद्रव्यपरहिंसासु यो मतिम् । न करोति पुमान् भूप तोष्यते तेन केशवः
parapatnīparadravyaparahiṃsāsu yo matim / na karoti pumān bhūpa toṣyate tena keśavaḥ
- ViP 3.8.15Open verse →
न ताडयति नो हन्ति प्राणिनो ऽन्यांश् च देहिनः । यो मनुष्यो मनुष्येन्द्र तोष्यते तेन केशवः
na tāḍayati no hanti prāṇino 'nyāṃś ca dehinaḥ / yo manuṣyo manuṣyendra toṣyate tena keśavaḥ
- ViP 3.8.16Open verse →
देवद्विजगुरूणां यः शुश्रूषासु सदोद्यतः । तोष्यते तेन गोविन्दः पुरुषेण नरेश्वर
devadvijagurūṇāṃ yaḥ śuśrūṣāsu sadodyataḥ / toṣyate tena govindaḥ puruṣeṇa nareśvara
- ViP 3.8.17Open verse →
यथात्मनि च पुत्रे च सर्वभूतेषु यस् तथा । हितकामो हरिस् तेन तोष्यते सर्वदा सुखम्
yathātmani ca putre ca sarvabhūteṣu yas tathā / hitakāmo haris tena toṣyate sarvadā sukham
- ViP 3.8.18Open verse →
यस्य रागादिदोषेण न दुष्टं नृप मानसम् । विशुद्धचेतसा विष्णुस् तोष्यते तेन सर्वदा
yasya rāgādidoṣeṇa na duṣṭaṃ nṛpa mānasam / viśuddhacetasā viṣṇus toṣyate tena sarvadā
- ViP 3.8.19Open verse →
वर्णाश्रमेषु ये धर्माः शास्त्रोक्ता नृपसत्तम । तेषु तिष्ठन् नरो विष्णुम् आराधयति नान्यथा
varṇāśrameṣu ye dharmāḥ śāstroktā nṛpasattama / teṣu tiṣṭhan naro viṣṇum ārādhayati nānyathā
- ViP 3.8.20Open verse →
§सगर उवाच: तद् अहं श्रोतुम् इच्छामि वर्णधर्मान् अशेषतः । तथैवाश्रमधर्मांश् च द्विजवर्य ब्रवीहि तान्
§sagara uvāca: tad ahaṃ śrotum icchāmi varṇadharmān aśeṣataḥ / tathaivāśramadharmāṃś ca dvijavarya bravīhi tān
- ViP 3.8.21Open verse →
§और्व उवाच: ब्राह्मणक्षत्रियविशां शूद्राणां च यथाक्रमम् । त्वम् एकाग्रमना भूत्वा शृणु धर्मान् मयोदितान्
§aurva uvāca: brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca yathākramam / tvam ekāgramanā bhūtvā śṛṇu dharmān mayoditān
- ViP 3.8.22Open verse →
दानं दद्याद् यजेद् देवान् यज्ञैः स्वाध्यायतत्परः । नित्योदकी भवेद् विप्रः कुर्याच् चाग्निपरिग्रहम्
dānaṃ dadyād yajed devān yajñaiḥ svādhyāyatatparaḥ / nityodakī bhaved vipraḥ kuryāc cāgniparigraham
- ViP 3.8.23Open verse →
वृत्त्यर्थं याजयेच् चान्यान् अन्यान् अध्यापयेत् तथा । कुर्यात् प्रतिग्रहादानं गुर्वर्थं न्यायतो द्विजः
vṛttyarthaṃ yājayec cānyān anyān adhyāpayet tathā / kuryāt pratigrahādānaṃ gurvarthaṃ nyāyato dvijaḥ
- ViP 3.8.24Open verse →
सर्वलोकहितं कुर्यान् नाहितं कस्यचिद् द्विजः । मैत्री समस्तभूतेषु ब्राह्मणस्योत्तमं धनम्
sarvalokahitaṃ kuryān nāhitaṃ kasyacid dvijaḥ / maitrī samastabhūteṣu brāhmaṇasyottamaṃ dhanam
- ViP 3.8.25Open verse →
ग्राव्णि रत्ने च पारक्ये समबुद्धिर् भवेद् द्विजः । ऋताव् अभिगमः पत्न्यां शस्यते चास्य पार्थिव
grāvṇi ratne ca pārakye samabuddhir bhaved dvijaḥ / ṛtāv abhigamaḥ patnyāṃ śasyate cāsya pārthiva
- ViP 3.8.26Open verse →
दानानि दद्याद् इच्छातो द्विजेभ्यः क्षत्रियो ऽपि हि । यजेच् च विविधैर् यज्ञैर् अधीयीत च पार्थिवः
dānāni dadyād icchāto dvijebhyaḥ kṣatriyo 'pi hi / yajec ca vividhair yajñair adhīyīta ca pārthivaḥ
- ViP 3.8.27Open verse →
शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका । तस्यापि प्रथमे कल्पे पृथिवीपरिपालनम्
śastrājīvo mahīrakṣā pravarā tasya jīvikā / tasyāpi prathame kalpe pṛthivīparipālanam
- ViP 3.8.28Open verse →
धरित्रीपालनेनैव कृतकृत्यो नराधिपः । भवन्ति नृपतेर् अंशा यतो यज्ञादिकर्मणाम्
dharitrīpālanenaiva kṛtakṛtyo narādhipaḥ / bhavanti nṛpater aṃśā yato yajñādikarmaṇām
- ViP 3.8.29Open verse →
दुष्टानां शासनाद् राजा शिष्टानां परिपालनात् । प्राप्नोत्य् अभिमतांल् लोकान् वर्णसंस्थाकरो नृपः
duṣṭānāṃ śāsanād rājā śiṣṭānāṃ paripālanāt / prāpnoty abhimatāṃl lokān varṇasaṃsthākaro nṛpaḥ
- ViP 3.8.30Open verse →
पशुपाल्यं वणिज्यं च कृषिं च मनुजेश्वर । वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः
paśupālyaṃ vaṇijyaṃ ca kṛṣiṃ ca manujeśvara / vaiśyāya jīvikāṃ brahmā dadau lokapitāmahaḥ
- ViP 3.8.31Open verse →
तस्याप्य् अध्ययनं यज्ञो दानं धर्मश् च शस्यते । नित्यनैमित्तिकादीनाम् अनुष्ठानं च कर्मणाम्
tasyāpy adhyayanaṃ yajño dānaṃ dharmaś ca śasyate / nityanaimittikādīnām anuṣṭhānaṃ ca karmaṇām
- ViP 3.8.32Open verse →
द्विजातिसंश्रयं कर्म तादर्थ्यं तेन पोषणम् । क्रयविक्रयजैर् वापि धनैः कारूद्भवेन वा
dvijātisaṃśrayaṃ karma tādarthyaṃ tena poṣaṇam / krayavikrayajair vāpi dhanaiḥ kārūdbhavena vā
- ViP 3.8.33Open verse →
म्०।३,एद्। वेङ्क्। इन्स्।: दानं च दद्याच् छूद्रो ऽपि पाकयज्ञैर् यजेत च । पित्र्यादिकं च वै सर्वं शूद्रः कुर्वीत तेन वै
M0.3,ed. Veṅk. ins.: dānaṃ ca dadyāc chūdro 'pi pākayajñair yajeta ca / pitryādikaṃ ca vai sarvaṃ śūdraḥ kurvīta tena vai
- ViP 3.8.34Open verse →
भृत्यादिभरणार्थाय सर्वेषां च परिग्रहः । ऋतुकालाभिगमनं स्वदारेषु महीपते
bhṛtyādibharaṇārthāya sarveṣāṃ ca parigrahaḥ / ṛtukālābhigamanaṃ svadāreṣu mahīpate
- ViP 3.8.35Open verse →
दया समस्तभूतेषु तितिक्षा नाभिमानिता । सत्यं शौचम् अनायासो मङ्गलं प्रियवादिता
dayā samastabhūteṣu titikṣā nābhimānitā / satyaṃ śaucam anāyāso maṅgalaṃ priyavāditā
- ViP 3.8.36Open verse →
श्२,द्७ इन्स्।: मैत्र्य् अस्पृहा तथा तद्वद् अकार्पण्यं नरेश्वर । अनसूया च सामान्या वर्णानां कथिता गुणाः
Ś2,D7 ins.: maitry aspṛhā tathā tadvad akārpaṇyaṃ nareśvara / anasūyā ca sāmānyā varṇānāṃ kathitā guṇāḥ
- ViP 3.8.37Open verse →
आश्रमाणां च सर्वेषाम् एते सामान्यलक्षणाः । गुणांस् तथापद्धर्मांश् च विप्रादीनाम् इमाञ् छृणु
āśramāṇāṃ ca sarveṣām ete sāmānyalakṣaṇāḥ / guṇāṃs tathāpaddharmāṃś ca viprādīnām imāñ chṛṇu
- ViP 3.8.38Open verse →
क्षात्रं कर्म द्विजस्योक्तं वैश्यकर्म तथापदि । राजन्यस्य च वैश्योक्तं शूद्रकर्म न चैतयोः
kṣātraṃ karma dvijasyoktaṃ vaiśyakarma tathāpadi / rājanyasya ca vaiśyoktaṃ śūdrakarma na caitayoḥ
- ViP 3.8.39Open verse →
सामर्थ्ये सति तत् त्याज्यम् उभाभ्याम् अपि पार्थिव । तद् एवापदि कर्तव्यं न कुर्यात् कर्मसंकरम्
sāmarthye sati tat tyājyam ubhābhyām api pārthiva / tad evāpadi kartavyaṃ na kuryāt karmasaṃkaram
- ViP 3.8.40Open verse →
इत्य् एते कथिता राजन् वर्णधर्मा मया तव । धर्मम् आश्रमिणां सम्यग् ब्रुवतो मे निशामय
ity ete kathitā rājan varṇadharmā mayā tava / dharmam āśramiṇāṃ samyag bruvato me niśāmaya
- ViP 3.9.1Open verse →
______________________________________________________ §और्व उवाच: बालः कृतोपनयनो वेदाहरणतत्परः । गुरुगेहे वसेद् भूप ब्रह्मचारी समाहितः
______________________________________________________ §aurva uvāca: bālaḥ kṛtopanayano vedāharaṇatatparaḥ / gurugehe vased bhūpa brahmacārī samāhitaḥ
- ViP 3.9.2Open verse →
शौचाचारवता तत्र कार्यं शुश्रूषणं गुरोः । व्रतानि चरता ग्राह्यो वेदश् च कृतबुद्धिना
śaucācāravatā tatra kāryaṃ śuśrūṣaṇaṃ guroḥ / vratāni caratā grāhyo vedaś ca kṛtabuddhinā
- ViP 3.9.3Open verse →
उभे संध्ये रविं भूप तथैवाग्निं समाहितः । उपतिष्ठेत् तथा कुर्याद् गुरोर् अप्य् अभिवादनम्
ubhe saṃdhye raviṃ bhūpa tathaivāgniṃ samāhitaḥ / upatiṣṭhet tathā kuryād guror apy abhivādanam
- ViP 3.9.4Open verse →
स्थिते तिष्ठेद् व्रजेद् याते नीचैर् आसीत चासति । शिष्यो गुरौ नृपश्रेष्ठ प्रतिकूलं न संचरेत्
sthite tiṣṭhed vrajed yāte nīcair āsīta cāsati / śiṣyo gurau nṛpaśreṣṭha pratikūlaṃ na saṃcaret
- ViP 3.9.5Open verse →
तेनैवोक्तः पठेद् वेदं नान्यचित्तः पुरः स्थितः । अनुज्ञातश् च भिक्षान्नम् अश्नीयाद् गुरुणा ततः
tenaivoktaḥ paṭhed vedaṃ nānyacittaḥ puraḥ sthitaḥ / anujñātaś ca bhikṣānnam aśnīyād guruṇā tataḥ
- ViP 3.9.6Open verse →
अवगाहेद् अपः पूर्वम् आचार्येणावगाहिताः । समिज्जलादिकं चास्य काल्यं काल्यम् उपानयेत्
avagāhed apaḥ pūrvam ācāryeṇāvagāhitāḥ / samijjalādikaṃ cāsya kālyaṃ kālyam upānayet
- ViP 3.9.7Open verse →
गृहीतग्राह्यवेदश् च ततो ऽनुज्ञाम् अवाप्य वै । गार्हस्थ्यम् आवसेत् प्राज्ञो निष्पन्नगुरुनिष्कृतिः
gṛhītagrāhyavedaś ca tato 'nujñām avāpya vai / gārhasthyam āvaset prājño niṣpannaguruniṣkṛtiḥ
- ViP 3.9.8Open verse →
विधिनावाप्तदारस् तु धनं प्राप्य स्वकर्मणा । गृहस्थकार्यम् अखिलं कुर्याद् भूपाल शक्तितः
vidhināvāptadāras tu dhanaṃ prāpya svakarmaṇā / gṛhasthakāryam akhilaṃ kuryād bhūpāla śaktitaḥ
- ViP 3.9.9Open verse →
निवापेन पितॄन् अर्चेद् यज्ञैर् देवांस् तथातिथीन् । अन्नैर् मुनींश् च स्वाध्यायैर् अपत्येन प्रजापतिम्
nivāpena pitṝn arced yajñair devāṃs tathātithīn / annair munīṃś ca svādhyāyair apatyena prajāpatim
- ViP 3.9.10Open verse →
बलिकर्मणा च भूतानि वात्सल्येनाखिलं जगत् । प्राप्नोति लोकान् पुरुषो निजकर्मसमार्जितान्
balikarmaṇā ca bhūtāni vātsalyenākhilaṃ jagat / prāpnoti lokān puruṣo nijakarmasamārjitān
- ViP 3.9.11Open verse →
भिक्षाभुजश् च ये केचित् परिव्राड्ब्रह्मचारिणः । ते ऽप्य् अत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै परम्
bhikṣābhujaś ca ye kecit parivrāḍbrahmacāriṇaḥ / te 'py atraiva pratiṣṭhante gārhasthyaṃ tena vai param
- ViP 3.9.12Open verse →
वेदाहरणकार्येण तीर्थस्नानाय च प्रभो । अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च
vedāharaṇakāryeṇa tīrthasnānāya ca prabho / aṭanti vasudhāṃ viprāḥ pṛthivīdarśanāya ca
- ViP 3.9.13Open verse →
अनिकेता ह्य् अनाहारा यत्रसायंगृहास् तु ये । तेषां गृहस्थः सर्वेषां प्रतिष्ठा योनिर् एव च
aniketā hy anāhārā yatrasāyaṃgṛhās tu ye / teṣāṃ gṛhasthaḥ sarveṣāṃ pratiṣṭhā yonir eva ca
- ViP 3.9.14Open verse →
तेषां स्वागतदानादि वक्तव्यं मधुरं नृप । गृहागतानां दद्याच् च शयनासनभोजनम्
teṣāṃ svāgatadānādi vaktavyaṃ madhuraṃ nṛpa / gṛhāgatānāṃ dadyāc ca śayanāsanabhojanam
- ViP 3.9.15Open verse →
अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति
atithir yasya bhagnāśo gṛhāt pratinivartate / sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati
- ViP 3.9.16Open verse →
अवज्ञानम् अहंकारो दम्भश् चैव गृहे सतः । परितापोपघातौ च पारुष्यं च न शस्यते
avajñānam ahaṃkāro dambhaś caiva gṛhe sataḥ / paritāpopaghātau ca pāruṣyaṃ ca na śasyate
- ViP 3.9.17Open verse →
यस् तु सम्यक् करोत्य् एवं गृहस्थः परमं विधिम् । सर्वबन्धविमुक्तो ऽसौ लोकान् आप्नोत्य् अनुत्तमान्
yas tu samyak karoty evaṃ gṛhasthaḥ paramaṃ vidhim / sarvabandhavimukto 'sau lokān āpnoty anuttamān
- ViP 3.9.18Open verse →
वयःपरिणतौ राजन् कृतकृत्यो गृहाश्रमी । पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा
vayaḥpariṇatau rājan kṛtakṛtyo gṛhāśramī / putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā
- ViP 3.9.19Open verse →
पर्णमूलफलाहारः केशश्मश्रुजटाधरः । भूमिशायी भवेत् तत्र मुनिः सर्वातिथिर् नृप
parṇamūlaphalāhāraḥ keśaśmaśrujaṭādharaḥ / bhūmiśāyī bhavet tatra muniḥ sarvātithir nṛpa
- ViP 3.9.20Open verse →
चर्मकाशकुशैः कुर्यात् परिधानोत्तरीयके । तद्वत् त्रिषवणं स्नानं शस्तम् अस्य नरेश्वर
carmakāśakuśaiḥ kuryāt paridhānottarīyake / tadvat triṣavaṇaṃ snānaṃ śastam asya nareśvara
- ViP 3.9.21Open verse →
देवताभ्यर्चनं होमः सर्वाभ्यागतपूजनम् । भिक्षाबलिप्रदानं च शस्तम् अस्य नरेश्वर
devatābhyarcanaṃ homaḥ sarvābhyāgatapūjanam / bhikṣābalipradānaṃ ca śastam asya nareśvara
- ViP 3.9.22Open verse →
वन्यस्नेहेन गात्राणाम् अभ्यङ्गश् चास्य शस्यते । तपस्यतश् च राजेन्द्र शीतोष्णादिसहिष्णुता
vanyasnehena gātrāṇām abhyaṅgaś cāsya śasyate / tapasyataś ca rājendra śītoṣṇādisahiṣṇutā
- ViP 3.9.23Open verse →
यस् त्व् एतां नियतश् चर्यां वानप्रस्थश् चरेन् मुनिः । स दहत्य् अग्निवद् दोषाञ् जयेल् लोकांश् च शाश्वतान्
yas tv etāṃ niyataś caryāṃ vānaprasthaś caren muniḥ / sa dahaty agnivad doṣāñ jayel lokāṃś ca śāśvatān
- ViP 3.9.24Open verse →
चतुर्थश् चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः । तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि
caturthaś cāśramo bhikṣoḥ procyate yo manīṣibhiḥ / tasya svarūpaṃ gadato mama śrotuṃ nṛpārhasi
- ViP 3.9.25Open verse →
पुत्रद्रव्यकलत्रेषु त्यक्तस्नेहो नराधिप । चतुर्थम् आश्रमस्थानं गच्छेन् निर्धूतमत्सरः
putradravyakalatreṣu tyaktasneho narādhipa / caturtham āśramasthānaṃ gacchen nirdhūtamatsaraḥ
- ViP 3.9.26Open verse →
त्रैवर्गिकांस् त्यजेत् सर्वान् आरम्भान् अवनीपते । मित्रादिषु समो मैत्रः समस्तेष्व् एव जन्तुषु
traivargikāṃs tyajet sarvān ārambhān avanīpate / mitrādiṣu samo maitraḥ samasteṣv eva jantuṣu
- ViP 3.9.27Open verse →
जरायुजाण्डजादीनां वाङ्मनःकर्मभिः क्वचित् । युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश् च वर्जयेत्
jarāyujāṇḍajādīnāṃ vāṅmanaḥkarmabhiḥ kvacit / yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃś ca varjayet
- ViP 3.9.28Open verse →
एकरात्रस्थितिर् ग्रामे पञ्चरात्रस्थितिः पुरे । तथा तिष्ठेद् यथा प्रीतिर् द्वेषो वा नास्य जायते
ekarātrasthitir grāme pañcarātrasthitiḥ pure / tathā tiṣṭhed yathā prītir dveṣo vā nāsya jāyate
- ViP 3.9.29Open verse →
प्राणयात्रानिमित्तं च व्यङ्गारे भुक्तवज्जने । काले प्रशस्तवर्णानां भिक्षार्थं पर्यटेद् गृहान्
prāṇayātrānimittaṃ ca vyaṅgāre bhuktavajjane / kāle praśastavarṇānāṃ bhikṣārthaṃ paryaṭed gṛhān
- ViP 3.9.30Open verse →
कामः क्रोधस् तथा दर्पमोहलोभादयश् च ये । तांस् तु दोषान् परित्यज्य परिव्राड् निर्ममो भवेत्
kāmaḥ krodhas tathā darpamohalobhādayaś ca ye / tāṃs tu doṣān parityajya parivrāḍ nirmamo bhavet
- ViP 3.9.31Open verse →
अभयं सर्वभूतेभ्यो दत्त्वा यश् चरते मुनिः । न तस्य सर्वभूतेभ्यो भयम् उत्पद्यते क्वचित्
abhayaṃ sarvabhūtebhyo dattvā yaś carate muniḥ / na tasya sarvabhūtebhyo bhayam utpadyate kvacit
- ViP 3.9.32Open verse →
कृत्वाग्निहोत्रं स्वशरीरसंस्थं शारीरम् अग्निं स्वमुखे जुहोति । विप्रस् तु भिक्षोपगतैर् हविर्भिश् चिताग्निना स व्रजति स्म लोकान्
kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīram agniṃ svamukhe juhoti / vipras tu bhikṣopagatair havirbhiś citāgninā sa vrajati sma lokān
- ViP 3.9.33Open verse →
मोक्षाश्रमं यश् चरते यथोक्तं शुचिः स्वसंकल्पितबुद्धियुक्तः । अनिन्धनं ज्योतिर् इव प्रशान्तः स ब्रह्मलोकं श्रयते द्विजातिः
mokṣāśramaṃ yaś carate yathoktaṃ śuciḥ svasaṃkalpitabuddhiyuktaḥ / anindhanaṃ jyotir iva praśāntaḥ sa brahmalokaṃ śrayate dvijātiḥ
- ViP 3.10.1Open verse →
______________________________________________________ §सगर उवाच: कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास् तथा । पुंसः क्रियाम् अहं श्रोतुम् इच्छामि द्विजसत्तम
______________________________________________________ §sagara uvāca: kathitaṃ cāturāśramyaṃ cāturvarṇyakriyās tathā / puṃsaḥ kriyām ahaṃ śrotum icchāmi dvijasattama
- ViP 3.10.2Open verse →
नित्यां नैमित्तिकीं काम्यां क्रियां पुंसाम् अशेषतः । समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्य् असि मे मतः
nityāṃ naimittikīṃ kāmyāṃ kriyāṃ puṃsām aśeṣataḥ / samākhyāhi bhṛguśreṣṭha sarvajño hy asi me mataḥ
- ViP 3.10.3Open verse →
§और्व उवाच: यद् एतद् उक्तं भवता नित्यनैमित्तिकाश्रितम् । तद् अहं कथयिष्यामि शृणुष्वैकमना नृप
§aurva uvāca: yad etad uktaṃ bhavatā nityanaimittikāśritam / tad ahaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa
- ViP 3.10.4Open verse →
जातस्य जातकर्मादि क्रियाकाण्डम् अशेषतः । पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम्
jātasya jātakarmādi kriyākāṇḍam aśeṣataḥ / putrasya kurvīta pitā śrāddhaṃ cābhyudayātmakam
- ViP 3.10.5Open verse →
युग्मांस् तु प्राङ्मुखान् विप्रान् भोजयेन् मनुजेश्वर । यथावृत्ति तथा कुर्याद् दैवं पित्र्यं द्विजन्मनाम्
yugmāṃs tu prāṅmukhān viprān bhojayen manujeśvara / yathāvṛtti tathā kuryād daivaṃ pitryaṃ dvijanmanām
- ViP 3.10.6Open verse →
दध्ना यवैः सबदरैर् मिश्रान् पिण्डान् मुदा युतः । नान्दीमुखेभ्यस् तीर्थेन दद्याद् दैवेन पार्थिव
dadhnā yavaiḥ sabadarair miśrān piṇḍān mudā yutaḥ / nāndīmukhebhyas tīrthena dadyād daivena pārthiva
- ViP 3.10.7Open verse →
प्राजापत्येन वा सर्वम् उपचारं प्रदक्षिणम् । कुर्वीत तत् तथाशेषवृद्धिकालेषु भूपते
prājāpatyena vā sarvam upacāraṃ pradakṣiṇam / kurvīta tat tathāśeṣavṛddhikāleṣu bhūpate
- ViP 3.10.8Open verse →
ततश् च नाम कुर्वीत पितैव दशमे ऽहनि । देवपूर्वं नराख्यं हि शर्मवर्मादिसंयुतम्
tataś ca nāma kurvīta pitaiva daśame 'hani / devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam
- ViP 3.10.9Open verse →
श्,द्७ इन्स्।: शर्मेति ब्राह्मणस्योक्तं वर्मेति क्षत्रसंश्रयम् । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः
Ś,D7 ins.: śarmeti brāhmaṇasyoktaṃ varmeti kṣatrasaṃśrayam / guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ
- ViP 3.10.10Open verse →
नार्थहीनं न चाशस्तं नापशब्दयुतं तथा । नामङ्गल्यं जुगुप्स्यं वा नाम कुर्यात् समाक्षरम्
nārthahīnaṃ na cāśastaṃ nāpaśabdayutaṃ tathā / nāmaṅgalyaṃ jugupsyaṃ vā nāma kuryāt samākṣaram
- ViP 3.10.11Open verse →
नातिदीर्घं न ह्रस्वं वा नातिगुर्वक्षरान्वितम् । सुखोच्चार्यं तु तन् नाम कुर्याद् यत् प्रवणाक्षरम्
nātidīrghaṃ na hrasvaṃ vā nātigurvakṣarānvitam / sukhoccāryaṃ tu tan nāma kuryād yat pravaṇākṣaram
- ViP 3.10.12Open verse →
ततो ऽनन्तरसंस्कारसंस्कृतो गुरुवेश्मनि । यथोक्तं विधिम् आश्रित्य कुर्याद् विद्यापरिग्रहम्
tato 'nantarasaṃskārasaṃskṛto guruveśmani / yathoktaṃ vidhim āśritya kuryād vidyāparigraham
- ViP 3.10.13Open verse →
गृहीतविद्यो गुरवे दत्त्वा च गुरुदक्षिणाम् । गार्हस्थ्यम् इच्छन् भूपाल कुर्याद् दारपरिग्रहम्
gṛhītavidyo gurave dattvā ca gurudakṣiṇām / gārhasthyam icchan bhūpāla kuryād dāraparigraham
- ViP 3.10.14Open verse →
ब्रह्मचर्येण वा कालं कुर्यात् संकल्पपूर्वकम् । गुरोः शुश्रूषणं कुर्यात् तत्पुत्रादेर् अथापि वा
brahmacaryeṇa vā kālaṃ kuryāt saṃkalpapūrvakam / guroḥ śuśrūṣaṇaṃ kuryāt tatputrāder athāpi vā
- ViP 3.10.15Open verse →
वैखानसो वापि भवेत् परिव्राड् अथवेच्छया । पूर्वसंकल्पितं यादृक् तादृक् कुर्यान् महीपते
vaikhānaso vāpi bhavet parivrāḍ athavecchayā / pūrvasaṃkalpitaṃ yādṛk tādṛk kuryān mahīpate
- ViP 3.10.16Open verse →
वर्षैर् एकगुणां भार्याम् उद्वहेत् त्रिगुणः स्वयम् । नातिकेशाम् अकेशां वा नातिकृष्णां न पिङ्गलाम्
varṣair ekaguṇāṃ bhāryām udvahet triguṇaḥ svayam / nātikeśām akeśāṃ vā nātikṛṣṇāṃ na piṅgalām
- ViP 3.10.17Open verse →
निसर्गतो विकलाङ्गीम् अधिकाङ्गीं च नोद्वहेत् । नाविशुद्धां सरोमां वा ऽकुलजां वातिरोगिणीम्
nisargato vikalāṅgīm adhikāṅgīṃ ca nodvahet / nāviśuddhāṃ saromāṃ vā 'kulajāṃ vātirogiṇīm
- ViP 3.10.18Open verse →
न दुष्टां दुष्टवाचालां व्यङ्गिनीं पितृमातृतः । न श्मश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम्
na duṣṭāṃ duṣṭavācālāṃ vyaṅginīṃ pitṛmātṛtaḥ / na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim
- ViP 3.10.19Open verse →
न घर्घरस्वरां क्षामवाक्यां काकस्वरां न च । नातिबद्धेक्षणां तद्वद् वृत्ताक्षीं नोद्वहेत् स्त्रियम्
na ghargharasvarāṃ kṣāmavākyāṃ kākasvarāṃ na ca / nātibaddhekṣaṇāṃ tadvad vṛttākṣīṃ nodvahet striyam
- ViP 3.10.20Open verse →
यस्याश् च लोमशे जङ्घे गुल्फौ यस्यास् तथोन्नतौ । कूपो यस्या हसन्त्याश् च गण्डयोस् तां च नोद्वहेत्
yasyāś ca lomaśe jaṅghe gulphau yasyās tathonnatau / kūpo yasyā hasantyāś ca gaṇḍayos tāṃ ca nodvahet
- ViP 3.10.21Open verse →
श्१,ञ्,व्१,ब्१।२,द्८ इन्स्।: नातिरूक्षच्छविं पाण्डुकरजाम् अरुणेक्षणाम् । आपीनहस्तपादां च न कन्याम् उद्वहेद् बुधः
Ś1,Ñ,V1,B1.2,D8 ins.: nātirūkṣacchaviṃ pāṇḍukarajām aruṇekṣaṇām / āpīnahastapādāṃ ca na kanyām udvahed budhaḥ
- ViP 3.10.22Open verse →
न वामनां नातिदीर्घां नोद्वहेत् संहतभ्रुवम् । न चातिच्छिद्रदशनां न करालमुखीं नरः
na vāmanāṃ nātidīrghāṃ nodvahet saṃhatabhruvam / na cāticchidradaśanāṃ na karālamukhīṃ naraḥ
- ViP 3.10.23Open verse →
पञ्चमीं मातृपक्षाच् च पितृपक्षाच् च सप्तमीम् । गृहस्थस् तूद्वहेत् कन्यां न्याय्येन विधिना नृप
pañcamīṃ mātṛpakṣāc ca pitṛpakṣāc ca saptamīm / gṛhasthas tūdvahet kanyāṃ nyāyyena vidhinā nṛpa
- ViP 3.10.24Open verse →
ब्राह्मो दैवस् तथैवार्षः प्राजापत्यस् तथासुरः । गान्धर्वराक्षसौ चान्यौ पैशाचश् चाष्टमो ऽधमः
brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ / gāndharvarākṣasau cānyau paiśācaś cāṣṭamo 'dhamaḥ
- ViP 3.10.25Open verse →
श्,द्७ इन्स्।: एतेषां यस्य यो धर्मो वर्णस्योक्तो महर्षिभिः । कुर्वीत दाराहरणं तेनान्यं परिवर्जयेत्
Ś,D7 ins.: eteṣāṃ yasya yo dharmo varṇasyokto maharṣibhiḥ / kurvīta dārāharaṇaṃ tenānyaṃ parivarjayet
- ViP 3.10.26Open verse →
सधर्मचारिणीं प्राप्य गार्हस्थ्यं सहितस् तया । समुद्वहेद् ददात्य् एतत् सम्यगूढं महाफलम्
sadharmacāriṇīṃ prāpya gārhasthyaṃ sahitas tayā / samudvahed dadāty etat samyagūḍhaṃ mahāphalam
- ViP 3.11.1Open verse →
______________________________________________________ §सगर उवाच: गृहस्थस्य सदाचारं श्रोतुम् इच्छाम्य् अहं मुने । लोकाद् अस्मात् परस्माच् च यम् आतिष्ठन् न हीयते
______________________________________________________ §sagara uvāca: gṛhasthasya sadācāraṃ śrotum icchāmy ahaṃ mune / lokād asmāt parasmāc ca yam ātiṣṭhan na hīyate
- ViP 3.11.2Open verse →
§और्व उवाच: श्रूयतां पृथिवीपाल सदाचारस्य लक्षणम् । सदाचारवता पुंसा जितौ लोकाव् उभाव् अपि
§aurva uvāca: śrūyatāṃ pṛthivīpāla sadācārasya lakṣaṇam / sadācāravatā puṃsā jitau lokāv ubhāv api
- ViP 3.11.3Open verse →
साधवः क्षीणदोषास् तु सच्छब्दः साधुवाचकः । तेषाम् आचरणं यत् तु सदाचारः स उच्यते
sādhavaḥ kṣīṇadoṣās tu sacchabdaḥ sādhuvācakaḥ / teṣām ācaraṇaṃ yat tu sadācāraḥ sa ucyate
- ViP 3.11.4Open verse →
सप्तर्षयो ऽथ मनवः प्रजानां पतयस् तथा । सदाचारस्य वक्तारः कर्तारश् च महीपते
saptarṣayo 'tha manavaḥ prajānāṃ patayas tathā / sadācārasya vaktāraḥ kartāraś ca mahīpate
- ViP 3.11.5Open verse →
ब्राह्मे मुहूर्ते स्वस्थे च मानसे मतिमान् नृप । विबुद्धश् चिन्तयेद् धर्मम् अर्थं चास्याविरोधिनम्
brāhme muhūrte svasthe ca mānase matimān nṛpa / vibuddhaś cintayed dharmam arthaṃ cāsyāvirodhinam
- ViP 3.11.6Open verse →
अपीडया तयोः कामम् उभयोर् अपि चिन्तयेत् । दृष्टादृष्टविनाशाय त्रिवर्गे समदर्शिता
apīḍayā tayoḥ kāmam ubhayor api cintayet / dṛṣṭādṛṣṭavināśāya trivarge samadarśitā
- ViP 3.11.7Open verse →
परित्यजेद् अर्थकामौ धर्मपीडाकरौ नृप । धर्मम् अप्य् असुखोदर्कं लोकविक्रुष्टम् एव च
parityajed arthakāmau dharmapīḍākarau nṛpa / dharmam apy asukhodarkaṃ lokavikruṣṭam eva ca
- ViP 3.11.8Open verse →
ततः कल्यं समुत्थाय कुर्यान् मैत्रं नरेश्वर
tataḥ kalyaṃ samutthāya kuryān maitraṃ nareśvara
- ViP 3.11.9Open verse →
नैरृत्याम् इषुविक्षेपम् अतीत्याभ्यधिकं भुवः । दूराद् आवसथान् मूत्रं पुरीषं च समुत्सृजेत्
nairṛtyām iṣuvikṣepam atītyābhyadhikaṃ bhuvaḥ / dūrād āvasathān mūtraṃ purīṣaṃ ca samutsṛjet
- ViP 3.11.10Open verse →
पादावसेचनोच्छिष्टे प्रक्षिपेन् न गृहाङ्गणे
pādāvasecanocchiṣṭe prakṣipen na gṛhāṅgaṇe
- ViP 3.11.11Open verse →
आत्मच्छायां तरुच्छायां गोसूर्याग्न्यनिलांस् तथा । गुरुं द्विजातींश् च बुधो न मेहेत कदाचन
ātmacchāyāṃ tarucchāyāṃ gosūryāgnyanilāṃs tathā / guruṃ dvijātīṃś ca budho na meheta kadācana
- ViP 3.11.12Open verse →
न कृष्टे सस्यमध्ये वा गोव्रजे जनसंसदि । न वर्त्मनि न नद्यादितीर्थेषु पुरुषर्षभ
na kṛṣṭe sasyamadhye vā govraje janasaṃsadi / na vartmani na nadyāditīrtheṣu puruṣarṣabha
- ViP 3.11.13Open verse →
नाप्सु नैवाम्भसस् तीरे श्मशाने न समाचरेत् । उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम्
nāpsu naivāmbhasas tīre śmaśāne na samācaret / utsargaṃ vai purīṣasya mūtrasya ca visarjanam
- ViP 3.11.14Open verse →
उदङ्मुखो दिवा मूत्रं विपरीतमुखो निशि । कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव
udaṅmukho divā mūtraṃ viparītamukho niśi / kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva
- ViP 3.11.15Open verse →
तृणैर् आस्तीर्य वसुधां वस्त्रप्रावृतमस्तकः । तिष्ठेन् नातिचिरं तत्र नैव किंचिद् उदीरयेत्
tṛṇair āstīrya vasudhāṃ vastraprāvṛtamastakaḥ / tiṣṭhen nāticiraṃ tatra naiva kiṃcid udīrayet
- ViP 3.11.16Open verse →
वल्मीकमूषिकोत्खातां मृदं नान्तर्जलां तथा । शौचावशिष्टां गेहाच् च नादद्याल् लेपसंभवाम्
valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāṃ tathā / śaucāvaśiṣṭāṃ gehāc ca nādadyāl lepasaṃbhavām
- ViP 3.11.17Open verse →
अन्तःप्राण्यवपन्नां च हलोत्खातां च पार्थिव । परित्यजेन् मृदश् चैताः सकलाः शौचसाधने
antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva / parityajen mṛdaś caitāḥ sakalāḥ śaucasādhane
- ViP 3.11.19Open verse →
एका लिङ्गे गुदे तिस्रो दश वामकरे नृप ॥ विप्_३,११।१८अब् ॥ अफ़्तेर् १८अ त्२।३,ग्२ इन्स्।: ॥॥ ॥॥ उभयोर् मृद्वयं स्मृतम् ॥ विप्_३,११।१८अ*१९:१ ॥ पञ्चापाने गृहस्थस्य ॥॥ ॥॥ ॥ विप्_३,११।१८अ*१९:२ ॥ हस्तद्वये च सप्तान्या मृदः शौचोपपादिकाः ॥ विप्_३,११।१८च्द् ॥ अच्छेनागन्धफेनेन जलेनाबुद्बुदेन च । आचामेत मृदं भूयस् तथा दद्यात् समाहितः
ekā liṅge gude tisro daśa vāmakare nṛpa // ViP_3,11.18ab // After 18a T2.3,G2 ins.: .... .... ubhayor mṛdvayaṃ smṛtam // ViP_3,11.18a*19:1 // pañcāpāne gṛhasthasya .... .... // ViP_3,11.18a*19:2 // hastadvaye ca saptānyā mṛdaḥ śaucopapādikāḥ // ViP_3,11.18cd // acchenāgandhaphenena jalenābudbudena ca / ācāmeta mṛdaṃ bhūyas tathā dadyāt samāhitaḥ
- ViP 3.11.20Open verse →
निष्पादिताङ्घ्रिशौचस् तु पादाव् अभ्युक्ष्य वै पुनः । त्रिः पिबेत् सलिलं तेन तथा द्विः परिमार्जयेत्
niṣpāditāṅghriśaucas tu pādāv abhyukṣya vai punaḥ / triḥ pibet salilaṃ tena tathā dviḥ parimārjayet
- ViP 3.11.21Open verse →
शीर्षण्यानि ततः खानि मूर्धानं च नृपालभेत् । बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत्
śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca nṛpālabhet / bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet
- ViP 3.11.22Open verse →
श्२,द्७ इन्स्।: स्वाचान्तश् च ततः कुर्यात् पुमान् केशप्रसाधनम् । आदर्शाञ्जनमाङ्गल्यं दुर्वाद्यालम्भनानि च
Ś2,D7 ins.: svācāntaś ca tataḥ kuryāt pumān keśaprasādhanam / ādarśāñjanamāṅgalyaṃ durvādyālambhanāni ca
- ViP 3.11.23Open verse →
ततः स्ववर्णधर्मेण वृत्त्यर्थं च धनार्जनम् । कुर्वीत श्रद्धासंपन्नो यजेच् च पृथिवीपते
tataḥ svavarṇadharmeṇa vṛttyarthaṃ ca dhanārjanam / kurvīta śraddhāsaṃpanno yajec ca pṛthivīpate
- ViP 3.11.24Open verse →
सोमसंस्था हविःसंस्थाः पाकसंस्थाश् च संस्थिताः । धने यतो मनुष्याणां यतेतातो धनार्जने
somasaṃsthā haviḥsaṃsthāḥ pākasaṃsthāś ca saṃsthitāḥ / dhane yato manuṣyāṇāṃ yatetāto dhanārjane
- ViP 3.11.25Open verse →
नदीनदतडागेषु देवखातजलेषु च । नित्यक्रियार्थं स्नायीत गिरिप्रस्रवणेषु च
nadīnadataḍāgeṣu devakhātajaleṣu ca / nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca
- ViP 3.11.26Open verse →
कूपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि । स्नायीतोद्धृततोयेन अथवा भुव्य् असंभवे
kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi / snāyītoddhṛtatoyena athavā bhuvy asaṃbhave
- ViP 3.11.27Open verse →
शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम् । तेषाम् एव हि तीर्थेन कुर्वीत सुसमाहितः
śucivastradharaḥ snāto devarṣipitṛtarpaṇam / teṣām eva hi tīrthena kurvīta susamāhitaḥ
- ViP 3.11.28Open verse →
त्रिर् अपः प्रीणनार्थाय देवानाम् अपवर्जयेत् । तथर्षीणां यथान्यायं सकृच् चापि प्रजापतेः
trir apaḥ prīṇanārthāya devānām apavarjayet / tatharṣīṇāṃ yathānyāyaṃ sakṛc cāpi prajāpateḥ
- ViP 3.11.29Open verse →
पितॄणां प्रीणनार्थाय त्रिर् अपः पृथिवीपते । पितामहेभ्यश् च तथा प्रीणयेत् प्रपितामहान्
pitṝṇāṃ prīṇanārthāya trir apaḥ pṛthivīpate / pitāmahebhyaś ca tathā prīṇayet prapitāmahān
- ViP 3.11.30Open verse →
मातामहाय तत्पित्रे तत्पित्रे च समाहितः । दद्यात् पैत्रेण तीर्थेन काम्यं चान्यच् छृणुष्व मे
mātāmahāya tatpitre tatpitre ca samāhitaḥ / dadyāt paitreṇa tīrthena kāmyaṃ cānyac chṛṇuṣva me
- ViP 3.11.31Open verse →
मात्रे प्रमात्रे तन्मात्रे गुरुपत्न्यै तथा नृप । गुरवे मातुलादीनां स्निग्धमित्राय भूभुजे
mātre pramātre tanmātre gurupatnyai tathā nṛpa / gurave mātulādīnāṃ snigdhamitrāya bhūbhuje
- ViP 3.11.32Open verse →
इदं चापि जपेद् अम्बु दद्याद् आत्मेच्छया नृप । उपकाराय भूतानां कृतदेवादितर्पणः
idaṃ cāpi japed ambu dadyād ātmecchayā nṛpa / upakārāya bhūtānāṃ kṛtadevāditarpaṇaḥ
- ViP 3.11.33Open verse →
देवासुरास् तथा यक्षा नागा गन्धर्वराक्षसाः । पिशाचा गुह्यकाः सिद्धाः कूष्माण्डास् तरवः खगाः
devāsurās tathā yakṣā nāgā gandharvarākṣasāḥ / piśācā guhyakāḥ siddhāḥ kūṣmāṇḍās taravaḥ khagāḥ
- ViP 3.11.34Open verse →
जलेचरा भूनिलया वाय्वाधाराश् च जन्तवः । तृप्तिम् एते प्रयान्त्व् आशु मद्दत्तेनाम्बुनाखिलाः
jalecarā bhūnilayā vāyvādhārāś ca jantavaḥ / tṛptim ete prayāntv āśu maddattenāmbunākhilāḥ
- ViP 3.11.35Open verse →
नरकेषु समस्तेषु यातनासु च ये स्थिताः । तेषाम् आप्यायनायैतद् दीयते सलिलं मया
narakeṣu samasteṣu yātanāsu ca ye sthitāḥ / teṣām āpyāyanāyaitad dīyate salilaṃ mayā
- ViP 3.11.36Open verse →
ये बान्धवाबान्धवा वा ये ऽन्यजन्मनि बान्धवाः । ते तृप्तिम् अखिला यान्तु ये चास्मत्तोयकाङ्क्षिणः
ye bāndhavābāndhavā vā ye 'nyajanmani bāndhavāḥ / te tṛptim akhilā yāntu ye cāsmattoyakāṅkṣiṇaḥ
- ViP 3.11.37Open verse →
यत्र क्वचन संस्थानां क्षुत्तृष्णोपहतात्मनाम् । इदम् अप्य् अक्षयं चास्तु मया दत्तं तिलोदकम्
yatra kvacana saṃsthānāṃ kṣuttṛṣṇopahatātmanām / idam apy akṣayaṃ cāstu mayā dattaṃ tilodakam
- ViP 3.11.38Open verse →
काम्योदकप्रदानं ते मयैतत् कथितं नृप । यद् दत्त्वा प्रीणयेद् एतन् मनुष्यः सकलं जगत् । जगदाप्यायनोद्भूतं पुण्यम् आप्नोति चानघ
kāmyodakapradānaṃ te mayaitat kathitaṃ nṛpa / yad dattvā prīṇayed etan manuṣyaḥ sakalaṃ jagat / jagadāpyāyanodbhūtaṃ puṇyam āpnoti cānagha
- ViP 3.11.39Open verse →
दत्त्वा काम्योदकं सम्यग् एतेभ्यः श्रद्धयान्वितः । आचम्य च ततो दद्यात् सूर्याय सलिलाञ्जलिम्
dattvā kāmyodakaṃ samyag etebhyaḥ śraddhayānvitaḥ / ācamya ca tato dadyāt sūryāya salilāñjalim
- ViP 3.11.40Open verse →
नमो विवस्वते ब्रह्मन् भास्वते विष्णुतेजसे । जगत्सवित्रे शुचये सवित्रे कर्मदायिने
namo vivasvate brahman bhāsvate viṣṇutejase / jagatsavitre śucaye savitre karmadāyine
- ViP 3.11.41Open verse →
ततो गृहार्चनं कुर्याद् अभीष्टसुरपूजनम् । जलाभिषेकपुष्पाणां धूपादेश् च निवेदनैः
tato gṛhārcanaṃ kuryād abhīṣṭasurapūjanam / jalābhiṣekapuṣpāṇāṃ dhūpādeś ca nivedanaiḥ
- ViP 3.11.42Open verse →
अपूर्वम् अग्निहोत्रं च कुर्यात् प्राग् ब्रह्मणे ततः
apūrvam agnihotraṃ ca kuryāt prāg brahmaṇe tataḥ
- ViP 3.11.43Open verse →
प्रजापतिं समुद्दिश्य दद्याद् आहुतिम् आदरात् । गृहेभ्यः काश्यपायाथ ततो ऽनुमतये क्रमात्
prajāpatiṃ samuddiśya dadyād āhutim ādarāt / gṛhebhyaḥ kāśyapāyātha tato 'numataye kramāt
- ViP 3.11.44Open verse →
तच्छेषं मणिकेभ्यो ऽथ पर्जन्येभ्यः क्षिपेत् ततः । द्वारे धातुर् विधातुश् च मध्ये च ब्रह्मणः क्षिपेत्
taccheṣaṃ maṇikebhyo 'tha parjanyebhyaḥ kṣipet tataḥ / dvāre dhātur vidhātuś ca madhye ca brahmaṇaḥ kṣipet
- ViP 3.11.45Open verse →
गृहस्य पुरुषव्याघ्र दिग्देवान् अपि मे शृणु
gṛhasya puruṣavyāghra digdevān api me śṛṇu
- ViP 3.11.46Open verse →
इन्द्राय धर्मराजाय वरुणाय तथेन्दवे । प्राच्यादिषु बुधो दद्याद् धुतशेषात्मकं बलिम्
indrāya dharmarājāya varuṇāya tathendave / prācyādiṣu budho dadyād dhutaśeṣātmakaṃ balim
- ViP 3.11.47Open verse →
प्रागुत्तरे च दिग्भागे धन्वन्तरिबलिं बुधः । निर्वपेद् वैश्वदेवं च कर्म कुर्याद् अतः परम्
prāguttare ca digbhāge dhanvantaribaliṃ budhaḥ / nirvaped vaiśvadevaṃ ca karma kuryād ataḥ param
- ViP 3.11.48Open verse →
वायव्ये वायवे दिक्षु समस्तासु ततो दिशाम् । ब्रह्मणे चान्तरिक्षाय भानवे च क्षिपेद् बलिम्
vāyavye vāyave dikṣu samastāsu tato diśām / brahmaṇe cāntarikṣāya bhānave ca kṣiped balim
- ViP 3.11.49Open verse →
विश्वेदेवान् विश्वभूतांस् तथा विश्वपतीन् पितॄन् । यक्ष्माणं च समुद्दिश्य बलिं दद्यान् नरेश्वर
viśvedevān viśvabhūtāṃs tathā viśvapatīn pitṝn / yakṣmāṇaṃ ca samuddiśya baliṃ dadyān nareśvara
- ViP 3.11.50Open verse →
ततो ऽन्यद् अन्नम् आदाय भूमिभागे शुचौ बुधः । दद्याद् अशेषभूतेभ्यः स्वेच्छया तत्समाहितः
tato 'nyad annam ādāya bhūmibhāge śucau budhaḥ / dadyād aśeṣabhūtebhyaḥ svecchayā tatsamāhitaḥ
- ViP 3.11.51Open verse →
देवा मनुष्याः पशवो वयांसि सिद्धाः सयक्षोरगदैत्यसङ्घाः । प्रेताः पिशाचास् तरवः समस्ता ये चान्नम् इच्छन्ति मया प्रदत्तम्
devā manuṣyāḥ paśavo vayāṃsi siddhāḥ sayakṣoragadaityasaṅghāḥ / pretāḥ piśācās taravaḥ samastā ye cānnam icchanti mayā pradattam
- ViP 3.11.52Open verse →
पिपीलिकाः कीटपतंगकाद्या बुभुक्षिताः कर्मनिबन्धबद्धाः । प्रयान्तु ते तृप्तिम् इदं मयान्नं तेभ्यो विसृष्टं सुखिनो भवन्तु
pipīlikāḥ kīṭapataṃgakādyā bubhukṣitāḥ karmanibandhabaddhāḥ / prayāntu te tṛptim idaṃ mayānnaṃ tebhyo visṛṣṭaṃ sukhino bhavantu
- ViP 3.11.53Open verse →
येषां न माता न पिता न बन्धुर् नैवान्नसिद्धिर् न तदान्नम् अस्ति । तत्तृप्तये ऽन्नं भुवि दत्तम् एतत् ते यान्तु तृप्तिं मुदिता भवन्तु
yeṣāṃ na mātā na pitā na bandhur naivānnasiddhir na tadānnam asti / tattṛptaye 'nnaṃ bhuvi dattam etat te yāntu tṛptiṃ muditā bhavantu
- ViP 3.11.54Open verse →
भूतानि सर्वाणि तथान्नम् एतद् अहं च विष्णुर् न यतो ऽन्यद् अस्ति । तस्माद् अहं भूतनिकायभूतम् अन्नं प्रयच्छामि भवाय तेषाम्
bhūtāni sarvāṇi tathānnam etad ahaṃ ca viṣṇur na yato 'nyad asti / tasmād ahaṃ bhūtanikāyabhūtam annaṃ prayacchāmi bhavāya teṣām
- ViP 3.11.55Open verse →
चतुर्दशो भूतगणो य एष तत्र स्थिता ये ऽखिलभूतसङ्घाः । तृप्त्यर्थम् अन्नं हि मया निसृष्टं तेषाम् इदं ते मुदिता भवन्तु
caturdaśo bhūtagaṇo ya eṣa tatra sthitā ye 'khilabhūtasaṅghāḥ / tṛptyartham annaṃ hi mayā nisṛṣṭaṃ teṣām idaṃ te muditā bhavantu
- ViP 3.11.56Open verse →
इत्य् उच्चार्य नरो दद्याद् अन्नं श्रद्धासमन्वितः । भुवि भूतोपकाराय गृही सर्वाश्रयो यतः
ity uccārya naro dadyād annaṃ śraddhāsamanvitaḥ / bhuvi bhūtopakārāya gṛhī sarvāśrayo yataḥ
- ViP 3.11.57Open verse →
श्वचण्डालविहंगानां भुवि दद्यात् ततो नरः । ये चान्ये पतिताः केचिद् अपात्रा भुवि मानवाः
śvacaṇḍālavihaṃgānāṃ bhuvi dadyāt tato naraḥ / ye cānye patitāḥ kecid apātrā bhuvi mānavāḥ
- ViP 3.11.58Open verse →
ततो गोदोहमात्रं वै कालं तिष्ठेद् गृहाङ्गणे । अतिथिग्रहणार्थाय तदूर्ध्वं वा यथेच्छया
tato godohamātraṃ vai kālaṃ tiṣṭhed gṛhāṅgaṇe / atithigrahaṇārthāya tadūrdhvaṃ vā yathecchayā
- ViP 3.11.59Open verse →
अतिथिं तत्र संप्राप्तं पूजयेत् स्वागतादिना । तथासनप्रदानेन पादप्रक्षालनेन च
atithiṃ tatra saṃprāptaṃ pūjayet svāgatādinā / tathāsanapradānena pādaprakṣālanena ca
- ViP 3.11.60Open verse →
श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च । गच्छतश् चानुयानेन प्रीतिम् उत्पादयेद् गृही
śraddhayā cānnadānena priyapraśnottareṇa ca / gacchataś cānuyānena prītim utpādayed gṛhī
- ViP 3.11.61Open verse →
अज्ञातकुलनामानम् अन्यतः समुपागतम् । पूजयेद् अतिथिं सम्यङ् नैकग्रामनिवासिनम्
ajñātakulanāmānam anyataḥ samupāgatam / pūjayed atithiṃ samyaṅ naikagrāmanivāsinam
- ViP 3.11.62Open verse →
अकिंचनम् असंबन्धम् अन्यदेशाद् उपागतम् । असंपूज्यातिथिं भुञ्जन् भोक्तुकामं व्रजत्य् अधः
akiṃcanam asaṃbandham anyadeśād upāgatam / asaṃpūjyātithiṃ bhuñjan bhoktukāmaṃ vrajaty adhaḥ
- ViP 3.11.63Open verse →
स्वाध्यायगोत्रचरणम् अपृष्ट्वा च तथा कुलम् । हिरण्यगर्भबुद्ध्या तं मन्येताभ्यागतं गृही
svādhyāyagotracaraṇam apṛṣṭvā ca tathā kulam / hiraṇyagarbhabuddhyā taṃ manyetābhyāgataṃ gṛhī
- ViP 3.11.64Open verse →
पित्रर्थं चापरं विप्रम् एकम् अप्य् आशयेन् नृप । तद्देश्यं विदिताचारसंभूतिं पाञ्चयज्ञिकम्
pitrarthaṃ cāparaṃ vipram ekam apy āśayen nṛpa / taddeśyaṃ viditācārasaṃbhūtiṃ pāñcayajñikam
- ViP 3.11.65Open verse →
अन्नाग्रं च समुद्धृत्य हन्तकारोपकल्पितम् । निर्वापभूतं भूपाल श्रोत्रियायोपपादयेत्
annāgraṃ ca samuddhṛtya hantakāropakalpitam / nirvāpabhūtaṃ bhūpāla śrotriyāyopapādayet
- ViP 3.11.66Open verse →
दद्याच् च भिक्षात्रितयं परिव्राड्ब्रह्मचारिणाम् । इच्छया च बुधो दद्याद् विभवे सत्य् अवारितम्
dadyāc ca bhikṣātritayaṃ parivrāḍbrahmacāriṇām / icchayā ca budho dadyād vibhave saty avāritam
- ViP 3.11.67Open verse →
इत्य् एते ऽतिथयः प्रोक्ताः प्रागुक्ता भिक्षवश् च ये । चतुरः पूजयेद् एतान् नृयज्ञर्णात् प्रमुच्यते
ity ete 'tithayaḥ proktāḥ prāguktā bhikṣavaś ca ye / caturaḥ pūjayed etān nṛyajñarṇāt pramucyate
- ViP 3.11.68Open verse →
अतिथिर् यस्य भग्नाशो गृहाद् यात्य् अन्यतोमुखः । स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति
atithir yasya bhagnāśo gṛhād yāty anyatomukhaḥ / sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati
- ViP 3.11.69Open verse →
धाता प्रजापतिः शक्रो वह्निर् वसुगणो ऽर्यमा । प्रविश्यातिथिम् एते वै भुञ्जन्ते ऽन्नं नरेश्वर
dhātā prajāpatiḥ śakro vahnir vasugaṇo 'ryamā / praviśyātithim ete vai bhuñjante 'nnaṃ nareśvara
- ViP 3.11.70Open verse →
द्१,म्१ इन्स्।: तस्माद् अतिथिपूजायां यतेत सततं नरः । स केवलम् अघं भुङ्क्ते यो भुङ्क्ते त्व् अतिथिं विना
D1,M1 ins.: tasmād atithipūjāyāṃ yateta satataṃ naraḥ / sa kevalam aghaṃ bhuṅkte yo bhuṅkte tv atithiṃ vinā
- ViP 3.11.71Open verse →
ततः सुवासिनीदुःखिगर्भिणीवृद्धबालकान् । भोजयेत् संस्कृतान्नेन प्रथमं चरमं गृही
tataḥ suvāsinīduḥkhigarbhiṇīvṛddhabālakān / bhojayet saṃskṛtānnena prathamaṃ caramaṃ gṛhī
- ViP 3.11.72Open verse →
अभुक्तवत्सु चैतेषु भुञ्जन् भुङ्क्ते ऽतिदुष्कृतम् । मृतश् च नरकं गत्वा श्लेष्मभुग् जायते नरः
abhuktavatsu caiteṣu bhuñjan bhuṅkte 'tiduṣkṛtam / mṛtaś ca narakaṃ gatvā śleṣmabhug jāyate naraḥ
- ViP 3.11.73Open verse →
अस्नाताशी मलं भुङ्क्ते ह्य् अजपी पूयशोणितम् । असंस्कृतान्नभुङ् मूत्रं बालादिप्रथमं शकृत्
asnātāśī malaṃ bhuṅkte hy ajapī pūyaśoṇitam / asaṃskṛtānnabhuṅ mūtraṃ bālādiprathamaṃ śakṛt
- ViP 3.11.74Open verse →
त्३, एद्। वेङ्क्। इन्स्। अफ़्तेर् ७३, ग्२ अफ़्तेर् ७३अब्, द्३ बेफ़ोरे ७४अब्: तस्माच् छृणुष्व राजेन्द्र यथा भुञ्जीत वै गृही । भुञ्जतश् च यथा पुंसः पापबन्धो न जायते
T3, ed. Veṅk. ins. after 73, G2 after 73ab, D3 before 74ab: tasmāc chṛṇuṣva rājendra yathā bhuñjīta vai gṛhī / bhuñjataś ca yathā puṃsaḥ pāpabandho na jāyate
- ViP 3.11.75Open verse →
इह चारोग्यम् अतुलं बलवृद्धिस् तथा नृप । भवत्य् अरिष्टशान्तिश् च वैरिपक्षाभिचारिका
iha cārogyam atulaṃ balavṛddhis tathā nṛpa / bhavaty ariṣṭaśāntiś ca vairipakṣābhicārikā
- ViP 3.11.76Open verse →
स्नातो यथावत् कृत्वा च देवर्षिपितृतर्पणम् । प्रशस्तरत्नपाणिश् च भुञ्जीत प्रयतो गृही
snāto yathāvat kṛtvā ca devarṣipitṛtarpaṇam / praśastaratnapāṇiś ca bhuñjīta prayato gṛhī
- ViP 3.11.77Open verse →
कृते जपे हुते वह्नौ शुद्धवस्त्रधरो नृप । दत्त्वातिथिभ्यो विप्रेभ्यो गुरुभ्यः संश्रिताय च । पुण्यगन्धधरः शस्तमाल्यधारी नरेश्वर
kṛte jape hute vahnau śuddhavastradharo nṛpa / dattvātithibhyo viprebhyo gurubhyaḥ saṃśritāya ca / puṇyagandhadharaḥ śastamālyadhārī nareśvara
- ViP 3.11.78Open verse →
नैकवस्त्रधरो ऽथार्द्रपाणिपादो नरेश्वर । विशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः
naikavastradharo 'thārdrapāṇipādo nareśvara / viśuddhavadanaḥ prīto bhuñjīta na vidiṅmukhaḥ
- ViP 3.11.79Open verse →
प्राङ्मुखोदङ्मुखो वापि न चैवान्यमना नरः । अन्नं प्रशस्तं पथ्यं च प्रोक्षितं प्रोक्षणोदकैः
prāṅmukhodaṅmukho vāpi na caivānyamanā naraḥ / annaṃ praśastaṃ pathyaṃ ca prokṣitaṃ prokṣaṇodakaiḥ
- ViP 3.11.80Open verse →
न कुत्सिताहृतं नैव जुगुप्सावद् असंस्कृतम् । दत्त्वा तु भुक्तं शिष्येभ्यः क्षुधितेभ्यस् तथा गृही
na kutsitāhṛtaṃ naiva jugupsāvad asaṃskṛtam / dattvā tu bhuktaṃ śiṣyebhyaḥ kṣudhitebhyas tathā gṛhī
- ViP 3.11.81Open verse →
प्रशस्तशुद्धपात्रेषु भुञ्जीताकुपितो नृप
praśastaśuddhapātreṣu bhuñjītākupito nṛpa
- ViP 3.11.82Open verse →
नासन्दीसंस्थिते पात्रे नादेशे च नरेश्वर । नाकाले नातिसंकीर्णे दत्त्वाग्रं च नरो ऽग्नये
nāsandīsaṃsthite pātre nādeśe ca nareśvara / nākāle nātisaṃkīrṇe dattvāgraṃ ca naro 'gnaye
- ViP 3.11.83Open verse →
मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप । अन्यत्र फलमांसेभ्यः शुष्कशाकादिकांस् तथा
mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa / anyatra phalamāṃsebhyaḥ śuṣkaśākādikāṃs tathā
- ViP 3.11.84Open verse →
तद्वद् बादरिकेभ्यश् च गुडपक्वेभ्य एव च । भुञ्जीतोद्धृतसाराणि न कदाचिन् नरेश्वर
tadvad bādarikebhyaś ca guḍapakvebhya eva ca / bhuñjītoddhṛtasārāṇi na kadācin nareśvara
- ViP 3.11.85Open verse →
नाशेषं पुरुषो ऽश्नीयाद् अन्यत्र जगतीपते । मध्वम्बुदधिसर्पिभ्यः सक्तुभ्यश् च विवेकवान्
nāśeṣaṃ puruṣo 'śnīyād anyatra jagatīpate / madhvambudadhisarpibhyaḥ saktubhyaś ca vivekavān
- ViP 3.11.86Open verse →
अश्नीयात् तन्मना भूत्वा पूर्वं तु मधुरं रसम् । लवणाम्लौ तथा मध्ये कटुतिक्तादिकं ततः
aśnīyāt tanmanā bhūtvā pūrvaṃ tu madhuraṃ rasam / lavaṇāmlau tathā madhye kaṭutiktādikaṃ tataḥ
- ViP 3.11.87Open verse →
प्राग् द्रवं पुरुषो ऽश्नन् वै मध्ये च कठिनाशनम् । पुनर् अन्ते द्रवाशी तु बलारोग्ये न मुञ्चति
prāg dravaṃ puruṣo 'śnan vai madhye ca kaṭhināśanam / punar ante dravāśī tu balārogye na muñcati
- ViP 3.11.88Open verse →
अनिन्द्यं भक्षयेद् इत्थं वाग्यतो ऽन्नम् अकुत्सयन् । पञ्चग्रासं महामौनं प्राणाद्याप्यायनाय तत्
anindyaṃ bhakṣayed itthaṃ vāgyato 'nnam akutsayan / pañcagrāsaṃ mahāmaunaṃ prāṇādyāpyāyanāya tat
- ViP 3.11.89Open verse →
भुक्त्वा सम्यग् अथाचम्य प्राङ्मुखोदङ्मुखो ऽपि वा । यथावत् पुनर् आचामेत् पाणी प्रक्षाल्य मूलतः
bhuktvā samyag athācamya prāṅmukhodaṅmukho 'pi vā / yathāvat punar ācāmet pāṇī prakṣālya mūlataḥ
- ViP 3.11.90Open verse →
स्वस्थः प्रशान्तचित्तस् तु कृतासनपरिग्रहः । अभीष्टदेवतानां तु कुर्वीत स्मरणं नरः
svasthaḥ praśāntacittas tu kṛtāsanaparigrahaḥ / abhīṣṭadevatānāṃ tu kurvīta smaraṇaṃ naraḥ
- ViP 3.11.91Open verse →
अग्निर् आप्याययत्व् अन्नं पार्थिवं पवनेरितः । दत्तावकाशं नभसा जरयत्व् अस्तु मे सुखम्
agnir āpyāyayatv annaṃ pārthivaṃ pavaneritaḥ / dattāvakāśaṃ nabhasā jarayatv astu me sukham
- ViP 3.11.92Open verse →
अन्नं बलाय मे भूमेर् अपाम् अग्न्यनिलस्य च । भवत्व् एतत् परिणतौ ममास्त्व् अव्याहतं सुखम्
annaṃ balāya me bhūmer apām agnyanilasya ca / bhavatv etat pariṇatau mamāstv avyāhataṃ sukham
- ViP 3.11.93Open verse →
प्राणापानसमानानाम् उदानव्यानयोस् तथा । अन्नं पुष्टिकरं चास्तु ममास्त्व् अव्याहतं सुखम्
prāṇāpānasamānānām udānavyānayos tathā / annaṃ puṣṭikaraṃ cāstu mamāstv avyāhataṃ sukham
- ViP 3.11.94Open verse →
अगस्तिर् अग्निर् वडवानलश् च भुक्तं मयान्नं जरयत्व् अशेषम् । सुखं च मे तत्परिणामसंभवं यच्छन्त्व् अरोगो मम चास्तु देहे
agastir agnir vaḍavānalaś ca bhuktaṃ mayānnaṃ jarayatv aśeṣam / sukhaṃ ca me tatpariṇāmasaṃbhavaṃ yacchantv arogo mama cāstu dehe
- ViP 3.11.95Open verse →
द्४ इन्स्।: विष्णुः समस्तेन्द्रियदेहदेही प्रधानभूतो भगवान् यथैकः । सत्येन तेनान्नम् अशेषम् एतद् आरोग्यदं मे परिणामम् एतु
D4 ins.: viṣṇuḥ samastendriyadehadehī pradhānabhūto bhagavān yathaikaḥ / satyena tenānnam aśeṣam etad ārogyadaṃ me pariṇāmam etu
- ViP 3.11.96Open verse →
विष्णुर् अत्ता तथैवान्नं परिणामश् च वै यथा । सत्येन तेन वै भुक्तं जीर्यत्व् अन्नम् इदं तथा
viṣṇur attā tathaivānnaṃ pariṇāmaś ca vai yathā / satyena tena vai bhuktaṃ jīryatv annam idaṃ tathā
- ViP 3.11.97Open verse →
इत्य् उच्चार्य स्वहस्तेन परिमृज्य तथोदरम् । अनायासप्रदायीनि कुर्यात् कर्माण्य् अतन्द्रितः
ity uccārya svahastena parimṛjya tathodaram / anāyāsapradāyīni kuryāt karmāṇy atandritaḥ
- ViP 3.11.98Open verse →
सच्छास्त्रादिविनोदेन सन्मार्गाद् अविरोधिना । दिनं नयेत् ततः संध्याम् उपतिष्ठेत् समाहितः
sacchāstrādivinodena sanmārgād avirodhinā / dinaṃ nayet tataḥ saṃdhyām upatiṣṭhet samāhitaḥ
- ViP 3.11.99Open verse →
दिनान्तसंध्यां सूर्येण पूर्वाम् ऋक्षैर् युतां बुधः । उपतिष्ठेद् यथान्यायं सम्यग् आचम्य पार्थिव
dināntasaṃdhyāṃ sūryeṇa pūrvām ṛkṣair yutāṃ budhaḥ / upatiṣṭhed yathānyāyaṃ samyag ācamya pārthiva
- ViP 3.11.100Open verse →
सर्वकालम् उपस्थानं संध्ययोः पार्थिवेष्यते । अन्यत्रसूतकाशौचविभ्रमातुरभीतितः
sarvakālam upasthānaṃ saṃdhyayoḥ pārthiveṣyate / anyatrasūtakāśaucavibhramāturabhītitaḥ
- ViP 3.11.101Open verse →
सूर्येणाभ्युदितो यश् च त्यक्तः सूर्येण च स्वपन् । अन्यत्रातुरभावात् तु प्रायश्चित्तीयते नरः
sūryeṇābhyudito yaś ca tyaktaḥ sūryeṇa ca svapan / anyatrāturabhāvāt tu prāyaścittīyate naraḥ
- ViP 3.11.102Open verse →
तस्माद् अनुदिते सूर्ये समुत्थाय महीपते । उपतिष्ठेन् नरः संध्याम् अस्वपंश् च दिनान्तजाम्
tasmād anudite sūrye samutthāya mahīpate / upatiṣṭhen naraḥ saṃdhyām asvapaṃś ca dināntajām
- ViP 3.11.103Open verse →
उपतिष्ठन्ति ये संध्यां न पूर्वां न च पश्चिमाम् । व्रजन्ति ते दुरात्मानस् तामिस्रं नरकं नृप
upatiṣṭhanti ye saṃdhyāṃ na pūrvāṃ na ca paścimām / vrajanti te durātmānas tāmisraṃ narakaṃ nṛpa
- ViP 3.11.104Open verse →
पुनः पाकम् उपादाय सायम् अप्य् अवनीपते । वैश्वदेवनिमित्तं वै पत्न्य् अमन्त्रं बलिं हरेत्
punaḥ pākam upādāya sāyam apy avanīpate / vaiśvadevanimittaṃ vai patny amantraṃ baliṃ haret
- ViP 3.11.105Open verse →
तत्रापि श्वपचादिभ्यस् तथैवान्नापवर्जनम्
tatrāpi śvapacādibhyas tathaivānnāpavarjanam
- ViP 3.11.106Open verse →
अतिथिं चागतं तत्र स्वशक्त्या पूजयेद् बुधः । पादशौचासनप्रह्वस्वागतोक्त्या च पूजनम् । ततश् चान्नप्रदानेन शयनेन च पार्थिव
atithiṃ cāgataṃ tatra svaśaktyā pūjayed budhaḥ / pādaśaucāsanaprahvasvāgatoktyā ca pūjanam / tataś cānnapradānena śayanena ca pārthiva
- ViP 3.11.107Open verse →
दिनातिथौ तु विमुखे गते यत् पातकं नृप । तद् एवाष्टगुणं पुंसां सूर्योढे विमुखे गते
dinātithau tu vimukhe gate yat pātakaṃ nṛpa / tad evāṣṭaguṇaṃ puṃsāṃ sūryoḍhe vimukhe gate
- ViP 3.11.108Open verse →
तस्मात् स्वशक्त्या राजेन्द्र सूर्योढम् अतिथिं नरः । पूजयेत् पूजिते तस्मिन् पूजिताः सर्वदेवताः
tasmāt svaśaktyā rājendra sūryoḍham atithiṃ naraḥ / pūjayet pūjite tasmin pūjitāḥ sarvadevatāḥ
- ViP 3.11.109Open verse →
अन्नशाकाम्बुदानेन स्वशक्त्या प्रीणयेत् पुमान् । शयनप्रस्तरमहीप्रदानैर् अथवापि तम्
annaśākāmbudānena svaśaktyā prīṇayet pumān / śayanaprastaramahīpradānair athavāpi tam
- ViP 3.11.110Open verse →
कृतपादादिशौचश् च भुक्त्वा सायं ततो गृही । गच्छेद् अस्फुटितां शय्याम् अपि दारुमयीं नृप
kṛtapādādiśaucaś ca bhuktvā sāyaṃ tato gṛhī / gacched asphuṭitāṃ śayyām api dārumayīṃ nṛpa
- ViP 3.11.111Open verse →
नाविशालां न वा भग्नां नासमां मलिनां न च । न च जन्तुमयीं शय्याम् अधितिष्ठेद् अनास्तृताम्
nāviśālāṃ na vā bhagnāṃ nāsamāṃ malināṃ na ca / na ca jantumayīṃ śayyām adhitiṣṭhed anāstṛtām
- ViP 3.11.112Open verse →
प्राच्यां दिशि शिरः शस्तं याम्यायाम् अथवा नृप । सदैव स्वपतः पुंसो विपरीतं तु रोगदम्
prācyāṃ diśi śiraḥ śastaṃ yāmyāyām athavā nṛpa / sadaiva svapataḥ puṃso viparītaṃ tu rogadam
- ViP 3.11.113Open verse →
ऋताव् उपगमः शस्तः स्वपत्न्याम् अवनीपते । पुन्नामर्क्षे शुभे काले ज्येष्ठयुग्मासु रात्रिषु
ṛtāv upagamaḥ śastaḥ svapatnyām avanīpate / punnāmarkṣe śubhe kāle jyeṣṭhayugmāsu rātriṣu
- ViP 3.11.114Open verse →
नास्नातां तु स्त्रियं गच्छेन् नातुरां न रजस्वलाम् । नानिष्टां न प्रकुपितां नाप्रशस्तां न गर्भिणीम्
nāsnātāṃ tu striyaṃ gacchen nāturāṃ na rajasvalām / nāniṣṭāṃ na prakupitāṃ nāpraśastāṃ na garbhiṇīm
- ViP 3.11.115Open verse →
नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् । क्षुत्क्षामाम् अतिभुक्तां वा स्वयं चैभिर् गुणैर् युतः
nādakṣiṇāṃ nānyakāmāṃ nākāmāṃ nānyayoṣitam / kṣutkṣāmām atibhuktāṃ vā svayaṃ caibhir guṇair yutaḥ
- ViP 3.11.116Open verse →
स्नातः स्रग्गन्धधृक् प्रीतः नाध्मातः क्षुधितो ऽपि वा । सकामः सानुरागश् च व्यवायं पुरुषो व्रजेत्
snātaḥ sraggandhadhṛk prītaḥ nādhmātaḥ kṣudhito 'pi vā / sakāmaḥ sānurāgaś ca vyavāyaṃ puruṣo vrajet
- ViP 3.11.117Open verse →
चतुर्दश्य् अष्टमी चैव अमावास्याथ पूर्णिमा । पर्वाण्य् एतानि राजेन्द्र रविसंक्रान्तिर् एव च
caturdaśy aṣṭamī caiva amāvāsyātha pūrṇimā / parvāṇy etāni rājendra ravisaṃkrāntir eva ca
- ViP 3.11.118Open verse →
तैलस्त्रीमांससंभोगी पर्वस्व् एतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः
tailastrīmāṃsasaṃbhogī parvasv eteṣu vai pumān / viṇmūtrabhojanaṃ nāma prayāti narakaṃ mṛtaḥ
- ViP 3.11.119Open verse →
अशेषपर्वस्व् एतेषु तस्मात् संयमिभिर् बुधैः । भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर् नरैः
aśeṣaparvasv eteṣu tasmāt saṃyamibhir budhaiḥ / bhāvyaṃ sacchāstradevejyādhyānajapyaparair naraiḥ
- ViP 3.11.120Open verse →
नान्ययोनाव् अयोनौ वा नोपयुक्तौषधस् तथा । देवद्विजगुरूणां च व्यवायी नाश्रये भवेत्
nānyayonāv ayonau vā nopayuktauṣadhas tathā / devadvijagurūṇāṃ ca vyavāyī nāśraye bhavet
- ViP 3.11.121Open verse →
चैत्यचत्वरतीरेषु नैव गोष्ठे चतुष्पथे । नैव श्मशानोपवने सलिलेषु महीपते
caityacatvaratīreṣu naiva goṣṭhe catuṣpathe / naiva śmaśānopavane salileṣu mahīpate
- ViP 3.11.122Open verse →
प्रोक्तपर्वस्व् अशेषेषु नैव भूपाल संध्ययोः । गच्छेद् व्यवायं मतिमान् न मूत्रोच्चारपीडितः
proktaparvasv aśeṣeṣu naiva bhūpāla saṃdhyayoḥ / gacched vyavāyaṃ matimān na mūtroccārapīḍitaḥ
- ViP 3.11.123Open verse →
पर्वस्व् अभिगमो ऽधन्यो दिवा पापप्रदो नृप । भुवि रोगप्रदो नॄणाम् अप्रशस्तो जलाशये
parvasv abhigamo 'dhanyo divā pāpaprado nṛpa / bhuvi rogaprado nṝṇām apraśasto jalāśaye
- ViP 3.11.124Open verse →
परदारान् न गच्छेत मनसापि कदाचन । किम् उ वाचास्थिबन्धो ऽपि नास्ति तेषु व्यवायिनाम्
paradārān na gaccheta manasāpi kadācana / kim u vācāsthibandho 'pi nāsti teṣu vyavāyinām
- ViP 3.11.125Open verse →
मृतो नरकम् अभ्येति हीयते ऽत्रापि चायुषः । परदाररतिः पुंसाम् उभयत्रापि भीतिदा
mṛto narakam abhyeti hīyate 'trāpi cāyuṣaḥ / paradāraratiḥ puṃsām ubhayatrāpi bhītidā
- ViP 3.11.126Open verse →
इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् । यथोक्तदोषहीनेषु सकामेष्व् अनृताव् अपि
iti matvā svadāreṣu ṛtumatsu budho vrajet / yathoktadoṣahīneṣu sakāmeṣv anṛtāv api
- ViP 3.12.1Open verse →
______________________________________________________ §और्व उवाच: देवगोब्राह्मणान् सिद्धवृद्धाचार्यांस् तथार्चयेत् । द्विकालं च नमेत् संध्याम् अग्नीन् उपचरेत् तथा
______________________________________________________ §aurva uvāca: devagobrāhmaṇān siddhavṛddhācāryāṃs tathārcayet / dvikālaṃ ca namet saṃdhyām agnīn upacaret tathā
- ViP 3.12.2Open verse →
सदानुपहते वस्त्रे प्रशस्ताश् च तथौषधीः । गारुडानि च रत्नानि बिभृयात् प्रयतो नरः
sadānupahate vastre praśastāś ca tathauṣadhīḥ / gāruḍāni ca ratnāni bibhṛyāt prayato naraḥ
- ViP 3.12.3Open verse →
प्रस्निग्धामलकेशश् च सुगन्धश् चारुवेषधृक् । सिताः सुमनसो हृद्या बिभृयाच् च नरः सदा
prasnigdhāmalakeśaś ca sugandhaś cāruveṣadhṛk / sitāḥ sumanaso hṛdyā bibhṛyāc ca naraḥ sadā
- ViP 3.12.4Open verse →
किंचित् परस्वं न हरेन् नाल्पम् अप्य् अप्रियं वदेत् । प्रियं च नानृतं ब्रूयान् नान्यदोषान् उदीरयेत्
kiṃcit parasvaṃ na haren nālpam apy apriyaṃ vadet / priyaṃ ca nānṛtaṃ brūyān nānyadoṣān udīrayet
- ViP 3.12.5Open verse →
नान्यस्त्रियं तथा वैरं रोचयेत् पुरुषेश्वर । न दुष्टयानम् आरोहेत् कूलच्छायां न संश्रयेत्
nānyastriyaṃ tathā vairaṃ rocayet puruṣeśvara / na duṣṭayānam ārohet kūlacchāyāṃ na saṃśrayet
- ViP 3.12.6Open verse →
विद्विष्टपतितोन्मत्तबहुवैरादिकीटकैः । बन्धकीबन्धकीभर्तृक्षुद्रानृतकथैः सह
vidviṣṭapatitonmattabahuvairādikīṭakaiḥ / bandhakībandhakībhartṛkṣudrānṛtakathaiḥ saha
- ViP 3.12.7Open verse →
तथातिव्ययशीलैश् च परिवादरतैः शठैः । बुधो मैत्रीं न कुर्वीत नैकः पन्थानम् आश्रयेत्
tathātivyayaśīlaiś ca parivādarataiḥ śaṭhaiḥ / budho maitrīṃ na kurvīta naikaḥ panthānam āśrayet
- ViP 3.12.8Open verse →
नावगाहेज् जलौघस्य वेगम् अग्रे नरेश्वर । प्रदीप्तं वेश्म न विशेन् नारोहेच् छिखरं तरोः
nāvagāhej jalaughasya vegam agre nareśvara / pradīptaṃ veśma na viśen nārohec chikharaṃ taroḥ
- ViP 3.12.9Open verse →
न कुर्याद् दन्तसंघर्षं न कुष्णीयाच् च नासिकाम् । नासंवृतमुखो जृम्भेच् श्वासकासौ च वर्जयेत्
na kuryād dantasaṃgharṣaṃ na kuṣṇīyāc ca nāsikām / nāsaṃvṛtamukho jṛmbhec śvāsakāsau ca varjayet
- ViP 3.12.10Open verse →
नोच्चैर् हसेत् सशब्दं च न मुञ्चेत् पवनं बुधः । नखान् न खादयेच् छिन्द्यान् न तृणं न महीं लिखेत्
noccair haset saśabdaṃ ca na muñcet pavanaṃ budhaḥ / nakhān na khādayec chindyān na tṛṇaṃ na mahīṃ likhet
- ViP 3.12.11Open verse →
न श्मश्रु भक्षयेल् लोष्टं न मृद् नीयाद् विचक्षणः । ज्योतींष्य् अमेध्यः शस्तानि नाभिवीक्षेत च प्रभो
na śmaśru bhakṣayel loṣṭaṃ na mṛd nīyād vicakṣaṇaḥ / jyotīṃṣy amedhyaḥ śastāni nābhivīkṣeta ca prabho
- ViP 3.12.12Open verse →
नग्नां परस्त्रियं चैव सूर्यं चास्तमनोदये । न हुंकुर्याच् छवं चैव शवगन्धो हि सोमजः
nagnāṃ parastriyaṃ caiva sūryaṃ cāstamanodaye / na huṃkuryāc chavaṃ caiva śavagandho hi somajaḥ
- ViP 3.12.13Open verse →
चतुष्पथं चैत्यतरुं श्मशानोपवनानि च । दुष्टस्त्रीसंनिकर्षं च वर्जयेन् निशि सर्वदा
catuṣpathaṃ caityataruṃ śmaśānopavanāni ca / duṣṭastrīsaṃnikarṣaṃ ca varjayen niśi sarvadā
- ViP 3.12.14Open verse →
पूज्यदेवद्विजज्योतिश्छायां नातिक्रमेद् बुधः । नैकः शून्याटवीं गच्छेन् न च शून्यगृहे वसेत्
pūjyadevadvijajyotiśchāyāṃ nātikramed budhaḥ / naikaḥ śūnyāṭavīṃ gacchen na ca śūnyagṛhe vaset
- ViP 3.12.15Open verse →
केशास्थिकण्टकामेध्यबलिभस्मतुषांस् तथा । स्नानार्द्रधरणीं चैव दूरतः परिवर्जयेत्
keśāsthikaṇṭakāmedhyabalibhasmatuṣāṃs tathā / snānārdradharaṇīṃ caiva dūrataḥ parivarjayet
- ViP 3.12.16Open verse →
नानार्यान् आश्रयेत् कांश्चिन् न जिह्मं रोचयेद् बुधः । उपसर्पेत न व्यालांश् चिरं तिष्ठेन् न चोत्थितः
nānāryān āśrayet kāṃścin na jihmaṃ rocayed budhaḥ / upasarpeta na vyālāṃś ciraṃ tiṣṭhen na cotthitaḥ
- ViP 3.12.17Open verse →
अतीव जागरस्वप्ने तद्वत् स्थानासने बुधः । न सेवेत तथा शय्यां व्यायामं च नरेश्वर
atīva jāgarasvapne tadvat sthānāsane budhaḥ / na seveta tathā śayyāṃ vyāyāmaṃ ca nareśvara
- ViP 3.12.18Open verse →
दंष्ट्रिणः शृङ्गिणश् चैव प्राज्ञो दूरेण वर्जयेत् । अवश्यायं च राजेन्द्र पुरो वातातपौ तथा
daṃṣṭriṇaḥ śṛṅgiṇaś caiva prājño dūreṇa varjayet / avaśyāyaṃ ca rājendra puro vātātapau tathā
- ViP 3.12.19Open verse →
न स्नायान् न स्वपेन् नग्नो न चैवोपस्पृशेद् बुधः । मुक्तकच्छश् च नाचामेद् देवाद्यर्चां च वर्जयेत्
na snāyān na svapen nagno na caivopaspṛśed budhaḥ / muktakacchaś ca nācāmed devādyarcāṃ ca varjayet
- ViP 3.12.20Open verse →
होमदेवार्चनाद्यासु क्रियास्व् आचमने तथा । नैकवस्त्रः प्रवर्तेत द्विजवाचनके जपे
homadevārcanādyāsu kriyāsv ācamane tathā / naikavastraḥ pravarteta dvijavācanake jape
- ViP 3.12.21Open verse →
नासमञ्जसशीलैस् तु सहासीत कदाचन । सद्वृत्तसंनिकर्षो हि क्षणार्धम् अपि शस्यते
nāsamañjasaśīlais tu sahāsīta kadācana / sadvṛttasaṃnikarṣo hi kṣaṇārdham api śasyate
- ViP 3.12.22Open verse →
विरोधं नोत्तमैर् गच्छेन् नाधमैश् च सदा बुधः । विवाहश् च विवादश् च तुल्यशीलैर् नृपेष्यते
virodhaṃ nottamair gacchen nādhamaiś ca sadā budhaḥ / vivāhaś ca vivādaś ca tulyaśīlair nṛpeṣyate
- ViP 3.12.23Open verse →
नारभेत कलिं प्राज्ञः शुष्कवैरं च वर्जयेत् । अप्य् अल्पहानिः सोढव्या वैरेणार्थागमं त्यजेत्
nārabheta kaliṃ prājñaḥ śuṣkavairaṃ ca varjayet / apy alpahāniḥ soḍhavyā vaireṇārthāgamaṃ tyajet
- ViP 3.12.24Open verse →
स्नातो नाङ्गानि निर्मार्जेत् स्नानशाट्या न पाणिना । न च निर्धूनयेत् केशान् नाचामेच् चैव चोत्थितः
snāto nāṅgāni nirmārjet snānaśāṭyā na pāṇinā / na ca nirdhūnayet keśān nācāmec caiva cotthitaḥ
- ViP 3.12.25Open verse →
पादेन नाक्रमेत् पादं न पूज्याभिमुखं नयेत् । वीरासनं गुरोर् अग्रे भजेत विनयान्वितः
pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet / vīrāsanaṃ guror agre bhajeta vinayānvitaḥ
- ViP 3.12.26Open verse →
अपसव्यं न गच्छेच् च देवागारचतुष्पथान् । माङ्गल्यपूज्यांश् च ततो विपरीतान् न दक्षिणम्
apasavyaṃ na gacchec ca devāgāracatuṣpathān / māṅgalyapūjyāṃś ca tato viparītān na dakṣiṇam
- ViP 3.12.27Open verse →
सोमाग्न्यर्काम्बुवायूनां पूज्यानां च न संमुखम् । कुर्यात् ष्ठीवनविण्मूत्रसमुत्सर्गं च पण्डितः
somāgnyarkāmbuvāyūnāṃ pūjyānāṃ ca na saṃmukham / kuryāt ṣṭhīvanaviṇmūtrasamutsargaṃ ca paṇḍitaḥ
- ViP 3.12.28Open verse →
तिष्ठन् न मूत्रयेत् तद्वत् पन्थानं नावमूत्रयेत् । श्लेष्मविण्मूत्ररक्तानि सर्वदैव न लङ्घयेत्
tiṣṭhan na mūtrayet tadvat panthānaṃ nāvamūtrayet / śleṣmaviṇmūtraraktāni sarvadaiva na laṅghayet
- ViP 3.12.29Open verse →
श्लेष्मसिंहानकोत्सर्गो नान्नकाले प्रशस्यते । बलिमङ्गलजप्यादौ न होमे न महाजने
śleṣmasiṃhānakotsargo nānnakāle praśasyate / balimaṅgalajapyādau na home na mahājane
- ViP 3.12.30Open verse →
योषितो नावमन्येत न चासां विश्वसेद् बुधः । न चैवेर्ष्युर् भवेत् तासु नाधिकुर्यात् कदाचन
yoṣito nāvamanyeta na cāsāṃ viśvased budhaḥ / na caiverṣyur bhavet tāsu nādhikuryāt kadācana
- ViP 3.12.31Open verse →
मङ्गल्यपुष्परत्नाज्यपूज्यान् अनभिवाद्य च । न निष्क्रमेद् गृहात् प्राज्ञः सदाचारपरो नृप
maṅgalyapuṣparatnājyapūjyān anabhivādya ca / na niṣkramed gṛhāt prājñaḥ sadācāraparo nṛpa
- ViP 3.12.32Open verse →
चतुष्पथान् नमस् कुर्यात् काले होमपरो भवेत् । दीनान् अभ्युद्धरेत् साधून् उपासीत बहुश्रुतान्
catuṣpathān namas kuryāt kāle homaparo bhavet / dīnān abhyuddharet sādhūn upāsīta bahuśrutān
- ViP 3.12.33Open verse →
देवर्षिपूजकः सम्यक् पितृपिण्डोदकप्रदः । सत्कर्ता चातिथीनां यः स लोकान् उत्तमान् व्रजेत्
devarṣipūjakaḥ samyak pitṛpiṇḍodakapradaḥ / satkartā cātithīnāṃ yaḥ sa lokān uttamān vrajet
- ViP 3.12.34Open verse →
द्५ इन्स्।: एकाग्रचित्तस्य दृढव्रतस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य । हितं मितं प्रियं काले वश्यात्मा यो ऽभिभाषते । स याति लोकान् आह्लादहेतुभूतान् नृपाक्षयान्
D5 ins.: ekāgracittasya dṛḍhavratasya sarvendriyaprītinivartakasya / hitaṃ mitaṃ priyaṃ kāle vaśyātmā yo 'bhibhāṣate / sa yāti lokān āhlādahetubhūtān nṛpākṣayān
- ViP 3.12.35Open verse →
धीमान् ह्रीमान् क्षमायुक्त आस्तिको विनयान्वितः । विद्याभिजनवृद्धानां याति लोकान् अनुत्तमान्
dhīmān hrīmān kṣamāyukta āstiko vinayānvitaḥ / vidyābhijanavṛddhānāṃ yāti lokān anuttamān
- ViP 3.12.36Open verse →
अकालगर्जितादौ तु पर्वस्व् आशौचकादिषु । अनध्यायं बुधः कुर्याद् उपरागादिके तथा
akālagarjitādau tu parvasv āśaucakādiṣu / anadhyāyaṃ budhaḥ kuryād uparāgādike tathā
- ViP 3.12.37Open verse →
शमं नयति यः क्रुद्धान् सर्वबन्धुर् अमत्सरी । भीताश्वासनकृत् साधुः स्वर्गस् तस्याल्पकं फलम्
śamaṃ nayati yaḥ kruddhān sarvabandhur amatsarī / bhītāśvāsanakṛt sādhuḥ svargas tasyālpakaṃ phalam
- ViP 3.12.38Open verse →
वर्षातपादिके छत्री दण्डी रात्र्यटवीषु च । शरीरत्राणकामो वै सोपानत्कः सदा व्रजेत्
varṣātapādike chatrī daṇḍī rātryaṭavīṣu ca / śarīratrāṇakāmo vai sopānatkaḥ sadā vrajet
- ViP 3.12.39Open verse →
नोर्ध्वं न तिर्यग् दूरं वा निरीक्षन् पर्यटेद् बुधः । युगमात्रं महीपृष्ठं नरो गच्छेद् विलोकयन्
nordhvaṃ na tiryag dūraṃ vā nirīkṣan paryaṭed budhaḥ / yugamātraṃ mahīpṛṣṭhaṃ naro gacched vilokayan
- ViP 3.12.40Open verse →
दोषहेतून् अशेषांश् च वश्यात्मा यो निरस्यति । तस्य धर्मार्थकामानां हानिर् नाल्पापि जायते
doṣahetūn aśeṣāṃś ca vaśyātmā yo nirasyati / tasya dharmārthakāmānāṃ hānir nālpāpi jāyate
- ViP 3.12.41Open verse →
ग्२।३,एद्। वेङ्क्। इन्स्।: पापे ऽप्य् अपापः पुरुषे ऽप्य् अभिधत्ते प्रियाणि यः । मैत्रीद्रवान्तःकरणस् तस्य मुक्तिः करे स्थिता
G2.3,ed. Veṅk. ins.: pāpe 'py apāpaḥ puruṣe 'py abhidhatte priyāṇi yaḥ / maitrīdravāntaḥkaraṇas tasya muktiḥ kare sthitā
- ViP 3.12.42Open verse →
ये कामक्रोधलोभानां वीतरागा न गोचरे । सदाचारस्थितास् तेषाम् अनुभावैर् धृता मही
ye kāmakrodhalobhānāṃ vītarāgā na gocare / sadācārasthitās teṣām anubhāvair dhṛtā mahī
- ViP 3.12.43Open verse →
तस्मात् सत्यं वदेत् प्राज्ञो यत् परप्रीतिकारणम् । सत्यं यत् परदुःखाय तत्र मौनपरो भवेत्
tasmāt satyaṃ vadet prājño yat paraprītikāraṇam / satyaṃ yat paraduḥkhāya tatra maunaparo bhavet
- ViP 3.12.44Open verse →
प्रियम् उक्तं हितं नैतद् इति मत्वा न तद् वदेत् । श्रेयस् तत्र हितं वाक्यं यद्य् अप्य् अत्यन्तम् अप्रियम्
priyam uktaṃ hitaṃ naitad iti matvā na tad vadet / śreyas tatra hitaṃ vākyaṃ yady apy atyantam apriyam
- ViP 3.12.45Open verse →
प्राणिनाम् उपकाराय यद् एवेह परत्र च । कर्मणा मनसा वाचा तद् एव मतिमान् भजेत्
prāṇinām upakārāya yad eveha paratra ca / karmaṇā manasā vācā tad eva matimān bhajet
- ViP 3.13.1Open verse →
______________________________________________________ §और्व उवाच: सचैलस्य पितुः स्नानं जाते पुत्रे विधीयते । जातकर्म तथा कुर्याच् श्राद्धम् अभ्युदये च यत्
______________________________________________________ §aurva uvāca: sacailasya pituḥ snānaṃ jāte putre vidhīyate / jātakarma tathā kuryāc śrāddham abhyudaye ca yat
- ViP 3.13.2Open verse →
युग्मान् देवांश् च पित्र्यांश् च सम्यक् सव्यक्रमाद् द्विजान् । पूजयेद् भोजयेच् चैव तन्मना नान्यमानसः
yugmān devāṃś ca pitryāṃś ca samyak savyakramād dvijān / pūjayed bhojayec caiva tanmanā nānyamānasaḥ
- ViP 3.13.3Open verse →
दध्यक्षतैः सबदरैः प्राङ्मुखोदङ्मुखो ऽपि वा । देवतीर्थेन वै पिण्डान् दद्यात् कायेन वा नृप
dadhyakṣataiḥ sabadaraiḥ prāṅmukhodaṅmukho 'pi vā / devatīrthena vai piṇḍān dadyāt kāyena vā nṛpa
- ViP 3.13.4Open verse →
नान्दीमुखः पितृगणस् तेन श्राद्धेन पार्थिव । प्रीयते तत् तु कर्तव्यं पुरुषैः सर्ववृद्धिषु
nāndīmukhaḥ pitṛgaṇas tena śrāddhena pārthiva / prīyate tat tu kartavyaṃ puruṣaiḥ sarvavṛddhiṣu
- ViP 3.13.5Open verse →
कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनः । नामकर्मणि बालानां चूडाकर्मादिके तथा
kanyāputravivāheṣu praveśe navaveśmanaḥ / nāmakarmaṇi bālānāṃ cūḍākarmādike tathā
- ViP 3.13.6Open verse →
सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने । नान्दीमुखं पितृगणं पूजयेत् प्रयतो गृही
sīmantonnayane caiva putrādimukhadarśane / nāndīmukhaṃ pitṛgaṇaṃ pūjayet prayato gṛhī
- ViP 3.13.7Open verse →
पितृपूजाक्रमः प्रोक्तो वृद्धाव् एष समासतः । श्रूयताम् अवनीपाल प्रेतकर्मक्रियाविधिः
pitṛpūjākramaḥ prokto vṛddhāv eṣa samāsataḥ / śrūyatām avanīpāla pretakarmakriyāvidhiḥ
- ViP 3.13.8Open verse →
प्रेतदेहं शुभैः स्नानैः स्नापितं स्रग्विभूषितम् । दग्ध्वा ग्रामाद् बहिः स्नात्वा सचैलाः सलिलाशये
pretadehaṃ śubhaiḥ snānaiḥ snāpitaṃ sragvibhūṣitam / dagdhvā grāmād bahiḥ snātvā sacailāḥ salilāśaye
- ViP 3.13.9Open verse →
यत्र तत्र स्थितायैतद् अमुकायेति वादिनः । दक्षिणाभिमुखा दद्युर् बान्धवाः सलिलाञ्जलिम्
yatra tatra sthitāyaitad amukāyeti vādinaḥ / dakṣiṇābhimukhā dadyur bāndhavāḥ salilāñjalim
- ViP 3.13.10Open verse →
प्रविष्टाश् च समं गोभिर् ग्रामं नक्षत्रदर्शने । कटधर्मांस् ततः कुर्युर् भूमौ प्रस्तरशायिनः
praviṣṭāś ca samaṃ gobhir grāmaṃ nakṣatradarśane / kaṭadharmāṃs tataḥ kuryur bhūmau prastaraśāyinaḥ
- ViP 3.13.11Open verse →
दातव्यो ऽनुदिनं पिण्डः प्रेताय भुवि पार्थिव । दिवा च भक्तं भोक्तव्यम् अमांसं मनुजर्षभ
dātavyo 'nudinaṃ piṇḍaḥ pretāya bhuvi pārthiva / divā ca bhaktaṃ bhoktavyam amāṃsaṃ manujarṣabha
- ViP 3.13.12Open verse →
दिनानि तानि चेच्छातः कर्तव्यं विप्रभोजनम् । प्रेतस् तृप्तिं तथा याति बन्धुवर्गेण भुञ्जता
dināni tāni cecchātaḥ kartavyaṃ viprabhojanam / pretas tṛptiṃ tathā yāti bandhuvargeṇa bhuñjatā
- ViP 3.13.13Open verse →
प्रथमे ऽह्नि तृतीये च सप्तमे नवमे तथा । वस्त्रत्यागं बहिःस्नानं कृत्वा दद्यात् तिलोदकम्
prathame 'hni tṛtīye ca saptame navame tathā / vastratyāgaṃ bahiḥsnānaṃ kṛtvā dadyāt tilodakam
- ViP 3.13.14Open verse →
श्२,द्७ इन्स्।: चतुर्थे ऽह्नि च कर्तव्यं भस्मास्थिचयनं नृप । तदूर्ध्वम् अङ्गस्पर्शश् च सपिण्डानाम् अपीष्यते
Ś2,D7 ins.: caturthe 'hni ca kartavyaṃ bhasmāsthicayanaṃ nṛpa / tadūrdhvam aṅgasparśaś ca sapiṇḍānām apīṣyate
- ViP 3.13.15Open verse →
योग्याः सर्वक्रियाणां तु समानसलिलास् तथा । अनुलेपनपुष्पादिभोगाद् अन्यत्र पार्थिव
yogyāḥ sarvakriyāṇāṃ tu samānasalilās tathā / anulepanapuṣpādibhogād anyatra pārthiva
- ViP 3.13.16Open verse →
शय्यासनोपभोगश् च सपिण्डानाम् अपीष्यते । भस्मास्थिचयनाद् ऊर्ध्वं संयोगो न तु योषिताम्
śayyāsanopabhogaś ca sapiṇḍānām apīṣyate / bhasmāsthicayanād ūrdhvaṃ saṃyogo na tu yoṣitām
- ViP 3.13.17Open verse →
बाले देशान्तरस्थे च पतिते च मुनौ मृते । सद्यः शौचं तथेच्छातो जलाग्न्युद्बन्धनादिषु
bāle deśāntarasthe ca patite ca munau mṛte / sadyaḥ śaucaṃ tathecchāto jalāgnyudbandhanādiṣu
- ViP 3.13.18Open verse →
मृतबन्धोर् दशाहानि कुलस्यान्नं न भुज्यते । दानं प्रतिग्रहो यज्ञः स्वाध्यायश् च निवर्तते
mṛtabandhor daśāhāni kulasyānnaṃ na bhujyate / dānaṃ pratigraho yajñaḥ svādhyāyaś ca nivartate
- ViP 3.13.19Open verse →
विप्रस्यैतद् द्वादशाहं राजन्यस्याप्य् अशौचकम् । अर्धमासं तु वैश्यस्य मासं शूद्रस्य शुद्धये
viprasyaitad dvādaśāhaṃ rājanyasyāpy aśaucakam / ardhamāsaṃ tu vaiśyasya māsaṃ śūdrasya śuddhaye
- ViP 3.13.20Open verse →
अयुजो भोजयेत् कामं द्विजान् आद्ये ततो दिने । दद्याद् दर्भेषु पिण्डं च प्रेतायोच्छिष्टसंनिधौ
ayujo bhojayet kāmaṃ dvijān ādye tato dine / dadyād darbheṣu piṇḍaṃ ca pretāyocchiṣṭasaṃnidhau
- ViP 3.13.21Open verse →
वार्यायुधप्रतोदास् तु दण्डश् च द्विजभोजनात् । स्प्रष्टव्यो ऽनन्तरं वर्णैः शुध्येरंस् ते ततः क्रमात्
vāryāyudhapratodās tu daṇḍaś ca dvijabhojanāt / spraṣṭavyo 'nantaraṃ varṇaiḥ śudhyeraṃs te tataḥ kramāt
- ViP 3.13.22Open verse →
ततः स्ववर्णधर्मा ये विप्रादीनाम् उदाहृताः । तान् कुर्वीत पुमाञ् जीवेन् निजधर्मार्जनैस् तथा
tataḥ svavarṇadharmā ye viprādīnām udāhṛtāḥ / tān kurvīta pumāñ jīven nijadharmārjanais tathā
- ViP 3.13.23Open verse →
मृते ऽहनि च कर्तव्यम् एकोद्दिष्टम् अतः परम् । आह्वानादिक्रियादैवनियोगरहितं हि तत्
mṛte 'hani ca kartavyam ekoddiṣṭam ataḥ param / āhvānādikriyādaivaniyogarahitaṃ hi tat
- ViP 3.13.24Open verse →
एको ऽर्घ्यस् तत्र दातव्यस् तथैवैकं पवित्रकम् । प्रेताय पिण्डो दातव्यो भुक्तवत्सु द्विजातिषु
eko 'rghyas tatra dātavyas tathaivaikaṃ pavitrakam / pretāya piṇḍo dātavyo bhuktavatsu dvijātiṣu
- ViP 3.13.25Open verse →
प्रश्नश् च तत्राभिरतिर् यजमानद्विजन्मनाम् । अक्षय्यम् अमुकस्येति वक्तव्यं विरतौ तथा
praśnaś ca tatrābhiratir yajamānadvijanmanām / akṣayyam amukasyeti vaktavyaṃ viratau tathā
- ViP 3.13.26Open verse →
एकोद्दिष्टमयो धर्म इत्थम् आवत्सरात् स्मृतः । सपिण्डीकरणं तस्मिन् काले राजेन्द्र तच् छृणु
ekoddiṣṭamayo dharma ittham āvatsarāt smṛtaḥ / sapiṇḍīkaraṇaṃ tasmin kāle rājendra tac chṛṇu
- ViP 3.13.28Open verse →
एकोद्दिष्टविधानेन कार्यं तद् अपि पार्थिव ॥ विप्_३,१३।२७अब् ॥ अफ़्तेर् २७अब्, द्३,ग्२,एद्। वेङ्क्। इन्स्।: संवत्सरे ऽथ षष्ठे वा मासि वा द्वादशे ऽह्नि वा ॥ विप्_३,१३।२७अब्*२७ ॥ तिलगन्धोदकैर् युक्तं तत्र पात्रचतुष्टयम् ॥ विप्_३,१३।२७च्द् ॥ पात्रं प्रेतस्य तत्रैकं पैत्रं पात्रत्रयं तथा । सेचयेत् पितृपात्रेषु प्रेतपात्रं नृप त्रिषु
ekoddiṣṭavidhānena kāryaṃ tad api pārthiva // ViP_3,13.27ab // After 27ab, D3,G2,ed. Veṅk. ins.: saṃvatsare 'tha ṣaṣṭhe vā māsi vā dvādaśe 'hni vā // ViP_3,13.27ab*27 // tilagandhodakair yuktaṃ tatra pātracatuṣṭayam // ViP_3,13.27cd // pātraṃ pretasya tatraikaṃ paitraṃ pātratrayaṃ tathā / secayet pitṛpātreṣu pretapātraṃ nṛpa triṣu
- ViP 3.13.29Open verse →
ततः पितृत्वम् आपन्ने तस्मिन् प्रेते महीपते । श्राद्धधर्मैर् अशेषैस् तु तत्पूर्वान् अर्चयेत् पितॄन्
tataḥ pitṛtvam āpanne tasmin prete mahīpate / śrāddhadharmair aśeṣais tu tatpūrvān arcayet pitṝn
- ViP 3.13.30Open verse →
पुत्रः पौत्रः प्रपौत्रो वा बन्धुर् वा भ्रातृसंततिः । सपिण्डसंततिर् वापि क्रियार्हो नृप जायते
putraḥ pautraḥ prapautro vā bandhur vā bhrātṛsaṃtatiḥ / sapiṇḍasaṃtatir vāpi kriyārho nṛpa jāyate
- ViP 3.13.31Open verse →
तेषाम् अभावे सर्वेषां समानोदकसंततिः । मातृपक्षस्य पिण्डेन संबद्धा ये जलेन वा
teṣām abhāve sarveṣāṃ samānodakasaṃtatiḥ / mātṛpakṣasya piṇḍena saṃbaddhā ye jalena vā
- ViP 3.13.32Open verse →
कुलद्वये ऽपि चोच्छिन्ने स्त्रीभिः कार्याः क्रिया नृप । संघातान्तर्गतैर् वापि कार्याः प्रेतस्य याः क्रियाः । उत्सन्नबन्धुरिक्थानां कारयेद् अवनीपतिः
kuladvaye 'pi cocchinne strībhiḥ kāryāḥ kriyā nṛpa / saṃghātāntargatair vāpi kāryāḥ pretasya yāḥ kriyāḥ / utsannabandhurikthānāṃ kārayed avanīpatiḥ
- ViP 3.13.33Open verse →
पूर्वाः क्रिया मध्यमाश् च तथा चैवोत्तराः क्रियाः । त्रिःप्रकाराः क्रिया ह्य् एतास् तासां भेदं शृणुष्व मे
pūrvāḥ kriyā madhyamāś ca tathā caivottarāḥ kriyāḥ / triḥprakārāḥ kriyā hy etās tāsāṃ bhedaṃ śṛṇuṣva me
- ViP 3.13.34Open verse →
आदाहवार्यायुधादिस्पर्शाद्यन्तास् तु याः क्रियाः । ताः पूर्वा मध्यमा मासि मास्य् एकोद्दिष्टसंज्ञिताः
ādāhavāryāyudhādisparśādyantās tu yāḥ kriyāḥ / tāḥ pūrvā madhyamā māsi māsy ekoddiṣṭasaṃjñitāḥ
- ViP 3.13.35Open verse →
प्रेते पितृत्वम् आपन्ने सपिण्डीकरणाद् अनु । क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः
prete pitṛtvam āpanne sapiṇḍīkaraṇād anu / kriyante yāḥ kriyāḥ pitryāḥ procyante tā nṛpottarāḥ
- ViP 3.13.36Open verse →
पितृमातृसपिण्डैस् तु समानसलिलैस् तथा । तत्संघातगतैश् चैव राज्ञा वा धनहारिणा
pitṛmātṛsapiṇḍais tu samānasalilais tathā / tatsaṃghātagataiś caiva rājñā vā dhanahāriṇā
- ViP 3.13.37Open verse →
पूर्वाः क्रियास् तु कर्तव्याः पुत्राद्यैर् एव चोत्तराः । दौहित्रैर् वा नरश्रेष्ठ कार्यास् तत्तनयैस् तथा
pūrvāḥ kriyās tu kartavyāḥ putrādyair eva cottarāḥ / dauhitrair vā naraśreṣṭha kāryās tattanayais tathā
- ViP 3.13.38Open verse →
मृताहनि च कर्तव्याः स्त्रीणाम् अप्य् उत्तराः क्रियाः । प्रतिसंवत्सरं राजन्न् एकोद्दिष्टविधानतः
mṛtāhani ca kartavyāḥ strīṇām apy uttarāḥ kriyāḥ / pratisaṃvatsaraṃ rājann ekoddiṣṭavidhānataḥ
- ViP 3.13.39Open verse →
तस्माद् उत्तरसंज्ञा याः क्रियास् ताः शृणु पार्थिव । यदा यदा च कर्तव्या विधिना येन चानघ
tasmād uttarasaṃjñā yāḥ kriyās tāḥ śṛṇu pārthiva / yadā yadā ca kartavyā vidhinā yena cānagha
- ViP 3.14.1Open verse →
______________________________________________________ §और्व उवाच: ब्रह्मेन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान् । विश्वेदेवान् ऋषिगणान् वयांसि मनुजान् पशून्
______________________________________________________ §aurva uvāca: brahmendrarudranāsatyasūryāgnivasumārutān / viśvedevān ṛṣigaṇān vayāṃsi manujān paśūn
- ViP 3.14.2Open verse →
सरीसृपान् पितृगणान् यच् चान्यद् भूतसंज्ञितम् । श्राद्धं श्रद्धान्वितः कुर्वन् तर्पयत्य् अखिलं जगत्
sarīsṛpān pitṛgaṇān yac cānyad bhūtasaṃjñitam / śrāddhaṃ śraddhānvitaḥ kurvan tarpayaty akhilaṃ jagat
- ViP 3.14.3Open verse →
मासि मास्य् असिते पक्षे पञ्चदश्यां नरेश्वर । तथाष्टकासु कुर्वीत काम्यान् कालाञ् छृणुष्व मे
māsi māsy asite pakṣe pañcadaśyāṃ nareśvara / tathāṣṭakāsu kurvīta kāmyān kālāñ chṛṇuṣva me
- ViP 3.14.4Open verse →
श्राद्धार्हम् आगतं द्रव्यं विशिष्टम् अथवा द्विजम् । श्राद्धं कुर्वीत विज्ञाय व्यतीपाते ऽयने तथा
śrāddhārham āgataṃ dravyaṃ viśiṣṭam athavā dvijam / śrāddhaṃ kurvīta vijñāya vyatīpāte 'yane tathā
- ViP 3.14.5Open verse →
विषुवे चापि संप्राप्ते ग्रहणे शशिसूर्ययोः । समस्तेष्व् एव भूपाल राशिष्व् अर्के च गच्छति
viṣuve cāpi saṃprāpte grahaṇe śaśisūryayoḥ / samasteṣv eva bhūpāla rāśiṣv arke ca gacchati
- ViP 3.14.6Open verse →
नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने । इच्छाश्राद्धानि कुर्वीत नवसस्यागमे तथा
nakṣatragrahapīḍāsu duṣṭasvapnāvalokane / icchāśrāddhāni kurvīta navasasyāgame tathā
- ViP 3.14.7Open verse →
अमावास्या यदा मैत्रविशाखास्वातियोगिनी । श्राद्धैः पितृगणस् तृप्तिं तथाप्नोत्य् अष्टवार्षिकीम्
amāvāsyā yadā maitraviśākhāsvātiyoginī / śrāddhaiḥ pitṛgaṇas tṛptiṃ tathāpnoty aṣṭavārṣikīm
- ViP 3.14.8Open verse →
अमावास्या यदा पुष्ये रौद्रे चर्क्षे पुनर्वसौ । द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरो ऽर्चिताः
amāvāsyā yadā puṣye raudre carkṣe punarvasau / dvādaśābdaṃ tadā tṛptiṃ prayānti pitaro 'rcitāḥ
- ViP 3.14.9Open verse →
वासवाजैकपादर्क्षे पितॄणां तृप्तिम् इच्छताम् । वारुणे चाप्य् अमावास्या देवानाम् अपि दुर्लभा
vāsavājaikapādarkṣe pitṝṇāṃ tṛptim icchatām / vāruṇe cāpy amāvāsyā devānām api durlabhā
- ViP 3.14.10Open verse →
नवस्व् ऋक्षेष्व् अमावास्या यदैतेष्व् अवनीपते । तदा तृप्तिप्रदं श्राद्धं पितॄणां शृणु चापरम्
navasv ṛkṣeṣv amāvāsyā yadaiteṣv avanīpate / tadā tṛptipradaṃ śrāddhaṃ pitṝṇāṃ śṛṇu cāparam
- ViP 3.14.11Open verse →
गीतं सनत्कुमारेण यद्ऽइलाय महात्मने । पृच्छते पितृभक्ताय श्रद्धयावनताय च
gītaṃ sanatkumāreṇa yad'ilāya mahātmane / pṛcchate pitṛbhaktāya śraddhayāvanatāya ca
- ViP 3.14.12Open verse →
§सनत्कुमार उवाच: वैशाखमासस्य च या तृतीया नवम्य् असौ कार्त्तिकशुक्लपक्षे । नभस्यमासस्य तु कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे
§sanatkumāra uvāca: vaiśākhamāsasya ca yā tṛtīyā navamy asau kārttikaśuklapakṣe / nabhasyamāsasya tu kṛṣṇapakṣe trayodaśī pañcadaśī ca māghe
- ViP 3.14.14Open verse →
एता युगाद्यास् तिथयश् चतस्रो ऽप्य् अनन्तपुण्या नृप संप्रदिष्टाः ॥ विप्_३,१४।१३अब् ॥ श्२,द्७ इन्स्। अफ़्तेर् १३अब्: द्वे शुक्ले द्वे तथा कृष्णे युगाद्ये मुनयो विदुः ॥ विप्_३,१४।१३अब्*२८:१ ॥ शुक्ले पूर्वाह्निके ग्राह्ये कृष्णे चैवापराह्निके ॥ विप्_३,१४।१३अब्*२८:२ ॥ युगाद्येषु युगान्तेषु दत्तम् अक्षयम् इष्यते ॥ विप्_३,१४।१३अब्*२८:३ ॥ उपप्लवे चन्द्रमसो रवेश् च त्रिष्व् अष्टकास्व् अप्य् अयनद्वये च ॥ विप्_३,१४।१३च्द् ॥ श्,द्१।६।७ इन्स्।, द्५ इन्स्। ल्। १-२ अफ़्तेर् १३अब् अन्द् ल्। ३-४ अफ़्तेर् १३: चन्द्रक्षये माघवमासि यत्र दिनक्षये वै विषुवद्द्वयं च । पानीयम् अप्य् अत्र तिलैर् विमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः । श्राद्धं कृतं तेन समाः सहस्रं रहस्यम् एतत् पितरो वदन्ति
etā yugādyās tithayaś catasro 'py anantapuṇyā nṛpa saṃpradiṣṭāḥ // ViP_3,14.13ab // Ś2,D7 ins. after 13ab: dve śukle dve tathā kṛṣṇe yugādye munayo viduḥ // ViP_3,14.13ab*28:1 // śukle pūrvāhnike grāhye kṛṣṇe caivāparāhnike // ViP_3,14.13ab*28:2 // yugādyeṣu yugānteṣu dattam akṣayam iṣyate // ViP_3,14.13ab*28:3 // upaplave candramaso raveś ca triṣv aṣṭakāsv apy ayanadvaye ca // ViP_3,14.13cd // Ś,D1.6.7 ins., D5 ins. l. 1-2 after 13ab and l. 3-4 after 13: candrakṣaye māghavamāsi yatra dinakṣaye vai viṣuvaddvayaṃ ca / pānīyam apy atra tilair vimiśraṃ dadyāt pitṛbhyaḥ prayato manuṣyaḥ / śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyam etat pitaro vadanti
- ViP 3.14.15Open verse →
माघासिते पञ्चदशी कदाचिद् उपैति योगं यदि वारुणेन । ऋक्षेण कालः स परः पितॄणां न ह्य् अल्पपुण्यैर् नृप लभ्यते ऽसौ
māghāsite pañcadaśī kadācid upaiti yogaṃ yadi vāruṇena / ṛkṣeṇa kālaḥ sa paraḥ pitṝṇāṃ na hy alpapuṇyair nṛpa labhyate 'sau
- ViP 3.14.16Open verse →
काले धनिष्ठा यदि नाम तस्मिन् भवन्ति भूपाल तदा पितृभ्यः । दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर् मनुष्यैः
kāle dhaniṣṭhā yadi nāma tasmin bhavanti bhūpāla tadā pitṛbhyaḥ / dattaṃ jalānnaṃ pradadāti tṛptiṃ varṣāyutaṃ tatkulajair manuṣyaiḥ
- ViP 3.14.17Open verse →
तत्रैव चेद् भाद्रपदास् तु पूर्वाः काले तदा यत् क्रियते पितृभ्यः । श्राद्धं परां तृप्तिम् उपेत्य तेन युगं समग्रं पितरः स्वपन्ति
tatraiva ced bhādrapadās tu pūrvāḥ kāle tadā yat kriyate pitṛbhyaḥ / śrāddhaṃ parāṃ tṛptim upetya tena yugaṃ samagraṃ pitaraḥ svapanti
- ViP 3.14.18Open verse →
गङ्गां शतद्रूम् अथ वा विपाशां सरस्वतीं नैमिषगोमतीं वा । ततो ऽवगाह्यार्चनम् आदरेण कृत्वा पितॄणां दुरितानि हन्ति
gaṅgāṃ śatadrūm atha vā vipāśāṃ sarasvatīṃ naimiṣagomatīṃ vā / tato 'vagāhyārcanam ādareṇa kṛtvā pitṝṇāṃ duritāni hanti
- ViP 3.14.19Open verse →
गायन्ति चैतत् पितरः सदैव वर्षामघातृप्तिम् अवाप्य भूयः । माघासितान्ते शुभतीर्थतोयैर् यास्याम तृप्तिं तनयादिदत्तैः
gāyanti caitat pitaraḥ sadaiva varṣāmaghātṛptim avāpya bhūyaḥ / māghāsitānte śubhatīrthatoyair yāsyāma tṛptiṃ tanayādidattaiḥ
- ViP 3.14.20Open verse →
चित्तं च वित्तं च नृणां विशुद्धं शस्तश् च कालः कथितो विधिश् च । पात्रं यथोक्तं परमा च भक्तिर् नृणां प्रयच्छत्य् अभिवाञ्छितानि
cittaṃ ca vittaṃ ca nṛṇāṃ viśuddhaṃ śastaś ca kālaḥ kathito vidhiś ca / pātraṃ yathoktaṃ paramā ca bhaktir nṛṇāṃ prayacchaty abhivāñchitāni
- ViP 3.14.21Open verse →
पितृगीतांस् तथैवात्र श्लोकांस् तांश् च शृणुष्व मे । श्रुत्वा तथैव भवता भाव्यं तत्रादृतात्मना
pitṛgītāṃs tathaivātra ślokāṃs tāṃś ca śṛṇuṣva me / śrutvā tathaiva bhavatā bhāvyaṃ tatrādṛtātmanā
- ViP 3.14.22Open verse →
अपि धन्यः कुले जायाद् अस्माकं मतिमान् नरः । अकुर्वन् वित्तशाठ्यं यः पिण्डान्नो निर्वपिष्यति
api dhanyaḥ kule jāyād asmākaṃ matimān naraḥ / akurvan vittaśāṭhyaṃ yaḥ piṇḍānno nirvapiṣyati
- ViP 3.14.23Open verse →
रत्नवस्त्रमहीयानमहाभोगादिकं वसु । विभवे सति विप्रेभ्यो यो ऽस्मान् उद्दिश्य दास्यति
ratnavastramahīyānamahābhogādikaṃ vasu / vibhave sati viprebhyo yo 'smān uddiśya dāsyati
- ViP 3.14.24Open verse →
अन्नेन वा यथाशक्त्या काले ऽस्मिन् भक्तिनम्रधीः । भोजयिष्यति विप्राग्र्यांस् तन्मात्रविभवो नरः
annena vā yathāśaktyā kāle 'smin bhaktinamradhīḥ / bhojayiṣyati viprāgryāṃs tanmātravibhavo naraḥ
- ViP 3.14.25Open verse →
असमर्थो ऽन्नदानस्य धान्यम् आमं स्वशक्तितः । प्रदास्यति द्विजाग्रेभ्यः स्वल्पाल्पां वापि दक्षिणाम्
asamartho 'nnadānasya dhānyam āmaṃ svaśaktitaḥ / pradāsyati dvijāgrebhyaḥ svalpālpāṃ vāpi dakṣiṇām
- ViP 3.14.26Open verse →
तत्राप्य् असामर्थ्ययुतः कराग्राग्रस्थितांस् तिलान् । प्रणम्य द्विजमुख्याय कस्मैचिद् भूप दास्यति
tatrāpy asāmarthyayutaḥ karāgrāgrasthitāṃs tilān / praṇamya dvijamukhyāya kasmaicid bhūpa dāsyati
- ViP 3.14.27Open verse →
तिलैः सप्ताष्टभिर् वापि समवेताञ् जलाञ्जलीन् । भक्तिनम्रः समुद्दिश्य भुव्य् अस्माकं प्रदास्यति
tilaiḥ saptāṣṭabhir vāpi samavetāñ jalāñjalīn / bhaktinamraḥ samuddiśya bhuvy asmākaṃ pradāsyati
- ViP 3.14.28Open verse →
यतः कुतश्चित् संप्राप्य गोभ्यो वापि गवाह्निकम् । अभावे प्रीणयन्न् अस्माञ् श्रद्धायुक्तः प्रदास्यति
yataḥ kutaścit saṃprāpya gobhyo vāpi gavāhnikam / abhāve prīṇayann asmāñ śraddhāyuktaḥ pradāsyati
- ViP 3.14.29Open verse →
सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः । सूर्यादिलोकपालानाम् इदम् उच्चैर् पठिष्यति
sarvābhāve vanaṃ gatvā kakṣamūlapradarśakaḥ / sūryādilokapālānām idam uccair paṭhiṣyati
- ViP 3.14.30Open verse →
न मे ऽस्ति वित्तं न धनं च नान्यच् छ्राद्धोपयोग्यं स्वपितॄन् नतो ऽस्मि । तृप्यन्तु भक्त्या पितरो मयैतौ कृतौ भुजौ वर्त्मनि मारुतस्य
na me 'sti vittaṃ na dhanaṃ ca nānyac chrāddhopayogyaṃ svapitṝn nato 'smi / tṛpyantu bhaktyā pitaro mayaitau kṛtau bhujau vartmani mārutasya
- ViP 3.14.31Open verse →
§और्व उवाच: इत्य् एतत् पितृभिर् गीतं भावाभावप्रयोजनम् । यः करोति कृतं तेन श्राद्धं भवति पार्थिव
§aurva uvāca: ity etat pitṛbhir gītaṃ bhāvābhāvaprayojanam / yaḥ karoti kṛtaṃ tena śrāddhaṃ bhavati pārthiva
- ViP 3.15.1Open verse →
______________________________________________________ §और्व उवाच: ब्राह्मणान् भोजयेच् छ्राद्धे यद्गुणांस् तान् निबोध मे
______________________________________________________ §aurva uvāca: brāhmaṇān bhojayec chrāddhe yadguṇāṃs tān nibodha me
- ViP 3.15.2Open verse →
त्रिणाचिकेतस् त्रिमधुस् त्रिसुपर्णः षडङ्गवित् । वेदविच् छ्रोत्रियो योगी तथा वै ज्येष्ठसामगः
triṇāciketas trimadhus trisuparṇaḥ ṣaḍaṅgavit / vedavic chrotriyo yogī tathā vai jyeṣṭhasāmagaḥ
- ViP 3.15.3Open verse →
ऋत्विक्स्वस्रीयदौहित्रजामातृश्वशुरास् तथा । मातुलो ऽथ तपोनिष्ठः पञ्चाग्न्यभिरतस् तथा । शिष्याः संबन्धिनश् चैव मातापितृरतश् च यः
ṛtviksvasrīyadauhitrajāmātṛśvaśurās tathā / mātulo 'tha taponiṣṭhaḥ pañcāgnyabhiratas tathā / śiṣyāḥ saṃbandhinaś caiva mātāpitṛrataś ca yaḥ
- ViP 3.15.4Open verse →
एतान् नियोजयेच् छ्राद्धे पूर्वोक्तान् प्रथमं नृप । ब्राह्मणान् पितृपुष्ट्यर्थम् अनुकल्पेष्व् अनन्तरान्
etān niyojayec chrāddhe pūrvoktān prathamaṃ nṛpa / brāhmaṇān pitṛpuṣṭyartham anukalpeṣv anantarān
- ViP 3.15.5Open verse →
मित्रध्रुक् कुनखी क्लीबः श्यावदन्तस् तथा द्विजः । कन्यादूषयिता वह्निवेदोज्झः सोमविक्रयी
mitradhruk kunakhī klībaḥ śyāvadantas tathā dvijaḥ / kanyādūṣayitā vahnivedojjhaḥ somavikrayī
- ViP 3.15.6Open verse →
अभिशस्तस् तथा स्तेनः पिशुनो ग्रामयाजकः । भृतकाध्यापकस् तद्वद् भृतकाध्यापितश् च यः
abhiśastas tathā stenaḥ piśuno grāmayājakaḥ / bhṛtakādhyāpakas tadvad bhṛtakādhyāpitaś ca yaḥ
- ViP 3.15.8Open verse →
परपूर्वापतिश् चैव मातापित्रोस् तथोज्झकः ॥ विप्_३,१५।७अब् ॥ द्३।४,त्२ इन्स्।: तथा भ्रातृपरित्यागी दूषकः सर्वनिन्दकः ॥ विप्_३,१५।७अब्*३० ॥ वृषलीसूतिपोष्टा च वृषलीपतिर् एव च ॥ विप्_३,१५।७च्द् ॥ तथा देवलकश् चैव श्राद्धे नार्हति केतनम्
parapūrvāpatiś caiva mātāpitros tathojjhakaḥ // ViP_3,15.7ab // D3.4,T2 ins.: tathā bhrātṛparityāgī dūṣakaḥ sarvanindakaḥ // ViP_3,15.7ab*30 // vṛṣalīsūtipoṣṭā ca vṛṣalīpatir eva ca // ViP_3,15.7cd // tathā devalakaś caiva śrāddhe nārhati ketanam
- ViP 3.15.9Open verse →
प्रथमे ऽह्नि बुधः शस्ताञ् श्रोत्रियादीन् निमन्त्रयेत् । कथयेच् च तदैवैषां नियोगान् पितृदैविकान्
prathame 'hni budhaḥ śastāñ śrotriyādīn nimantrayet / kathayec ca tadaivaiṣāṃ niyogān pitṛdaivikān
- ViP 3.15.10Open verse →
ततः क्रोधव्यवायादीन् आयासं च द्विजैः सह । यजमानो न कुर्वीत दोषस् तत्र महान् अयम्
tataḥ krodhavyavāyādīn āyāsaṃ ca dvijaiḥ saha / yajamāno na kurvīta doṣas tatra mahān ayam
- ViP 3.15.11Open verse →
श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च । व्यवायी रेतसो गर्ते मज्जयत्य् आत्मनः पितॄन्
śrāddhe niyukto bhuktvā vā bhojayitvā niyujya ca / vyavāyī retaso garte majjayaty ātmanaḥ pitṝn
- ViP 3.15.12Open verse →
तस्मात् प्रथमम् अत्रोक्तं द्विजाग्र्याणां निमन्त्रणम् । अनिमन्त्र्य द्विजान् गेहम् आगतान् भोजयेद् यतीन्
tasmāt prathamam atroktaṃ dvijāgryāṇāṃ nimantraṇam / animantrya dvijān geham āgatān bhojayed yatīn
- ViP 3.15.13Open verse →
पादशौचादिना गेहम् आगतान् पूजयेद् द्विजान्
pādaśaucādinā geham āgatān pūjayed dvijān
- ViP 3.15.14Open verse →
पवित्रपाणिर् आचान्तान् आसनेषूपवेशयेत् । पितॄणाम् अयुजो युग्मान् देवानाम् इच्छया द्विजान्
pavitrapāṇir ācāntān āsaneṣūpaveśayet / pitṝṇām ayujo yugmān devānām icchayā dvijān
- ViP 3.15.15Open verse →
देवानाम् एकम् एकं वा पितॄणां च नियोजयेत्
devānām ekam ekaṃ vā pitṝṇāṃ ca niyojayet
- ViP 3.15.16Open verse →
तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् । कुर्वीत भक्तिसंपन्नस् तन्त्रं वा वैश्वदेविकम्
tathā mātāmahaśrāddhaṃ vaiśvadevasamanvitam / kurvīta bhaktisaṃpannas tantraṃ vā vaiśvadevikam
- ViP 3.15.17Open verse →
प्राङ्मुखान् भोजयेद् विप्रान् देवानाम् उभयात्मकान् । पितृपैतामहानां च भोजयेच् चाप्य् उदङ्मुखान्
prāṅmukhān bhojayed viprān devānām ubhayātmakān / pitṛpaitāmahānāṃ ca bhojayec cāpy udaṅmukhān
- ViP 3.15.18Open verse →
पृथक् तयोः केचिद् आहुः श्राद्धस्य करणं नृप । एकत्रैकेन पाकेन वदन्त्य् अन्ये महर्षयः
pṛthak tayoḥ kecid āhuḥ śrāddhasya karaṇaṃ nṛpa / ekatraikena pākena vadanty anye maharṣayaḥ
- ViP 3.15.19Open verse →
विष्टरार्थं कुशान् दत्त्वा संपूज्यार्घ्यं विधानतः । कुर्याद् आवाहनं प्राज्ञो देवानां तदनुज्ञया
viṣṭarārthaṃ kuśān dattvā saṃpūjyārghyaṃ vidhānataḥ / kuryād āvāhanaṃ prājño devānāṃ tadanujñayā
- ViP 3.15.20Open verse →
यवाम्बुना च देवानां दद्याद् अर्घ्यं विधानतः । स्रग्गन्धधूपदीपांश् च दत्त्वा तेभ्यो यथाविधि
yavāmbunā ca devānāṃ dadyād arghyaṃ vidhānataḥ / sraggandhadhūpadīpāṃś ca dattvā tebhyo yathāvidhi
- ViP 3.15.21Open verse →
पितॄणाम् अपसव्यं तत् सर्वम् एवोपकल्पयेत् । अनुज्ञां च ततः प्राप्य दत्त्वा दर्भान् द्विधाकृतान्
pitṝṇām apasavyaṃ tat sarvam evopakalpayet / anujñāṃ ca tataḥ prāpya dattvā darbhān dvidhākṛtān
- ViP 3.15.22Open verse →
मन्त्रपूर्वं पितॄणां तु कुर्याद् आवाहनं बुधः । तिलाम्बुना चापसव्यं दद्याद् अर्घ्यादिकं नृप
mantrapūrvaṃ pitṝṇāṃ tu kuryād āvāhanaṃ budhaḥ / tilāmbunā cāpasavyaṃ dadyād arghyādikaṃ nṛpa
- ViP 3.15.23Open verse →
काले तत्रातिथिं प्राप्तम् अन्नकामं नृपाध्वगम् । ब्राह्मणैर् अभ्यनुज्ञातः कामं तम् अपि भोजयेत्
kāle tatrātithiṃ prāptam annakāmaṃ nṛpādhvagam / brāhmaṇair abhyanujñātaḥ kāmaṃ tam api bhojayet
- ViP 3.15.24Open verse →
योगिनो विविधै रूपैर् नराणाम् उपकारिणः । भ्रमन्ति पृथिवीम् एताम् अविज्ञातस्वरूपिणः
yogino vividhai rūpair narāṇām upakāriṇaḥ / bhramanti pṛthivīm etām avijñātasvarūpiṇaḥ
- ViP 3.15.25Open verse →
तस्माद् अभ्यर्चयेत् प्राप्तं श्राद्धकाले ऽतिथिं बुधः । श्राद्धक्रियाफलं हन्ति नरेन्द्रापूजितो ऽतिथिः
tasmād abhyarcayet prāptaṃ śrāddhakāle 'tithiṃ budhaḥ / śrāddhakriyāphalaṃ hanti narendrāpūjito 'tithiḥ
- ViP 3.15.26Open verse →
जुहुयाद् व्यञ्जनक्षारवर्जम् अन्नं ततो ऽनले । अनुज्ञातो द्विजैस् तैस् तु त्रिकृत्वः पुरुषर्षभ
juhuyād vyañjanakṣāravarjam annaṃ tato 'nale / anujñāto dvijais tais tu trikṛtvaḥ puruṣarṣabha
- ViP 3.15.27Open verse →
अग्नये कव्यवाहाय स्वाहेत्य् आदौ नृपाहुतिः । सोमाय वै पितृमते दातव्या तदनन्तरम्
agnaye kavyavāhāya svāhety ādau nṛpāhutiḥ / somāya vai pitṛmate dātavyā tadanantaram
- ViP 3.15.28Open verse →
वैवस्वताय चैवान्या तृतीया दीयते ततः । हुतावशिष्टम् अल्पाल्पं विप्रपात्रेषु निर्वपेत्
vaivasvatāya caivānyā tṛtīyā dīyate tataḥ / hutāvaśiṣṭam alpālpaṃ viprapātreṣu nirvapet
- ViP 3.15.29Open verse →
ततो ऽन्नं मृष्टम् अत्यर्थम् अभीष्टम् अतिसंस्कृतम् । दत्त्वा जुषध्वम् इच्छातो वाच्यम् एतद् अनिष्ठुरम्
tato 'nnaṃ mṛṣṭam atyartham abhīṣṭam atisaṃskṛtam / dattvā juṣadhvam icchāto vācyam etad aniṣṭhuram
- ViP 3.15.30Open verse →
भोक्तव्यं तैश् च तच्चित्तैर् मौनिभिः सुमुखैः सुखम् । अक्रुध्यता चात्वरता देयं तेनापि भक्तितः
bhoktavyaṃ taiś ca taccittair maunibhiḥ sumukhaiḥ sukham / akrudhyatā cātvaratā deyaṃ tenāpi bhaktitaḥ
- ViP 3.15.31Open verse →
रक्षोघ्नमन्त्रपठनं भूमेर् आस्तरणं तिलैः । कृत्वा ध्येयाः स्वपितरस् त एव द्विजसत्तमाः
rakṣoghnamantrapaṭhanaṃ bhūmer āstaraṇaṃ tilaiḥ / kṛtvā dhyeyāḥ svapitaras ta eva dvijasattamāḥ
- ViP 3.15.32Open verse →
पिता पितामहश् चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्व् अद्य विप्रदेहेषु संस्थिताः
pitā pitāmahaś caiva tathaiva prapitāmahaḥ / mama tṛptiṃ prayāntv adya vipradeheṣu saṃsthitāḥ
- ViP 3.15.33Open verse →
पिता पितामहश् चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्व् अग्निहोमाप्यायितमूर्तयः
pitā pitāmahaś caiva tathaiva prapitāmahaḥ / mama tṛptiṃ prayāntv agnihomāpyāyitamūrtayaḥ
- ViP 3.15.34Open verse →
पिता पितामहश् चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु पिण्डेन मया दत्तेन भूतले
pitā pitāmahaś caiva tathaiva prapitāmahaḥ / tṛptiṃ prayāntu piṇḍena mayā dattena bhūtale
- ViP 3.15.35Open verse →
पिता पितामहश् चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु मे भक्त्या यन् मयैतद् इहाहृतम्
pitā pitāmahaś caiva tathaiva prapitāmahaḥ / tṛptiṃ prayāntu me bhaktyā yan mayaitad ihāhṛtam
- ViP 3.15.36Open verse →
मातामहस् तृप्तिम् उपैतु तस्य तथा पिता तस्य पिता तथान्यः । विश्वे च देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः
mātāmahas tṛptim upaitu tasya tathā pitā tasya pitā tathānyaḥ / viśve ca devāḥ paramāṃ prayāntu tṛptiṃ praṇaśyantu ca yātudhānāḥ
- ViP 3.15.37Open verse →
यज्ञेश्वरो हव्यसमस्तकव्य भोक्ताव्ययात्मा हरिर् ईश्वरो ऽत्र । तत्संनिधानाद् अपयान्तु सद्यो रक्षांस्य् अशेषाण्य् असुराश् च सर्वे
yajñeśvaro havyasamastakavya bhoktāvyayātmā harir īśvaro 'tra / tatsaṃnidhānād apayāntu sadyo rakṣāṃsy aśeṣāṇy asurāś ca sarve
- ViP 3.15.38Open verse →
तृप्तेषु तेषु विकिरेद् अन्नं विप्रेषु भूतले । दद्याच् चाचमनार्थाय तेभ्यो वारि सकृत् सकृत्
tṛpteṣu teṣu vikired annaṃ vipreṣu bhūtale / dadyāc cācamanārthāya tebhyo vāri sakṛt sakṛt
- ViP 3.15.39Open verse →
सुतृप्तैस् तैर् अनुज्ञातः सर्वेणान्नेन भूतले । सतिलेन ततः पिण्डान् सम्यग् दद्यात् समाहितः
sutṛptais tair anujñātaḥ sarveṇānnena bhūtale / satilena tataḥ piṇḍān samyag dadyāt samāhitaḥ
- ViP 3.15.40Open verse →
पितृतीर्थेन सलिलं दद्याद् अथ जलाञ्जलिम् । मातामहेभ्यस् तेनैव पिण्डांस् तीर्थेन निर्वपेत्
pitṛtīrthena salilaṃ dadyād atha jalāñjalim / mātāmahebhyas tenaiva piṇḍāṃs tīrthena nirvapet
- ViP 3.15.41Open verse →
श्२,ञ्२,व्१,ब्२,द्५।७।८ इन्स्।: दक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजितम् । स्वपित्रे प्रथमं पिण्डं दद्याद् उच्छिष्टसंनिधौ
Ś2,Ñ2,V1,B2,D5.7.8 ins.: dakṣiṇāgreṣu darbheṣu puṣpadhūpādipūjitam / svapitre prathamaṃ piṇḍaṃ dadyād ucchiṣṭasaṃnidhau
- ViP 3.15.42Open verse →
पितामहाय चैवान्यं तत्पित्रे च तथा परम् । दर्भमूले लेपभुजः प्रीणयेल् लेपघर्षणैः
pitāmahāya caivānyaṃ tatpitre ca tathā param / darbhamūle lepabhujaḥ prīṇayel lepagharṣaṇaiḥ
- ViP 3.15.43Open verse →
पिण्डैर् मातामहांस् तद्वद् गन्धमाल्यादिसंयुतैः । पूजयित्वा द्विजाग्र्याणां दद्याद् आचमनं ततः
piṇḍair mātāmahāṃs tadvad gandhamālyādisaṃyutaiḥ / pūjayitvā dvijāgryāṇāṃ dadyād ācamanaṃ tataḥ
- ViP 3.15.44Open verse →
पितृभ्यः प्रथमं भक्त्या तन्मनस्को नरेश्वर । सुस्वधेत्य् आशिषा युक्तां दद्याच् छक्त्या च दक्षिणाम्
pitṛbhyaḥ prathamaṃ bhaktyā tanmanasko nareśvara / susvadhety āśiṣā yuktāṃ dadyāc chaktyā ca dakṣiṇām
- ViP 3.15.45Open verse →
दत्त्वा च दक्षिणां तेभ्यो वाचयेद् वैश्वदेविकान् । प्रीयन्ताम् इति ये विश्वेदेवास् तेन इतीरयेत्
dattvā ca dakṣiṇāṃ tebhyo vācayed vaiśvadevikān / prīyantām iti ye viśvedevās tena itīrayet
- ViP 3.15.46Open verse →
तथेति चोक्ते तैर् विप्रैः प्रार्थनीयास् तथाशिषः । पश्चाद् विसर्जयेद् देवान् पूर्वं पैत्रान् महामते
tatheti cokte tair vipraiḥ prārthanīyās tathāśiṣaḥ / paścād visarjayed devān pūrvaṃ paitrān mahāmate
- ViP 3.15.47Open verse →
मातामहानाम् अप्य् एवं सह देवैः क्रमः स्मृतः । भोजने च स्वशक्त्या च दाने तद्वद् विसर्जने
mātāmahānām apy evaṃ saha devaiḥ kramaḥ smṛtaḥ / bhojane ca svaśaktyā ca dāne tadvad visarjane
- ViP 3.15.48Open verse →
आपादशौचनात् पूर्वं कुर्याद् देवद्विजन्मसु । विसर्जनं तु प्रथमं पैत्रं मातामहेषु वै
āpādaśaucanāt pūrvaṃ kuryād devadvijanmasu / visarjanaṃ tu prathamaṃ paitraṃ mātāmaheṣu vai
- ViP 3.15.49Open verse →
विसर्जयेत् प्रीतिवचः सन्मानाभ्यर्चितांस् ततः । निवर्तेताभ्यनुज्ञात आद्वारात् तान् अनुव्रजेत्
visarjayet prītivacaḥ sanmānābhyarcitāṃs tataḥ / nivartetābhyanujñāta ādvārāt tān anuvrajet
- ViP 3.15.50Open verse →
ततस् तु वैश्वदेवाख्यां कुर्यान् नित्यक्रियां बुधः । भुञ्जीयाच् च समं पूज्यभृत्यबन्धुभिर् आत्मनः
tatas tu vaiśvadevākhyāṃ kuryān nityakriyāṃ budhaḥ / bhuñjīyāc ca samaṃ pūjyabhṛtyabandhubhir ātmanaḥ
- ViP 3.15.51Open verse →
एवं श्राद्धं बुधः कुर्यात् पैत्रं मातामहं तथा । श्राद्धैर् आप्यायिता दद्युः सर्वकामान् पितामहाः
evaṃ śrāddhaṃ budhaḥ kuryāt paitraṃ mātāmahaṃ tathā / śrāddhair āpyāyitā dadyuḥ sarvakāmān pitāmahāḥ
- ViP 3.15.52Open verse →
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस् तिलाः । रजतस्य तथा दानं कथासंदर्शनादिकम्
trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ / rajatasya tathā dānaṃ kathāsaṃdarśanādikam
- ViP 3.15.53Open verse →
वर्ज्यानि कुर्वता श्राद्धं कोपो ऽध्वगमनं त्वरा । भोक्तुर् अप्य् अत्र राजेन्द्र त्रयम् एतन् न शस्यते
varjyāni kurvatā śrāddhaṃ kopo 'dhvagamanaṃ tvarā / bhoktur apy atra rājendra trayam etan na śasyate
- ViP 3.15.54Open verse →
विश्वेदेवाः सपितरस् तथा मातामहा नृप । कुलं चाप्याय्यते पुंसां सर्वं श्राद्धं प्रकुर्वताम्
viśvedevāḥ sapitaras tathā mātāmahā nṛpa / kulaṃ cāpyāyyate puṃsāṃ sarvaṃ śrāddhaṃ prakurvatām
- ViP 3.15.55Open verse →
सोमाधारः पितृगणो योगाधारश् च चन्द्रमाः । श्राद्धे योगिनियोगस् तु तस्माद् भूपाल शस्यते
somādhāraḥ pitṛgaṇo yogādhāraś ca candramāḥ / śrāddhe yoginiyogas tu tasmād bhūpāla śasyate
- ViP 3.15.56Open verse →
सहस्रस्यापि विप्राणां योगी चेत् पुरतः स्थितः । सर्वान् भोक्तॄंस् तारयति यजमानं तथा नृप
sahasrasyāpi viprāṇāṃ yogī cet purataḥ sthitaḥ / sarvān bhoktṝṃs tārayati yajamānaṃ tathā nṛpa
- ViP 3.16.1Open verse →
______________________________________________________ §और्व उवाच: हविष्यमत्स्यमांसैस् तु शशस्य शकुनस्य च । सौकरच्छागलैणेयरौरवैर् गवयेन च
______________________________________________________ §aurva uvāca: haviṣyamatsyamāṃsais tu śaśasya śakunasya ca / saukaracchāgalaiṇeyarauravair gavayena ca
- ViP 3.16.2Open verse →
औरभ्रगव्यैश् च तथा मासवृद्ध्या पितामहाः । प्रयान्ति तृप्तिं मांसैस् तु नित्यं वार्ध्रीणसाम् इषैः
aurabhragavyaiś ca tathā māsavṛddhyā pitāmahāḥ / prayānti tṛptiṃ māṃsais tu nityaṃ vārdhrīṇasām iṣaiḥ
- ViP 3.16.3Open verse →
खड्गमांसम् अतीवात्र कालशाकं तथा मधु । शस्तानि कर्मण्य् अत्यन्ततृप्तिदानि नरेश्वर
khaḍgamāṃsam atīvātra kālaśākaṃ tathā madhu / śastāni karmaṇy atyantatṛptidāni nareśvara
- ViP 3.16.4Open verse →
गयाम् उपेत्य यः श्राद्धं करोति पृथिवीपते । सफलं तस्य तज् जन्म जायते पितृतुष्टिदम्
gayām upetya yaḥ śrāddhaṃ karoti pṛthivīpate / saphalaṃ tasya taj janma jāyate pitṛtuṣṭidam
- ViP 3.16.5Open verse →
प्रसातिकाः सनीवाराः श्यामाका द्विविधास् तथा । वन्यौषधीप्रधानास् तु श्राद्धार्हाः पुरुषर्षभ
prasātikāḥ sanīvārāḥ śyāmākā dvividhās tathā / vanyauṣadhīpradhānās tu śrāddhārhāḥ puruṣarṣabha
- ViP 3.16.6Open verse →
यवाः प्रियंगवो मुद्गा गोधूमा व्रीहयस् तिलाः । निष्पावाः कोविदाराश् च सर्षपाश् चात्र शोभनाः
yavāḥ priyaṃgavo mudgā godhūmā vrīhayas tilāḥ / niṣpāvāḥ kovidārāś ca sarṣapāś cātra śobhanāḥ
- ViP 3.16.7Open verse →
अकृताग्रयणं यच् च धान्यजातं नरेश्वर । राजमाषान् अणूंश् चैव मसूरांश् च विवर्जयेत्
akṛtāgrayaṇaṃ yac ca dhānyajātaṃ nareśvara / rājamāṣān aṇūṃś caiva masūrāṃś ca vivarjayet
- ViP 3.16.8Open verse →
अलाबुं गृञ्जनं चैव पलाण्डुं पिण्डमूलकम् । गन्धारकं करम्भाणि लवणान्य् औषराणि च
alābuṃ gṛñjanaṃ caiva palāṇḍuṃ piṇḍamūlakam / gandhārakaṃ karambhāṇi lavaṇāny auṣarāṇi ca
- ViP 3.16.9Open verse →
आरक्ताश् चैव निर्यासाः प्रत्यक्षलवणानि च । वर्ज्यान्य् एतानि वै श्राद्धे यच् च वाचा न शस्यते
āraktāś caiva niryāsāḥ pratyakṣalavaṇāni ca / varjyāny etāni vai śrāddhe yac ca vācā na śasyate
- ViP 3.16.10Open verse →
नक्ताहृतम् अनुत्सृष्टं तृप्यते न च यत्र गौः । दुर्गन्धि फेनिलं चाम्बु श्राद्धयोग्यं न पार्थिव
naktāhṛtam anutsṛṣṭaṃ tṛpyate na ca yatra gauḥ / durgandhi phenilaṃ cāmbu śrāddhayogyaṃ na pārthiva
- ViP 3.16.11Open verse →
क्षीरम् एकशफानां यद् औष्ट्रम् आविकम् एव च । मार्गं च माहिषं चैव वर्जयेच् छ्राद्धकर्मणि
kṣīram ekaśaphānāṃ yad auṣṭram āvikam eva ca / mārgaṃ ca māhiṣaṃ caiva varjayec chrāddhakarmaṇi
- ViP 3.16.12Open verse →
षण्डापविद्धचण्डालपाषण्ड्युन्मत्तरोगिभिः । कृकवाकुश्वनग्नैश् च वानरग्रामसूकरैः
ṣaṇḍāpaviddhacaṇḍālapāṣaṇḍyunmattarogibhiḥ / kṛkavākuśvanagnaiś ca vānaragrāmasūkaraiḥ
- ViP 3.16.13Open verse →
उदक्यासूतिकाशौचिमृतहारैश् च वीक्षिते । श्राद्धे सुरा न पितरो भुञ्जते पुरुषर्षभ
udakyāsūtikāśaucimṛtahāraiś ca vīkṣite / śrāddhe surā na pitaro bhuñjate puruṣarṣabha
- ViP 3.16.14Open verse →
तस्मात् परिश्रिते कुर्याच् श्राद्धं श्रद्धासमन्वितः । उर्व्यां च तिलविक्षेपाद् यातुधानान् निवारयेत्
tasmāt pariśrite kuryāc śrāddhaṃ śraddhāsamanvitaḥ / urvyāṃ ca tilavikṣepād yātudhānān nivārayet
- ViP 3.16.15Open verse →
न पूति नैवोपपन्नं केशकीटादिभिर् नृप । न चैवाभिषवैर् मिश्रम् अन्नं पर्युषितं तथा
na pūti naivopapannaṃ keśakīṭādibhir nṛpa / na caivābhiṣavair miśram annaṃ paryuṣitaṃ tathā
- ViP 3.16.16Open verse →
श्रद्धासमन्वितैर् दत्तं पितृभ्यो नामगोत्रतः । यदाहारास् तु ते जातास् तदाहारत्वम् एति तत्
śraddhāsamanvitair dattaṃ pitṛbhyo nāmagotrataḥ / yadāhārās tu te jātās tadāhāratvam eti tat
- ViP 3.16.17Open verse →
श्रूयन्ते चापि पितृभिर् गीता गाथा महीपते । इक्ष्वाकोर् मनुपुत्रस्य कलापोपवने पुरा
śrūyante cāpi pitṛbhir gītā gāthā mahīpate / ikṣvākor manuputrasya kalāpopavane purā
- ViP 3.16.18Open verse →
अपि नस् ते भविष्यन्ति कुले सन्मार्गशीलिनः । गयाम् उपेत्य ये पिण्डान् दास्यन्त्य् अस्माकम् आदरात्
api nas te bhaviṣyanti kule sanmārgaśīlinaḥ / gayām upetya ye piṇḍān dāsyanty asmākam ādarāt
- ViP 3.16.19Open verse →
अपि नः स कुले जायाद् यो नो दद्यात् त्रयोदशीम् । पायसं मधुसर्पिभ्यां वर्षासु च मघासु च
api naḥ sa kule jāyād yo no dadyāt trayodaśīm / pāyasaṃ madhusarpibhyāṃ varṣāsu ca maghāsu ca
- ViP 3.16.20Open verse →
गौरीं वाप्य् उद्वहेत् कन्यां नीलं वा वृषम् उत्सृजेत् । यजेत वाश्वमेधेन विधिवद् दक्षिणावता
gaurīṃ vāpy udvahet kanyāṃ nīlaṃ vā vṛṣam utsṛjet / yajeta vāśvamedhena vidhivad dakṣiṇāvatā
- ViP 3.17.1Open verse →
______________________________________________________ §पराशर उवाच: इत्य् आह भगवान् और्वः सगराय महात्मने । सदाचारान् पुरा सम्यङ् मैत्रेय परिपृच्छते
______________________________________________________ §parāśara uvāca: ity āha bhagavān aurvaḥ sagarāya mahātmane / sadācārān purā samyaṅ maitreya paripṛcchate
- ViP 3.17.2Open verse →
श्२,द्७ इन्स्।: मयाप्य् एतद् अशेषेण कथितं भवतो द्विज । समुल्लङ्घ्य सदाचारं कश्चिन् नाप्नोति शोभनम्
Ś2,D7 ins.: mayāpy etad aśeṣeṇa kathitaṃ bhavato dvija / samullaṅghya sadācāraṃ kaścin nāpnoti śobhanam
- ViP 3.17.3Open verse →
§मैत्रेय उवाच: षण्डापविद्धप्रमुखा विदिता भगवन् मया । उदक्याद्याश् च ये सर्वे नग्नम् इच्छामि वेदितुम्
§maitreya uvāca: ṣaṇḍāpaviddhapramukhā viditā bhagavan mayā / udakyādyāś ca ye sarve nagnam icchāmi veditum
- ViP 3.17.4Open verse →
को नग्नः किंसमाचारो नग्नसंज्ञां नरो लभेत् । नग्नस्वरूपम् इच्छामि यथावत् गदितं त्वया
ko nagnaḥ kiṃsamācāro nagnasaṃjñāṃ naro labhet / nagnasvarūpam icchāmi yathāvat gaditaṃ tvayā
- ViP 3.17.5Open verse →
द्४,त्२।३,ग्२,एद्। वेङ्क्। इन्स्।: §पराशर उवाच: ऋग्यजुःसामसंज्ञेयं त्रयी वर्णावृतिर् द्विज । एताम् उज्झति यो मोहात् स नग्नः पातकी स्मृतः
D4,T2.3,G2,ed. Veṅk. ins.: §parāśara uvāca: ṛgyajuḥsāmasaṃjñeyaṃ trayī varṇāvṛtir dvija / etām ujjhati yo mohāt sa nagnaḥ pātakī smṛtaḥ
- ViP 3.17.6Open verse →
त्रयी समस्तवर्णानां द्विज संवरणं यतः । नग्नो भवत्य् उज्झितायाम् अतस् तस्याम् असंशयम्
trayī samastavarṇānāṃ dvija saṃvaraṇaṃ yataḥ / nagno bhavaty ujjhitāyām atas tasyām asaṃśayam
- ViP 3.17.7Open verse →
इदं च श्रूयताम् अन्यद् भीष्माय सुमहात्मने । कथयाम् आस धर्मज्ञो वसिष्ठो ऽस्मत्पितामहः
idaṃ ca śrūyatām anyad bhīṣmāya sumahātmane / kathayām āsa dharmajño vasiṣṭho 'smatpitāmahaḥ
- ViP 3.17.8Open verse →
मयापि तस्य गदतः श्रुतम् एतन् महात्मनः । नग्नसंबन्धि मैत्रेय यत् पृष्टो ऽहम् इह त्वया
mayāpi tasya gadataḥ śrutam etan mahātmanaḥ / nagnasaṃbandhi maitreya yat pṛṣṭo 'ham iha tvayā
- ViP 3.17.9Open verse →
देवासुरम् अभूद् युद्धं दिव्यम् अब्दं पुरा द्विज । तस्मिन् पराजिता देवा दैत्यैर् ह्रादपुरोगमैः
devāsuram abhūd yuddhaṃ divyam abdaṃ purā dvija / tasmin parājitā devā daityair hrādapurogamaiḥ
- ViP 3.17.10Open verse →
क्षीरोदस्योत्तरं कूलं गत्वातप्यन्त वै तपः । विष्णोर् आराधनार्थाय जगुश् चेमं स्तवं तदा
kṣīrodasyottaraṃ kūlaṃ gatvātapyanta vai tapaḥ / viṣṇor ārādhanārthāya jaguś cemaṃ stavaṃ tadā
- ViP 3.17.11Open verse →
§देवा ऊचुः: आराधनाय लोकानां विष्णोर् ईशस्य यां गिरम् । वक्ष्यामो भगवान् आद्यस् तया विष्णुः प्रसीदतु
§devā ūcuḥ: ārādhanāya lokānāṃ viṣṇor īśasya yāṃ giram / vakṣyāmo bhagavān ādyas tayā viṣṇuḥ prasīdatu
- ViP 3.17.12Open verse →
यतो भूतान्य् अशेषाणि प्रसूतानि महात्मनः । यस्मिंश् च लयम् एष्यन्ति कस् तं संस्तोतुम् ईश्वरः
yato bhūtāny aśeṣāṇi prasūtāni mahātmanaḥ / yasmiṃś ca layam eṣyanti kas taṃ saṃstotum īśvaraḥ
- ViP 3.17.13Open verse →
तथाप्य् अरातिविध्वंसध्वस्तवीर्या भवार्थिनः । त्वां स्तोष्यामस् तवोक्तीनां याथार्थ्यं नैव गोचरे
tathāpy arātividhvaṃsadhvastavīryā bhavārthinaḥ / tvāṃ stoṣyāmas tavoktīnāṃ yāthārthyaṃ naiva gocare
- ViP 3.17.14Open verse →
त्वम् उर्वी सलिलं वह्निर् वायुर् आकाशम् एव च । समस्तम् अन्तःकरणं प्रधानं तत्परः पुमान्
tvam urvī salilaṃ vahnir vāyur ākāśam eva ca / samastam antaḥkaraṇaṃ pradhānaṃ tatparaḥ pumān
- ViP 3.17.15Open verse →
एकं तवैतद् भूतात्मन् मूर्तामूर्तमयं वपुः । आब्रह्मस्तम्बपर्यन्तं स्थानकालविभेदवत्
ekaṃ tavaitad bhūtātman mūrtāmūrtamayaṃ vapuḥ / ābrahmastambaparyantaṃ sthānakālavibhedavat
- ViP 3.17.16Open verse →
तत्रेश तव यत् पूर्वं त्वन्नाभिकमलोद्भवम् । रूपं सर्गोपकाराय तस्मै ब्रह्मात्मने नमः
tatreśa tava yat pūrvaṃ tvannābhikamalodbhavam / rūpaṃ sargopakārāya tasmai brahmātmane namaḥ
- ViP 3.17.17Open verse →
शक्रार्करुद्रवस्वश्विमरुत्सोमादिभेदवत् । वयम् एवं स्वरूपं ते तस्मै देवात्मने नमः
śakrārkarudravasvaśvimarutsomādibhedavat / vayam evaṃ svarūpaṃ te tasmai devātmane namaḥ
- ViP 3.17.18Open verse →
दम्भप्रायम् असंबोधि तितिक्षादमवर्जितम् । यद् रूपं तव गोविन्द तस्मै दैत्यात्मने नमः
dambhaprāyam asaṃbodhi titikṣādamavarjitam / yad rūpaṃ tava govinda tasmai daityātmane namaḥ
- ViP 3.17.19Open verse →
नातिज्ञानवहा यस्मिन् नाड्यः स्तिमिततेजसि । शब्दादिलोभि यत् तस्मै तुभ्यं यक्षात्मने नमः
nātijñānavahā yasmin nāḍyaḥ stimitatejasi / śabdādilobhi yat tasmai tubhyaṃ yakṣātmane namaḥ
- ViP 3.17.20Open verse →
क्रौर्यमायामयं घोरं यच् च रूपं तवासितम् । निशाचरात्मने तस्मै नमस् ते पुरुषोत्तम
krauryamāyāmayaṃ ghoraṃ yac ca rūpaṃ tavāsitam / niśācarātmane tasmai namas te puruṣottama
- ViP 3.17.21Open verse →
स्वर्गस्थधर्मिसद्धर्मफलोपकरणं तव । धर्माख्यं च तथा रूपं नमस् तस्मै जनार्दन
svargasthadharmisaddharmaphalopakaraṇaṃ tava / dharmākhyaṃ ca tathā rūpaṃ namas tasmai janārdana
- ViP 3.17.22Open verse →
हर्षप्रायम् असंसर्गि गतिमद् गमनादिषु । सिद्धात्मंस् तव यद् रूपं तस्मै सिद्धात्मने नमः
harṣaprāyam asaṃsargi gatimad gamanādiṣu / siddhātmaṃs tava yad rūpaṃ tasmai siddhātmane namaḥ
- ViP 3.17.23Open verse →
अतितिक्षाधनं क्रूरम् उपभोगसहं हरे । द्विजिह्वं तव यद् रूपं तस्मै सर्पात्मने नमः
atitikṣādhanaṃ krūram upabhogasahaṃ hare / dvijihvaṃ tava yad rūpaṃ tasmai sarpātmane namaḥ
- ViP 3.17.24Open verse →
अवबोधि च यच् छान्तम् अदोषम् अपकल्मषम् । ऋषिरूपात्मने तस्मै विष्णो रूपाय ते नमः
avabodhi ca yac chāntam adoṣam apakalmaṣam / ṛṣirūpātmane tasmai viṣṇo rūpāya te namaḥ
- ViP 3.17.25Open verse →
भक्षयत्य् अथ कल्पान्ते भूतानि यद् अवारितम् । त्वद्रूपं पुण्डरीकाक्ष तस्मै कालात्मने नमः
bhakṣayaty atha kalpānte bhūtāni yad avāritam / tvadrūpaṃ puṇḍarīkākṣa tasmai kālātmane namaḥ
- ViP 3.17.26Open verse →
संभक्ष्य सर्वभूतानि देवादीन्य् अविशेषतः । नृत्यत्य् अन्ते च यद् रूपं तस्मै रुद्रात्मने नमः
saṃbhakṣya sarvabhūtāni devādīny aviśeṣataḥ / nṛtyaty ante ca yad rūpaṃ tasmai rudrātmane namaḥ
- ViP 3.17.27Open verse →
प्रवृत्त्या रजसो यच् च कर्मणां कारणात्मकम् । जनार्दन नमस् तस्मै त्वद्रूपाय नरात्मने
pravṛttyā rajaso yac ca karmaṇāṃ kāraṇātmakam / janārdana namas tasmai tvadrūpāya narātmane
- ViP 3.17.28Open verse →
अष्टाविंशद्वधोपेतं यद् रूपं तामसं तव । उन्मार्गगामि सर्वात्मंस् तस्मै पश्वात्मने नमः
aṣṭāviṃśadvadhopetaṃ yad rūpaṃ tāmasaṃ tava / unmārgagāmi sarvātmaṃs tasmai paśvātmane namaḥ
- ViP 3.17.29Open verse →
यज्ञाङ्गभूतं यद् रूपं जगतः सिद्धिसाधनम् । वृक्षादिभेदैर् यद् भेदि तस्मै मुख्यात्मने नमः
yajñāṅgabhūtaṃ yad rūpaṃ jagataḥ siddhisādhanam / vṛkṣādibhedair yad bhedi tasmai mukhyātmane namaḥ
- ViP 3.17.30Open verse →
तिर्यङ्मनुष्यदेवादिव्योमशब्दादिकं च यत् । रूपं तवादेः सर्वस्य तस्मै सर्वात्मने नमः
tiryaṅmanuṣyadevādivyomaśabdādikaṃ ca yat / rūpaṃ tavādeḥ sarvasya tasmai sarvātmane namaḥ
- ViP 3.17.31Open verse →
प्रधानबुद्ध्यादिमयाद् अशेषाद् यद् अन्यद् अस्मात् परमं परात्मन् । रूपं तवाद्यं न यद् अन्यतुल्यं तस्मै नमः कारणकारणाय
pradhānabuddhyādimayād aśeṣād yad anyad asmāt paramaṃ parātman / rūpaṃ tavādyaṃ na yad anyatulyaṃ tasmai namaḥ kāraṇakāraṇāya
- ViP 3.17.32Open verse →
शुक्लादिदीर्घादिघनादिहीनम् अगोचरे यच् च विशेषणानाम् । शुद्धातिशुद्धं परमर्षिदृश्यं रूपाय तस्मै भगवन् नताः स्मः
śuklādidīrghādighanādihīnam agocare yac ca viśeṣaṇānām / śuddhātiśuddhaṃ paramarṣidṛśyaṃ rūpāya tasmai bhagavan natāḥ smaḥ
- ViP 3.17.33Open verse →
यन् नः शरीरेषु यद् अन्यदेहेष्व् अशेषवस्तुष्व् अजम् अव्ययं यत् । यस्माच् च नान्यद् व्यतिरिक्तम् अस्ति ब्रह्मस्वरूपाय नताः स्म तस्मै
yan naḥ śarīreṣu yad anyadeheṣv aśeṣavastuṣv ajam avyayaṃ yat / yasmāc ca nānyad vyatiriktam asti brahmasvarūpāya natāḥ sma tasmai
- ViP 3.17.34Open verse →
सकलम् इदम् अजस्य यस्य रूपं परमपदात्मवतः सनातनस्य । तम् अनिधनम् अशेषबीजभूतं प्रभुम् अमलं प्रणताः स्म वासुदेवम्
sakalam idam ajasya yasya rūpaṃ paramapadātmavataḥ sanātanasya / tam anidhanam aśeṣabījabhūtaṃ prabhum amalaṃ praṇatāḥ sma vāsudevam
- ViP 3.17.35Open verse →
§पराशर उवाच: स्तोत्रस्यास्यावसाने तु ददृशुः परमेश्वरम् । शङ्खचक्रगदापाणिं गरुडस्थं सुरा हरिम्
§parāśara uvāca: stotrasyāsyāvasāne tu dadṛśuḥ parameśvaram / śaṅkhacakragadāpāṇiṃ garuḍasthaṃ surā harim
- ViP 3.17.36Open verse →
तम् ऊचुः सकला देवाः प्रणिपातपुरःसरम् । प्रसीद देव दैत्येभ्यस् त्राहीति शरणार्थिनः
tam ūcuḥ sakalā devāḥ praṇipātapuraḥsaram / prasīda deva daityebhyas trāhīti śaraṇārthinaḥ
- ViP 3.17.37Open verse →
त्रैलोक्यं यज्ञभागाश् च दैत्यैर् ह्रादपुरोगमैः । हृतं नो ब्रह्मणो ऽप्य् आज्ञाम् उल्लङ्घ्य परमेश्वर
trailokyaṃ yajñabhāgāś ca daityair hrādapurogamaiḥ / hṛtaṃ no brahmaṇo 'py ājñām ullaṅghya parameśvara
- ViP 3.17.38Open verse →
यद्य् अप्य् अशेषभूतस्य वयं ते च तवांशकाः । तथाप्य् अविद्याभेदेन भिन्नं पश्यामहे जगत्
yady apy aśeṣabhūtasya vayaṃ te ca tavāṃśakāḥ / tathāpy avidyābhedena bhinnaṃ paśyāmahe jagat
- ViP 3.17.39Open verse →
स्ववर्णधर्माभिरता वेदमार्गानुसारिणः । न शक्यास् ते ऽरयो हन्तुम् अस्माभिस् तपसान्विताः
svavarṇadharmābhiratā vedamārgānusāriṇaḥ / na śakyās te 'rayo hantum asmābhis tapasānvitāḥ
- ViP 3.17.40Open verse →
तम् उपायम् अशेषात्मन्न् अस्माकं दातुम् अर्हसि । येन तान् असुरान् हन्तुं भवेम भगवन् क्षमाः
tam upāyam aśeṣātmann asmākaṃ dātum arhasi / yena tān asurān hantuṃ bhavema bhagavan kṣamāḥ
- ViP 3.17.41Open verse →
§पराशर उवाच: इत्य् उक्तो भगवांस् तेभ्यो मायामोहं शरीरतः । समुत्पाद्य ददौ विष्णुः प्राह चेदं सुरोत्तमान्
§parāśara uvāca: ity ukto bhagavāṃs tebhyo māyāmohaṃ śarīrataḥ / samutpādya dadau viṣṇuḥ prāha cedaṃ surottamān
- ViP 3.17.42Open verse →
मायामोहो ऽयम् अखिलान् दैत्यांस् तान् मोहयिष्यति । ततो वध्या भविष्यन्ति वेदमार्गबहिष्कृताः
māyāmoho 'yam akhilān daityāṃs tān mohayiṣyati / tato vadhyā bhaviṣyanti vedamārgabahiṣkṛtāḥ
- ViP 3.17.43Open verse →
स्थितौ स्थितस्य मे वध्या यावन्तः परिपन्थिनः । ब्रह्मणो ह्य् अधिकारस्य देवा दैत्यादिकाः सुराः
sthitau sthitasya me vadhyā yāvantaḥ paripanthinaḥ / brahmaṇo hy adhikārasya devā daityādikāḥ surāḥ
- ViP 3.17.44Open verse →
तद् गच्छत न भीः कार्या मायामोहो ऽयम् अग्रतः । गच्छत्व् अद्योपकाराय भवतां भविता सुराः
tad gacchata na bhīḥ kāryā māyāmoho 'yam agrataḥ / gacchatv adyopakārāya bhavatāṃ bhavitā surāḥ
- ViP 3.17.45Open verse →
§पराशर उवाच: इत्य् उक्ताः प्रणिपत्यैनं ययुर् देवा यथागतम् । मायामोहो ऽपि तैः सार्धं ययौ यत्र महासुराः
§parāśara uvāca: ity uktāḥ praṇipatyainaṃ yayur devā yathāgatam / māyāmoho 'pi taiḥ sārdhaṃ yayau yatra mahāsurāḥ
- ViP 3.18.1Open verse →
______________________________________________________ §पराशर उवाच: तपस्य् अभिरतान् सो ऽथ मायामोहो महासुरान् । मैत्रेय ददृशे गत्वा नर्मदातीरसंश्रयान्
______________________________________________________ §parāśara uvāca: tapasy abhiratān so 'tha māyāmoho mahāsurān / maitreya dadṛśe gatvā narmadātīrasaṃśrayān
- ViP 3.18.2Open verse →
ततो दिगम्बरो मुण्डो बर्हिपत्रधरो द्विज । मायामोहो ऽसुरान् श्लक्ष्णम् इदं वचनम् अब्रवीत्
tato digambaro muṇḍo barhipatradharo dvija / māyāmoho 'surān ślakṣṇam idaṃ vacanam abravīt
- ViP 3.18.3Open verse →
§मायामोह उवाच: भो दैत्यपतयो ब्रूत यदर्थं तप्यते तपः । ऐहिकं वाथ पारत्र्यं तपसः फलम् इच्छथ
§māyāmoha uvāca: bho daityapatayo brūta yadarthaṃ tapyate tapaḥ / aihikaṃ vātha pāratryaṃ tapasaḥ phalam icchatha
- ViP 3.18.4Open verse →
§असुरा ऊचुः: पारत्र्यफललाभाय तपश्चर्या महामते । अस्माभिर् इयम् आरब्धा किं वा ते ऽत्र विवक्षितम्
§asurā ūcuḥ: pāratryaphalalābhāya tapaścaryā mahāmate / asmābhir iyam ārabdhā kiṃ vā te 'tra vivakṣitam
- ViP 3.18.5Open verse →
§मायामोह उवाच: कुरुध्वं मम वाक्यानि यदि मुक्तिम् अभीप्सथ । अर्हध्वं धर्मम् एतं च मुक्तिद्वारम् असंवृतम्
§māyāmoha uvāca: kurudhvaṃ mama vākyāni yadi muktim abhīpsatha / arhadhvaṃ dharmam etaṃ ca muktidvāram asaṃvṛtam
- ViP 3.18.6Open verse →
धर्मो विमुक्तेर् अर्हो ऽयं नैतस्माद् अपरः परः । अत्रैवावस्थिताः स्वर्गं विमुक्तिं वा गमिष्यथ
dharmo vimukter arho 'yaṃ naitasmād aparaḥ paraḥ / atraivāvasthitāḥ svargaṃ vimuktiṃ vā gamiṣyatha
- ViP 3.18.7Open verse →
अर्हध्वं धर्मम् एतं च सर्वे यूयं महाबलाः
arhadhvaṃ dharmam etaṃ ca sarve yūyaṃ mahābalāḥ
- ViP 3.18.8Open verse →
§पराशर उवाच: एवंप्रकारैर् बहुभिर् युक्तिदर्शनवर्धितैः । मायामोहेन दैत्यास् ते वेदमार्गाद् अपाकृताः
§parāśara uvāca: evaṃprakārair bahubhir yuktidarśanavardhitaiḥ / māyāmohena daityās te vedamārgād apākṛtāḥ
- ViP 3.18.9Open verse →
धर्मायैतद् अधर्माय सद् एतन् न सद् इत्य् अपि । विमुक्तये त्व् इदं नैतद् विमुक्तिं संप्रयच्छति
dharmāyaitad adharmāya sad etan na sad ity api / vimuktaye tv idaṃ naitad vimuktiṃ saṃprayacchati
- ViP 3.18.10Open verse →
परमार्थो ऽयम् अत्यर्थं परमार्थो न चाप्य् अयम्
paramārtho 'yam atyarthaṃ paramārtho na cāpy ayam
- ViP 3.18.11Open verse →
कार्यम् एतद् अकार्यं च नैतद् एवं स्फुटं त्व् इदम् । दिग्वाससाम् अयं धर्मो धर्मो ऽयं बहुवाससाम्
kāryam etad akāryaṃ ca naitad evaṃ sphuṭaṃ tv idam / digvāsasām ayaṃ dharmo dharmo 'yaṃ bahuvāsasām
- ViP 3.18.12Open verse →
इत्य् अनेकान्तवादं च मायामोहेन नैकधा । तेन दर्शयता दैत्याः स्वधर्मांस् त्याजिता द्विज
ity anekāntavādaṃ ca māyāmohena naikadhā / tena darśayatā daityāḥ svadharmāṃs tyājitā dvija
- ViP 3.18.13Open verse →
अर्हथेमं महाधर्मं मायामोहेन ते यतः । प्रोक्तास् तम् आश्रिता धर्मम् अर्हतास् तेन ते ऽभवन्
arhathemaṃ mahādharmaṃ māyāmohena te yataḥ / proktās tam āśritā dharmam arhatās tena te 'bhavan
- ViP 3.18.14Open verse →
त्रयीधर्मसमुत्सर्गं मायामोहेन ते ऽसुराः । कारितास् तन्मया ह्य् आसंस् तथान्ये तत्प्रबोधिताः
trayīdharmasamutsargaṃ māyāmohena te 'surāḥ / kāritās tanmayā hy āsaṃs tathānye tatprabodhitāḥ
- ViP 3.18.15Open verse →
तैर् अप्य् अन्ये परे तैश् च तैर् अप्य् अन्ये परे च तैः । अल्पैर् अहोभिः संत्यक्ता तैर् दैत्यैः प्रायशस् त्रयी
tair apy anye pare taiś ca tair apy anye pare ca taiḥ / alpair ahobhiḥ saṃtyaktā tair daityaiḥ prāyaśas trayī
- ViP 3.18.16Open verse →
पुनश् च रक्ताम्बरधृङ् मायामोहो ऽजितेक्षणः । अन्यान् आहासुरान् गत्वा मृद्वल्पमधुराक्षरम्
punaś ca raktāmbaradhṛṅ māyāmoho 'jitekṣaṇaḥ / anyān āhāsurān gatvā mṛdvalpamadhurākṣaram
- ViP 3.18.17Open verse →
§मायामोह उवाच: स्वर्गार्थं यदि वो वाञ्छा निर्वाणार्थम् अथासुराः । तद् अलं पशुघातादिदुष्टधर्मं निबोधत
§māyāmoha uvāca: svargārthaṃ yadi vo vāñchā nirvāṇārtham athāsurāḥ / tad alaṃ paśughātādiduṣṭadharmaṃ nibodhata
- ViP 3.18.18Open verse →
विज्ञानमयम् एवैतद् अशेषम् अवगच्छत । बुध्यध्वं मे वचः सम्यग् बुधैर् एवम् उदीरितम्
vijñānamayam evaitad aśeṣam avagacchata / budhyadhvaṃ me vacaḥ samyag budhair evam udīritam
- ViP 3.18.19Open verse →
जगद् एतद् अनाधारं भ्रान्तिज्ञानार्थतत्परम् । रागादिदुष्टम् अत्यर्थं भ्राम्यते भवसंकटे
jagad etad anādhāraṃ bhrāntijñānārthatatparam / rāgādiduṣṭam atyarthaṃ bhrāmyate bhavasaṃkaṭe
- ViP 3.18.20Open verse →
§पराशर उवाच: एवं बुध्यत बुध्यध्वं बुध्यतैवम् इतीरयन् । मायामोहः स दैत्येयान् धर्मम् अत्याजयन् निजम्
§parāśara uvāca: evaṃ budhyata budhyadhvaṃ budhyataivam itīrayan / māyāmohaḥ sa daityeyān dharmam atyājayan nijam
- ViP 3.18.21Open verse →
नानाप्रकारवचनं स तेषां युक्तियोजितम् । तथा तथावदद् धर्मं तत्यजुस् ते यथा यथा
nānāprakāravacanaṃ sa teṣāṃ yuktiyojitam / tathā tathāvadad dharmaṃ tatyajus te yathā yathā
- ViP 3.18.22Open verse →
ते ऽप्य् अन्येषां तथैवोचुर् अन्यैर् अन्ये तथोदिताः । मैत्रेय तत्यजुर् धर्मं वेदस्मृत्युदितं परम्
te 'py anyeṣāṃ tathaivocur anyair anye tathoditāḥ / maitreya tatyajur dharmaṃ vedasmṛtyuditaṃ param
- ViP 3.18.23Open verse →
अन्यान् अप्य् अन्यपाषण्डप्रकारैर् बहुभिर् द्विज । दैतेयान् मोहयाम् आस मायामोहो ऽतिमोहकृत्
anyān apy anyapāṣaṇḍaprakārair bahubhir dvija / daiteyān mohayām āsa māyāmoho 'timohakṛt
- ViP 3.18.24Open verse →
स्वल्पेनैव हि कालेन मायामोहेन ते ऽसुराः । मोहितास् तत्यजुः सर्वां त्रयीमार्गाश्रितां कथाम्
svalpenaiva hi kālena māyāmohena te 'surāḥ / mohitās tatyajuḥ sarvāṃ trayīmārgāśritāṃ kathām
- ViP 3.18.25Open verse →
केचिद् विनिन्दां वेदानां देवानाम् अपरे द्विज । यज्ञकर्मकलापस्य तथान्ये च द्विजन्मनाम्
kecid vinindāṃ vedānāṃ devānām apare dvija / yajñakarmakalāpasya tathānye ca dvijanmanām
- ViP 3.18.26Open verse →
नैतद् युक्तिसहं वाक्यं हिंसा धर्माय नेष्यते । हवींष्य् अनलदग्धानि फलायेत्य् अर्भकोदितम्
naitad yuktisahaṃ vākyaṃ hiṃsā dharmāya neṣyate / havīṃṣy analadagdhāni phalāyety arbhakoditam
- ViP 3.18.27Open verse →
यज्ञैर् अनेकैर् देवत्वम् अवाप्येन्द्रेण भुज्यते । शम्यादि यदि चेत् काष्ठं तद्वरं पत्रभुक् पशुः
yajñair anekair devatvam avāpyendreṇa bhujyate / śamyādi yadi cet kāṣṭhaṃ tadvaraṃ patrabhuk paśuḥ
- ViP 3.18.28Open verse →
अफ़्तेर् २७च् म्१ इन्स्।: निहतस्य पशोर् यज्ञे स्वर्गप्राप्तिर् यदीष्यते । स्वपिता यजमानेन किं नु तस्मान् न हन्यते
After 27c M1 ins.: nihatasya paśor yajñe svargaprāptir yadīṣyate / svapitā yajamānena kiṃ nu tasmān na hanyate
- ViP 3.18.29Open verse →
तृप्तये जायते पुंसो भुक्तम् अन्येन चेत् ततः । दद्याच् छ्राद्धं श्रद्धयान्नं न वहेयुः प्रवासिनः
tṛptaye jāyate puṃso bhuktam anyena cet tataḥ / dadyāc chrāddhaṃ śraddhayānnaṃ na vaheyuḥ pravāsinaḥ
- ViP 3.18.30Open verse →
जनश्रद्धेयम् इत्य् एतद् अवगम्य ततो ऽत्र वः । उपेक्षा श्रेयसी वाक्यं रोचतां यन् मयेरितम्
janaśraddheyam ity etad avagamya tato 'tra vaḥ / upekṣā śreyasī vākyaṃ rocatāṃ yan mayeritam
- ViP 3.18.31Open verse →
न ह्य् आप्तवादा नभसो निपतन्ति महासुराः । युक्तिमद् वचनं ग्राह्यं मयान्यैश् च भवद्विधैः
na hy āptavādā nabhaso nipatanti mahāsurāḥ / yuktimad vacanaṃ grāhyaṃ mayānyaiś ca bhavadvidhaiḥ
- ViP 3.18.32Open verse →
§पराशर उवाच: मायामोहेन ते दैत्याः प्रकारैर् बहुभिस् तथा । व्युत्थापिता यथा नैषां त्रयीं कश्चिद् अरोचयत्
§parāśara uvāca: māyāmohena te daityāḥ prakārair bahubhis tathā / vyutthāpitā yathā naiṣāṃ trayīṃ kaścid arocayat
- ViP 3.18.33Open verse →
इत्थम् उन्मार्गयातेषु तेषु दैत्येषु ते ऽमराः । उद्योगं परमं कृत्वा युद्धाय समुपस्थिताः
ittham unmārgayāteṣu teṣu daityeṣu te 'marāḥ / udyogaṃ paramaṃ kṛtvā yuddhāya samupasthitāḥ
- ViP 3.18.34Open verse →
ततो देवासुरं युद्धं पुनर् एवाभवद् द्विज । हताश् च ते ऽसुरा देवैः सन्मार्गपरिपन्थिनः
tato devāsuraṃ yuddhaṃ punar evābhavad dvija / hatāś ca te 'surā devaiḥ sanmārgaparipanthinaḥ
- ViP 3.18.35Open verse →
सद्धर्मकवचस् तेषाम् अभूद् यः प्रथमं द्विज । तेन रक्षाभवत् पूर्वं नेशुर् नष्टे च तत्र ते
saddharmakavacas teṣām abhūd yaḥ prathamaṃ dvija / tena rakṣābhavat pūrvaṃ neśur naṣṭe ca tatra te
- ViP 3.18.36Open verse →
ततो मैत्रेय तन्मार्गवर्तिनो ये ऽभवञ् जनाः । नग्नास् ते तैर् यतस् त्यक्तं त्रयीसंवरणं वृथा
tato maitreya tanmārgavartino ye 'bhavañ janāḥ / nagnās te tair yatas tyaktaṃ trayīsaṃvaraṇaṃ vṛthā
- ViP 3.18.37Open verse →
एद्। वेङ्क्। इन्स्।: ब्रह्मचारी गृहस्थश् च वानप्रस्थस् तथाश्रमाः । परिव्राड् वा चतुर्थो ऽत्र पञ्चमो नोपपद्यते
ed. Veṅk. ins.: brahmacārī gṛhasthaś ca vānaprasthas tathāśramāḥ / parivrāḍ vā caturtho 'tra pañcamo nopapadyate
- ViP 3.18.38Open verse →
यस् तु संत्यज्य गार्हस्थ्यं वानप्रस्थो न जायते । परिव्राड् वापि मैत्रेय स नग्नः पापकृन् नरः
yas tu saṃtyajya gārhasthyaṃ vānaprastho na jāyate / parivrāḍ vāpi maitreya sa nagnaḥ pāpakṛn naraḥ
- ViP 3.18.39Open verse →
नित्यानां कर्मणां विप्र तस्य हानिर् अहर्निशम् । अकुर्वन् विहितं कर्म शक्तः पतति तद्दिने
nityānāṃ karmaṇāṃ vipra tasya hānir aharniśam / akurvan vihitaṃ karma śaktaḥ patati taddine
- ViP 3.18.40Open verse →
प्रायश्चित्तेन महता शुद्धिं प्राप्नोत्य् अनापदि । पक्षं नित्यक्रियाहानेः कर्ता मैत्रेय मानवः
prāyaścittena mahatā śuddhiṃ prāpnoty anāpadi / pakṣaṃ nityakriyāhāneḥ kartā maitreya mānavaḥ
- ViP 3.18.41Open verse →
संवत्सरं क्रियाहानिर् यस्य पुंसो ऽभिजायते । तस्यावलोकनात् सूर्यो निरीक्ष्यः साधुभिः सदा
saṃvatsaraṃ kriyāhānir yasya puṃso 'bhijāyate / tasyāvalokanāt sūryo nirīkṣyaḥ sādhubhiḥ sadā
- ViP 3.18.42Open verse →
स्पृष्टे स्नानं सचैलस्य शुद्धिहेतुर् महामुने । पुंसो भवति तस्योक्ता न शुद्धिः पापकर्मणः
spṛṣṭe snānaṃ sacailasya śuddhihetur mahāmune / puṃso bhavati tasyoktā na śuddhiḥ pāpakarmaṇaḥ
- ViP 3.18.43Open verse →
देवर्षिपितृभूतानि यस्य निःश्वस्य वेश्मनि । प्रयान्त्य् अनर्चितान्य् अत्र न तस्मात् पापकृन् नरः
devarṣipitṛbhūtāni yasya niḥśvasya veśmani / prayānty anarcitāny atra na tasmāt pāpakṛn naraḥ
- ViP 3.18.44Open verse →
देवादिनिःश्वासहतं शरीरं यस्य वेश्म च । न तेन संकरं कुर्याद् गृहासनपरिच्छदैः
devādiniḥśvāsahataṃ śarīraṃ yasya veśma ca / na tena saṃkaraṃ kuryād gṛhāsanaparicchadaiḥ
- ViP 3.18.45Open verse →
संभाषणानुप्रश्नादि सहास्यं चैव कुर्वतः । जायते तुल्यता पुंसस् तेनैव द्विज वत्सरम्
saṃbhāṣaṇānupraśnādi sahāsyaṃ caiva kurvataḥ / jāyate tulyatā puṃsas tenaiva dvija vatsaram
- ViP 3.18.46Open verse →
अथ भुङ्क्ते गृहे तस्य करोत्य् आस्यां तथासने । शेते चाप्य् एकशयने स सद्यस् तत्समो भवेत्
atha bhuṅkte gṛhe tasya karoty āsyāṃ tathāsane / śete cāpy ekaśayane sa sadyas tatsamo bhavet
- ViP 3.18.47Open verse →
देवतापितृभूतानि तथानभ्यर्च्य यो ऽतिथीन् । भुङ्क्ते स पातकं भुङ्क्ते निष्कृतिस् तस्य कीदृशी
devatāpitṛbhūtāni tathānabhyarcya yo 'tithīn / bhuṅkte sa pātakaṃ bhuṅkte niṣkṛtis tasya kīdṛśī
- ViP 3.18.48Open verse →
ब्राह्मणाद्याश् च ये वर्णाः स्वधर्माद् अन्यतोमुखम् । यान्ति ते नग्नसंज्ञां तु हीनकर्मस्व् अवस्थिताः
brāhmaṇādyāś ca ye varṇāḥ svadharmād anyatomukham / yānti te nagnasaṃjñāṃ tu hīnakarmasv avasthitāḥ
- ViP 3.18.49Open verse →
चतुर्णां यत्र वर्णानां मैत्रेयात्यन्तसंकरः । तत्रास्या साधुवृत्तीनाम् उपघाताय जायते
caturṇāṃ yatra varṇānāṃ maitreyātyantasaṃkaraḥ / tatrāsyā sādhuvṛttīnām upaghātāya jāyate
- ViP 3.18.50Open verse →
अनभ्यर्च्य ऋषीन् देवान् पितृभूतातिथींस् तथा । यो भुङ्क्ते तस्य संभाषात् पतन्ति नरके नराः
anabhyarcya ṛṣīn devān pitṛbhūtātithīṃs tathā / yo bhuṅkte tasya saṃbhāṣāt patanti narake narāḥ
- ViP 3.18.51Open verse →
तस्माद् एतान् नरो नग्नांस् त्रयीसंत्यागदूषितान् । सर्वदा वर्जयेत् प्राज्ञ आलापस्पर्शनादिषु
tasmād etān naro nagnāṃs trayīsaṃtyāgadūṣitān / sarvadā varjayet prājña ālāpasparśanādiṣu
- ViP 3.18.52Open verse →
श्रद्धावद्भिः कृतं यत्नाद् देवान् पितृपितामहान् । न प्रीणयति तच् छ्राद्धं यद्य् एभिर् अवलोकितम्
śraddhāvadbhiḥ kṛtaṃ yatnād devān pitṛpitāmahān / na prīṇayati tac chrāddhaṃ yady ebhir avalokitam
- ViP 3.18.53Open verse →
श्रूयते च पुरा ख्यातो राजा शतधनुर् भुवि । पत्नी च शैब्या तस्याभूद् अतिधर्मपरायणा
śrūyate ca purā khyāto rājā śatadhanur bhuvi / patnī ca śaibyā tasyābhūd atidharmaparāyaṇā
- ViP 3.18.54Open verse →
पतिव्रता महाभागा सत्यशौचदयान्विता । सर्वलक्षणसंपन्ना संपन्ना विनयेन च
pativratā mahābhāgā satyaśaucadayānvitā / sarvalakṣaṇasaṃpannā saṃpannā vinayena ca
- ViP 3.18.55Open verse →
स तु राजा तया सार्धं देवदेवं जनार्दनम् । आराधयाम् आस विभुं परमेण समाधिना
sa tu rājā tayā sārdhaṃ devadevaṃ janārdanam / ārādhayām āsa vibhuṃ parameṇa samādhinā
- ViP 3.18.56Open verse →
होमैर् जपैस् तथा दानैर् उपवासैश् च भक्तितः । पूजाभिश् चानुदिवसं तन्मना नान्यमानसः
homair japais tathā dānair upavāsaiś ca bhaktitaḥ / pūjābhiś cānudivasaṃ tanmanā nānyamānasaḥ
- ViP 3.18.57Open verse →
एकदा तु समं स्नातौ तौ तु भार्यापती जले । भागीरथ्याः समुत्तीर्णौ कार्त्तिक्यां समुपोषितौ । पाषण्डिनम् अपश्येताम् आयान्तं संमुखं द्विज
ekadā tu samaṃ snātau tau tu bhāryāpatī jale / bhāgīrathyāḥ samuttīrṇau kārttikyāṃ samupoṣitau / pāṣaṇḍinam apaśyetām āyāntaṃ saṃmukhaṃ dvija
- ViP 3.18.58Open verse →
चापाचार्यस्य तस्यासौ सखा राज्ञो महात्मनः । अतस् तद्गौरवात् तेन सहालापम् अथाकरोत्
cāpācāryasya tasyāsau sakhā rājño mahātmanaḥ / atas tadgauravāt tena sahālāpam athākarot
- ViP 3.18.59Open verse →
न तु सा वाग्यता देवी तस्य पत्नी यतव्रता । उपोषितास्मीति रविं तस्मिन् दृष्टे ददर्श च
na tu sā vāgyatā devī tasya patnī yatavratā / upoṣitāsmīti raviṃ tasmin dṛṣṭe dadarśa ca
- ViP 3.18.60Open verse →
समागम्य यथान्यायं दम्पती तौ यथाविधि । विष्णोः पूजादिकं सर्वं कृतवन्तौ द्विजोत्तम
samāgamya yathānyāyaṃ dampatī tau yathāvidhi / viṣṇoḥ pūjādikaṃ sarvaṃ kṛtavantau dvijottama
- ViP 3.18.61Open verse →
कालेन गच्छता राजा ममारासौ सपत्नजित् । अन्वारुरोह तं देवी चितास्थं भूपतिं पतिम्
kālena gacchatā rājā mamārāsau sapatnajit / anvāruroha taṃ devī citāsthaṃ bhūpatiṃ patim
- ViP 3.18.62Open verse →
स तु तेनापचारेण श्वा जज्ञे वसुधाधिपः । उपोषितेन पाषण्डसंभाषो यः कृतो ऽभवत्
sa tu tenāpacāreṇa śvā jajñe vasudhādhipaḥ / upoṣitena pāṣaṇḍasaṃbhāṣo yaḥ kṛto 'bhavat
- ViP 3.18.63Open verse →
सापि जातिस्मरा जज्ञे काशिराजसुता शुभा । सर्वविज्ञानसंपन्ना सर्वलक्षणभूषिता
sāpi jātismarā jajñe kāśirājasutā śubhā / sarvavijñānasaṃpannā sarvalakṣaṇabhūṣitā
- ViP 3.18.64Open verse →
तां पिता दातुकामो ऽभूद् वराय विनिवारितः । तयैव तन्व्या विरतो विवाहारम्भतो नृपः
tāṃ pitā dātukāmo 'bhūd varāya vinivāritaḥ / tayaiva tanvyā virato vivāhārambhato nṛpaḥ
- ViP 3.18.65Open verse →
ततः सा दिव्यया दृष्ट्या दृष्ट्वा श्वानं निजं पतिम् । वैदिशाख्यं पुरं गत्वा तदवस्थं ददर्श तम्
tataḥ sā divyayā dṛṣṭyā dṛṣṭvā śvānaṃ nijaṃ patim / vaidiśākhyaṃ puraṃ gatvā tadavasthaṃ dadarśa tam
- ViP 3.18.66Open verse →
तं दृष्ट्वैव महाभागा श्वानभूतं पतिं तथा । ददौ तस्मै वराहारं सत्कारप्रवणं शुभम्
taṃ dṛṣṭvaiva mahābhāgā śvānabhūtaṃ patiṃ tathā / dadau tasmai varāhāraṃ satkārapravaṇaṃ śubham
- ViP 3.18.67Open verse →
भुञ्जन् दत्तं तया सो ऽन्नम् अतिमिष्टम् अभीप्सितम् । श्वजातिललितं कुर्वन् बहु चाटु चकार वै
bhuñjan dattaṃ tayā so 'nnam atimiṣṭam abhīpsitam / śvajātilalitaṃ kurvan bahu cāṭu cakāra vai
- ViP 3.18.68Open verse →
अतीव व्रीडिता बाला कुर्वता चाटु तेन सा । प्रणामपूर्वम् आहेदं दयितं तं कुयोनिजम्
atīva vrīḍitā bālā kurvatā cāṭu tena sā / praṇāmapūrvam āhedaṃ dayitaṃ taṃ kuyonijam
- ViP 3.18.69Open verse →
§पत्न्य् उवाच: स्मर्यतां तन् महाराज दाक्षिण्यललितं त्वया । येन श्वयोनिम् आपन्नो मम चाटुकरो भवान्
§patny uvāca: smaryatāṃ tan mahārāja dākṣiṇyalalitaṃ tvayā / yena śvayonim āpanno mama cāṭukaro bhavān
- ViP 3.18.70Open verse →
पाषण्डिनं समाभाष्य तीर्थस्नानाद् अनन्तरम् । प्राप्तो ऽसि कुत्सितां योनिं किं न स्मरसि तत् प्रभो
pāṣaṇḍinaṃ samābhāṣya tīrthasnānād anantaram / prāpto 'si kutsitāṃ yoniṃ kiṃ na smarasi tat prabho
- ViP 3.18.71Open verse →
§पराशर उवाच: तयैवं स्मारिते तत्र पूर्वजातिकृते तदा । दध्यौ चिरम् अथावाप निर्वेदम् अतिदुर्लभम्
§parāśara uvāca: tayaivaṃ smārite tatra pūrvajātikṛte tadā / dadhyau ciram athāvāpa nirvedam atidurlabham
- ViP 3.18.72Open verse →
निर्विण्णचित्तः स ततो निर्गम्य नगराद् बहिः । मरुप्रपतनं कृत्वा शार्गालीं योनिम् आगतः
nirviṇṇacittaḥ sa tato nirgamya nagarād bahiḥ / maruprapatanaṃ kṛtvā śārgālīṃ yonim āgataḥ
- ViP 3.18.73Open verse →
सापि द्वितीये संप्राप्ते वर्षे दिव्येन चक्षुषा । ज्ञात्वा सृगालं तं द्रष्टुं ययौ कोलाहलं गिरिम्
sāpi dvitīye saṃprāpte varṣe divyena cakṣuṣā / jñātvā sṛgālaṃ taṃ draṣṭuṃ yayau kolāhalaṃ girim
- ViP 3.18.74Open verse →
तत्रापि दृष्ट्वा तं प्राह शार्गालीं योनिम् आगतम् । भर्तारम् अपि चार्वङ्गी तनया पृथिवीक्षितः
tatrāpi dṛṣṭvā taṃ prāha śārgālīṃ yonim āgatam / bhartāram api cārvaṅgī tanayā pṛthivīkṣitaḥ
- ViP 3.18.75Open verse →
§पत्न्य् उवाच: अपि स्मरसि राजेन्द्र श्वयोनिस्थस्य यन् मया । प्रोक्तं ते पूर्वचरितं पाषण्डालापसंश्रयम्
§patny uvāca: api smarasi rājendra śvayonisthasya yan mayā / proktaṃ te pūrvacaritaṃ pāṣaṇḍālāpasaṃśrayam
- ViP 3.18.76Open verse →
§पराशर उवाच: पुनस् तयोक्तं तज् ज्ञात्वा सत्यं सत्यवतां वरः । कानने स निराहारस् तत्याज स्वं कलेवरम्
§parāśara uvāca: punas tayoktaṃ taj jñātvā satyaṃ satyavatāṃ varaḥ / kānane sa nirāhāras tatyāja svaṃ kalevaram
- ViP 3.18.77Open verse →
भूयस् ततो वृकं जातं गत्वा तं निर्जने वने । स्मारयाम् आस भर्तारं पूर्ववृत्तम् अनिन्दिता
bhūyas tato vṛkaṃ jātaṃ gatvā taṃ nirjane vane / smārayām āsa bhartāraṃ pūrvavṛttam aninditā
- ViP 3.18.78Open verse →
न त्वं वृको महाभाग राजा शतधनुर् भवान् । श्वा भूत्वा त्वं शृगालो ऽभूर् वृकत्वं साम्प्रतं गतः
na tvaṃ vṛko mahābhāga rājā śatadhanur bhavān / śvā bhūtvā tvaṃ śṛgālo 'bhūr vṛkatvaṃ sāmprataṃ gataḥ
- ViP 3.18.79Open verse →
§पराशर उवाच: स्मारितेन यथा व्यक्तस् तेनात्मा गृध्रतां गतः । अपापा सा पुनश् चैनं बोधयाम् आस भामिनी
§parāśara uvāca: smāritena yathā vyaktas tenātmā gṛdhratāṃ gataḥ / apāpā sā punaś cainaṃ bodhayām āsa bhāminī
- ViP 3.18.80Open verse →
नरेन्द्र स्मर्यताम् आत्मा ह्य् अलं ते गृध्रचेष्टया । पाषण्डालापजातो ऽयं दोषो यद् गृध्रतां गतः
narendra smaryatām ātmā hy alaṃ te gṛdhraceṣṭayā / pāṣaṇḍālāpajāto 'yaṃ doṣo yad gṛdhratāṃ gataḥ
- ViP 3.18.81Open verse →
ततः काकत्वम् आपन्नं समनन्तरजन्मनि । उवाच तन्वी भर्तारम् उपलभ्यात्मयोगतः
tataḥ kākatvam āpannaṃ samanantarajanmani / uvāca tanvī bhartāram upalabhyātmayogataḥ
- ViP 3.18.82Open verse →
अशेषा भूभृतः पूर्वं वश्या यस्मै बलिं ददुः । स त्वं काकत्वम् आपन्नो जातो ऽद्य बलिभुक् प्रभो
aśeṣā bhūbhṛtaḥ pūrvaṃ vaśyā yasmai baliṃ daduḥ / sa tvaṃ kākatvam āpanno jāto 'dya balibhuk prabho
- ViP 3.18.83Open verse →
एवम् एव च काकत्वे स्मारितः स पुरातनम् । तत्याज भूपतिः प्राणान् मयूरत्वम् अवाप च
evam eva ca kākatve smāritaḥ sa purātanam / tatyāja bhūpatiḥ prāṇān mayūratvam avāpa ca
- ViP 3.18.84Open verse →
मयूरत्वे ततः सा वै चकारानुगतं शुभा । दत्तैः प्रतिक्षणं भोज्यैर् बाला तज्जातिभोजनैः
mayūratve tataḥ sā vai cakārānugataṃ śubhā / dattaiḥ pratikṣaṇaṃ bhojyair bālā tajjātibhojanaiḥ
- ViP 3.18.85Open verse →
ततस् तु जनको राजा वाजिमेधं महाक्रतुम् । चकार तस्यावभृथे स्नापयाम् आस तं तदा
tatas tu janako rājā vājimedhaṃ mahākratum / cakāra tasyāvabhṛthe snāpayām āsa taṃ tadā
- ViP 3.18.86Open verse →
सस्नौ स्वयं च तन्वङ्गी स्मारयाम् आस चापि तम् । यथासौ श्वशृगालाद्या योनीर् जग्राह पार्थिवः
sasnau svayaṃ ca tanvaṅgī smārayām āsa cāpi tam / yathāsau śvaśṛgālādyā yonīr jagrāha pārthivaḥ
- ViP 3.18.87Open verse →
स्मृतजन्मक्रमः सो ऽथ तत्याज स्वं कलेवरम् । जज्ञे च जनकस्यैव पुत्रो ऽसौ सुमहात्मनः
smṛtajanmakramaḥ so 'tha tatyāja svaṃ kalevaram / jajñe ca janakasyaiva putro 'sau sumahātmanaḥ
- ViP 3.18.88Open verse →
ततः सा पितरं तन्वी विवाहार्थम् अचोदयत् । स चापि कारयाम् आस पिता तस्याः स्वयंवरम्
tataḥ sā pitaraṃ tanvī vivāhārtham acodayat / sa cāpi kārayām āsa pitā tasyāḥ svayaṃvaram
- ViP 3.18.89Open verse →
स्वयंवरे कृते सा तं संप्राप्तं पतिम् आत्मनः । वरयाम् आस भूयो ऽपि भर्तृभावेन भामिनी
svayaṃvare kṛte sā taṃ saṃprāptaṃ patim ātmanaḥ / varayām āsa bhūyo 'pi bhartṛbhāvena bhāminī
- ViP 3.18.90Open verse →
बुभुजे च तया सार्धं संभोगान् नृपनन्दनः । पितर्य् उपरते राज्यं विदेहेषु चकार सः
bubhuje ca tayā sārdhaṃ saṃbhogān nṛpanandanaḥ / pitary uparate rājyaṃ videheṣu cakāra saḥ
- ViP 3.18.91Open verse →
इयाज यज्ञान् सुबहून् ददौ दानानि चार्थिनाम् । पुत्रान् उत्पादयाम् आस युयुधे च सहारिभिः
iyāja yajñān subahūn dadau dānāni cārthinām / putrān utpādayām āsa yuyudhe ca sahāribhiḥ
- ViP 3.18.92Open verse →
राज्यं कृत्वा यथान्यायं पालयित्वा वसुंधराम् । तत्याज स प्रियान् प्राणान् संग्रामे धर्मतो नृपः
rājyaṃ kṛtvā yathānyāyaṃ pālayitvā vasuṃdharām / tatyāja sa priyān prāṇān saṃgrāme dharmato nṛpaḥ
- ViP 3.18.93Open verse →
ततश् चितास्थं तं भूयो भर्तारं सा शुभेक्षणा । अन्वारुरोह विधिवद् यथापूर्वं मुदावती
tataś citāsthaṃ taṃ bhūyo bhartāraṃ sā śubhekṣaṇā / anvāruroha vidhivad yathāpūrvaṃ mudāvatī
- ViP 3.18.94Open verse →
ततो ऽवाप तया सार्धं राजपुत्र्या स पार्थिवः । ऐन्द्रान् अतीत्य वै लोकांल् लोकान् कामदुहो ऽक्षयान्
tato 'vāpa tayā sārdhaṃ rājaputryā sa pārthivaḥ / aindrān atītya vai lokāṃl lokān kāmaduho 'kṣayān
- ViP 3.18.95Open verse →
स्वर्गाक्षयत्वम् अतुलं दाम्पत्यम् अतिदुर्लभम् । प्राप्तं पुण्यफलं प्राप्य संशुद्धिं तां द्विजोत्तम
svargākṣayatvam atulaṃ dāmpatyam atidurlabham / prāptaṃ puṇyaphalaṃ prāpya saṃśuddhiṃ tāṃ dvijottama
- ViP 3.18.96Open verse →
एष पाषण्डसंभाषदोषः प्रोक्तो मया द्विज । तथाश्वमेधावभृथस्नानमाहात्म्यम् एव च
eṣa pāṣaṇḍasaṃbhāṣadoṣaḥ prokto mayā dvija / tathāśvamedhāvabhṛthasnānamāhātmyam eva ca
- ViP 3.18.97Open verse →
तस्मात् पाषण्डिभिः पापैर् आलापस्पर्शनं त्यजेत् । विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः
tasmāt pāṣaṇḍibhiḥ pāpair ālāpasparśanaṃ tyajet / viśeṣataḥ kriyākāle yajñādau cāpi dīkṣitaḥ
- ViP 3.18.98Open verse →
क्रियाहानिर् गृहे यस्य मासम् एकं प्रजायते । तस्यावलोकनात् सूर्यं पश्येत मतिमान् नरः
kriyāhānir gṛhe yasya māsam ekaṃ prajāyate / tasyāvalokanāt sūryaṃ paśyeta matimān naraḥ
- ViP 3.18.99Open verse →
किं पुनर् यैस् तु संत्यक्ता त्रयी सर्वात्मना द्विज । परान्नभोजिभिः पापैर् वेदवादविरोधिभिः
kiṃ punar yais tu saṃtyaktā trayī sarvātmanā dvija / parānnabhojibhiḥ pāpair vedavādavirodhibhiḥ
- ViP 3.18.100Open verse →
अफ़्तेर् ९९, एद्। वेङ्क्। इन्स्।: पाषण्डिनो विकर्मस्थान् बैडालव्रतिकाञ् छठान् । हैतुकान् बकवृत्तींश् च वाङ्मात्रेणापि नार्चयेत्
After 99, ed. Veṅk. ins.: pāṣaṇḍino vikarmasthān baiḍālavratikāñ chaṭhān / haitukān bakavṛttīṃś ca vāṅmātreṇāpi nārcayet
- ViP 3.18.101Open verse →
श्२,ब्२,द्७ इन्स्।: ब्२ चोन्त्।: दूराद् अपास्तः संपर्कस् सहास्यापि च पापिभिः । पाषण्डिभिर् दुराचारैस् तस्मात् तान् परिवर्जयेत्
Ś2,B2,D7 ins.: B2 cont.: dūrād apāstaḥ saṃparkas sahāsyāpi ca pāpibhiḥ / pāṣaṇḍibhir durācārais tasmāt tān parivarjayet
- ViP 3.18.102Open verse →
एते नग्नास् तवाख्याता दृष्ट्या श्राद्धोपघातकाः । येषां संभाषणात् पुंसां दिनपुण्यं प्रणश्यति
ete nagnās tavākhyātā dṛṣṭyā śrāddhopaghātakāḥ / yeṣāṃ saṃbhāṣaṇāt puṃsāṃ dinapuṇyaṃ praṇaśyati
- ViP 3.18.103Open verse →
एते पाषण्डिनः पापा न ह्य् एतान् आलपेद् बुधः । पुण्यं नश्यति संभाषाद् एतेषां तद्दिनोद्भवम्
ete pāṣaṇḍinaḥ pāpā na hy etān ālaped budhaḥ / puṇyaṃ naśyati saṃbhāṣād eteṣāṃ taddinodbhavam
- ViP 3.18.104Open verse →
पुंसां जटाधरणमौण्ड्यवतां वृथैव मोघाशिनाम् अखिलशौचनिराकृतानाम् । तोयप्रदानपितृपिण्डबहिष्कृतानां संभाषणाद् अपि नरा नरकं प्रयान्ति
puṃsāṃ jaṭādharaṇamauṇḍyavatāṃ vṛthaiva moghāśinām akhilaśaucanirākṛtānām / toyapradānapitṛpiṇḍabahiṣkṛtānāṃ saṃbhāṣaṇād api narā narakaṃ prayānti
- ViP 3.4.10*2:1Open verse →
श्२,द्७,ग्३ इन्स्।: आर्षादि बहुधा स्थानं देवर्षिरचिताश्रयम्
Ś2,D7,G3 ins.: ārṣādi bahudhā sthānaṃ devarṣiracitāśrayam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *2 line 1 before ViP 3.4.10 (Pathak Critical Edition apparatus).
- ViP 3.4.10*2:2Open verse →
इतिहासम् इति प्रोक्तं स्थविष्ठाद्भुतकर्मयुक्
itihāsam iti proktaṃ sthaviṣṭhādbhutakarmayuk
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *2 line 2 before ViP 3.4.10 (Pathak Critical Edition apparatus).
- ViP 3.4.22*3Open verse →
द्३,त्१।३,ग्३ इन्स्।: एतानि पञ्चनामानि संहितायाः समाश्रिताः
D3,T1.3,G3 ins.: etāni pañcanāmāni saṃhitāyāḥ samāśritāḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *3 before ViP 3.4.22 (Pathak Critical Edition apparatus).
- ViP 3.5.19*4Open verse →
श्,द्२।७ इन्स्।: नमो ऽग्नीसोमभूताय सर्वसिद्धिकराय च
Ś,D2.7 ins.: namo 'gnīsomabhūtāya sarvasiddhikarāya ca
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *4 before ViP 3.5.19 (Pathak Critical Edition apparatus).
- ViP 3.6.1*5:1Open verse →
श्,द्७ इन्स्।: ऋग्यजुःशाखिशाखो ऽयं शाखासंख्य्या प्रपञ्चिता
Ś,D7 ins.: ṛgyajuḥśākhiśākho 'yaṃ śākhāsaṃkhyyā prapañcitā
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *5 line 1 before ViP 3.6.1 (Pathak Critical Edition apparatus).
- ViP 3.6.1*5:2Open verse →
सामाथर्वपुराणोक्तं शाखासंज्ञाथ कथ्यते
sāmātharvapurāṇoktaṃ śākhāsaṃjñātha kathyate
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *5 line 2 before ViP 3.6.1 (Pathak Critical Edition apparatus).
- ViP 3.6.3*6:1Open verse →
श्२,द्७ इन्स्।: पुत्रम् अध्यापयाम् आस सुमन्तुम् अथ जैमिनिः
Ś2,D7 ins.: putram adhyāpayām āsa sumantum atha jaiminiḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *6 line 1 before ViP 3.6.3 (Pathak Critical Edition apparatus).
- ViP 3.6.3*6:2Open verse →
सुमन्तुश् चपि सुमुलं पुत्रम् अध्यापयन् मुनिः
sumantuś capi sumulaṃ putram adhyāpayan muniḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *6 line 2 before ViP 3.6.3 (Pathak Critical Edition apparatus).
- ViP 3.6.15*7:1Open verse →
श्२,द्७ इन्स्।: स्वयं दृष्ट्वार्थकथनं प्राहुर् आख्यानकं बुधाः
Ś2,D7 ins.: svayaṃ dṛṣṭvārthakathanaṃ prāhur ākhyānakaṃ budhāḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *7 line 1 before ViP 3.6.15 (Pathak Critical Edition apparatus).
- ViP 3.6.15*7:2Open verse →
श्रुतस्यार्थस्य कथनम् उपाख्यानं प्रचक्षते
śrutasyārthasya kathanam upākhyānaṃ pracakṣate
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *7 line 2 before ViP 3.6.15 (Pathak Critical Edition apparatus).
- ViP 3.6.23*8:1Open verse →
द्३,म्०, एद्। वेङ्क्। इन्स्।: महापुराणान्य् एतानि ह्य् अष्टादश महामुने
D3,M0, ed. Veṅk. ins.: mahāpurāṇāny etāni hy aṣṭādaśa mahāmune
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *8 line 1 before ViP 3.6.23 (Pathak Critical Edition apparatus).
- ViP 3.6.23*8:2Open verse →
तथा चोपपुराणानि मुनिभिः कथितानि च
tathā copapurāṇāni munibhiḥ kathitāni ca
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *8 line 2 before ViP 3.6.23 (Pathak Critical Edition apparatus).
- ViP 3.7.1*9:1Open verse →
श्२ इन्स्।: वेदराशिर् अपारो ऽसाव् उक्तः शाखाविभागतः
Ś2 ins.: vedarāśir apāro 'sāv uktaḥ śākhāvibhāgataḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *9 line 1 before ViP 3.7.1 (Pathak Critical Edition apparatus).
- ViP 3.7.1*9:2Open verse →
xxxx परो धर्मो वर्णादीनाम् अथोच्यते
xxxx paro dharmo varṇādīnām athocyate
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *9 line 2 before ViP 3.7.1 (Pathak Critical Edition apparatus).
- ViP 3.7.13*10:1Open verse →
ग्१,म्१।२ इन्स्।: नरके पच्यमानस् तु यमेन परिभाषितः
G1,M1.2 ins.: narake pacyamānas tu yamena paribhāṣitaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *10 line 1 before ViP 3.7.13 (Pathak Critical Edition apparatus).
- ViP 3.7.13*10:2Open verse →
किं त्वया नार्चितो देवः केशवः क्लेशनाशनः
kiṃ tvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *10 line 2 before ViP 3.7.13 (Pathak Critical Edition apparatus).
- ViP 3.8.1*13:1Open verse →
द्७ इन्स्।: विष्णुभक्तादिचिह्नं यो निजधर्मः पुरोदितः
D7 ins.: viṣṇubhaktādicihnaṃ yo nijadharmaḥ puroditaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *13 line 1 before ViP 3.8.1 (Pathak Critical Edition apparatus).
- ViP 3.8.1*13:2Open verse →
तम् एवातिस्फुटं वक्तुं पञ्चाध्यायी विधीयते
tam evātisphuṭaṃ vaktuṃ pañcādhyāyī vidhīyate
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *13 line 2 before ViP 3.8.1 (Pathak Critical Edition apparatus).
- ViP 3.8.32*14:1Open verse →
म्०।३,एद्। वेङ्क्। इन्स्।: शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्य् अमायया
M0.3,ed. Veṅk. ins.: śūdrasya sannatiḥ śaucaṃ sevā svāminy amāyayā
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *14 line 1 before ViP 3.8.32 (Pathak Critical Edition apparatus).
- ViP 3.8.32*14:2Open verse →
अमन्त्रयज्ञा ह्य् अस्ते ऽयं तत्सङ्गो विप्ररक्षणम्
amantrayajñā hy aste 'yaṃ tatsaṅgo viprarakṣaṇam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *14 line 2 before ViP 3.8.32 (Pathak Critical Edition apparatus).
- ViP 3.8.35*15:1Open verse →
श्२,द्७ इन्स्।: शरीरं या तृतीयेन स्वशुभेनापि कर्मणा
Ś2,D7 ins.: śarīraṃ yā tṛtīyena svaśubhenāpi karmaṇā
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *15 line 1 before ViP 3.8.35 (Pathak Critical Edition apparatus).
- ViP 3.8.35*15:2Open verse →
अत्यन्तं न तु कर्तव्यम् अनायासः स उच्यते
atyantaṃ na tu kartavyam anāyāsaḥ sa ucyate
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *15 line 2 before ViP 3.8.35 (Pathak Critical Edition apparatus).
- ViP 3.10.8*16:1Open verse →
श्,द्७ इन्स्।: नामधेयं दशम्यां तु केचिद् इच्छन्ति पार्थिव
Ś,D7 ins.: nāmadheyaṃ daśamyāṃ tu kecid icchanti pārthiva
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *16 line 1 before ViP 3.10.8 (Pathak Critical Edition apparatus).
- ViP 3.10.8*16:2Open verse →
द्वादश्याम् अथवा राजन् मासे पूर्णे ऽथवा परे
dvādaśyām athavā rājan māse pūrṇe 'thavā pare
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *16 line 2 before ViP 3.10.8 (Pathak Critical Edition apparatus).
- ViP 3.10.20*17Open verse →
श्१,ञ्,व्१,ब्१।२,द्८ इन्स्।: नोद्वहेत् तादृशीं कन्यां प्राज्ञः कार्यविशारदः
Ś1,Ñ,V1,B1.2,D8 ins.: nodvahet tādṛśīṃ kanyāṃ prājñaḥ kāryaviśāradaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *17 before ViP 3.10.20 (Pathak Critical Edition apparatus).
- ViP 3.10.24*18:1Open verse →
श्,द्७ इन्स्।: यज्ञेषु ऋत्विजे दैव आदायार्षस् तु गोद्वयम्
Ś,D7 ins.: yajñeṣu ṛtvije daiva ādāyārṣas tu godvayam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *18 line 1 before ViP 3.10.24 (Pathak Critical Edition apparatus).
- ViP 3.10.24*18:2Open verse →
सहौ तौ चरतां धर्मं प्राजापत्यो विधिः स्मृतः
sahau tau caratāṃ dharmaṃ prājāpatyo vidhiḥ smṛtaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *18 line 2 before ViP 3.10.24 (Pathak Critical Edition apparatus).
- ViP 3.11.21*20:1Open verse →
श्२,द्७ इन्स्।: प्रक्षाल्य पादौ हस्तौ च त्रिः पिबेद् अम्बु वीक्षितम्
Ś2,D7 ins.: prakṣālya pādau hastau ca triḥ pibed ambu vīkṣitam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *20 line 1 before ViP 3.11.21 (Pathak Critical Edition apparatus).
- ViP 3.11.21*20:2Open verse →
संवृत्याङ्गुष्ठमूलेन द्विः प्रमृजेत् ततो मुखम्
saṃvṛtyāṅguṣṭhamūlena dviḥ pramṛjet tato mukham
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *20 line 2 before ViP 3.11.21 (Pathak Critical Edition apparatus).
- ViP 3.11.21*20:3Open verse →
संहताभिस् त्रिभिः पूर्वं सोष्टं तु समुपस्पृशेत्
saṃhatābhis tribhiḥ pūrvaṃ soṣṭaṃ tu samupaspṛśet
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *20 line 3 before ViP 3.11.21 (Pathak Critical Edition apparatus).
- ViP 3.11.21*20:4Open verse →
अङ्गुष्ठेन प्रदेशिन्या xxxxxxxx [लचुन]
aṅguṣṭhena pradeśinyā xxxxxxxx [lacuna]
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *20 line 4 before ViP 3.11.21 (Pathak Critical Edition apparatus).
- ViP 3.11.21*20:5Open verse →
अङ्गुष्ठानामिकाभ्यां च चक्षुः श्रोत्रं पुनः पुनः
aṅguṣṭhānāmikābhyāṃ ca cakṣuḥ śrotraṃ punaḥ punaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *20 line 5 before ViP 3.11.21 (Pathak Critical Edition apparatus).
- ViP 3.11.21*20:6Open verse →
कनिष्ठाङ्गुष्ठतो नाभिं हृदयं तु तलेन वै
kaniṣṭhāṅguṣṭhato nābhiṃ hṛdayaṃ tu talena vai
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *20 line 6 before ViP 3.11.21 (Pathak Critical Edition apparatus).
- ViP 3.11.21*20:7Open verse →
सर्वाङ्गेषु शिरः पश्चाच् चाश्रेण [??] संस्पृशेद् इति
sarvāṅgeṣu śiraḥ paścāc cāśreṇa [??] saṃspṛśed iti
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *20 line 7 before ViP 3.11.21 (Pathak Critical Edition apparatus).
- ViP 3.11.69*21:1Open verse →
द्१,म्१ इन्स्।: ये च विष्णुपरा नित्यं ये च विखानसाश्रमाः
D1,M1 ins.: ye ca viṣṇuparā nityaṃ ye ca vikhānasāśramāḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *21 line 1 before ViP 3.11.69 (Pathak Critical Edition apparatus).
- ViP 3.11.69*21:2Open verse →
पञ्चरात्रं विधानज्ञा ये च विष्णुपरायणाः
pañcarātraṃ vidhānajñā ye ca viṣṇuparāyaṇāḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *21 line 2 before ViP 3.11.69 (Pathak Critical Edition apparatus).
- ViP 3.11.69*21:3Open verse →
विष्णुरूपधरा ये ते विष्णुम् एव समाश्रिताः
viṣṇurūpadharā ye te viṣṇum eva samāśritāḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *21 line 3 before ViP 3.11.69 (Pathak Critical Edition apparatus).
- ViP 3.11.69*21:4Open verse →
सर्वो विष्णुमयो लोक इति मत्वा स्थिताश् च ये
sarvo viṣṇumayo loka iti matvā sthitāś ca ye
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *21 line 4 before ViP 3.11.69 (Pathak Critical Edition apparatus).
- ViP 3.11.69*21:5Open verse →
सर्व एते ह्य् अतिथयो मृष्या वै सार्वकालिकम्
sarva ete hy atithayo mṛṣyā vai sārvakālikam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *21 line 5 before ViP 3.11.69 (Pathak Critical Edition apparatus).
- ViP 3.11.69*21:6Open verse →
एतेषाम् एकम् अतिथिं पूजयेत् पुण्यलोकभाक्
eteṣām ekam atithiṃ pūjayet puṇyalokabhāk
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *21 line 6 before ViP 3.11.69 (Pathak Critical Edition apparatus).
- ViP 3.11.73*22Open verse →
त्३, एद्। वेङ्क्। इन्स्। अफ़्तेर् ७३, ग्२ अफ़्तेर् ७३अब्, द्३ बेफ़ोरे ७४अब्: अभूताशी कृमिं भुङ्क्ते अदाता विषम् अश्नुते
T3, ed. Veṅk. ins. after 73, G2 after 73ab, D3 before 74ab: abhūtāśī kṛmiṃ bhuṅkte adātā viṣam aśnute
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *22 before ViP 3.11.73 (Pathak Critical Edition apparatus).
- ViP 3.11.94*23Open verse →
द्४ इन्स्।: देहेषु सर्वेषु यथा च देही ॥॥
D4 ins.: deheṣu sarveṣu yathā ca dehī ....
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *23 before ViP 3.11.94 (Pathak Critical Edition apparatus).
- ViP 3.12.33*24Open verse →
द्५ इन्स्।: एकाग्रचित्तस्य दृढव्रतस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य । अध्यात्मयोगे यतमानसस्य मोक्षो ध्रुवं नित्यम् अहिंसकस्य
D5 ins.: ekāgracittasya dṛḍhavratasya sarvendriyaprītinivartakasya / adhyātmayoge yatamānasasya mokṣo dhruvaṃ nityam ahiṃsakasya
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *24 before ViP 3.12.33 (Pathak Critical Edition apparatus).
- ViP 3.12.40*25Open verse →
ग्२।३,एद्। वेङ्क्। इन्स्।: सदाचाररतः प्राज्ञो विद्याविनयशिक्षितः
G2.3,ed. Veṅk. ins.: sadācārarataḥ prājño vidyāvinayaśikṣitaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *25 before ViP 3.12.40 (Pathak Critical Edition apparatus).
- ViP 3.13.13*26Open verse →
श्२,द्७ इन्स्।: ततो ऽनुबन्धुवर्गस् तु भुवि दद्यात् तिलोदकम्
Ś2,D7 ins.: tato 'nubandhuvargas tu bhuvi dadyāt tilodakam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *26 before ViP 3.13.13 (Pathak Critical Edition apparatus).
- ViP 3.14.13*29Open verse →
एता युगाद्यास् तिथयश् चतस्रो ऽप्य् अनन्तपुण्या नृप संप्रदिष्टाः ॥ विप्_३,१४।१३अब् ॥ श्२,द्७ इन्स्। अफ़्तेर् १३अब्: द्वे शुक्ले द्वे तथा कृष्णे युगाद्ये मुनयो विदुः ॥ विप्_३,१४।१३अब्*२८:१ ॥ शुक्ले पूर्वाह्निके ग्राह्ये कृष्णे चैवापराह्निके ॥ विप्_३,१४।१३अब्*२८:२ ॥ युगाद्येषु युगान्तेषु दत्तम् अक्षयम् इष्यते ॥ विप्_३,१४।१३अब्*२८:३ ॥ उपप्लवे चन्द्रमसो रवेश् च त्रिष्व् अष्टकास्व् अप्य् अयनद्वये च ॥ विप्_३,१४।१३च्द् ॥ श्,द्१।६।७ इन्स्।, द्५ इन्स्। ल्। १-२ अफ़्तेर् १३अब् अन्द् ल्। ३-४ अफ़्तेर् १३: चन्द्रक्षये माघवमासि यत्र दिनक्षये वै विषुवद्द्वयं च । मन्वन्तराद्यास् तिथयस् तथैव छायागजस्य व्यतिपातकालः
etā yugādyās tithayaś catasro 'py anantapuṇyā nṛpa saṃpradiṣṭāḥ // ViP_3,14.13ab // Ś2,D7 ins. after 13ab: dve śukle dve tathā kṛṣṇe yugādye munayo viduḥ // ViP_3,14.13ab*28:1 // śukle pūrvāhnike grāhye kṛṣṇe caivāparāhnike // ViP_3,14.13ab*28:2 // yugādyeṣu yugānteṣu dattam akṣayam iṣyate // ViP_3,14.13ab*28:3 // upaplave candramaso raveś ca triṣv aṣṭakāsv apy ayanadvaye ca // ViP_3,14.13cd // Ś,D1.6.7 ins., D5 ins. l. 1-2 after 13ab and l. 3-4 after 13: candrakṣaye māghavamāsi yatra dinakṣaye vai viṣuvaddvayaṃ ca / manvantarādyās tithayas tathaiva chāyāgajasya vyatipātakālaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *29 before ViP 3.14.13 (Pathak Critical Edition apparatus).
- ViP 3.15.40*31:1Open verse →
श्२,ञ्२,व्१,ब्२,द्५।७।८ इन्स्।: दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत्
Ś2,Ñ2,V1,B2,D5.7.8 ins.: dakṣiṇāpravaṇaṃ caiva prayatnenopapādayet
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *31 line 1 before ViP 3.15.40 (Pathak Critical Edition apparatus).
- ViP 3.15.40*31:2Open verse →
अवकाशेषु चोक्षेषु जलतीरेषु चैव हि
avakāśeṣu cokṣeṣu jalatīreṣu caiva hi
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *31 line 2 before ViP 3.15.40 (Pathak Critical Edition apparatus).
- ViP 3.17.1*32:1Open verse →
श्२,द्७ इन्स्।: एवं नवभिर् अध्यायैस् त्रयीधर्मः प्रपञ्चितः
Ś2,D7 ins.: evaṃ navabhir adhyāyais trayīdharmaḥ prapañcitaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *32 line 1 before ViP 3.17.1 (Pathak Critical Edition apparatus).
- ViP 3.17.1*32:2Open verse →
तत्परित्यागनिन्दार्थम् अध्यायद्वयम् उत्तरम्
tatparityāganindārtham adhyāyadvayam uttaram
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *32 line 2 before ViP 3.17.1 (Pathak Critical Edition apparatus).
- ViP 3.17.4*33Open verse →
द्४,त्२।३,ग्२,एद्। वेङ्क्। इन्स्।: श्रोतुं धर्मभृतां श्रेष्ठ न ह्य् अस्त्य् अविदितं तव
D4,T2.3,G2,ed. Veṅk. ins.: śrotuṃ dharmabhṛtāṃ śreṣṭha na hy asty aviditaṃ tava
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *33 before ViP 3.17.4 (Pathak Critical Edition apparatus).
- ViP 3.18.27*34:1Open verse →
अफ़्तेर् २७च् म्१ इन्स्।: ॥॥ ॥॥ भवेद् यज्ञस्य साधनम्
After 27c M1 ins.: .... .... bhaved yajñasya sādhanam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *34 line 1 before ViP 3.18.27 (Pathak Critical Edition apparatus).
- ViP 3.18.27*34:2Open verse →
तदाहारस् तदा नित्यं ॥॥ ॥॥
tadāhāras tadā nityaṃ .... ....
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *34 line 2 before ViP 3.18.27 (Pathak Critical Edition apparatus).
- ViP 3.18.36*35Open verse →
एद्। वेङ्क्। इन्स्।: कृताश् च ते ऽसुरा देवैर् नानावेदविनिन्दकाः
ed. Veṅk. ins.: kṛtāś ca te 'surā devair nānāvedavinindakāḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *35 before ViP 3.18.36 (Pathak Critical Edition apparatus).
- ViP 3.18.99*36:1Open verse →
अफ़्तेर् ९९, एद्। वेङ्क्। इन्स्।: सहालापस् तु संसर्गः सहास्या चातिपापिनी
After 99, ed. Veṅk. ins.: sahālāpas tu saṃsargaḥ sahāsyā cātipāpinī
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *36 line 1 before ViP 3.18.99 (Pathak Critical Edition apparatus).
- ViP 3.18.99*36:2Open verse →
पाषण्डिभिर् दुराचारैस् तस्मात् तान् परिवर्जयेत्
pāṣaṇḍibhir durācārais tasmāt tān parivarjayet
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *36 line 2 before ViP 3.18.99 (Pathak Critical Edition apparatus).
- ViP 3.18.100*37:1Open verse →
श्२,ब्२,द्७ इन्स्।: भ्रष्टः स्वधर्मात् पाषण्डो विकर्मस्थो निषिद्धकृत्
Ś2,B2,D7 ins.: bhraṣṭaḥ svadharmāt pāṣaṇḍo vikarmastho niṣiddhakṛt
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *37 line 1 before ViP 3.18.100 (Pathak Critical Edition apparatus).
- ViP 3.18.100*37:2Open verse →
यस्य धर्मस्य यो नित्यं सुरध्वज इवोच्छ्रितः
yasya dharmasya yo nityaṃ suradhvaja ivocchritaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *37 line 2 before ViP 3.18.100 (Pathak Critical Edition apparatus).
- ViP 3.18.100*37:3Open verse →
प्रच्छन्नानि च पापानि बैडालं नाम तद्व्रतम्
pracchannāni ca pāpāni baiḍālaṃ nāma tadvratam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *37 line 3 before ViP 3.18.100 (Pathak Critical Edition apparatus).
- ViP 3.18.100*37:4Open verse →
प्रियं वक्ति पुरो ऽन्यत्र विप्रियं कुरुते भृशम्
priyaṃ vakti puro 'nyatra vipriyaṃ kurute bhṛśam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *37 line 4 before ViP 3.18.100 (Pathak Critical Edition apparatus).
- ViP 3.18.100*37:5Open verse →
त्यक्तापराधचेष्टश् च शठो ऽयं कथितो बुधैः
tyaktāparādhaceṣṭaś ca śaṭho 'yaṃ kathito budhaiḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *37 line 5 before ViP 3.18.100 (Pathak Critical Edition apparatus).
- ViP 3.18.100*37:6Open verse →
संदेहकृद् धेतुभिर् यः सत्कर्मसु स हैतुकः
saṃdehakṛd dhetubhir yaḥ satkarmasu sa haitukaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *37 line 6 before ViP 3.18.100 (Pathak Critical Edition apparatus).
- ViP 3.18.100*37:7Open verse →
अर्वाग्दृष्टिर् निकृतिकाः स्वार्थसाधनतत्पराः
arvāgdṛṣṭir nikṛtikāḥ svārthasādhanatatparāḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *37 line 7 before ViP 3.18.100 (Pathak Critical Edition apparatus).
- ViP 3.18.100*38Open verse →
ब्२ चोन्त्।: शठो मिथ्याविनीतश् च बकवृत्तिर् उदाहृतः
B2 cont.: śaṭho mithyāvinītaś ca bakavṛttir udāhṛtaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *38 before ViP 3.18.100 (Pathak Critical Edition apparatus).