Sant Seva ParishadSant Seva ParishadSSP · sant seva
← Verse view|📖 Vishnu Purana · Ch 2
« Ch 1Ch 3 »

Vishnu Purana · अध्याय 2

Aṃśa 2 — Cosmology and Geography

द्वितीयोऽंशः

The seven dvīpas, the Mount Meru system, Bhāratavarṣa; the seven nether worlds; the heavens; the sun-chariot and its movement; Bharata-rāja and his attainment of liberation by detachment.

  1. ______________________________________________________ §मैत्रेय उवाच: भगवन् सर्वम् आख्यातं ममैतद् अखिलं त्वया । जगतः सर्गसंबन्धि यत् पृष्टो ऽसि गुरो मया

    ______________________________________________________ §maitreya uvāca: bhagavan sarvam ākhyātaṃ mamaitad akhilaṃ tvayā / jagataḥ sargasaṃbandhi yat pṛṣṭo 'si guro mayā

  2. यो ऽयम् अंशो जगत्सृष्टिसंबन्धो गदितस् त्वया । तत्राहं श्रोतुम् इच्छामि भूयो ऽपि मुनिसत्तम

    yo 'yam aṃśo jagatsṛṣṭisaṃbandho gaditas tvayā / tatrāhaṃ śrotum icchāmi bhūyo 'pi munisattama

  3. प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य यौ । तयोर् उत्तानपादस्य ध्रुवः पुत्रस् त्वयोदितः

    priyavratottānapādau sutau svāyambhuvasya yau / tayor uttānapādasya dhruvaḥ putras tvayoditaḥ

  4. प्रियव्रतस्य नैवोक्ता भवता द्विज संततिः । ताम् अहं श्रोतुम् इच्छामि प्रसन्नो वक्तुम् अर्हसि

    priyavratasya naivoktā bhavatā dvija saṃtatiḥ / tām ahaṃ śrotum icchāmi prasanno vaktum arhasi

  5. §पराशर उवाच: कर्दमस्यात्मजां कन्याम् उपयेमे प्रियव्रतः । सम्राट् कुक्षिश् च तत्कन्ये दशपुत्रास् तथापरे

    §parāśara uvāca: kardamasyātmajāṃ kanyām upayeme priyavrataḥ / samrāṭ kukṣiś ca tatkanye daśaputrās tathāpare

  6. महाप्रज्ञा महावीर्या विनीता दयिताः पितुः । प्रियव्रतसुताः ख्यातास् तेषां नामानि मे शृणु

    mahāprajñā mahāvīryā vinītā dayitāḥ pituḥ / priyavratasutāḥ khyātās teṣāṃ nāmāni me śṛṇu

  7. आग्नीध्रश् चाग्निबाहुश् च वपुष्मान् द्युतिमांस् तथा । मेधा मेधातिथिर् भव्यः सवनः पुत्र एव च

    āgnīdhraś cāgnibāhuś ca vapuṣmān dyutimāṃs tathā / medhā medhātithir bhavyaḥ savanaḥ putra eva ca

  8. ज्योतिष्मान् दशमस् तेषां सत्यनामा सुतो ऽभवत् । प्रियव्रतस्य पुत्राणां प्रख्याता बलवीर्यतः

    jyotiṣmān daśamas teṣāṃ satyanāmā suto 'bhavat / priyavratasya putrāṇāṃ prakhyātā balavīryataḥ

  9. मेधाग्निबाहुपुत्रास् तु त्रयो योगपरायणाः । जातिस्मरा महाभागा न राज्याय मनो दधुः

    medhāgnibāhuputrās tu trayo yogaparāyaṇāḥ / jātismarā mahābhāgā na rājyāya mano dadhuḥ

  10. ViP 2.1.10Open verse →

    निर्ममाः सर्वकालं तु समस्तार्थेषु वै मुने । चक्रुः क्रिया यथान्यायम् अफलाकाङ्क्षिणो हि ते

    nirmamāḥ sarvakālaṃ tu samastārtheṣu vai mune / cakruḥ kriyā yathānyāyam aphalākāṅkṣiṇo hi te

  11. ViP 2.1.11Open verse →

    प्रियव्रतो ददौ तेषां सप्तानां मुनिसत्तम । विभज्य सप्त द्वीपानि मैत्रेय सुमहात्मनाम्

    priyavrato dadau teṣāṃ saptānāṃ munisattama / vibhajya sapta dvīpāni maitreya sumahātmanām

  12. ViP 2.1.12Open verse →

    जम्बूद्वीपं महाभाग सो ऽग्नीध्राय ददौ पिता । मेधातिथेस् तथा प्रादात् प्लक्षद्वीपम् अथापरम्

    jambūdvīpaṃ mahābhāga so 'gnīdhrāya dadau pitā / medhātithes tathā prādāt plakṣadvīpam athāparam

  13. ViP 2.1.13Open verse →

    शाल्मले च वपुष्मन्तं नरेन्द्रम् अभिषिक्तवान् । ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान् प्रभुः

    śālmale ca vapuṣmantaṃ narendram abhiṣiktavān / jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ

  14. ViP 2.1.14Open verse →

    द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् । शाकद्वीपेश्वरं चापि भव्यं चक्रे प्रियव्रतः

    dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat / śākadvīpeśvaraṃ cāpi bhavyaṃ cakre priyavrataḥ

  15. ViP 2.1.15Open verse →

    पुष्कराधिपतिं चक्रे सवनं चापि स प्रभुः । जम्बूद्वीपेश्वरो यस् तु आग्नीध्रो मुनिसत्तम । तस्य पुत्रा बभूवुस् ते प्रजापतिसमा नव

    puṣkarādhipatiṃ cakre savanaṃ cāpi sa prabhuḥ / jambūdvīpeśvaro yas tu āgnīdhro munisattama / tasya putrā babhūvus te prajāpatisamā nava

  16. ViP 2.1.16Open verse →

    नाभिः किंपुरुषश् चैव हरिवर्ष इलावृतः । रम्यो हिरण्वान् षष्ठस् तु कुरुर् भद्राश्व एव च । केतुमालस् तथैवान्यः साधुचेष्टो नृपो ऽभवत्

    nābhiḥ kiṃpuruṣaś caiva harivarṣa ilāvṛtaḥ / ramyo hiraṇvān ṣaṣṭhas tu kurur bhadrāśva eva ca / ketumālas tathaivānyaḥ sādhuceṣṭo nṛpo 'bhavat

  17. ViP 2.1.17Open verse →

    जम्बूद्वीपविभागांस् तु तेषां विप्र निशामय । पित्रा दत्तं हिमाह्वं तु वर्षं नाभेस् तु दक्षिणम्

    jambūdvīpavibhāgāṃs tu teṣāṃ vipra niśāmaya / pitrā dattaṃ himāhvaṃ tu varṣaṃ nābhes tu dakṣiṇam

  18. ViP 2.1.18Open verse →

    हेमकूटं तथा वर्षं ददौ किंपुरुषाय सः । तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान्

    hemakūṭaṃ tathā varṣaṃ dadau kiṃpuruṣāya saḥ / tṛtīyaṃ naiṣadhaṃ varṣaṃ harivarṣāya dattavān

  19. ViP 2.1.19Open verse →

    इलावृताय प्रददौ मेरुर् यत्र तु मध्यमे । नीलाचलाश्रितं वर्षं रम्याय प्रददौ पिता

    ilāvṛtāya pradadau merur yatra tu madhyame / nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā

  20. ViP 2.1.20Open verse →

    श्वेतं यद् उत्तरं तस्मात् पित्रा दत्तं हिरण्वते

    śvetaṃ yad uttaraṃ tasmāt pitrā dattaṃ hiraṇvate

  21. ViP 2.1.21Open verse →

    यद् उत्तरं शृङ्गवतो वर्षं तत् कुरवे ददौ । मेरोः पूर्वेण यद् वर्षं भद्राश्वाय प्रदत्तवान्

    yad uttaraṃ śṛṅgavato varṣaṃ tat kurave dadau / meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya pradattavān

  22. ViP 2.1.22Open verse →

    गन्धमादनवर्षं तु केतुमालाय दत्तवान् । इत्य् एतानि ददौ तेभ्यः पुत्रेभ्यः स नरेश्वरः

    gandhamādanavarṣaṃ tu ketumālāya dattavān / ity etāni dadau tebhyaḥ putrebhyaḥ sa nareśvaraḥ

  23. ViP 2.1.23Open verse →

    वर्षेष्व् एतेषु तान् पुत्रान् अभिषिच्य स भूपतिः । सालग्रामं महापुण्यं मैत्रेय तपसे ययौ

    varṣeṣv eteṣu tān putrān abhiṣicya sa bhūpatiḥ / sālagrāmaṃ mahāpuṇyaṃ maitreya tapase yayau

  24. ViP 2.1.24Open verse →

    यानि किंपुरुषादीनि वर्षाण्य् अष्टौ महामुने । तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्य् अयत्नतः

    yāni kiṃpuruṣādīni varṣāṇy aṣṭau mahāmune / teṣāṃ svābhāvikī siddhiḥ sukhaprāyā hy ayatnataḥ

  25. ViP 2.1.25Open verse →

    विपर्ययो न तेष्व् अस्ति जरामृत्युभयं न च । धर्माधर्मौ न तेष्व् आस्तां नोत्तमाधममध्यमाः

    viparyayo na teṣv asti jarāmṛtyubhayaṃ na ca / dharmādharmau na teṣv āstāṃ nottamādhamamadhyamāḥ

  26. ViP 2.1.26Open verse →

    न तेष्व् अस्ति युगावस्था क्षेत्रेष्व् अष्टसु सर्वदा । हिमाह्वयं तु वै वर्षं नाभेर् आसीन् महात्मनः । तस्यर्षभो ऽभवत् पुत्रो मेरुदेव्यां महाद्युतिः

    na teṣv asti yugāvasthā kṣetreṣv aṣṭasu sarvadā / himāhvayaṃ tu vai varṣaṃ nābher āsīn mahātmanaḥ / tasyarṣabho 'bhavat putro merudevyāṃ mahādyutiḥ

  27. ViP 2.1.27Open verse →

    ऋषभाद् भरतो जज्ञे ज्येष्ठः पुत्रशतस्य सः । कृत्वा राज्यं स्वधर्मेण तथेष्ट्वा विविधान् मखान्

    ṛṣabhād bharato jajñe jyeṣṭhaḥ putraśatasya saḥ / kṛtvā rājyaṃ svadharmeṇa tatheṣṭvā vividhān makhān

  28. ViP 2.1.28Open verse →

    अभिषिच्य सुतं वीरं भरतं पृथिवीपतिः । तपसे स महाभागः पुलहस्याश्रमं ययौ

    abhiṣicya sutaṃ vīraṃ bharataṃ pṛthivīpatiḥ / tapase sa mahābhāgaḥ pulahasyāśramaṃ yayau

  29. ViP 2.1.29Open verse →

    वानप्रस्थविधानेन तत्रापि कृतनिश्चयः । तपस् तेपे यथान्यायम् इयाज स महीपतिः

    vānaprasthavidhānena tatrāpi kṛtaniścayaḥ / tapas tepe yathānyāyam iyāja sa mahīpatiḥ

  30. ViP 2.1.30Open verse →

    तपसा कर्षितो ऽत्यर्थं कृशो धमनिसंततः । नग्नो वीटां मुखे दत्त्वा वीराध्वानं ततो गतः

    tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ / nagno vīṭāṃ mukhe dattvā vīrādhvānaṃ tato gataḥ

  31. ViP 2.1.31Open verse →

    ततश् च भारतं वर्षम् एतल् लोकेषु गीयते । भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम्

    tataś ca bhārataṃ varṣam etal lokeṣu gīyate / bharatāya yataḥ pitrā dattaṃ prātiṣṭhatā vanam

  32. ViP 2.1.32Open verse →

    सुमतिर् भरतस्याभूत् पुत्रः परमधार्मिकः । कृत्वा सम्यग् ददौ तस्मै राज्यम् इष्टमखः पिता

    sumatir bharatasyābhūt putraḥ paramadhārmikaḥ / kṛtvā samyag dadau tasmai rājyam iṣṭamakhaḥ pitā

  33. ViP 2.1.33Open verse →

    पुत्रसंक्रामितश्रीस् तु भरतः स महीपतिः । योगाभ्यासरतः प्राणान् सालग्रामे ऽत्यजन् मुने

    putrasaṃkrāmitaśrīs tu bharataḥ sa mahīpatiḥ / yogābhyāsarataḥ prāṇān sālagrāme 'tyajan mune

  34. ViP 2.1.34Open verse →

    अजायत च विप्रो ऽसौ योगिनां प्रवरे कुले । मैत्रेय तस्य चरितं कथयिष्यामि ते पुनः

    ajāyata ca vipro 'sau yogināṃ pravare kule / maitreya tasya caritaṃ kathayiṣyāmi te punaḥ

  35. ViP 2.1.35Open verse →

    सुमतेस् तेजसस् तस्माद् इन्द्रद्युम्नो व्यजायत । परमेष्ठी ततस् तस्मात् प्रतिहारस् तदन्वयः

    sumates tejasas tasmād indradyumno vyajāyata / parameṣṭhī tatas tasmāt pratihāras tadanvayaḥ

  36. ViP 2.1.36Open verse →

    प्रतिहर्तेति विख्यात उत्पन्नस् तस्य चात्मजः । भुवस् तस्माद् अथोद्गीथः प्रस्तावस् तत्सुतो विभुः

    pratiharteti vikhyāta utpannas tasya cātmajaḥ / bhuvas tasmād athodgīthaḥ prastāvas tatsuto vibhuḥ

  37. ViP 2.1.37Open verse →

    पृथुस् ततस् ततो नक्तो नक्तस्यापि गयः सुतः । नरो गयस्य तनयस् तत्पुत्रो ऽभूद् विराट् ततः

    pṛthus tatas tato nakto naktasyāpi gayaḥ sutaḥ / naro gayasya tanayas tatputro 'bhūd virāṭ tataḥ

  38. ViP 2.1.38Open verse →

    तस्य पुत्रो महावीर्यो धीमांस् तस्माद् अजायत । महान्तो ऽपि ततश् चाभून् मनस्युस् तस्य चात्मजः

    tasya putro mahāvīryo dhīmāṃs tasmād ajāyata / mahānto 'pi tataś cābhūn manasyus tasya cātmajaḥ

  39. ViP 2.1.39Open verse →

    त्वष्टा त्वष्टुश् च विरजो रजस् तस्याप्य् अभूत् सुतः । शतजिद् रजसस् तस्य जज्ञे पुत्रशतं मुने

    tvaṣṭā tvaṣṭuś ca virajo rajas tasyāpy abhūt sutaḥ / śatajid rajasas tasya jajñe putraśataṃ mune

  40. ViP 2.1.40Open verse →

    विष्वग्ज्योतिःप्रधानास् ते यैर् इमा वर्धिताः प्रजाः । तैर् इदं भारतं वर्षं नवभेदम् अलंकृतम्

    viṣvagjyotiḥpradhānās te yair imā vardhitāḥ prajāḥ / tair idaṃ bhārataṃ varṣaṃ navabhedam alaṃkṛtam

  41. ViP 2.1.41Open verse →

    तेषां वंशप्रसूतैस् तु भुक्तेयं भारती पुरा । कृतत्रेतादिसर्गेण युगाख्या ह्य् एकसप्ततिः

    teṣāṃ vaṃśaprasūtais tu bhukteyaṃ bhāratī purā / kṛtatretādisargeṇa yugākhyā hy ekasaptatiḥ

  42. ViP 2.1.42Open verse →

    एष स्वायंभुवः सर्गो येनेदं पूरितं जगत् । वाराहे तु मुने कल्पे पूर्वमन्वन्तराधिपः

    eṣa svāyaṃbhuvaḥ sargo yenedaṃ pūritaṃ jagat / vārāhe tu mune kalpe pūrvamanvantarādhipaḥ

  43. ______________________________________________________ §मैत्रेय उवाच: कथितो भवता ब्रह्मन् सर्गः स्वायम्भुवस्य मे । श्रोतुम् इच्छाम्य् अहं त्वत्तः सकलं मण्डलं भुवः

    ______________________________________________________ §maitreya uvāca: kathito bhavatā brahman sargaḥ svāyambhuvasya me / śrotum icchāmy ahaṃ tvattaḥ sakalaṃ maṇḍalaṃ bhuvaḥ

  44. यावन्तः सागरा द्वीपास् तथा वर्षाणि पर्वताः । वनानि सरितः पुर्यो देवादीनां तथा मुने

    yāvantaḥ sāgarā dvīpās tathā varṣāṇi parvatāḥ / vanāni saritaḥ puryo devādīnāṃ tathā mune

  45. यत्प्रमाणम् इदं सर्वं यदाधारं यदात्मकम् । संस्थानम् अस्य च मुने यथावद् वक्तुम् अर्हसि

    yatpramāṇam idaṃ sarvaṃ yadādhāraṃ yadātmakam / saṃsthānam asya ca mune yathāvad vaktum arhasi

  46. §पराशर उवाच: मैत्रेय श्रूयताम् एतत् संक्षेपाद् गदतो मम । नास्य वर्षशतेनापि वक्तुं शक्नोमि विस्तरम्

    §parāśara uvāca: maitreya śrūyatām etat saṃkṣepād gadato mama / nāsya varṣaśatenāpi vaktuṃ śaknomi vistaram

  47. जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश् चापरो द्विज । कुशः क्रौञ्चस् तथा शाकः पुष्करश् चैव सप्तमः

    jambūplakṣāhvayau dvīpau śālmalaś cāparo dvija / kuśaḥ krauñcas tathā śākaḥ puṣkaraś caiva saptamaḥ

  48. एते द्वीपाः समुद्रैस् तु सप्त सप्तभिर् आवृताः । लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम्

    ete dvīpāḥ samudrais tu sapta saptabhir āvṛtāḥ / lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samam

  49. जम्बूद्वीपः समस्तानाम् एतेषां मध्यसंस्थितः । तस्यापि मेरुर् मैत्रेय मध्ये कनकपर्वतः

    jambūdvīpaḥ samastānām eteṣāṃ madhyasaṃsthitaḥ / tasyāpi merur maitreya madhye kanakaparvataḥ

  50. चतुरशीतिसाहस्रो योजनैर् अस्य चोच्छ्रयः

    caturaśītisāhasro yojanair asya cocchrayaḥ

  51. प्रविष्टः षोडशाधस्ताद् द्वात्रिंशन् मूर्ध्नि विस्तृतः । मूले षोडशसाहस्रो विस्तारस् तस्य सर्वतः

    praviṣṭaḥ ṣoḍaśādhastād dvātriṃśan mūrdhni vistṛtaḥ / mūle ṣoḍaśasāhasro vistāras tasya sarvataḥ

  52. ViP 2.2.10Open verse →

    भूपद्मस्यास्य शैलो ऽसौ कर्णिकाकारसंस्थितः

    bhūpadmasyāsya śailo 'sau karṇikākārasaṃsthitaḥ

  53. ViP 2.2.11Open verse →

    हिमवान् हेमकूटश् च निषधश् चास्य दक्षिणे । नीलः श्वेतश् च शृङ्गी च उत्तरे वर्षपर्वताः

    himavān hemakūṭaś ca niṣadhaś cāsya dakṣiṇe / nīlaḥ śvetaś ca śṛṅgī ca uttare varṣaparvatāḥ

  54. ViP 2.2.12Open verse →

    लक्षप्रमाणौ द्वौ मध्यौ दशहीनास् तथापरे । सहस्रद्वितयोच्छ्रायास् तावद्विस्तारिणश् च ते

    lakṣapramāṇau dvau madhyau daśahīnās tathāpare / sahasradvitayocchrāyās tāvadvistāriṇaś ca te

  55. ViP 2.2.13Open verse →

    भारतं प्रथमं वर्षं ततः किंपुरुषं स्मृतम् । हरिवर्षं तथैवान्यन् मेरोर् दक्षिणतो द्विज

    bhārataṃ prathamaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam / harivarṣaṃ tathaivānyan meror dakṣiṇato dvija

  56. ViP 2.2.14Open verse →

    रम्यकं चोत्तरं वर्षं तस्यैवानु हिरण्मयम् । उत्तराः कुरवश् चैव यथा वै भारतं तथा

    ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam / uttarāḥ kuravaś caiva yathā vai bhārataṃ tathā

  57. ViP 2.2.15Open verse →

    नवसाहस्रम् एकैकम् एतेषां द्विजसत्तम । इलावृतं च तन्मध्ये सौवर्णो मेरुर् उच्छ्रितः

    navasāhasram ekaikam eteṣāṃ dvijasattama / ilāvṛtaṃ ca tanmadhye sauvarṇo merur ucchritaḥ

  58. ViP 2.2.16Open verse →

    मेरोश् चतुर्दिशं तत्र नवसाहस्रविस्तृतम् । इलावृतं महाभाग चत्वारश् चात्र पर्वताः

    meroś caturdiśaṃ tatra navasāhasravistṛtam / ilāvṛtaṃ mahābhāga catvāraś cātra parvatāḥ

  59. ViP 2.2.18Open verse →

    विष्कम्भा रचिता मेरोर् योजनायुतम् उच्छ्रिताः ॥ विप्_२,२।१७अब् ॥ ग्३,म्०-२।४,एद्। वेङ्क्। इन्स्।: सर्वैः सरोभिश् च समं दिक्ष्व् एते केसराचलाः ॥ विप्_२,२।१७अब्*१ ॥ पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥ विप्_२,२।१७च्द् ॥ विपुलः पश्चिमे पार्श्वे सुपार्श्वश् चोत्तरे स्मृतः ॥ विप्_२,२।१७एफ़् ॥ कदम्बस् तेषु जम्बूश् च पिप्पलो वट एव च । एकादशशतायामाः पादपा गिरिकेतवः

    viṣkambhā racitā meror yojanāyutam ucchritāḥ // ViP_2,2.17ab // G3,M0-2.4,ed. Veṅk. ins.: sarvaiḥ sarobhiś ca samaṃ dikṣv ete kesarācalāḥ // ViP_2,2.17ab*1 // pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ // ViP_2,2.17cd // vipulaḥ paścime pārśve supārśvaś cottare smṛtaḥ // ViP_2,2.17ef // kadambas teṣu jambūś ca pippalo vaṭa eva ca / ekādaśaśatāyāmāḥ pādapā giriketavaḥ

  60. ViP 2.2.19Open verse →

    जम्बूद्वीपस्य सा जम्बूर् नामहेतुर् महामुने । महागजप्रमाणानि जम्ब्वास् तस्याः फलानि वै । पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः

    jambūdvīpasya sā jambūr nāmahetur mahāmune / mahāgajapramāṇāni jambvās tasyāḥ phalāni vai / patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ

  61. ViP 2.2.20Open verse →

    रसेन तेषां प्रख्याता तत्र जम्बूनदीति वै । सरित् प्रवर्तते सा च पीयते तन्निवासिभिः

    rasena teṣāṃ prakhyātā tatra jambūnadīti vai / sarit pravartate sā ca pīyate tannivāsibhiḥ

  62. ViP 2.2.21Open verse →

    न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः । तत्पानात् स्वच्छमनसां जनानां तत्र जायते

    na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ / tatpānāt svacchamanasāṃ janānāṃ tatra jāyate

  63. ViP 2.2.22Open verse →

    तीरमृत् तद्रसं प्राप्य सुखवायुविशोषिता । जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम्

    tīramṛt tadrasaṃ prāpya sukhavāyuviśoṣitā / jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam

  64. ViP 2.2.23Open verse →

    भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे । वर्षे द्वे तु मुनिश्रेष्ठ तयोर् मध्यम् इलावृतम्

    bhadrāśvaṃ pūrvato meroḥ ketumālaṃ ca paścime / varṣe dve tu muniśreṣṭha tayor madhyam ilāvṛtam

  65. ViP 2.2.24Open verse →

    वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् । वैभ्राजं पश्चिमे तद्वद् उत्तरे नन्दनं स्मृतम्

    vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam / vaibhrājaṃ paścime tadvad uttare nandanaṃ smṛtam

  66. ViP 2.2.25Open verse →

    अरुणोदं महाभद्रम् असितोदं समानसम् । सरांस्य् एतानि चत्वारि देवभोग्यानि सर्वदा

    aruṇodaṃ mahābhadram asitodaṃ samānasam / sarāṃsy etāni catvāri devabhogyāni sarvadā

  67. ViP 2.2.26Open verse →

    शीतअम्भश् च कुमुन्दश् च कुररी माल्यवांस् तथा । वैकङ्कप्रमुखा मेरोः पूर्वतः केसराचलाः

    śītaambhaś ca kumundaś ca kurarī mālyavāṃs tathā / vaikaṅkapramukhā meroḥ pūrvataḥ kesarācalāḥ

  68. ViP 2.2.27Open verse →

    त्रिकूटः शिशिरश् चैव पतंगो रुचकस् तथा । निषधाद्या दक्षिणतस् तस्य केसरपर्वताः

    trikūṭaḥ śiśiraś caiva pataṃgo rucakas tathā / niṣadhādyā dakṣiṇatas tasya kesaraparvatāḥ

  69. ViP 2.2.28Open verse →

    शिखिवासाः सवैडूर्यः कपिलो गन्धमादनः । जारुधिप्रमुखास् तद्वत् पश्चिमे केसराचलाः

    śikhivāsāḥ savaiḍūryaḥ kapilo gandhamādanaḥ / jārudhipramukhās tadvat paścime kesarācalāḥ

  70. ViP 2.2.29Open verse →

    मेरोर् अनन्तराङ्गेषु जठरादिष्व् अवस्थिताः । शङ्खकूटो ऽथ ऋषभो हंसो नागस् तथापरः । कालञ्जनाद्याश् च तदा उत्तरे केसराचलाः

    meror anantarāṅgeṣu jaṭharādiṣv avasthitāḥ / śaṅkhakūṭo 'tha ṛṣabho haṃso nāgas tathāparaḥ / kālañjanādyāś ca tadā uttare kesarācalāḥ

  71. ViP 2.2.30Open verse →

    अफ़्तेर् २९, ग्१,२ इन्स्।: चतुर्दशसहस्राणि योजनानां महापुरी । मेरोर् उपरि मैत्रेय ब्रह्मणः प्रथिता दिवि

    After 29, G1,2 ins.: caturdaśasahasrāṇi yojanānāṃ mahāpurī / meror upari maitreya brahmaṇaḥ prathitā divi

  72. ViP 2.2.31Open verse →

    तस्याः समन्ततश् चाष्टौ दिशासु विदिशासु च । इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः

    tasyāḥ samantataś cāṣṭau diśāsu vidiśāsu ca / indrādilokapālānāṃ prakhyātāḥ pravarāḥ puraḥ

  73. ViP 2.2.32Open verse →

    विष्णुपादविनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम् । समन्ताद् ब्रह्मणः पुर्यां गङ्गा पतति वै दिवः

    viṣṇupādaviniṣkrāntā plāvayitvendumaṇḍalam / samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ

  74. ViP 2.2.33Open verse →

    सा तत्र पतिता दिक्षु चतुर्धा प्रतिपद्यते । सीता चालकनन्दा च चक्षुर् भद्रा च वै क्रमात्

    sā tatra patitā dikṣu caturdhā pratipadyate / sītā cālakanandā ca cakṣur bhadrā ca vai kramāt

  75. ViP 2.2.34Open verse →

    पूर्वेण सीता शैलात् तु शैलं यात्य् अन्तरिक्षगा । ततश् च पूर्ववर्षेण भद्राश्वेनैति सार्णवम्

    pūrveṇa sītā śailāt tu śailaṃ yāty antarikṣagā / tataś ca pūrvavarṣeṇa bhadrāśvenaiti sārṇavam

  76. ViP 2.2.35Open verse →

    तथैवालकनन्दापि दक्षिणेनैत्य भारतम् । प्रयाति सागरं भूत्वा सप्तभेदा महामुने

    tathaivālakanandāpi dakṣiṇenaitya bhāratam / prayāti sāgaraṃ bhūtvā saptabhedā mahāmune

  77. ViP 2.2.36Open verse →

    चक्षुश् च पश्चिमगिरीन् अतीत्य सकलांस् ततः । पश्चिमं केतुमालाख्यं वर्षं गत्वैति सागरम्

    cakṣuś ca paścimagirīn atītya sakalāṃs tataḥ / paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti sāgaram

  78. ViP 2.2.37Open verse →

    भद्रा तथोत्तरगिरीन् उत्तरांश् च तथा कुरून् । अतीत्योत्तरम् अम्भोधिं समभ्येति महामुने

    bhadrā tathottaragirīn uttarāṃś ca tathā kurūn / atītyottaram ambhodhiṃ samabhyeti mahāmune

  79. ViP 2.2.38Open verse →

    आनीलनिषधायामौ माल्यवद्गन्धमादनौ । तयोर् मध्यगतो मेरुः कर्णिकाकारसंस्थितः

    ānīlaniṣadhāyāmau mālyavadgandhamādanau / tayor madhyagato meruḥ karṇikākārasaṃsthitaḥ

  80. ViP 2.2.39Open verse →

    भारताः केतुमालाश् च भद्राश्वाः कुरवस् तथा । पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः

    bhāratāḥ ketumālāś ca bhadrāśvāḥ kuravas tathā / patrāṇi lokapadmasya maryādāśailabāhyataḥ

  81. ViP 2.2.40Open verse →

    जठरो देवकूटश् च मर्यादापर्वताव् उभौ । तौ दक्षिणोत्तरायामाव् आनीलनिषधायतौ

    jaṭharo devakūṭaś ca maryādāparvatāv ubhau / tau dakṣiṇottarāyāmāv ānīlaniṣadhāyatau

  82. ViP 2.2.41Open verse →

    गन्धमादनकैलासौ पूर्वपश्चायताव् उभौ । अशीतियोजनायामाव् अर्णवान्तर्व्यवस्थितौ

    gandhamādanakailāsau pūrvapaścāyatāv ubhau / aśītiyojanāyāmāv arṇavāntarvyavasthitau

  83. ViP 2.2.42Open verse →

    निषधः पारियात्रश् च मर्यादापर्वताव् उभौ । मेरोः पश्चिमदिग्भागे यथापूर्वौ तथा स्थितौ

    niṣadhaḥ pāriyātraś ca maryādāparvatāv ubhau / meroḥ paścimadigbhāge yathāpūrvau tathā sthitau

  84. ViP 2.2.43Open verse →

    त्रिशृङ्गो जारुधिश् चैव उत्तरौ वर्षपर्वतौ । पूर्वपश्चायताव् एताव् अर्णवान्तर्व्यवस्थितौ

    triśṛṅgo jārudhiś caiva uttarau varṣaparvatau / pūrvapaścāyatāv etāv arṇavāntarvyavasthitau

  85. ViP 2.2.44Open verse →

    इत्य् एते मुनिवर्योक्ता मर्यादापर्वतास् तव । जठराद्याः स्थिता मेरोस् येषां द्वौ द्वौ चतुर्दिशम्

    ity ete munivaryoktā maryādāparvatās tava / jaṭharādyāḥ sthitā meros yeṣāṃ dvau dvau caturdiśam

  86. ViP 2.2.45Open verse →

    मेरोश् चतुर्दिशं ये तु प्रोक्ताः केसरपर्वताः । शीताद्याश् च मुने तेषाम् अतीव हि मनोरमाः । शैलानाम् अन्तरद्रोण्यः सिद्धचारणसेविताः

    meroś caturdiśaṃ ye tu proktāḥ kesaraparvatāḥ / śītādyāś ca mune teṣām atīva hi manoramāḥ / śailānām antaradroṇyaḥ siddhacāraṇasevitāḥ

  87. ViP 2.2.46Open verse →

    सुरम्याणि तथा तासु काननानि पुराणि च । लक्ष्मीविष्ण्वग्निसूर्यादिदेवानां मुनिसत्तम । तास्व् आयतनवर्याणि जुष्टानि वरकिंनरैः

    suramyāṇi tathā tāsu kānanāni purāṇi ca / lakṣmīviṣṇvagnisūryādidevānāṃ munisattama / tāsv āyatanavaryāṇi juṣṭāni varakiṃnaraiḥ

  88. ViP 2.2.47Open verse →

    गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः । क्रीडन्ति तासु रम्यासु शैलद्रोणीष्व् अहर्निशम्

    gandharvayakṣarakṣāṃsi tathā daiteyadānavāḥ / krīḍanti tāsu ramyāsu śailadroṇīṣv aharniśam

  89. ViP 2.2.48Open verse →

    भौमा ह्य् एते स्मृताः स्वर्गा धर्मिणाम् आलया मुने । नैतेषु पापकर्तारो यान्ति जन्मशतैर् अपि

    bhaumā hy ete smṛtāḥ svargā dharmiṇām ālayā mune / naiteṣu pāpakartāro yānti janmaśatair api

  90. ViP 2.2.49Open verse →

    भद्राश्वे भगवान् विष्णुर् आस्ते हयशिरा द्विज । वराहः केतुमाले तु भारते कूर्मरूपधृक्

    bhadrāśve bhagavān viṣṇur āste hayaśirā dvija / varāhaḥ ketumāle tu bhārate kūrmarūpadhṛk

  91. ViP 2.2.50Open verse →

    मत्स्यरूपश् च गोविन्दः कुरुष्व् आस्ते जनार्दनः । विश्वरूपेण सर्वत्र सर्वः सर्वेश्वरो हरिः

    matsyarūpaś ca govindaḥ kuruṣv āste janārdanaḥ / viśvarūpeṇa sarvatra sarvaḥ sarveśvaro hariḥ

  92. ViP 2.2.51Open verse →

    सर्वस्याधारभूतो ऽसौ मैत्रेयास्ते ऽखिलात्मकः

    sarvasyādhārabhūto 'sau maitreyāste 'khilātmakaḥ

  93. ViP 2.2.52Open verse →

    यानि किंपुरुषाद्यानि वर्षाण्य् अष्टौ महामुने । न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम्

    yāni kiṃpuruṣādyāni varṣāṇy aṣṭau mahāmune / na teṣu śoko nāyāso nodvegaḥ kṣudbhayādikam

  94. ViP 2.2.53Open verse →

    स्वस्थाः प्रजा निरातङ्काः सर्वदुःखविवर्जिताः । दश द्वादशवर्षाणां सहस्राणि स्थिरायुषः

    svasthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ / daśa dvādaśavarṣāṇāṃ sahasrāṇi sthirāyuṣaḥ

  95. ViP 2.2.54Open verse →

    न तेषु वर्षते देवो भौमान्य् अम्भांसि तेषु वै । कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना

    na teṣu varṣate devo bhaumāny ambhāṃsi teṣu vai / kṛtatretādikā naiva teṣu sthāneṣu kalpanā

  96. ViP 2.2.55Open verse →

    सर्वेष्व् एतेषु वर्षेषु सप्त सप्त कुलाचलाः । नद्यश् च शतशस् तेभ्यः प्रसूता या द्विजोत्तम

    sarveṣv eteṣu varṣeṣu sapta sapta kulācalāḥ / nadyaś ca śataśas tebhyaḥ prasūtā yā dvijottama

  97. ______________________________________________________ §पराशर उवाच: उत्तरं यत् समुद्रस्य हिमाद्रेश् चैव दक्षिणम् । वर्षं तद् भारतं नाम भारती यत्र संततिः

    ______________________________________________________ §parāśara uvāca: uttaraṃ yat samudrasya himādreś caiva dakṣiṇam / varṣaṃ tad bhārataṃ nāma bhāratī yatra saṃtatiḥ

  98. नवयोजनसाहस्रो विस्तारो ऽस्य महामुने । कर्मभूमिर् इयं स्वर्गम् अपवर्गं च गच्छताम्

    navayojanasāhasro vistāro 'sya mahāmune / karmabhūmir iyaṃ svargam apavargaṃ ca gacchatām

  99. महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः । विन्ध्यश् च पारियात्रश् च सप्तात्र कुलपर्वताः

    mahendro malayaḥ sahyaḥ śuktimān ṛkṣaparvataḥ / vindhyaś ca pāriyātraś ca saptātra kulaparvatāḥ

  100. अतः संप्राप्यते स्वर्गो मुक्तिम् अस्मात् प्रयान्ति च । तिर्यक्त्वं नरकं चापि यान्त्य् अतः पुरुषा मुने

    ataḥ saṃprāpyate svargo muktim asmāt prayānti ca / tiryaktvaṃ narakaṃ cāpi yānty ataḥ puruṣā mune

  101. इतः स्वर्गश् च मोक्षश् च मध्यं चान्तश् च गम्यते । न खल्व् अन्यत्र मर्त्यानां कर्म भूमौ विधीयते

    itaḥ svargaś ca mokṣaś ca madhyaṃ cāntaś ca gamyate / na khalv anyatra martyānāṃ karma bhūmau vidhīyate

  102. भारतस्यास्य वर्षस्य नव भेदान् निशामय । इन्द्रद्वीपः कसेरुश् च ताम्रपर्णो गभस्तिमान्

    bhāratasyāsya varṣasya nava bhedān niśāmaya / indradvīpaḥ kaseruś ca tāmraparṇo gabhastimān

  103. नागद्वीपस् तथा सौम्यो गान्धर्वस् त्व् अथ वारुणः । अयं तु नवमस् तेषां द्वीपः सागरसंवृतः

    nāgadvīpas tathā saumyo gāndharvas tv atha vāruṇaḥ / ayaṃ tu navamas teṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ

  104. योजनानां सहस्रं तु द्वीपो ऽयं दक्षिणोत्तरात् । पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः

    yojanānāṃ sahasraṃ tu dvīpo 'yaṃ dakṣiṇottarāt / pūrve kirātā yasyānte paścime yavanāḥ sthitāḥ

  105. ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश् च भागशः । इज्यायुधवणिज्याद्यैर् वर्तयन्तो व्यवस्थिताः

    brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāś ca bhāgaśaḥ / ijyāyudhavaṇijyādyair vartayanto vyavasthitāḥ

  106. ViP 2.3.10Open verse →

    शतद्रूचन्द्रभागाद्या हिमवत्पादनिःसृताः । वेदस्मृतिमुखाश् चान्याः पारियात्रोद्भवा मुने

    śatadrūcandrabhāgādyā himavatpādaniḥsṛtāḥ / vedasmṛtimukhāś cānyāḥ pāriyātrodbhavā mune

  107. ViP 2.3.11Open verse →

    नर्मदासुरसाद्याश् च नद्यो विन्ध्याद्रिनिर्गताः । तापीपयोष्णीनिर्विन्ध्याप्रमुखा ऋक्षसंभवाः

    narmadāsurasādyāś ca nadyo vindhyādrinirgatāḥ / tāpīpayoṣṇīnirvindhyāpramukhā ṛkṣasaṃbhavāḥ

  108. ViP 2.3.12Open verse →

    गोदावरी भीमरथी कृष्णवेण्यादिकास् तथा । सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः

    godāvarī bhīmarathī kṛṣṇaveṇyādikās tathā / sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ

  109. ViP 2.3.13Open verse →

    कृतमालाताम्रपर्णीप्रमुखा मलयोद्भवाः । त्रिसामा ऋषिकुल्याद्या महेन्द्रप्रभवाः स्मृताः

    kṛtamālātāmraparṇīpramukhā malayodbhavāḥ / trisāmā ṛṣikulyādyā mahendraprabhavāḥ smṛtāḥ

  110. ViP 2.3.14Open verse →

    ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसंभवाः । आसां नद्युपनद्यश् च सन्त्य् अन्याश् च सहस्रशः

    ṛṣikulyākumārādyāḥ śuktimatpādasaṃbhavāḥ / āsāṃ nadyupanadyaś ca santy anyāś ca sahasraśaḥ

  111. ViP 2.3.15Open verse →

    तास्व् इमे कुरुपाञ्चाला मध्यदेशादयो जनाः । पूर्वदेशादिकाश् चैव कामरूपनिवासिनः

    tāsv ime kurupāñcālā madhyadeśādayo janāḥ / pūrvadeśādikāś caiva kāmarūpanivāsinaḥ

  112. ViP 2.3.16Open verse →

    पुण्ड्राः कलिङ्गा मगधा दाक्षिणाद्याश् च कृत्स्नशः । तथापरान्ताः सौराष्ट्राः शूराभीरास् तथार्बुदाः

    puṇḍrāḥ kaliṅgā magadhā dākṣiṇādyāś ca kṛtsnaśaḥ / tathāparāntāḥ saurāṣṭrāḥ śūrābhīrās tathārbudāḥ

  113. ViP 2.3.17Open verse →

    कारूषा मालवाश् चैव पारियात्रनिवासिनः । सौवीराः सैन्धवा हूणाः साल्वाः शाकलवासिनः

    kārūṣā mālavāś caiva pāriyātranivāsinaḥ / sauvīrāḥ saindhavā hūṇāḥ sālvāḥ śākalavāsinaḥ

  114. ViP 2.3.18Open verse →

    मद्रा रामास् तथाम्बष्ठाः पारसीकादयस् तथा । आसां पिबन्ति सलिलं वसन्ति सरितां सदा । समीपतो महाभागा हृष्टपुष्टजनाकुलाः

    madrā rāmās tathāmbaṣṭhāḥ pārasīkādayas tathā / āsāṃ pibanti salilaṃ vasanti saritāṃ sadā / samīpato mahābhāgā hṛṣṭapuṣṭajanākulāḥ

  115. ViP 2.3.19Open verse →

    चत्वारि भारते वर्षे युगान्य् अत्र महामुने । कृतं त्रेता द्वापरं च कलिश् चान्यत्र न क्वचित्

    catvāri bhārate varṣe yugāny atra mahāmune / kṛtaṃ tretā dvāparaṃ ca kaliś cānyatra na kvacit

  116. ViP 2.3.20Open verse →

    तपस् तप्यन्ति यतयो जुह्वते चात्र यज्विनः । दानानि चात्र दीयन्ते परलोकार्थम् आदरात्

    tapas tapyanti yatayo juhvate cātra yajvinaḥ / dānāni cātra dīyante paralokārtham ādarāt

  117. ViP 2.3.21Open verse →

    पुरुषैर् यज्ञपुरुषो जम्बूद्वीपे सदेज्यते । यज्ञैर् यज्ञमयो विष्णुर् अन्यद्वीपेषु चान्यथा

    puruṣair yajñapuruṣo jambūdvīpe sadejyate / yajñair yajñamayo viṣṇur anyadvīpeṣu cānyathā

  118. ViP 2.3.22Open verse →

    अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने । यतो हि कर्मभूर् एषा ह्य् अतो ऽन्या भोगभूमयः

    atrāpi bhārataṃ śreṣṭhaṃ jambūdvīpe mahāmune / yato hi karmabhūr eṣā hy ato 'nyā bhogabhūmayaḥ

  119. ViP 2.3.23Open verse →

    अत्र जन्मसहस्राणां सहस्रैर् अपि सत्तम । कदाचिल् लभते जन्तुर् मानुष्यं पुण्यसंचयात्

    atra janmasahasrāṇāṃ sahasrair api sattama / kadācil labhate jantur mānuṣyaṃ puṇyasaṃcayāt

  120. ViP 2.3.24Open verse →

    गायन्ति देवाः किल गीतकानि धन्यास् तु ये भारतभूमिभागे । स्वर्गापवर्गास्पदहेतुभूते भवन्ति भूयः पुरुषाः सुरत्वात्

    gāyanti devāḥ kila gītakāni dhanyās tu ye bhāratabhūmibhāge / svargāpavargāspadahetubhūte bhavanti bhūyaḥ puruṣāḥ suratvāt

  121. ViP 2.3.25Open verse →

    कर्माण्य् असंकल्पिततत्फलानि संन्यस्य विष्णौ परमात्मरूपे । अवाप्य तां कर्ममहीम् अनन्ते तस्मिंल् लयं ये त्व् अमलाः प्रयान्ति

    karmāṇy asaṃkalpitatatphalāni saṃnyasya viṣṇau paramātmarūpe / avāpya tāṃ karmamahīm anante tasmiṃl layaṃ ye tv amalāḥ prayānti

  122. ViP 2.3.26Open verse →

    जानीम नैतत् क्व वयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम् । प्राप्स्याम धन्याः खलु ते मनुष्या ये भारते नेन्द्रियविप्रहीनाः

    jānīma naitat kva vayaṃ vilīne svargaprade karmaṇi dehabandham / prāpsyāma dhanyāḥ khalu te manuṣyā ye bhārate nendriyaviprahīnāḥ

  123. ViP 2.3.27Open verse →

    नववर्षं तु मैत्रेय जम्बूद्वीपम् इदं मया । लक्षयोजनविस्तारं संक्षेपात् कथितं तव

    navavarṣaṃ tu maitreya jambūdvīpam idaṃ mayā / lakṣayojanavistāraṃ saṃkṣepāt kathitaṃ tava

  124. ViP 2.3.28Open verse →

    जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः । मैत्रेय वलयाकारः स्थितः क्षारोदधिर् बहिः

    jambūdvīpaṃ samāvṛtya lakṣayojanavistaraḥ / maitreya valayākāraḥ sthitaḥ kṣārodadhir bahiḥ

  125. ______________________________________________________ §पराशर उवाच: क्षारोदेन यथा द्वीपो जम्बूसंज्ञो ऽभिवेष्टितः । संवेष्ट्य क्षारम् उदधिं प्लक्षद्वीपस् तथा स्थितः

    ______________________________________________________ §parāśara uvāca: kṣārodena yathā dvīpo jambūsaṃjño 'bhiveṣṭitaḥ / saṃveṣṭya kṣāram udadhiṃ plakṣadvīpas tathā sthitaḥ

  126. श्२,द्७ इन्स्।: जम्बूद्वीपस्य विस्तारः शतसाहस्रसंमितः । स एवं द्विगुणो ब्रह्मन् प्लक्षद्वीप उदाहृतः

    Ś2,D7 ins.: jambūdvīpasya vistāraḥ śatasāhasrasaṃmitaḥ / sa evaṃ dviguṇo brahman plakṣadvīpa udāhṛtaḥ

  127. सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै । ज्येष्ठः शान्तभयो नाम शिशिरस् तदनन्तरः

    sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya vai / jyeṣṭhaḥ śāntabhayo nāma śiśiras tadanantaraḥ

  128. सुखोदयस् तथानन्दः शिवः क्षेमक एव च । ध्रुवश् च सप्तमस् तेषां प्लक्षद्वीपेश्वरा हि ते

    sukhodayas tathānandaḥ śivaḥ kṣemaka eva ca / dhruvaś ca saptamas teṣāṃ plakṣadvīpeśvarā hi te

  129. पूर्वं शान्तभयं वर्षं शिशिरं सुखदं तथा । आनन्दं च शिवं चैव क्षेमकं ध्रुवम् एव च

    pūrvaṃ śāntabhayaṃ varṣaṃ śiśiraṃ sukhadaṃ tathā / ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvam eva ca

  130. मर्यादाकारकास् तेषां तथान्ये वर्षपर्वताः । सप्तैव तेषां नामानि शृणुष्व मुनिसत्तम

    maryādākārakās teṣāṃ tathānye varṣaparvatāḥ / saptaiva teṣāṃ nāmāni śṛṇuṣva munisattama

  131. गोमेदश् चैव चन्द्रश् च नारदो दुन्दुभिस् तथा । सोमकः सुमनाः शैलो वैभ्राजश् चैव सप्तमः

    gomedaś caiva candraś ca nārado dundubhis tathā / somakaḥ sumanāḥ śailo vaibhrājaś caiva saptamaḥ

  132. वर्षाचलेषु रम्येषु वर्षेष्व् एतेषु चानघाः । वसन्ति देवगन्धर्वसहिताः सततं प्रजाः

    varṣācaleṣu ramyeṣu varṣeṣv eteṣu cānaghāḥ / vasanti devagandharvasahitāḥ satataṃ prajāḥ

  133. तेषु पुण्या जनपदाश् चिराच् च म्रियते जनः । नाधयो व्याधयो वापि सर्वकालसुखं हि तत्

    teṣu puṇyā janapadāś cirāc ca mriyate janaḥ / nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat

  134. ViP 2.4.10Open verse →

    तेषां नद्यश् च सप्तैव वर्षाणां तु समुद्रगाः । नामतस् ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः

    teṣāṃ nadyaś ca saptaiva varṣāṇāṃ tu samudragāḥ / nāmatas tāḥ pravakṣyāmi śrutāḥ pāpaṃ haranti yāḥ

  135. ViP 2.4.11Open verse →

    अनुतप्ता शिखी चैव विपाशा त्रिदिवा क्रमुः । अमृता सुकृता चैव सप्तैतास् तत्र निम्नगाः

    anutaptā śikhī caiva vipāśā tridivā kramuḥ / amṛtā sukṛtā caiva saptaitās tatra nimnagāḥ

  136. ViP 2.4.12Open verse →

    एते शैलास् तथा नद्यः प्रधानाः कथितास् तव । क्षुद्रनद्यस् तथा शैलास् तत्र सन्ति सहस्रशः । ताः पिबन्ति सदा हृष्टा नदीर् जनपदास् तु ते

    ete śailās tathā nadyaḥ pradhānāḥ kathitās tava / kṣudranadyas tathā śailās tatra santi sahasraśaḥ / tāḥ pibanti sadā hṛṣṭā nadīr janapadās tu te

  137. ViP 2.4.13Open verse →

    अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी द्विज । न त्व् एवास्ति युगावस्था तेषु स्थानेषु सप्तसु

    apasarpiṇī na teṣāṃ vai na caivotsarpiṇī dvija / na tv evāsti yugāvasthā teṣu sthāneṣu saptasu

  138. ViP 2.4.14Open verse →

    त्रेतायुगसमः कालः सर्वदैव महामते । प्लक्षद्वीपादिषु ब्रह्मञ् शाकद्वीपान्तिकेषु वै

    tretāyugasamaḥ kālaḥ sarvadaiva mahāmate / plakṣadvīpādiṣu brahmañ śākadvīpāntikeṣu vai

  139. ViP 2.4.15Open verse →

    पञ्चवर्षसहस्राणि जना जीवन्त्य् अनामयाः । धर्मः पञ्चस्व् अथैतेषु वर्णाश्रमविभागशः

    pañcavarṣasahasrāṇi janā jīvanty anāmayāḥ / dharmaḥ pañcasv athaiteṣu varṇāśramavibhāgaśaḥ

  140. ViP 2.4.16Open verse →

    वर्णाश् च तत्र चत्वारस् तान् निबोध वदामि ते

    varṇāś ca tatra catvāras tān nibodha vadāmi te

  141. ViP 2.4.17Open verse →

    आर्यकाः कुरराश् चैव विविंशा भाविनश् च ये । विप्रक्षत्रियवैश्यास् ते शूद्राश् च मुनिसत्तम

    āryakāḥ kurarāś caiva viviṃśā bhāvinaś ca ye / viprakṣatriyavaiśyās te śūdrāś ca munisattama

  142. ViP 2.4.18Open verse →

    जम्बूवृक्षप्रमाणस् तु तन्मध्ये सुमहांस् तरुः । प्लक्षस् तन्नामसंज्ञो ऽयं प्लक्षद्वीपो द्विजोत्तम

    jambūvṛkṣapramāṇas tu tanmadhye sumahāṃs taruḥ / plakṣas tannāmasaṃjño 'yaṃ plakṣadvīpo dvijottama

  143. ViP 2.4.19Open verse →

    इज्यते तत्र भगवांस् तैर् वर्णैर् आर्यकादिभिः । सोमरूपी जगत्स्रष्टा सर्वः सर्वेश्वरो हरिः

    ijyate tatra bhagavāṃs tair varṇair āryakādibhiḥ / somarūpī jagatsraṣṭā sarvaḥ sarveśvaro hariḥ

  144. ViP 2.4.20Open verse →

    प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः । तथैवेक्षुरसोदेन परिवेषानुकारिणा

    plakṣadvīpapramāṇena plakṣadvīpaḥ samāvṛtaḥ / tathaivekṣurasodena pariveṣānukāriṇā

  145. ViP 2.4.21Open verse →

    इत्य् एष तव मैत्रेय प्लक्षद्वीप उदाहृतः । संक्षेपेण मया भूयः शाल्मलं मे निशामय

    ity eṣa tava maitreya plakṣadvīpa udāhṛtaḥ / saṃkṣepeṇa mayā bhūyaḥ śālmalaṃ me niśāmaya

  146. ViP 2.4.22Open verse →

    शाल्मलस्येश्वरो वीरो वपुष्मांस् तत्सुताञ् छृणु । येषां तु नामसंज्ञानि सप्त वर्षाणि तानि वै

    śālmalasyeśvaro vīro vapuṣmāṃs tatsutāñ chṛṇu / yeṣāṃ tu nāmasaṃjñāni sapta varṣāṇi tāni vai

  147. ViP 2.4.23Open verse →

    श्वेतो ऽथ हरितश् चैव जीमूतो रोहितस् तथा । वैद्युतो मानसश् चैव सुप्रभश् च महामुने

    śveto 'tha haritaś caiva jīmūto rohitas tathā / vaidyuto mānasaś caiva suprabhaś ca mahāmune

  148. ViP 2.4.24Open verse →

    शाल्मलेन समुद्रो ऽसौ द्वीपेनेक्षुरसोदकः । विस्तारद्विगुणेनाथ सर्वतः संवृतः स्थितः

    śālmalena samudro 'sau dvīpenekṣurasodakaḥ / vistāradviguṇenātha sarvataḥ saṃvṛtaḥ sthitaḥ

  149. ViP 2.4.25Open verse →

    तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः । वर्षाभिव्यञ्जकास् ते तु तथा सप्तैव निम्नगाः

    tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ / varṣābhivyañjakās te tu tathā saptaiva nimnagāḥ

  150. ViP 2.4.26Open verse →

    कुमुदश् चोन्नतश् चैव तृतीयश् च बलाहकः । द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः

    kumudaś connataś caiva tṛtīyaś ca balāhakaḥ / droṇo yatra mahauṣadhyaḥ sa caturtho mahīdharaḥ

  151. ViP 2.4.27Open verse →

    कङ्कस् तु पञ्चमः षष्ठो महिषः सप्तमस् तथा । ककुद्मान् पर्वतवरः सरिन्नामानि मे शृणु

    kaṅkas tu pañcamaḥ ṣaṣṭho mahiṣaḥ saptamas tathā / kakudmān parvatavaraḥ sarinnāmāni me śṛṇu

  152. ViP 2.4.28Open verse →

    योनी तोया वितृष्णा च चन्द्रा शुक्ला विमोचनी । निवृत्तिः सप्तमी तासां स्मृतास् ताः पापशान्तिदाः

    yonī toyā vitṛṣṇā ca candrā śuklā vimocanī / nivṛttiḥ saptamī tāsāṃ smṛtās tāḥ pāpaśāntidāḥ

  153. ViP 2.4.29Open verse →

    श्वेतं च हरितं चैव जीमूतं रोहितं तथा । वैद्युतं मानसं चैव सुप्रभं चातिशोभनम् । सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि वै

    śvetaṃ ca haritaṃ caiva jīmūtaṃ rohitaṃ tathā / vaidyutaṃ mānasaṃ caiva suprabhaṃ cātiśobhanam / saptaitāni tu varṣāṇi cāturvarṇyayutāni vai

  154. ViP 2.4.30Open verse →

    शाल्मले ये तु वर्णाश् च वसन्त्य् एते महामुने । कपिलाश् चारुणाः पीताः कृष्णाश् चैव पृथक् पृथक्

    śālmale ye tu varṇāś ca vasanty ete mahāmune / kapilāś cāruṇāḥ pītāḥ kṛṣṇāś caiva pṛthak pṛthak

  155. ViP 2.4.31Open verse →

    ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चैव यजन्ति तम् । भगवन्तं समस्तस्य विष्णुम् आत्मानम् अव्ययम् । वायुभूतं मखश्रेष्ठैर् यज्विनो यज्ञसंस्थितम्

    brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva yajanti tam / bhagavantaṃ samastasya viṣṇum ātmānam avyayam / vāyubhūtaṃ makhaśreṣṭhair yajvino yajñasaṃsthitam

  156. ViP 2.4.32Open verse →

    देवानाम् अत्र सांनिध्यम् अतीव सुमनोरमे । शाल्मलिश् च महावृक्षो नाम निर्वृतिकारकः

    devānām atra sāṃnidhyam atīva sumanorame / śālmaliś ca mahāvṛkṣo nāma nirvṛtikārakaḥ

  157. ViP 2.4.33Open verse →

    एष द्वीपः समुद्रेण सुरोदेन समावृतः । विस्ताराच् छाल्मलस्यैव समेन तु समन्ततः

    eṣa dvīpaḥ samudreṇa surodena samāvṛtaḥ / vistārāc chālmalasyaiva samena tu samantataḥ

  158. ViP 2.4.34Open verse →

    सुरोदकः परिवृतः कुशद्वीपेन सर्वतः । शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः

    surodakaḥ parivṛtaḥ kuśadvīpena sarvataḥ / śālmalasya tu vistārād dviguṇena samantataḥ

  159. ViP 2.4.35Open verse →

    ज्योतिष्मतः कुशद्वीपे सप्त पुत्रान् शृणुष्व तान्

    jyotiṣmataḥ kuśadvīpe sapta putrān śṛṇuṣva tān

  160. ViP 2.4.36Open verse →

    उद्भिदो वेणुमांश् चैव स्वैरथो लम्बनो धृतिः । प्रभाकरो ऽथ कपिलस् तन्नामा वर्षपद्धतिः

    udbhido veṇumāṃś caiva svairatho lambano dhṛtiḥ / prabhākaro 'tha kapilas tannāmā varṣapaddhatiḥ

  161. ViP 2.4.37Open verse →

    तस्यां वसन्ति मनुजाः सह दैतेयदानवैः । तथैव देवगन्धर्वयक्षकिंपुरुषादयः

    tasyāṃ vasanti manujāḥ saha daiteyadānavaiḥ / tathaiva devagandharvayakṣakiṃpuruṣādayaḥ

  162. ViP 2.4.38Open verse →

    वर्णास् तत्रापि चत्वारो निजानुष्ठानतत्पराः । दमिनः शुष्मिणः स्नेहा मन्देहाश् च महामुने

    varṇās tatrāpi catvāro nijānuṣṭhānatatparāḥ / daminaḥ śuṣmiṇaḥ snehā mandehāś ca mahāmune

  163. ViP 2.4.39Open verse →

    ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चानुक्रमोदिताः

    brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānukramoditāḥ

  164. ViP 2.4.40Open verse →

    यथोक्तकर्मकर्तृत्वात् स्वाधिकारक्षयाय ते । तत्र ते तु कुशद्वीपे ब्रह्मरूपं जनार्दनम् । यजन्तः क्षपयन्त्य् उग्रम् अधिकारफलप्रदम्

    yathoktakarmakartṛtvāt svādhikārakṣayāya te / tatra te tu kuśadvīpe brahmarūpaṃ janārdanam / yajantaḥ kṣapayanty ugram adhikāraphalapradam

  165. ViP 2.4.41Open verse →

    विद्रुमो हेमशैलश् च द्युतिमान् पुष्पवांस् तथा । कुशेशयो हरिश् चैव सप्तमो मन्दराचलः

    vidrumo hemaśailaś ca dyutimān puṣpavāṃs tathā / kuśeśayo hariś caiva saptamo mandarācalaḥ

  166. ViP 2.4.42Open verse →

    वर्षाचलास् तु सप्तैते तत्र द्वीपे महामुने । नद्यश् च सप्त तासां तु शृणु नामान्य् अनुक्रमात्

    varṣācalās tu saptaite tatra dvīpe mahāmune / nadyaś ca sapta tāsāṃ tu śṛṇu nāmāny anukramāt

  167. ViP 2.4.43Open verse →

    धूतपापा शिवा चैव पवित्रा संमतिस् तथा । विद्युद् अम्भा मही चान्या सर्वपापहरास् त्व् इमाः

    dhūtapāpā śivā caiva pavitrā saṃmatis tathā / vidyud ambhā mahī cānyā sarvapāpaharās tv imāḥ

  168. ViP 2.4.44Open verse →

    अन्याः सहस्रशस् तत्र क्षुद्रनद्यस् तथाचलाः । कुशद्वीपे कुशस्तम्बः संज्ञया तस्य तत् स्मृतम्

    anyāḥ sahasraśas tatra kṣudranadyas tathācalāḥ / kuśadvīpe kuśastambaḥ saṃjñayā tasya tat smṛtam

  169. ViP 2.4.45Open verse →

    तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः । घृतोदश् च समुद्रो वै क्रौञ्चद्वीपेन संवृतः

    tatpramāṇena sa dvīpo ghṛtodena samāvṛtaḥ / ghṛtodaś ca samudro vai krauñcadvīpena saṃvṛtaḥ

  170. ViP 2.4.46Open verse →

    क्रौञ्चद्वीपो महाभाग श्रूयतां चापरो महान् । कुशद्वीपस्य विस्ताराद् द्विगुणो यस्य विस्तरः

    krauñcadvīpo mahābhāga śrūyatāṃ cāparo mahān / kuśadvīpasya vistārād dviguṇo yasya vistaraḥ

  171. ViP 2.4.47Open verse →

    क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्मनः । तन्नामानि च वर्षाणि तेषां चक्रे महीपतिः

    krauñcadvīpe dyutimataḥ putrāḥ sapta mahātmanaḥ / tannāmāni ca varṣāṇi teṣāṃ cakre mahīpatiḥ

  172. ViP 2.4.48Open verse →

    कुशलो मनुगश् चोष्णः पीवरो ऽथान्धकारकः । मुनिश् च दुन्दुभिश् चैव सप्तैते तत्सुता मुने

    kuśalo manugaś coṣṇaḥ pīvaro 'thāndhakārakaḥ / muniś ca dundubhiś caiva saptaite tatsutā mune

  173. ViP 2.4.49Open verse →

    तत्रापि देवगन्धर्वसेविताः सुमनोरमाः । वर्षाचला महाबुद्धे तेषां नामानि मे शृणु

    tatrāpi devagandharvasevitāḥ sumanoramāḥ / varṣācalā mahābuddhe teṣāṃ nāmāni me śṛṇu

  174. ViP 2.4.50Open verse →

    क्रौञ्चश् च वामनश् चैव तृतीयश् चान्धकारकः । चतुर्थो रत्नशैलश् च स्वाहिनी हयसंनिभः

    krauñcaś ca vāmanaś caiva tṛtīyaś cāndhakārakaḥ / caturtho ratnaśailaś ca svāhinī hayasaṃnibhaḥ

  175. ViP 2.4.51Open verse →

    दिवावृत् पञ्चमश् चात्र तथान्यः पुण्डरीकवान् । दुन्दुभिश् च महाशैलो द्विगुणास् ते परस्परम् । द्वीपा द्वीपेषु ये शैला यथा द्वीपानि ते तथा

    divāvṛt pañcamaś cātra tathānyaḥ puṇḍarīkavān / dundubhiś ca mahāśailo dviguṇās te parasparam / dvīpā dvīpeṣu ye śailā yathā dvīpāni te tathā

  176. ViP 2.4.52Open verse →

    वर्षेष्व् एतेषु रम्येषु वर्षशैलवरेषु च । निवसन्ति निरातङ्काः सह देवगणैः प्रजाः

    varṣeṣv eteṣu ramyeṣu varṣaśailavareṣu ca / nivasanti nirātaṅkāḥ saha devagaṇaiḥ prajāḥ

  177. ViP 2.4.53Open verse →

    पुष्कराः पुष्कला धन्यास् तिष्याख्याश् च महामुने । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चानुक्रमोदिताः

    puṣkarāḥ puṣkalā dhanyās tiṣyākhyāś ca mahāmune / brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānukramoditāḥ

  178. ViP 2.4.54Open verse →

    ते तत्र नद्यो मैत्रेय याः पिबन्ति शृणुष्व ताः । सप्त प्रधानाः शतशस् तत्रान्याः क्षुद्रनिम्नगाः

    te tatra nadyo maitreya yāḥ pibanti śṛṇuṣva tāḥ / sapta pradhānāḥ śataśas tatrānyāḥ kṣudranimnagāḥ

  179. ViP 2.4.55Open verse →

    गौरी कुमुद्वती चैव संध्या रात्रिर् मनोजवा । ख्यातिश् च पुण्डरीका च सप्तैता वर्षनिम्नगाः

    gaurī kumudvatī caiva saṃdhyā rātrir manojavā / khyātiś ca puṇḍarīkā ca saptaitā varṣanimnagāḥ

  180. ViP 2.4.56Open verse →

    अत्रापि वर्णैर् भगवान् पुष्कराद्यैर् जनार्दनः । यागै रुद्रस्वरूपस्थ इज्यते यज्ञसंनिधौ

    atrāpi varṇair bhagavān puṣkarādyair janārdanaḥ / yāgai rudrasvarūpastha ijyate yajñasaṃnidhau

  181. ViP 2.4.57Open verse →

    क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु । आवृतः सर्वतः क्रौञ्चद्वीपतुल्येन मानतः

    krauñcadvīpaḥ samudreṇa dadhimaṇḍodakena tu / āvṛtaḥ sarvataḥ krauñcadvīpatulyena mānataḥ

  182. ViP 2.4.58Open verse →

    दधिमण्डोदकश् चापि शाकद्वीपेन संवृतः । क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन महामुने

    dadhimaṇḍodakaś cāpi śākadvīpena saṃvṛtaḥ / krauñcadvīpasya vistārād dviguṇena mahāmune

  183. ViP 2.4.59Open verse →

    शाकद्वीपेश्वरस्यापि भव्यस्य सुमहात्मनः । सप्तैव तनयास् तेषां ददौ वर्षाणि सप्त सः

    śākadvīpeśvarasyāpi bhavyasya sumahātmanaḥ / saptaiva tanayās teṣāṃ dadau varṣāṇi sapta saḥ

  184. ViP 2.4.60Open verse →

    जलदश् च कुमारश् च सुकुमारो मणीचकः । कुसुमोदः सुमोदाकिः सप्तमश् च महाद्रुमः

    jaladaś ca kumāraś ca sukumāro maṇīcakaḥ / kusumodaḥ sumodākiḥ saptamaś ca mahādrumaḥ

  185. ViP 2.4.61Open verse →

    तत्संज्ञान्य् एव तत्रापि सप्त वर्षाण्य् अनुक्रमात् । तत्रापि पर्वताः सप्त वर्षविच्छेदकारिणः

    tatsaṃjñāny eva tatrāpi sapta varṣāṇy anukramāt / tatrāpi parvatāḥ sapta varṣavicchedakāriṇaḥ

  186. ViP 2.4.62Open verse →

    पूर्वस् तत्रोदयगिरिर् जलधारस् तथापरः । तथा रैवतकः श्यामस् तथैवाम्भोगिरिर् द्विज । आम्बिकेयस् तथा रम्यः केसरी पर्वतोत्तमः

    pūrvas tatrodayagirir jaladhāras tathāparaḥ / tathā raivatakaḥ śyāmas tathaivāmbhogirir dvija / āmbikeyas tathā ramyaḥ kesarī parvatottamaḥ

  187. ViP 2.4.63Open verse →

    द्६ इन्स्।: शाकस् तत्र महावृक्षः सिद्धगन्धर्वसेवितः । यत्पत्रवातसंस्पर्शाद् आह्लादो जायते परः

    D6 ins.: śākas tatra mahāvṛkṣaḥ siddhagandharvasevitaḥ / yatpatravātasaṃsparśād āhlādo jāyate paraḥ

  188. ViP 2.4.64Open verse →

    तत्र पुण्या जनपदाश् चातुर्वर्ण्यसमन्विताः । नद्यश् चात्र महापुण्याः सर्वपापभयापहाः

    tatra puṇyā janapadāś cāturvarṇyasamanvitāḥ / nadyaś cātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ

  189. ViP 2.4.65Open verse →

    सुकुमारी कुमारी च नलिनी वेणुका च या । इक्षुश् च धेनुका चैव गभस्ती सप्तमी तथा

    sukumārī kumārī ca nalinī veṇukā ca yā / ikṣuś ca dhenukā caiva gabhastī saptamī tathā

  190. ViP 2.4.66Open verse →

    अन्यास् त्व् अयुतशस् तत्र क्षुद्रनद्यो महामुने । महीधरास् तथा सन्ति शतशो ऽथ सहस्रशः

    anyās tv ayutaśas tatra kṣudranadyo mahāmune / mahīdharās tathā santi śataśo 'tha sahasraśaḥ

  191. ViP 2.4.67Open verse →

    ताः पिबन्ति मुदा युक्ता जलदादिषु ये स्थिताः । वर्षेषु ते जनपदाः स्वर्गाद् अभ्येत्य मेदिनीम्

    tāḥ pibanti mudā yuktā jaladādiṣu ye sthitāḥ / varṣeṣu te janapadāḥ svargād abhyetya medinīm

  192. ViP 2.4.68Open verse →

    धर्महानिर् न तेष्व् अस्ति न संघर्षः परस्परम् । मर्यादाव्युत्क्रमो वापि तेषु देशेषु सप्तसु

    dharmahānir na teṣv asti na saṃgharṣaḥ parasparam / maryādāvyutkramo vāpi teṣu deśeṣu saptasu

  193. ViP 2.4.69Open verse →

    मगाश् च मागधाश् चैव मानसा मन्दगास् तथा । मगा ब्राह्मणभूयिष्ठा मागधाः क्षत्रियास् तु ते । वैश्यास् तु मानसास् तेषां शूद्रास् तेषां तु मन्दगाः

    magāś ca māgadhāś caiva mānasā mandagās tathā / magā brāhmaṇabhūyiṣṭhā māgadhāḥ kṣatriyās tu te / vaiśyās tu mānasās teṣāṃ śūdrās teṣāṃ tu mandagāḥ

  194. ViP 2.4.70Open verse →

    शाकद्वीपे तु तैर् विष्णुः सूर्यरूपधरो मुने । यथोक्तैर् इज्यते सम्यक् कर्मभिर् नियतात्मभिः

    śākadvīpe tu tair viṣṇuḥ sūryarūpadharo mune / yathoktair ijyate samyak karmabhir niyatātmabhiḥ

  195. ViP 2.4.71Open verse →

    शाकद्वीपस् तु मैत्रेय क्षीरोदेन समन्ततः । शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः

    śākadvīpas tu maitreya kṣīrodena samantataḥ / śākadvīpapramāṇena valayeneva veṣṭitaḥ

  196. ViP 2.4.72Open verse →

    क्षीराब्धिः सर्वतो ब्रह्मन् पुष्कराख्येन वेष्टितः । द्वीपेन शाकद्वीपात् तु द्विगुणेन समन्ततः

    kṣīrābdhiḥ sarvato brahman puṣkarākhyena veṣṭitaḥ / dvīpena śākadvīpāt tu dviguṇena samantataḥ

  197. ViP 2.4.73Open verse →

    द्१ इन्स्।: पुष्करे सवनस्यापि महावीरो ऽभवत् सुतः । धातकिश् च तयोस् तत्र द्वे वर्षे नामचिह्निते । महावीरं तथैवान्यद् धातकीखण्डसंज्ञितम्

    D1 ins.: puṣkare savanasyāpi mahāvīro 'bhavat sutaḥ / dhātakiś ca tayos tatra dve varṣe nāmacihnite / mahāvīraṃ tathaivānyad dhātakīkhaṇḍasaṃjñitam

  198. ViP 2.4.74Open verse →

    एकश् चात्र महाभाग प्रख्यातो वर्षपर्वतः । मानसोत्तरसंज्ञो वै मध्यतो वलयाकृतिः

    ekaś cātra mahābhāga prakhyāto varṣaparvataḥ / mānasottarasaṃjño vai madhyato valayākṛtiḥ

  199. ViP 2.4.75Open verse →

    योजनानां सहस्राणि ऊर्ध्वं पञ्चाशद् उच्छ्रितः । तावद् एव च विस्तीर्णः सर्वतः परिमण्डलः

    yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśad ucchritaḥ / tāvad eva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ

  200. ViP 2.4.76Open verse →

    पुष्करद्वीपवलयं मध्येन विभजन्न् इव । स्थितो ऽसौ तेन विच्छिन्नं जातं वर्षद्वयं मुने

    puṣkaradvīpavalayaṃ madhyena vibhajann iva / sthito 'sau tena vicchinnaṃ jātaṃ varṣadvayaṃ mune

  201. ViP 2.4.77Open verse →

    वलयाकारम् एकैकं तयोर् वर्षं तथा गिरिः

    valayākāram ekaikaṃ tayor varṣaṃ tathā giriḥ

  202. ViP 2.4.78Open verse →

    दश वर्षसहस्राणि तत्र जीवन्ति मानवाः । निरामया विशोकाश् च रागद्वेषविवर्जिताः

    daśa varṣasahasrāṇi tatra jīvanti mānavāḥ / nirāmayā viśokāś ca rāgadveṣavivarjitāḥ

  203. ViP 2.4.79Open verse →

    अधमोत्तमौ न तेष्व् आस्तां न वध्यवधकौ द्विज । नेर्ष्यासूया भयं रोषो दोषो लोभादिको न च

    adhamottamau na teṣv āstāṃ na vadhyavadhakau dvija / nerṣyāsūyā bhayaṃ roṣo doṣo lobhādiko na ca

  204. ViP 2.4.80Open verse →

    महावीरं बहिर् वर्षं धातकीखण्डम् अन्ततः । मानसोत्तरशैलस्य देवदैत्यादिसेवितम्

    mahāvīraṃ bahir varṣaṃ dhātakīkhaṇḍam antataḥ / mānasottaraśailasya devadaityādisevitam

  205. ViP 2.4.81Open verse →

    सत्यानृते न तत्रास्तां द्वीपे पुष्करसंज्ञिते । न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते

    satyānṛte na tatrāstāṃ dvīpe puṣkarasaṃjñite / na tatra nadyaḥ śailā vā dvīpe varṣadvayānvite

  206. ViP 2.4.82Open verse →

    तुल्यवेषास् तु मनुजा देवैस् तत्रैकरूपिणः

    tulyaveṣās tu manujā devais tatraikarūpiṇaḥ

  207. ViP 2.4.83Open verse →

    वर्णाश्रमाचारहीनं धर्माचरणवर्जितम् । त्रयीवार्तादण्डनीतिशुश्रूषारहितं च यत्

    varṇāśramācārahīnaṃ dharmācaraṇavarjitam / trayīvārtādaṇḍanītiśuśrūṣārahitaṃ ca yat

  208. ViP 2.4.84Open verse →

    वर्षद्वयं तु मैत्रेय भौमः स्वर्गो ऽयम् उत्तमः । सर्वस्य सुखदः कालो जरारोगादिवर्जितः । पुष्करे धातकीषण्डे महावीरे च वै मुने

    varṣadvayaṃ tu maitreya bhaumaḥ svargo 'yam uttamaḥ / sarvasya sukhadaḥ kālo jarārogādivarjitaḥ / puṣkare dhātakīṣaṇḍe mahāvīre ca vai mune

  209. ViP 2.4.85Open verse →

    न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानम् उत्तमम् । तस्मिन् निवसति ब्रह्मा पूज्यमानः सुरासुरैः

    nyagrodhaḥ puṣkaradvīpe brahmaṇaḥ sthānam uttamam / tasmin nivasati brahmā pūjyamānaḥ surāsuraiḥ

  210. ViP 2.4.86Open verse →

    स्वादूदकेनोदधिना पुष्करः परिवेष्टितः । समेन पुष्करस्यैव विस्तारान् मण्डलात् तथा

    svādūdakenodadhinā puṣkaraḥ pariveṣṭitaḥ / samena puṣkarasyaiva vistārān maṇḍalāt tathā

  211. ViP 2.4.87Open verse →

    एवं द्वीपाः समुद्रैस् तु सप्त सप्तभिर् आवृताः । द्वीपश् चैव समुद्रश् च समानौ द्विगुणौ परौ

    evaṃ dvīpāḥ samudrais tu sapta saptabhir āvṛtāḥ / dvīpaś caiva samudraś ca samānau dviguṇau parau

  212. ViP 2.4.88Open verse →

    पयांसि सर्वदा सर्वसमुद्रेषु समानि वै । न्यूनातिरिक्तता तेषां कदाचिन् नैव जायते

    payāṃsi sarvadā sarvasamudreṣu samāni vai / nyūnātiriktatā teṣāṃ kadācin naiva jāyate

  213. ViP 2.4.89Open verse →

    स्थालीस्थम् अग्निसंयोगाद् उद्रेकि सलिलं यथा । तथेन्दुवृद्धौ सलिलम् अम्भोधौ मुनिसत्तम

    sthālīstham agnisaṃyogād udreki salilaṃ yathā / tathenduvṛddhau salilam ambhodhau munisattama

  214. ViP 2.4.90Open verse →

    अन्यूनानतिरिक्ताश् च वर्धन्त्य् आपो ह्रसन्ति च । उदयास्तमयेष्व् इन्दोः पक्षयोः शुक्लकृष्णयोः

    anyūnānatiriktāś ca vardhanty āpo hrasanti ca / udayāstamayeṣv indoḥ pakṣayoḥ śuklakṛṣṇayoḥ

  215. ViP 2.4.91Open verse →

    दशोत्तराणि पञ्चैव अङ्गुलानां शतानि वै । अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां महामुने

    daśottarāṇi pañcaiva aṅgulānāṃ śatāni vai / apāṃ vṛddhikṣayau dṛṣṭau sāmudrīṇāṃ mahāmune

  216. ViP 2.4.92Open verse →

    भोजनं पुष्करद्वीपे तत्र स्वयम् उपस्थितम् । षड्रसं भुञ्जते विप्र प्रजाः सर्वाः सदैव हि

    bhojanaṃ puṣkaradvīpe tatra svayam upasthitam / ṣaḍrasaṃ bhuñjate vipra prajāḥ sarvāḥ sadaiva hi

  217. ViP 2.4.93Open verse →

    स्वादूदकस्य पुरतो दृश्यते ऽलोकसंस्थितिः । द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता

    svādūdakasya purato dṛśyate 'lokasaṃsthitiḥ / dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā

  218. ViP 2.4.94Open verse →

    लोकालोकस् ततः शैलो योजनायुतविस्तृतः । उच्छ्रायेणापि तावन्ति सहस्राण्य् अचलो हि सः

    lokālokas tataḥ śailo yojanāyutavistṛtaḥ / ucchrāyeṇāpi tāvanti sahasrāṇy acalo hi saḥ

  219. ViP 2.4.95Open verse →

    ततस् तमः समावृत्य तं शैलं सर्वतः स्थितम् । तमश् चाण्डकटाहेन समन्तात् परिवेष्टितम्

    tatas tamaḥ samāvṛtya taṃ śailaṃ sarvataḥ sthitam / tamaś cāṇḍakaṭāhena samantāt pariveṣṭitam

  220. ViP 2.4.96Open verse →

    द्७ इन्स्।: पञ्चाशत्कोटिविस्तारा सेयम् उर्वी महामुने । सहैवाण्डकटाहेन सद्वीपाब्धिमहीधरा

    D7 ins.: pañcāśatkoṭivistārā seyam urvī mahāmune / sahaivāṇḍakaṭāhena sadvīpābdhimahīdharā

  221. ViP 2.4.97Open verse →

    सेयं धात्री विधात्री च सर्वभूतगुणाधिका । आधारभूता सर्वेषां मैत्रेय जगताम् इति

    seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā / ādhārabhūtā sarveṣāṃ maitreya jagatām iti

  222. ______________________________________________________ §पराशर उवाच: विस्तार एष कथितः पृथिव्या भवतो मया । सप्ततिस् तु सहस्राणि द्विजोच्छ्रायो ऽपि कथ्यते

    ______________________________________________________ §parāśara uvāca: vistāra eṣa kathitaḥ pṛthivyā bhavato mayā / saptatis tu sahasrāṇi dvijocchrāyo 'pi kathyate

  223. श्२,द्७ इन्स्।, ग्२ इन्स्। अफ़्तेर् १अब्: दशसाहस्रम् एकैकं पातालं मुनिसत्तम । अतलं वितलं चैव नितलं च गभस्तिमत् । महाख्यं सुतलं चाग्र्यं पातालं चापि सप्तमम्

    Ś2,D7 ins., G2 ins. after 1ab: daśasāhasram ekaikaṃ pātālaṃ munisattama / atalaṃ vitalaṃ caiva nitalaṃ ca gabhastimat / mahākhyaṃ sutalaṃ cāgryaṃ pātālaṃ cāpi saptamam

  224. शुक्लकृष्णारुणाः पीताः शर्कराः शैलकाञ्चनाः । भूमयो यत्र मैत्रेय वरप्रासादशोभिताः

    śuklakṛṣṇāruṇāḥ pītāḥ śarkarāḥ śailakāñcanāḥ / bhūmayo yatra maitreya varaprāsādaśobhitāḥ

  225. तेषु दानवदैतेयजातयः शतसंघशः । निवसन्ति महानागजातयश् च महामुने

    teṣu dānavadaiteyajātayaḥ śatasaṃghaśaḥ / nivasanti mahānāgajātayaś ca mahāmune

  226. स्वर्लोकाद् अपि रम्याणि पातालानीति नारदः । प्राह स्वर्गसदां मध्ये पातालाभ्यागतो दिवि

    svarlokād api ramyāṇi pātālānīti nāradaḥ / prāha svargasadāṃ madhye pātālābhyāgato divi

  227. आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः । नागाभरणभूषासु पातालं केन तत्समम्

    āhlādakāriṇaḥ śubhrā maṇayo yatra suprabhāḥ / nāgābharaṇabhūṣāsu pātālaṃ kena tatsamam

  228. दैत्यदानवकन्याभिर् इतश् चेतश् च शोभिते । पाताले कस्य न प्रीतिर् विमुक्तस्यापि जायते

    daityadānavakanyābhir itaś cetaś ca śobhite / pātāle kasya na prītir vimuktasyāpi jāyate

  229. दिवार्करश्मयो यत्र प्रभां तन्वन्ति नातपम् । शशिनश् च न शीताय निशि द्योताय केवलम्

    divārkaraśmayo yatra prabhāṃ tanvanti nātapam / śaśinaś ca na śītāya niśi dyotāya kevalam

  230. भक्ष्यभोज्यमहापानमुदितैर् अतिभोगिभिः । यत्र न ज्ञायते कालो गतो ऽपि दनुजादिभिः

    bhakṣyabhojyamahāpānamuditair atibhogibhiḥ / yatra na jñāyate kālo gato 'pi danujādibhiḥ

  231. ViP 2.5.10Open verse →

    वनानि नद्यो रम्याणि सरांसि कमलाकराः । पुंस्कोकिलाभिलापाश् च मनोज्ञान्य् अम्बराणि च

    vanāni nadyo ramyāṇi sarāṃsi kamalākarāḥ / puṃskokilābhilāpāś ca manojñāny ambarāṇi ca

  232. ViP 2.5.11Open verse →

    भूषणान्य् अतिशुभ्राणि गन्धाढ्यं चानुलेपनम् । वीणावेणुमृदङ्गानां स्वनास् तूर्याणि च द्विज

    bhūṣaṇāny atiśubhrāṇi gandhāḍhyaṃ cānulepanam / vīṇāveṇumṛdaṅgānāṃ svanās tūryāṇi ca dvija

  233. ViP 2.5.12Open verse →

    एतान्य् अन्यानि चोदारभाग्यभोग्यानि दानवैः । दैत्योरगैश् च भुज्यन्ते पातालान्तरगोचरैः

    etāny anyāni codārabhāgyabhogyāni dānavaiḥ / daityoragaiś ca bhujyante pātālāntaragocaraiḥ

  234. ViP 2.5.13Open verse →

    पातालानाम् अधश् चास्ते विष्णोर् या तामसी तनुः । शेषाख्या यद्गुणान् वक्तुं न शक्ता दैत्यदानवाः

    pātālānām adhaś cāste viṣṇor yā tāmasī tanuḥ / śeṣākhyā yadguṇān vaktuṃ na śaktā daityadānavāḥ

  235. ViP 2.5.14Open verse →

    यो ऽनन्तः पठ्यते सिद्धैर् देवदेवर्षिपूजितः । सहस्रशिरसा व्यक्तस्वस्तिकामलभूषणः

    yo 'nantaḥ paṭhyate siddhair devadevarṣipūjitaḥ / sahasraśirasā vyaktasvastikāmalabhūṣaṇaḥ

  236. ViP 2.5.15Open verse →

    फणामणिसहस्रेण यः स विद्योतयन् दिशः । सर्वान् करोति निर्वीर्यान् हिताय जगतो ऽसुरान्

    phaṇāmaṇisahasreṇa yaḥ sa vidyotayan diśaḥ / sarvān karoti nirvīryān hitāya jagato 'surān

  237. ViP 2.5.16Open verse →

    मदाघूर्णितनेत्रो ऽसौ यः सदैवैककुण्डलः । किरीटी स्रग्धरो भाति साग्निः श्वेत इवाचलः

    madāghūrṇitanetro 'sau yaḥ sadaivaikakuṇḍalaḥ / kirīṭī sragdharo bhāti sāgniḥ śveta ivācalaḥ

  238. ViP 2.5.17Open verse →

    नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः । साभ्रगङ्गाप्रपातो ऽसौ कैलासाद्रिर् इवोन्नतः

    nīlavāsā madotsiktaḥ śvetahāropaśobhitaḥ / sābhragaṅgāprapāto 'sau kailāsādrir ivonnataḥ

  239. ViP 2.5.18Open verse →

    लाङ्गलासक्तहस्ताग्रो बिभ्रन् मुसलम् उत्तमम् । उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तया

    lāṅgalāsaktahastāgro bibhran musalam uttamam / upāsyate svayaṃ kāntyā yo vāruṇyā ca mūrtayā

  240. ViP 2.5.19Open verse →

    कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः । संकर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम्

    kalpānte yasya vaktrebhyo viṣānalaśikhojjvalaḥ / saṃkarṣaṇātmako rudro niṣkramyātti jagattrayam

  241. ViP 2.5.20Open verse →

    स बिभ्रच् छेखरीभूतम् अशेषं क्षितिमण्डलम् । आस्ते पातालमूलस्थः शेषो ऽशेषसुरार्चितः

    sa bibhrac chekharībhūtam aśeṣaṃ kṣitimaṇḍalam / āste pātālamūlasthaḥ śeṣo 'śeṣasurārcitaḥ

  242. ViP 2.5.21Open verse →

    तस्य वीर्यं प्रभावश् च स्वरूपं रूपम् एव च । न हि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैर् अपि

    tasya vīryaṃ prabhāvaś ca svarūpaṃ rūpam eva ca / na hi varṇayituṃ śakyaṃ jñātuṃ vā tridaśair api

  243. ViP 2.5.22Open verse →

    यस्यैषा सकला पृथ्वी फणामणिशिखारुणा । आस्ते कुसुममालेव कस् तद्वीर्यं वदिष्यति

    yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhāruṇā / āste kusumamāleva kas tadvīryaṃ vadiṣyati

  244. ViP 2.5.23Open verse →

    यदा विजृम्भते ऽनन्तो मदाघूर्णितलोचनः । तदा चलति भूर् एषा साद्रितोया सकानना

    yadā vijṛmbhate 'nanto madāghūrṇitalocanaḥ / tadā calati bhūr eṣā sādritoyā sakānanā

  245. ViP 2.5.24Open verse →

    गन्धर्वाप्सरसः सिद्धाः किंनरोरगचारणाः । नान्तं गुणानां गच्छन्ति तेनानन्तो ऽयम् अव्ययः

    gandharvāpsarasaḥ siddhāḥ kiṃnaroragacāraṇāḥ / nāntaṃ guṇānāṃ gacchanti tenānanto 'yam avyayaḥ

  246. ViP 2.5.25Open verse →

    यस्य नागवधूहस्तैर् लेपितं हरिचन्दनम् । मुहुः श्वासानिलापास्तं याति दिक्षूदवासताम्

    yasya nāgavadhūhastair lepitaṃ haricandanam / muhuḥ śvāsānilāpāstaṃ yāti dikṣūdavāsatām

  247. ViP 2.5.26Open verse →

    यम् आराध्य पुराणर्षिर् गर्गो ज्योतींषि तत्त्वतः । ज्ञातवान् सकलं चैव निमित्तपठितं फलम्

    yam ārādhya purāṇarṣir gargo jyotīṃṣi tattvataḥ / jñātavān sakalaṃ caiva nimittapaṭhitaṃ phalam

  248. ViP 2.5.27Open verse →

    तेनेयं नागवर्येण शिरसा विधृता मही । बिभर्ति मालां लोकानां सदेवासुरमानुषाम्

    teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī / bibharti mālāṃ lokānāṃ sadevāsuramānuṣām

  249. ______________________________________________________ §पराशर उवाच: ततश् च नरकान् विप्र भुवो ऽधः सलिलस्य च । पापिनो येषु पात्यन्ते ताञ् छृणुष्व महामुने

    ______________________________________________________ §parāśara uvāca: tataś ca narakān vipra bhuvo 'dhaḥ salilasya ca / pāpino yeṣu pātyante tāñ chṛṇuṣva mahāmune

  250. रौरवः सूकरो रोधस् तालो विशसनस् तथा । महाज्वालस् तप्तकुम्भो लवणो ऽथ विलोहितः

    rauravaḥ sūkaro rodhas tālo viśasanas tathā / mahājvālas taptakumbho lavaṇo 'tha vilohitaḥ

  251. रुधिराम्भो वैतरणी कृमिशः कृमिभोजनः । असिपत्रवनं कृष्णो लालाभक्षश् च दारुणः

    rudhirāmbho vaitaraṇī kṛmiśaḥ kṛmibhojanaḥ / asipatravanaṃ kṛṣṇo lālābhakṣaś ca dāruṇaḥ

  252. तथा पूयवहः पापो वह्निज्वालो ह्य् अधःशिराः । संदंशः कृष्णसूत्रश् च तमश् चावीचिर् एव च

    tathā pūyavahaḥ pāpo vahnijvālo hy adhaḥśirāḥ / saṃdaṃśaḥ kṛṣṇasūtraś ca tamaś cāvīcir eva ca

  253. श्वभोजनो ऽथाप्रतिष्ठो अवीचिश् च तथापरः । इत्य् एवमादयश् चान्ये नरका भृशदारुणाः

    śvabhojano 'thāpratiṣṭho avīciś ca tathāparaḥ / ity evamādayaś cānye narakā bhṛśadāruṇāḥ

  254. यमस्य विषये घोराः शस्त्राग्निभयदायिनः । पतन्ति येषु पुरुषाः पापकर्मरतास् तु ये

    yamasya viṣaye ghorāḥ śastrāgnibhayadāyinaḥ / patanti yeṣu puruṣāḥ pāpakarmaratās tu ye

  255. कूटसाक्षी तथासम्यक् पक्षपातेन यो वदेत् । यश् चान्यद् अनृतं वक्ति स नरो याति रौरवम्

    kūṭasākṣī tathāsamyak pakṣapātena yo vadet / yaś cānyad anṛtaṃ vakti sa naro yāti rauravam

  256. भ्रूणहा गुरुहन्ता च गोघ्नश् च मुनिसत्तम । यान्ति ते नरकं रोधं यश् चोच्छ्वासनिरोधकः

    bhrūṇahā guruhantā ca goghnaś ca munisattama / yānti te narakaṃ rodhaṃ yaś cocchvāsanirodhakaḥ

  257. सुरापो ब्रह्महा हर्ता सुवर्णस्य च सूकरे । प्रयाति नरके यश् च तैः संसर्गम् उपैति वै

    surāpo brahmahā hartā suvarṇasya ca sūkare / prayāti narake yaś ca taiḥ saṃsargam upaiti vai

  258. ViP 2.6.10Open verse →

    राजन्यवैश्यहा ताले तथैव गुरुतल्पगः । तप्तकुम्भे स्वसागामी हन्ति राजभटांश् च यः

    rājanyavaiśyahā tāle tathaiva gurutalpagaḥ / taptakumbhe svasāgāmī hanti rājabhaṭāṃś ca yaḥ

  259. ViP 2.6.11Open verse →

    साध्वीविक्रयकृद् बन्धपालः केसरिविक्रयी । तप्तलोहे पतन्त्य् एते यश् च भक्तं परित्यजेत्

    sādhvīvikrayakṛd bandhapālaḥ kesarivikrayī / taptalohe patanty ete yaś ca bhaktaṃ parityajet

  260. ViP 2.6.12Open verse →

    स्नुषां सुतां चापि गत्वा महाज्वाले निपात्यते । अवमन्ता गुरूणां यो यश् चाक्रोष्टा नराधमः

    snuṣāṃ sutāṃ cāpi gatvā mahājvāle nipātyate / avamantā gurūṇāṃ yo yaś cākroṣṭā narādhamaḥ

  261. ViP 2.6.13Open verse →

    वेददूषयिता यश् च वेदविक्रयकश् च यः । अगम्यगामी यश् च स्यात् ते यान्ति लवणं द्विज

    vedadūṣayitā yaś ca vedavikrayakaś ca yaḥ / agamyagāmī yaś ca syāt te yānti lavaṇaṃ dvija

  262. ViP 2.6.14Open verse →

    चौरो विमोहे पतति मर्यादादूषकस् तथा

    cauro vimohe patati maryādādūṣakas tathā

  263. ViP 2.6.15Open verse →

    देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः । स याति कृमिभक्षे वै कृमिशे च दुरिष्टकृत्

    devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ / sa yāti kṛmibhakṣe vai kṛmiśe ca duriṣṭakṛt

  264. ViP 2.6.16Open verse →

    पितृदेवातिथीन् यस् तु पर्यश्नाति नराधमः । लालाभक्षे स यात्य् उग्रे शरकर्ता च वेधके

    pitṛdevātithīn yas tu paryaśnāti narādhamaḥ / lālābhakṣe sa yāty ugre śarakartā ca vedhake

  265. ViP 2.6.17Open verse →

    करोति कर्णिनो यश् च यश् च खड्गादिकृन् नरः । प्रयान्त्य् एते विशसने नरके भृशदारुणे

    karoti karṇino yaś ca yaś ca khaḍgādikṛn naraḥ / prayānty ete viśasane narake bhṛśadāruṇe

  266. ViP 2.6.18Open verse →

    असत्प्रतिग्रहीता तु नरके यात्य् अधोमुखे । अयाज्ययाजकस् तत्र तथा नक्षत्रसूचकः

    asatpratigrahītā tu narake yāty adhomukhe / ayājyayājakas tatra tathā nakṣatrasūcakaḥ

  267. ViP 2.6.19Open verse →

    वेगी पूयवहं चैको याति मिष्टान्नभुङ् नरः

    vegī pūyavahaṃ caiko yāti miṣṭānnabhuṅ naraḥ

  268. ViP 2.6.20Open verse →

    लाक्षामांसरसानां च तिलानां लवणस्य च । विक्रेता ब्राह्मणो याति तम् एव नरकं द्विज

    lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca / vikretā brāhmaṇo yāti tam eva narakaṃ dvija

  269. ViP 2.6.21Open verse →

    मार्जारकुक्कुटच्छागश्ववराहविहंगमान् । पोषयन् नरकं याति तम् एव द्विजसत्तम

    mārjārakukkuṭacchāgaśvavarāhavihaṃgamān / poṣayan narakaṃ yāti tam eva dvijasattama

  270. ViP 2.6.22Open verse →

    म्० इन्स्।: रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस् तथा । सूची माहिषिकश् चैव पर्वगामी च यो द्विजः

    M0 ins.: raṅgopajīvī kaivartaḥ kuṇḍāśī garadas tathā / sūcī māhiṣikaś caiva parvagāmī ca yo dvijaḥ

  271. ViP 2.6.23Open verse →

    अगारदाही मित्रघ्नः शाकुनिर् ग्रामयाजकः । रुधिरान्धे पतन्त्य् एते सोमं विक्रीणते च ये

    agāradāhī mitraghnaḥ śākunir grāmayājakaḥ / rudhirāndhe patanty ete somaṃ vikrīṇate ca ye

  272. ViP 2.6.24Open verse →

    मधुहा ग्रामहन्ता च याति वैतरणीं नरः

    madhuhā grāmahantā ca yāti vaitaraṇīṃ naraḥ

  273. ViP 2.6.25Open verse →

    धनयौवनमत्तास् तु मर्यादाभेदिनो हि ये । ते कृष्णे यान्त्य् अशौचाश् च कुहकाजीविनश् च ये

    dhanayauvanamattās tu maryādābhedino hi ye / te kṛṣṇe yānty aśaucāś ca kuhakājīvinaś ca ye

  274. ViP 2.6.26Open verse →

    असिपत्रवनं याति वनच्छेदी वृथैव यः । औरभ्रिको मृगव्याधो वह्निज्वाले पतन्ति वै

    asipatravanaṃ yāti vanacchedī vṛthaiva yaḥ / aurabhriko mṛgavyādho vahnijvāle patanti vai

  275. ViP 2.6.27Open verse →

    यान्त्य् एते द्विज तत्रैव यश् चापाकेषु वह्निदः

    yānty ete dvija tatraiva yaś cāpākeṣu vahnidaḥ

  276. ViP 2.6.28Open verse →

    व्रतेषु लोपको यश् च स्वाश्रमाद् विच्युतश् च यः । संदंशयातनामध्ये पततस् ताव् उभाव् अपि

    vrateṣu lopako yaś ca svāśramād vicyutaś ca yaḥ / saṃdaṃśayātanāmadhye patatas tāv ubhāv api

  277. ViP 2.6.29Open verse →

    दिवा स्वप्नेषु स्कन्दन्ते ये नरा ब्रह्मचारिणः । पुत्रैर् अध्यापिता ये च ते पतन्ति श्वभोजने

    divā svapneṣu skandante ye narā brahmacāriṇaḥ / putrair adhyāpitā ye ca te patanti śvabhojane

  278. ViP 2.6.30Open verse →

    एते चान्ये च नरकाः शतशो ऽथ सहस्रशः । येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः

    ete cānye ca narakāḥ śataśo 'tha sahasraśaḥ / yeṣu duṣkṛtakarmāṇaḥ pacyante yātanāgatāḥ

  279. ViP 2.6.31Open verse →

    तथैव पापान्य् एतानि तथान्यानि सहस्रशः । भुज्यन्ते यानि पुरुषैर् नरकान्तरगोचरैः

    tathaiva pāpāny etāni tathānyāni sahasraśaḥ / bhujyante yāni puruṣair narakāntaragocaraiḥ

  280. ViP 2.6.32Open verse →

    वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः । कर्मणा मनसा वाचा निरयेषु पतन्ति ते

    varṇāśramaviruddhaṃ ca karma kurvanti ye narāḥ / karmaṇā manasā vācā nirayeṣu patanti te

  281. ViP 2.6.33Open verse →

    अधःशिरोभिर् दृश्यन्ते नारकैर् दिवि देवताः । देवाश् चाधोमुखान् सर्वान् अधः पश्यन्ति नारकान्

    adhaḥśirobhir dṛśyante nārakair divi devatāḥ / devāś cādhomukhān sarvān adhaḥ paśyanti nārakān

  282. ViP 2.6.34Open verse →

    स्थावराः कृमयो ऽब्जाश् च पक्षिणः पशवो नराः । धार्मिकास् त्रिदशास् तद्वन् मोक्षिणश् च यथाक्रमम्

    sthāvarāḥ kṛmayo 'bjāś ca pakṣiṇaḥ paśavo narāḥ / dhārmikās tridaśās tadvan mokṣiṇaś ca yathākramam

  283. ViP 2.6.35Open verse →

    सहस्रभागप्रथमा द्वितीयानुक्रमास् तथा । सर्वे ह्य् एते महाभाग यावन् मुक्तिसमाश्रयाः

    sahasrabhāgaprathamā dvitīyānukramās tathā / sarve hy ete mahābhāga yāvan muktisamāśrayāḥ

  284. ViP 2.6.36Open verse →

    यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः । पापकृद् याति नरकं प्रायश्चित्तपराङ्मुखः

    yāvanto jantavaḥ svarge tāvanto narakaukasaḥ / pāpakṛd yāti narakaṃ prāyaścittaparāṅmukhaḥ

  285. ViP 2.6.37Open verse →

    पापानाम् अनुरूपाणि प्रायश्चित्तानि यद् यथा । तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः

    pāpānām anurūpāṇi prāyaścittāni yad yathā / tathā tathaiva saṃsmṛtya proktāni paramarṣibhiḥ

  286. ViP 2.6.38Open verse →

    पापे गुरूणि गुरुणि स्वल्पान्य् अल्पे च तद्विदः । प्रायश्चित्तानि मैत्रेय जगुः स्वायंभुवादयः

    pāpe gurūṇi guruṇi svalpāny alpe ca tadvidaḥ / prāyaścittāni maitreya jaguḥ svāyaṃbhuvādayaḥ

  287. ViP 2.6.39Open verse →

    प्रायश्चित्तान्य् अशेषाणि तपःकर्मात्मकानि वै । यानि तेषाम् अशेषाणां कृष्णानुस्मरणं परम्

    prāyaścittāny aśeṣāṇi tapaḥkarmātmakāni vai / yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param

  288. ViP 2.6.40Open verse →

    कृते पापे ऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम्

    kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate / prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param

  289. ViP 2.6.41Open verse →

    प्रातर् निशि तथा संध्यामध्याह्नादिषु संस्मरन् । नारायणम् अवाप्नोति सद्यः पापक्षयं नरः

    prātar niśi tathā saṃdhyāmadhyāhnādiṣu saṃsmaran / nārāyaṇam avāpnoti sadyaḥ pāpakṣayaṃ naraḥ

  290. ViP 2.6.42Open verse →

    विष्णुसंस्मरणात् क्षीणसमस्तक्लेशसंचयः । मुक्तिं प्रयाति स्वर्गाप्तिस् तस्य विघ्नो ऽनुमीयते

    viṣṇusaṃsmaraṇāt kṣīṇasamastakleśasaṃcayaḥ / muktiṃ prayāti svargāptis tasya vighno 'numīyate

  291. ViP 2.6.43Open verse →

    वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम्

    vāsudeve mano yasya japahomārcanādiṣu / tasyāntarāyo maitreya devendratvādikaṃ phalam

  292. ViP 2.6.44Open verse →

    क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क्व जपो वासुदेवेति मुक्तिबीजम् अनुत्तमम्

    kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam / kva japo vāsudeveti muktibījam anuttamam

  293. ViP 2.6.45Open verse →

    तस्माद् अहर्निशं विष्णुं संस्मरन् पुरुषो मुने । न याति नरकं शुद्धः संक्षीणाखिलपातकः

    tasmād aharniśaṃ viṣṇuṃ saṃsmaran puruṣo mune / na yāti narakaṃ śuddhaḥ saṃkṣīṇākhilapātakaḥ

  294. ViP 2.6.46Open verse →

    मनःप्रीतिकरः स्वर्गो नरकस् तद्विपर्ययः । नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम

    manaḥprītikaraḥ svargo narakas tadviparyayaḥ / narakasvargasaṃjñe vai pāpapuṇye dvijottama

  295. ViP 2.6.47Open verse →

    वस्त्व् एकम् एव दुःखाय सुखायेर्ष्योद्भवाय च । कोपाय च यतस् तस्माद् वस्तु वस्त्वात्मकं कुतः

    vastv ekam eva duḥkhāya sukhāyerṣyodbhavāya ca / kopāya ca yatas tasmād vastu vastvātmakaṃ kutaḥ

  296. ViP 2.6.48Open verse →

    तद् एव प्रीतये भूत्वा पुनर् दुःखाय जायते । तद् एव कोपाय यतः प्रसादाय च जायते

    tad eva prītaye bhūtvā punar duḥkhāya jāyate / tad eva kopāya yataḥ prasādāya ca jāyate

  297. ViP 2.6.49Open verse →

    तस्माद् दुःखात्मकं नास्ति न च किंचित् सुखात्मकम् । मनसः परिणामो ऽयं सुखदुःखादिलक्षणः

    tasmād duḥkhātmakaṃ nāsti na ca kiṃcit sukhātmakam / manasaḥ pariṇāmo 'yaṃ sukhaduḥkhādilakṣaṇaḥ

  298. ViP 2.6.50Open verse →

    ज्ञानम् एव परं ब्रह्म ज्ञानं बन्धाय चेष्यते । ज्ञानात्मकम् इदं विश्वं न ज्ञानाद् विद्यते परम्

    jñānam eva paraṃ brahma jñānaṃ bandhāya ceṣyate / jñānātmakam idaṃ viśvaṃ na jñānād vidyate param

  299. ViP 2.6.51Open verse →

    विद्याविद्येति मैत्रेय ज्ञानम् एवोपधारय

    vidyāvidyeti maitreya jñānam evopadhāraya

  300. ViP 2.6.52Open verse →

    एवम् एतन् मयाख्यातं भवतो मण्डलं भुवः । पातालानि च सर्वाणि तथैव नरका द्विज

    evam etan mayākhyātaṃ bhavato maṇḍalaṃ bhuvaḥ / pātālāni ca sarvāṇi tathaiva narakā dvija

  301. ViP 2.6.53Open verse →

    समुद्राः पर्वताश् चैव द्वीपा वर्षाणि निम्नगाः । संक्षेपात् सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि

    samudrāḥ parvatāś caiva dvīpā varṣāṇi nimnagāḥ / saṃkṣepāt sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi

  302. ______________________________________________________ §मैत्रेय उवाच: कथितं भवता ब्रह्मन् ममैतद् अखिलं त्वया । भुवर्लोकादिकांल् लोकाञ् श्रोतुम् इच्छाम्य् अहं मुने

    ______________________________________________________ §maitreya uvāca: kathitaṃ bhavatā brahman mamaitad akhilaṃ tvayā / bhuvarlokādikāṃl lokāñ śrotum icchāmy ahaṃ mune

  303. तथैव ग्रहसंस्थानं प्रमाणानि यथातथम् । समाचक्ष्व महाभाग मह्यं त्वं परिपृच्छते

    tathaiva grahasaṃsthānaṃ pramāṇāni yathātatham / samācakṣva mahābhāga mahyaṃ tvaṃ paripṛcchate

  304. §पराशर उवाच: रविचन्द्रमसोर् यावन् मयूखैर् अवभास्यते । ससमुद्रसरिच्छैला तावती पृथिवी स्मृता

    §parāśara uvāca: ravicandramasor yāvan mayūkhair avabhāsyate / sasamudrasaricchailā tāvatī pṛthivī smṛtā

  305. यावत्प्रमाणा पृथिवी विस्तारपरिमण्डलात् । नभस् तावत्प्रमाणं वै व्यासमण्डलतो द्विज

    yāvatpramāṇā pṛthivī vistāraparimaṇḍalāt / nabhas tāvatpramāṇaṃ vai vyāsamaṇḍalato dvija

  306. भूमेर् योजनलक्षे तु सौरं मैत्रेय मण्डलम् । लक्षे दिवाकरस्यापि मण्डलं शशिनः स्थितम्

    bhūmer yojanalakṣe tu sauraṃ maitreya maṇḍalam / lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ sthitam

  307. पूर्णे शतसहस्रे तु योजनानां निशाकरात् । नक्षत्रमण्डलं कृत्स्नम् उपरिष्टात् प्रकाशते

    pūrṇe śatasahasre tu yojanānāṃ niśākarāt / nakṣatramaṇḍalaṃ kṛtsnam upariṣṭāt prakāśate

  308. द्वे लक्षे चोत्तरे ब्रह्मन् बुधो नक्षत्रमण्डलात् । तावत्प्रमाणभागे तु बुधस्याप्य् उशना स्थितः

    dve lakṣe cottare brahman budho nakṣatramaṇḍalāt / tāvatpramāṇabhāge tu budhasyāpy uśanā sthitaḥ

  309. अङ्गारको ऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः । लक्षद्वये तु भौमस्य स्थितो देवपुरोहितः

    aṅgārako 'pi śukrasya tatpramāṇe vyavasthitaḥ / lakṣadvaye tu bhaumasya sthito devapurohitaḥ

  310. सौरिर् बृहस्पतेश् चोर्ध्वं द्विलक्षे समवस्थितः । सप्तर्षिमण्डलं तस्माल् लक्षम् एकं द्विजोत्तम

    saurir bṛhaspateś cordhvaṃ dvilakṣe samavasthitaḥ / saptarṣimaṇḍalaṃ tasmāl lakṣam ekaṃ dvijottama

  311. ViP 2.7.10Open verse →

    ऋषिभ्यस् तु सहस्राणां शताद् ऊर्ध्वं व्यवस्थितः । मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः

    ṛṣibhyas tu sahasrāṇāṃ śatād ūrdhvaṃ vyavasthitaḥ / meḍhībhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ

  312. ViP 2.7.11Open verse →

    त्रैलोक्यम् एतत् कथितम् उत्सेधेन महामुने । इज्याफलस्य भूर् एषा इज्या चात्र प्रतिष्ठिता

    trailokyam etat kathitam utsedhena mahāmune / ijyāphalasya bhūr eṣā ijyā cātra pratiṣṭhitā

  313. ViP 2.7.12Open verse →

    ध्रुवाद् ऊर्ध्वं महर्लोको यत्र ते कल्पवासिनः । एकयोजनकोटी तु महर्लोको ऽभिधीयते

    dhruvād ūrdhvaṃ maharloko yatra te kalpavāsinaḥ / ekayojanakoṭī tu maharloko 'bhidhīyate

  314. ViP 2.7.13Open verse →

    द्वे कोटी तु जनो लोको यत्र ते ब्रह्मणः सुताः । सनन्दनाद्याः कथिता मैत्रेयामलचेतसः

    dve koṭī tu jano loko yatra te brahmaṇaḥ sutāḥ / sanandanādyāḥ kathitā maitreyāmalacetasaḥ

  315. ViP 2.7.14Open verse →

    चतुर्गुणोत्तरे चोर्ध्वं जनलोकात् तपः स्मृतः । वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः

    caturguṇottare cordhvaṃ janalokāt tapaḥ smṛtaḥ / vairājā yatra te devāḥ sthitā dāhavivarjitāḥ

  316. ViP 2.7.15Open verse →

    षड्गुणेन तपोलोकात् सत्यलोको विराजते । अपुनर्मारका यत्र ब्रह्मलोको हि स स्मृतः

    ṣaḍguṇena tapolokāt satyaloko virājate / apunarmārakā yatra brahmaloko hi sa smṛtaḥ

  317. ViP 2.7.16Open verse →

    पादगम्यं तु यत् किंचिद् वस्त्व् अस्ति पृथिवीमयम् । स भूर्लोकः समाख्यातो विस्तरो ऽस्य मयोदितः

    pādagamyaṃ tu yat kiṃcid vastv asti pṛthivīmayam / sa bhūrlokaḥ samākhyāto vistaro 'sya mayoditaḥ

  318. ViP 2.7.17Open verse →

    भूमिसूर्यान्तरं यत् तु सिद्धादिमुनिसेवितम् । भुवर्लोकस् तु सो ऽप्य् उक्तो द्वितीयो मुनिसत्तम

    bhūmisūryāntaraṃ yat tu siddhādimunisevitam / bhuvarlokas tu so 'py ukto dvitīyo munisattama

  319. ViP 2.7.18Open verse →

    ध्रुवसूर्यान्तरं यत् तु नियुतानि चतुर्दश । स्वर्लोकः सो ऽपि गदितो लोकसंस्थानचिन्तकैः

    dhruvasūryāntaraṃ yat tu niyutāni caturdaśa / svarlokaḥ so 'pi gadito lokasaṃsthānacintakaiḥ

  320. ViP 2.7.19Open verse →

    त्रैलोक्यम् एतत् कृतकं मैत्रेय परिपठ्यते । जनस् तपस् तथा सत्यम् इति चाकृतकं त्रयम्

    trailokyam etat kṛtakaṃ maitreya paripaṭhyate / janas tapas tathā satyam iti cākṛtakaṃ trayam

  321. ViP 2.7.20Open verse →

    कृतकाकृतयोर् मध्ये महर्लोक इति स्मृतः । शून्यो भवति कल्पान्ते यो ऽत्यन्तं न विनश्यति

    kṛtakākṛtayor madhye maharloka iti smṛtaḥ / śūnyo bhavati kalpānte yo 'tyantaṃ na vinaśyati

  322. ViP 2.7.21Open verse →

    एते सप्त मया लोका मैत्रेय कथितास् तव । पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः

    ete sapta mayā lokā maitreya kathitās tava / pātālāni ca saptaiva brahmāṇḍasyaiṣa vistaraḥ

  323. ViP 2.7.22Open verse →

    एतद् अण्डकटाहेन तिर्यक् चोर्ध्वम् अधस् तथा । कपित्थस्य यथा बीजं सर्वतो वै समावृतम्

    etad aṇḍakaṭāhena tiryak cordhvam adhas tathā / kapitthasya yathā bījaṃ sarvato vai samāvṛtam

  324. ViP 2.7.23Open verse →

    दशोत्तरेण पयसा मैत्रेयाण्डं च तद् वृतम् । सर्वो ऽम्बुपरिधानो ऽसौ वह्निना वेष्टितो बहिः

    daśottareṇa payasā maitreyāṇḍaṃ ca tad vṛtam / sarvo 'mbuparidhāno 'sau vahninā veṣṭito bahiḥ

  325. ViP 2.7.24Open verse →

    वह्निश् च वायुना वायुर् मैत्रेय नभसा वृतः । भूतादिना नभः सो ऽपि महता परिवेष्टितः । दशोत्तराण्य् अशेषाणि मैत्रेयैतानि सप्त वै

    vahniś ca vāyunā vāyur maitreya nabhasā vṛtaḥ / bhūtādinā nabhaḥ so 'pi mahatā pariveṣṭitaḥ / daśottarāṇy aśeṣāṇi maitreyaitāni sapta vai

  326. ViP 2.7.25Open verse →

    महान्तं च समावृत्य प्रधानं समवस्थितम् । अनन्तस्य न तस्यान्तः संख्यानं वापि विद्यते

    mahāntaṃ ca samāvṛtya pradhānaṃ samavasthitam / anantasya na tasyāntaḥ saṃkhyānaṃ vāpi vidyate

  327. ViP 2.7.26Open verse →

    तद् अनन्तम् असंख्यातप्रमाणं चापि वै यतः । हेतुभूतम् अशेषस्य प्रकृतिः सा परा मुने

    tad anantam asaṃkhyātapramāṇaṃ cāpi vai yataḥ / hetubhūtam aśeṣasya prakṛtiḥ sā parā mune

  328. ViP 2.7.27Open verse →

    अण्डानां तु सहस्राणां सहस्राण्य् अयुतानि च । ईदृशानां तथा तत्र कोटिकोटिशतानि च

    aṇḍānāṃ tu sahasrāṇāṃ sahasrāṇy ayutāni ca / īdṛśānāṃ tathā tatra koṭikoṭiśatāni ca

  329. ViP 2.7.28Open verse →

    दारुण्य् अग्निर् यथा तैलं तिले तद्वत् पुमान् अपि । प्रधाने ऽवस्थितो व्यापी चेतनात्मात्मवेदनः

    dāruṇy agnir yathā tailaṃ tile tadvat pumān api / pradhāne 'vasthito vyāpī cetanātmātmavedanaḥ

  330. ViP 2.7.29Open verse →

    प्रधानं च पुमांश् चैव सर्वभूतात्मभूतया । विष्णुशक्त्या महाबुद्धे वृतौ संश्रयधर्मिणौ

    pradhānaṃ ca pumāṃś caiva sarvabhūtātmabhūtayā / viṣṇuśaktyā mahābuddhe vṛtau saṃśrayadharmiṇau

  331. ViP 2.7.30Open verse →

    तयोः सैव पृथग्भावकारणं संश्रयस्य च । क्षोभकारणभूता च सर्गकाले महामते

    tayoḥ saiva pṛthagbhāvakāraṇaṃ saṃśrayasya ca / kṣobhakāraṇabhūtā ca sargakāle mahāmate

  332. ViP 2.7.31Open verse →

    यथा सक्तं जले वातो बिभर्ति कणिकाशतम् । शक्तिः सापि तथा विष्णोः प्रधानपुरुषात्मकम्

    yathā saktaṃ jale vāto bibharti kaṇikāśatam / śaktiḥ sāpi tathā viṣṇoḥ pradhānapuruṣātmakam

  333. ViP 2.7.32Open verse →

    यथा च पादपो मूलस्कन्धशाखादिसंयुतः । आदिबीजात् प्रभवति बीजान्य् अन्यानि वै ततः

    yathā ca pādapo mūlaskandhaśākhādisaṃyutaḥ / ādibījāt prabhavati bījāny anyāni vai tataḥ

  334. ViP 2.7.33Open verse →

    प्रभवन्ति ततस् तेभ्यः संभवन्त्य् अपरे द्रुमाः । ते ऽपि तल्लक्षणद्रव्यकारणानुगता मुने

    prabhavanti tatas tebhyaḥ saṃbhavanty apare drumāḥ / te 'pi tallakṣaṇadravyakāraṇānugatā mune

  335. ViP 2.7.34Open verse →

    एवम् अव्याकृतात् पूर्वं जायन्ते महदादयः । विशेषान्तास् ततस् तेभ्यः संभवन्ति सुरादयः । तेभ्यश् च पुत्रास् तेषां च पुत्राणाम् अपरे सुताः

    evam avyākṛtāt pūrvaṃ jāyante mahadādayaḥ / viśeṣāntās tatas tebhyaḥ saṃbhavanti surādayaḥ / tebhyaś ca putrās teṣāṃ ca putrāṇām apare sutāḥ

  336. ViP 2.7.35Open verse →

    बीजाद् वृक्षप्ररोहेण यथा नापचयस् तरोः । भूतानां भूतसर्गेण नैवास्त्य् अपचयस् तथा

    bījād vṛkṣapraroheṇa yathā nāpacayas taroḥ / bhūtānāṃ bhūtasargeṇa naivāsty apacayas tathā

  337. ViP 2.7.36Open verse →

    संनिधानाद् यथाकाशकालाद्याः कारणं तरोः । तथैवापरिणामेन विश्वस्य भगवान् हरिः

    saṃnidhānād yathākāśakālādyāḥ kāraṇaṃ taroḥ / tathaivāpariṇāmena viśvasya bhagavān hariḥ

  338. ViP 2.7.37Open verse →

    व्रीहिबीजे यथा मूलं नालं पत्राङ्कुरौ तथा । काण्डकोषस् तथा पुष्पं क्षीरं तद्वच् च तण्डुलाः

    vrīhibīje yathā mūlaṃ nālaṃ patrāṅkurau tathā / kāṇḍakoṣas tathā puṣpaṃ kṣīraṃ tadvac ca taṇḍulāḥ

  339. ViP 2.7.38Open verse →

    तुषाः कणाश् च सन्तो वै यान्त्य् आविर्भावम् आत्मनः । प्ररोहहेतुसामग्रीम् आसाद्य मुनिसत्तम

    tuṣāḥ kaṇāś ca santo vai yānty āvirbhāvam ātmanaḥ / prarohahetusāmagrīm āsādya munisattama

  340. ViP 2.7.39Open verse →

    तथा कर्मस्व् अनेकेषु देवाद्याः समवस्थिताः । विष्णुशक्तिं समासाद्य प्ररोहम् उपयान्ति वै

    tathā karmasv anekeṣu devādyāḥ samavasthitāḥ / viṣṇuśaktiṃ samāsādya praroham upayānti vai

  341. ViP 2.7.40Open verse →

    स च विष्णुः परं ब्रह्म यतः सर्वम् इदं जगत् । जगच् च यो यत्र चेदं यस्मिंश् च लयम् एष्यति

    sa ca viṣṇuḥ paraṃ brahma yataḥ sarvam idaṃ jagat / jagac ca yo yatra cedaṃ yasmiṃś ca layam eṣyati

  342. ViP 2.7.41Open verse →

    तद् ब्रह्म तत् परं धाम सदसत्परमं पदम् । यस्य सर्वम् अभेदेन जगद् एतच् चराचरम्

    tad brahma tat paraṃ dhāma sadasatparamaṃ padam / yasya sarvam abhedena jagad etac carācaram

  343. ViP 2.7.42Open verse →

    स एव मूलप्रकृतिर् व्यक्तरूपी जगच् च सः । तस्मिन्न् एव लयं सर्वं याति तत्र च तिष्ठति

    sa eva mūlaprakṛtir vyaktarūpī jagac ca saḥ / tasminn eva layaṃ sarvaṃ yāti tatra ca tiṣṭhati

  344. ViP 2.7.43Open verse →

    कर्ता क्रियाणां स च इज्यते क्रतुः स एव तत्कर्मफलं च तस्य यत् । स्रुगादि यत् साधनम् अप्य् अशेषतो हरेर् न किंचिद् व्यतिरिक्तम् अस्ति वै

    kartā kriyāṇāṃ sa ca ijyate kratuḥ sa eva tatkarmaphalaṃ ca tasya yat / srugādi yat sādhanam apy aśeṣato harer na kiṃcid vyatiriktam asti vai

  345. ______________________________________________________ §पराशर उवाच: व्याख्यातम् एतद् ब्रह्माण्डसंस्थानं तव सुव्रत । ततः प्रमाणसंस्थाने सूर्यादीनां शृणुष्व मे

    ______________________________________________________ §parāśara uvāca: vyākhyātam etad brahmāṇḍasaṃsthānaṃ tava suvrata / tataḥ pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me

  346. योजनानां सहस्राणि भास्करस्य रथो नव । ईषादण्डस् तथैवास्य द्विगुणो मुनिसत्तम

    yojanānāṃ sahasrāṇi bhāskarasya ratho nava / īṣādaṇḍas tathaivāsya dviguṇo munisattama

  347. सार्धकोटिस् तथा सप्त नियुतान्य् अधिकानि वै । योजनानां तु तस्याक्षस् तत्र चक्रं प्रतिष्ठितम्

    sārdhakoṭis tathā sapta niyutāny adhikāni vai / yojanānāṃ tu tasyākṣas tatra cakraṃ pratiṣṭhitam

  348. त्रिनाभिमति पञ्चारे षण्णेमिन्य् अक्षयात्मके । संवत्सरमये कृत्स्नं कालचक्रं प्रतिष्ठितम्

    trinābhimati pañcāre ṣaṇṇeminy akṣayātmake / saṃvatsaramaye kṛtsnaṃ kālacakraṃ pratiṣṭhitam

  349. चत्वारिंशत् सहस्राणि द्वितीयो ऽक्षो विवस्वतः । पञ्चान्यानि तु सार्धानि स्यन्दनस्य महामते

    catvāriṃśat sahasrāṇi dvitīyo 'kṣo vivasvataḥ / pañcānyāni tu sārdhāni syandanasya mahāmate

  350. अक्षप्रमाणम् उभयोः प्रमाणं तद्युगार्धयोः । ह्रस्वो ऽक्षस् तद्युगार्धं च ध्रुवाधारो रथस्य वै । द्वितीये ऽक्षे तु तच् चक्रं संस्थितं मानसाचले

    akṣapramāṇam ubhayoḥ pramāṇaṃ tadyugārdhayoḥ / hrasvo 'kṣas tadyugārdhaṃ ca dhruvādhāro rathasya vai / dvitīye 'kṣe tu tac cakraṃ saṃsthitaṃ mānasācale

  351. हयाश् च सप्त छन्दांसि तेषां नामानि मे शृणु । गायत्री च बृहत्य् उष्णिग् जगती त्रिष्टुब् एव च । अनुष्टुप् पङ्क्तिर् इत्य् उक्ताश् छन्दांसि हरयो रवेः

    hayāś ca sapta chandāṃsi teṣāṃ nāmāni me śṛṇu / gāyatrī ca bṛhaty uṣṇig jagatī triṣṭub eva ca / anuṣṭup paṅktir ity uktāś chandāṃsi harayo raveḥ

  352. मानसोत्तरशैले तु पूर्वतो वासवी पुरी । दक्षिणेन यमस्यान्या प्रतीच्यां वरुणस्य च । उत्तरेण च सोमस्य तासां नामानि मे शृणु

    mānasottaraśaile tu pūrvato vāsavī purī / dakṣiṇena yamasyānyā pratīcyāṃ varuṇasya ca / uttareṇa ca somasya tāsāṃ nāmāni me śṛṇu

  353. वस्वोकसारा शक्रस्य याम्या संयमनी तथा । पुरी सुखा जलेशस्य सोमस्य च विभावरी

    vasvokasārā śakrasya yāmyā saṃyamanī tathā / purī sukhā jaleśasya somasya ca vibhāvarī

  354. ViP 2.8.10Open verse →

    काष्ठां गतो दक्षिणतः क्षिप्तेषुर् इव सर्पति । मैत्रेय भगवान् भानुर् ज्योतिषां चक्रसंयुतः

    kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣur iva sarpati / maitreya bhagavān bhānur jyotiṣāṃ cakrasaṃyutaḥ

  355. ViP 2.8.11Open verse →

    अहोरात्रव्यवस्थानकारणं भगवान् रविः । देवयानः परः पन्था योगिनां क्लेशसंक्षये

    ahorātravyavasthānakāraṇaṃ bhagavān raviḥ / devayānaḥ paraḥ panthā yogināṃ kleśasaṃkṣaye

  356. ViP 2.8.12Open verse →

    दिवसस्य रविर् मध्ये सर्वकालं व्यवस्थितः । सर्वद्वीपेषु मैत्रेय निशार्धस्य च संमुखः

    divasasya ravir madhye sarvakālaṃ vyavasthitaḥ / sarvadvīpeṣu maitreya niśārdhasya ca saṃmukhaḥ

  357. ViP 2.8.13Open verse →

    उदयास्तमने चैव सर्वकालं तु संमुखे । दिशास्व् अशेषासु तथा मैत्रेय विदिशासु च

    udayāstamane caiva sarvakālaṃ tu saṃmukhe / diśāsv aśeṣāsu tathā maitreya vidiśāsu ca

  358. ViP 2.8.14Open verse →

    यैर् यत्र दृश्यते भास्वान् स तेषाम् उदयः स्मृतः । तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः

    yair yatra dṛśyate bhāsvān sa teṣām udayaḥ smṛtaḥ / tirobhāvaṃ ca yatraiti tatraivāstamanaṃ raveḥ

  359. ViP 2.8.15Open verse →

    नैवास्तमनम् अर्कस्य नोदयः सर्वदा सतः । उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः

    naivāstamanam arkasya nodayaḥ sarvadā sataḥ / udayāstamanākhyaṃ hi darśanādarśanaṃ raveḥ

  360. ViP 2.8.16Open verse →

    शक्रादीनां पुरे तिष्ठन् स्पृशत्य् एष पुरत्रयम् । विकर्णौ द्वौ विकर्णस्थस् त्रीन् कोणान् द्वे पुरे तथा

    śakrādīnāṃ pure tiṣṭhan spṛśaty eṣa puratrayam / vikarṇau dvau vikarṇasthas trīn koṇān dve pure tathā

  361. ViP 2.8.17Open verse →

    उदितो वर्धमानाभिर् आमध्याह्नात् तपन् रविः । ततः परं ह्रसन्तीभिर् गोभिर् अस्तं नियच्छति

    udito vardhamānābhir āmadhyāhnāt tapan raviḥ / tataḥ paraṃ hrasantībhir gobhir astaṃ niyacchati

  362. ViP 2.8.18Open verse →

    उदयास्तमनाभ्यां च स्मृते पूर्वापरे दिशौ । यावत् पुरस्तात् तपति तावत् पृष्ठे च पार्श्वयोः

    udayāstamanābhyāṃ ca smṛte pūrvāpare diśau / yāvat purastāt tapati tāvat pṛṣṭhe ca pārśvayoḥ

  363. ViP 2.8.19Open verse →

    ऋते ऽमरगिरेर् मेरोर् उपरि ब्रह्मणः सभाम् । ये ये मरीचयो ऽर्कस्य प्रयान्ति ब्रह्मणः सभाम् । ते ते निरस्तास् तद्भासा प्रतीपम् उपयान्ति वै

    ṛte 'maragirer meror upari brahmaṇaḥ sabhām / ye ye marīcayo 'rkasya prayānti brahmaṇaḥ sabhām / te te nirastās tadbhāsā pratīpam upayānti vai

  364. ViP 2.8.20Open verse →

    तस्माद् दिश्य् उत्तरस्यां वै दिवारात्रिः सदैव हि । सर्वेषां द्वीपवर्षाणां मेरुर् उत्तरतो यतः

    tasmād diśy uttarasyāṃ vai divārātriḥ sadaiva hi / sarveṣāṃ dvīpavarṣāṇāṃ merur uttarato yataḥ

  365. ViP 2.8.21Open verse →

    प्रभा विवस्वतो रात्राव् अस्तं गच्छति भास्करे । विशत्य् अग्निम् अतो रात्रौ वह्निर् दूरात् प्रकाशते

    prabhā vivasvato rātrāv astaṃ gacchati bhāskare / viśaty agnim ato rātrau vahnir dūrāt prakāśate

  366. ViP 2.8.22Open verse →

    वह्निपादस् तथा भानुं दिनेष्व् आविशति द्विज । अतीव वह्निसंयोगाद् अतः सूर्यः प्रकाशते

    vahnipādas tathā bhānuṃ dineṣv āviśati dvija / atīva vahnisaṃyogād ataḥ sūryaḥ prakāśate

  367. ViP 2.8.23Open verse →

    तेजसी भास्कराग्नेये प्रकाशोष्णस्वरूपिणी । परस्परानुप्रवेशाद् आप्यायेते दिवानिशम्

    tejasī bhāskarāgneye prakāśoṣṇasvarūpiṇī / parasparānupraveśād āpyāyete divāniśam

  368. ViP 2.8.24Open verse →

    दक्षिणोत्तरभूम्यर्धे समुत्तिष्ठति भास्करे । अहोरात्रं विशत्य् अम्भस् तमःप्राकाश्यशीलवत्

    dakṣiṇottarabhūmyardhe samuttiṣṭhati bhāskare / ahorātraṃ viśaty ambhas tamaḥprākāśyaśīlavat

  369. ViP 2.8.25Open verse →

    आताम्रा हि भवन्त्य् आपो दिवा नक्तप्रवेशनात् । दिनं विशति चैवाम्भो भास्करे ऽस्तम् उपागते । तस्माच् छुक्लीभवन्त्य् आपो नक्तम् अह्नः प्रवेशनात्

    ātāmrā hi bhavanty āpo divā naktapraveśanāt / dinaṃ viśati caivāmbho bhāskare 'stam upāgate / tasmāc chuklībhavanty āpo naktam ahnaḥ praveśanāt

  370. ViP 2.8.26Open verse →

    एवं पुष्करमध्ये तु यदा याति दिवाकरः । त्रिंशद्भागं तु मेदिन्यास् तदा मौहूर्तिकी गतिः

    evaṃ puṣkaramadhye tu yadā yāti divākaraḥ / triṃśadbhāgaṃ tu medinyās tadā mauhūrtikī gatiḥ

  371. ViP 2.8.27Open verse →

    कुलालचक्रपर्यन्तो भ्रमन्न् एष दिवाकरः । करोत्य् अहस् तथा रात्रिं विमुञ्चन् मेदिनीं द्विज

    kulālacakraparyanto bhramann eṣa divākaraḥ / karoty ahas tathā rātriṃ vimuñcan medinīṃ dvija

  372. ViP 2.8.28Open verse →

    अयनस्योत्तरस्यादौ मकरं याति भास्करः । ततः कुम्भं च मीनं च राशे राश्यन्तरं द्विज

    ayanasyottarasyādau makaraṃ yāti bhāskaraḥ / tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija

  373. ViP 2.8.29Open verse →

    त्रिष्व् एतेष्व् अथ भुक्तेषु ततो वैषुवतीं गतिम् । प्रयाति सविता कुर्वन्न् अहोरात्रं ततः समम्

    triṣv eteṣv atha bhukteṣu tato vaiṣuvatīṃ gatim / prayāti savitā kurvann ahorātraṃ tataḥ samam

  374. ViP 2.8.30Open verse →

    ततो रात्रिः क्षयं याति वर्धते ऽनुदिनं दिनम्

    tato rātriḥ kṣayaṃ yāti vardhate 'nudinaṃ dinam

  375. ViP 2.8.31Open verse →

    ततश् च मिथुनस्यान्ते परां काष्ठाम् उपागतः । राशिं कर्कटकं प्राप्य कुरुते दक्षिणायनम्

    tataś ca mithunasyānte parāṃ kāṣṭhām upāgataḥ / rāśiṃ karkaṭakaṃ prāpya kurute dakṣiṇāyanam

  376. ViP 2.8.32Open verse →

    कुलालचक्रपर्यन्तो यथा शीघ्रं प्रवर्तते । दक्षिणे प्रक्रमे सूर्यस् तथा शीघ्रं प्रवर्तते

    kulālacakraparyanto yathā śīghraṃ pravartate / dakṣiṇe prakrame sūryas tathā śīghraṃ pravartate

  377. ViP 2.8.33Open verse →

    अतिवेगितया कालं वायुवेगगतिश् चरन् । तस्मात् प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति

    ativegitayā kālaṃ vāyuvegagatiś caran / tasmāt prakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati

  378. ViP 2.8.34Open verse →

    सूर्यो द्वादशभिः शैघ्र्यान् मुहूर्तैर् दक्षिणायने । त्रयोदशार्धम् ऋक्षाणाम् अह्ना तु चरते द्विज । मुहूर्तैस् तावदृक्षाणि नक्तम् अष्टादशैश् चरन्

    sūryo dvādaśabhiḥ śaighryān muhūrtair dakṣiṇāyane / trayodaśārdham ṛkṣāṇām ahnā tu carate dvija / muhūrtais tāvadṛkṣāṇi naktam aṣṭādaśaiś caran

  379. ViP 2.8.35Open verse →

    कुलालचक्रमध्यस्थो यथा मन्दं प्रसर्पति । तथोदगयने सूर्यः सर्पते मन्दविक्रमः

    kulālacakramadhyastho yathā mandaṃ prasarpati / tathodagayane sūryaḥ sarpate mandavikramaḥ

  380. ViP 2.8.36Open verse →

    तस्माद् दीर्घेण कालेन भूमिम् अल्पां तु गच्छति । अष्टादशमुहूर्तं यद् उत्तरायणपश्चिमम्

    tasmād dīrgheṇa kālena bhūmim alpāṃ tu gacchati / aṣṭādaśamuhūrtaṃ yad uttarāyaṇapaścimam

  381. ViP 2.8.37Open verse →

    अहर् भवति तत्रापि चरते मन्दविक्रमः

    ahar bhavati tatrāpi carate mandavikramaḥ

  382. ViP 2.8.38Open verse →

    त्रयोदशार्धम् अह्नैव ऋक्षाणां चरते रविः । मुहूर्तैस् तावदृक्षाणि रात्रौ द्वादशभिश् चरन्

    trayodaśārdham ahnaiva ṛkṣāṇāṃ carate raviḥ / muhūrtais tāvadṛkṣāṇi rātrau dvādaśabhiś caran

  383. ViP 2.8.39Open verse →

    अधो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा । मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा

    adho mandataraṃ nābhyāṃ cakraṃ bhramati vai yathā / mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā

  384. ViP 2.8.40Open verse →

    कुलालचक्रनाभिस् तु यथा तत्रैव वर्तते । ध्रुवस् तथा हि मैत्रेय तत्रैव परिवर्तते

    kulālacakranābhis tu yathā tatraiva vartate / dhruvas tathā hi maitreya tatraiva parivartate

  385. ViP 2.8.41Open verse →

    उभयोः काष्ठयोर् मध्ये भ्रमतो मण्डलानि च । दिवा नक्तं च सूर्यस्य मन्दा शीघ्रा च वै गतिः

    ubhayoḥ kāṣṭhayor madhye bhramato maṇḍalāni ca / divā naktaṃ ca sūryasya mandā śīghrā ca vai gatiḥ

  386. ViP 2.8.42Open verse →

    मन्दाह्नि यस्मिन्न् अयने शीघ्रा नक्तं तदा गतिः । शीघ्रा निशि यदा चास्य तदा मन्दा दिवा गतिः

    mandāhni yasminn ayane śīghrā naktaṃ tadā gatiḥ / śīghrā niśi yadā cāsya tadā mandā divā gatiḥ

  387. ViP 2.8.43Open verse →

    एकप्रमाणम् एवैष मार्गं याति दिवाकरः । अहोरात्रेण यो भुङ्क्ते समस्ता राशयो द्विज

    ekapramāṇam evaiṣa mārgaṃ yāti divākaraḥ / ahorātreṇa yo bhuṅkte samastā rāśayo dvija

  388. ViP 2.8.44Open verse →

    षड् एव राशयो भुङ्क्ते रात्राव् अन्यांश् च षड् दिवा

    ṣaḍ eva rāśayo bhuṅkte rātrāv anyāṃś ca ṣaḍ divā

  389. ViP 2.8.45Open verse →

    राशिप्रमाणजनिता दीर्घह्रस्वात्मता दिने । तथा निशायां राशीनां प्रमाणैर् लघुदीर्घता

    rāśipramāṇajanitā dīrghahrasvātmatā dine / tathā niśāyāṃ rāśīnāṃ pramāṇair laghudīrghatā

  390. ViP 2.8.46Open verse →

    दिनादेर् दीर्घह्रस्वत्वं तद्भोगेनैव जायते । उत्तरे प्रक्रमे शीघ्रा निशि मन्दा गतिर् दिवा

    dināder dīrghahrasvatvaṃ tadbhogenaiva jāyate / uttare prakrame śīghrā niśi mandā gatir divā

  391. ViP 2.8.47Open verse →

    दक्षिणे त्व् अयने चैव विपरीता विवस्वतः

    dakṣiṇe tv ayane caiva viparītā vivasvataḥ

  392. ViP 2.8.48Open verse →

    उषा रात्रिः समाख्याता व्युष्टिश् चाप्य् उच्यते दिनम् । प्रोच्यते च तथा संध्या उषाव्युष्ट्योर् यद् अन्तरम्

    uṣā rātriḥ samākhyātā vyuṣṭiś cāpy ucyate dinam / procyate ca tathā saṃdhyā uṣāvyuṣṭyor yad antaram

  393. ViP 2.8.49Open verse →

    संध्याकाले तु संप्राप्ते रौद्रे परमदारुणे । मन्देहा राक्षसा घोराः सूर्यम् इच्छन्ति खादितुम्

    saṃdhyākāle tu saṃprāpte raudre paramadāruṇe / mandehā rākṣasā ghorāḥ sūryam icchanti khāditum

  394. ViP 2.8.50Open verse →

    प्रजापतिकृतः शापस् तेषां मैत्रेय रक्षसाम् । अक्षयत्वं शरीराणां मरणं च दिने दिने

    prajāpatikṛtaḥ śāpas teṣāṃ maitreya rakṣasām / akṣayatvaṃ śarīrāṇāṃ maraṇaṃ ca dine dine

  395. ViP 2.8.51Open verse →

    ततः सूर्यस्य तैर् युद्धं भवत्य् अत्यन्तदारुणम् । ततो द्विजोत्तमास् तोयं यत् क्षिपन्ति महामुने

    tataḥ sūryasya tair yuddhaṃ bhavaty atyantadāruṇam / tato dvijottamās toyaṃ yat kṣipanti mahāmune

  396. ViP 2.8.52Open verse →

    ॐकारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम् । तेन दह्यन्ति ते पापा वज्रीभूतेन वारिणा

    oṃkārabrahmasaṃyuktaṃ gāyatryā cābhimantritam / tena dahyanti te pāpā vajrībhūtena vāriṇā

  397. ViP 2.8.53Open verse →

    अग्निहोत्रे हूयते या समन्त्रा प्रथमाहुतिः । सूर्यो ज्योतिः सहस्रांशुस् तया दीप्यति भास्करः

    agnihotre hūyate yā samantrā prathamāhutiḥ / sūryo jyotiḥ sahasrāṃśus tayā dīpyati bhāskaraḥ

  398. ViP 2.8.54Open verse →

    ॐकारो भगवान् विष्णुस् त्रिधामा वचसां पतिः । तदुच्चारणतस् ते तु विनाशं यान्ति राक्षसाः

    oṃkāro bhagavān viṣṇus tridhāmā vacasāṃ patiḥ / taduccāraṇatas te tu vināśaṃ yānti rākṣasāḥ

  399. ViP 2.8.55Open verse →

    वैष्णवो ऽंशः परः सूर्यो यो ऽन्तर्ज्योतिर् असंप्लवम् । अभिधायक ॐकारस् तस्य स प्रेरकः परः

    vaiṣṇavo 'ṃśaḥ paraḥ sūryo yo 'ntarjyotir asaṃplavam / abhidhāyaka oṃkāras tasya sa prerakaḥ paraḥ

  400. ViP 2.8.56Open verse →

    तेन तत् प्रेरितं ज्योतिर् ॐकारेणाथ दीप्तिमत् । दहत्य् अशेषरक्षांसि मन्देहाख्यान्य् अघानि वै

    tena tat preritaṃ jyotir oṃkāreṇātha dīptimat / dahaty aśeṣarakṣāṃsi mandehākhyāny aghāni vai

  401. ViP 2.8.57Open verse →

    तस्मान् नोल्लङ्घनं कार्यं संध्योपासनकर्मणः । स हन्ति सूर्यं संध्याया नोपास्तिं कुरुते हि यः

    tasmān nollaṅghanaṃ kāryaṃ saṃdhyopāsanakarmaṇaḥ / sa hanti sūryaṃ saṃdhyāyā nopāstiṃ kurute hi yaḥ

  402. ViP 2.8.58Open verse →

    ततः प्रयाति भगवान् ब्राह्मणैर् अभिरक्षितः । वालखिल्यादिभिश् चैव जगतः पालनोद्यतः

    tataḥ prayāti bhagavān brāhmaṇair abhirakṣitaḥ / vālakhilyādibhiś caiva jagataḥ pālanodyataḥ

  403. ViP 2.8.59Open verse →

    अफ़्तेर् ५८च् द्३,४,त्१,म्०,४ इन्स्।: काष्ठा निमेषा दश पञ्च चैव त्रिंशच् च काष्ठा गणयेत् कलां ताम् । त्रिंशत्कलाश् चैव भवेन् मुहूर्तस् तैस् त्रिंशता रात्र्यहनी समेते

    After 58c D3,4,T1,M0,4 ins.: kāṣṭhā nimeṣā daśa pañca caiva triṃśac ca kāṣṭhā gaṇayet kalāṃ tām / triṃśatkalāś caiva bhaven muhūrtas tais triṃśatā rātryahanī samete

  404. ViP 2.8.60Open verse →

    ह्रासवृद्धी त्व् अहर्भागैर् दिवसानां यथाक्रमम् । संध्या मुहूर्तमात्रा वै ह्रासवृद्धौ समा स्मृता

    hrāsavṛddhī tv aharbhāgair divasānāṃ yathākramam / saṃdhyā muhūrtamātrā vai hrāsavṛddhau samā smṛtā

  405. ViP 2.8.61Open verse →

    रेखाप्रभृत्य् अथादित्ये त्रिमुहूर्तगते तु वै । प्रातः स्मृतस् ततः कालो भागश् चाह्नः स पञ्चमः

    rekhāprabhṛty athāditye trimuhūrtagate tu vai / prātaḥ smṛtas tataḥ kālo bhāgaś cāhnaḥ sa pañcamaḥ

  406. ViP 2.8.62Open verse →

    तस्मात् प्रातस्तनात् कालात् त्रिमुहूर्तस् तु संगवः । मध्याह्नस् त्रिमुहूर्तस् तु तस्मात् कालात् तु संगवात्

    tasmāt prātastanāt kālāt trimuhūrtas tu saṃgavaḥ / madhyāhnas trimuhūrtas tu tasmāt kālāt tu saṃgavāt

  407. ViP 2.8.63Open verse →

    तस्मान् माध्याह्निकात् कालाद् अपराह्ण इति स्मृतः । त्रय एव मुहूर्तास् तु कालभागः स्मृतो बुधैः

    tasmān mādhyāhnikāt kālād aparāhṇa iti smṛtaḥ / traya eva muhūrtās tu kālabhāgaḥ smṛto budhaiḥ

  408. ViP 2.8.64Open verse →

    अपराह्णे व्यतीते तु कालः सायाह्न उच्यते । दशपञ्चमुहूर्ताहो मुहूर्तास् त्रय एव च

    aparāhṇe vyatīte tu kālaḥ sāyāhna ucyate / daśapañcamuhūrtāho muhūrtās traya eva ca

  409. ViP 2.8.65Open verse →

    दशपञ्चमुहूर्तं वै अहर् वैषुवतं स्मृतम्

    daśapañcamuhūrtaṃ vai ahar vaiṣuvataṃ smṛtam

  410. ViP 2.8.66Open verse →

    वर्धते ऽहो ह्रसति च अयने दक्षिणोत्तरे । अहस् तु ग्रसते रात्रिं रात्रिर् ग्रसति वासरम्

    vardhate 'ho hrasati ca ayane dakṣiṇottare / ahas tu grasate rātriṃ rātrir grasati vāsaram

  411. ViP 2.8.67Open verse →

    शरद्वसन्तयोर् मध्ये विषुवं तु विभाव्यते । तुलामेषगते भानौ समरात्रिदिनं तु तत्

    śaradvasantayor madhye viṣuvaṃ tu vibhāvyate / tulāmeṣagate bhānau samarātridinaṃ tu tat

  412. ViP 2.8.68Open verse →

    कर्कटावस्थिते भानौ दक्षिणायनम् उच्यते । उत्तरायणम् अप्य् उक्तं मकरस्थे दिवाकरे

    karkaṭāvasthite bhānau dakṣiṇāyanam ucyate / uttarāyaṇam apy uktaṃ makarasthe divākare

  413. ViP 2.8.69Open verse →

    त्रिंशन्मुहूर्तं कथितम् अहोरात्रं तु यन् मया । तानि पञ्चदश ब्रह्मन् पक्ष इत्य् अभिधीयते

    triṃśanmuhūrtaṃ kathitam ahorātraṃ tu yan mayā / tāni pañcadaśa brahman pakṣa ity abhidhīyate

  414. ViP 2.8.70Open verse →

    मासः पक्षद्वयेनोक्तो द्वौ मासौ चार्कजाव् ऋतुः । ऋतुत्रयं चाप्य् अयनं द्वे ऽयने वर्षसंज्ञिते

    māsaḥ pakṣadvayenokto dvau māsau cārkajāv ṛtuḥ / ṛtutrayaṃ cāpy ayanaṃ dve 'yane varṣasaṃjñite

  415. ViP 2.8.71Open verse →

    संवत्सरादयः पञ्च चतुर्मासविकल्पिताः । निश्चयः सर्वकालस्य युगम् इत्य् अभिधीयते

    saṃvatsarādayaḥ pañca caturmāsavikalpitāḥ / niścayaḥ sarvakālasya yugam ity abhidhīyate

  416. ViP 2.8.72Open verse →

    संवत्सरस् तु प्रथमो द्वितीयः परिवत्सरः । इद्वत्सरस् तृतीयस् तु चतुर्थश् चानुवत्सरः । वत्सरः पञ्चमश् चात्र कालो ऽयं युगसंज्ञितः

    saṃvatsaras tu prathamo dvitīyaḥ parivatsaraḥ / idvatsaras tṛtīyas tu caturthaś cānuvatsaraḥ / vatsaraḥ pañcamaś cātra kālo 'yaṃ yugasaṃjñitaḥ

  417. ViP 2.8.73Open verse →

    यः श्वेतस्योत्तरे शैलः शृङ्गवान् इति विश्रुतः । त्रीणि तस्य तु शृङ्गाणि यैर् असौ शृङ्गवान् स्मृतः

    yaḥ śvetasyottare śailaḥ śṛṅgavān iti viśrutaḥ / trīṇi tasya tu śṛṅgāṇi yair asau śṛṅgavān smṛtaḥ

  418. ViP 2.8.74Open verse →

    दक्षिणं चोत्तरं चैव मध्यं वैषुवतं तथा । शरद्वसन्तयोर् मध्ये तद् भानुः प्रतिपद्यते । मेषादौ च तुलादौ च मैत्रेय विषुवत्स्थितः

    dakṣiṇaṃ cottaraṃ caiva madhyaṃ vaiṣuvataṃ tathā / śaradvasantayor madhye tad bhānuḥ pratipadyate / meṣādau ca tulādau ca maitreya viṣuvatsthitaḥ

  419. ViP 2.8.75Open verse →

    तदा तुल्यम् अहोरात्रं करोति तिमिरापहः । दशपञ्चमुहूर्तं वै तद् एतद् उभयं स्मृतम्

    tadā tulyam ahorātraṃ karoti timirāpahaḥ / daśapañcamuhūrtaṃ vai tad etad ubhayaṃ smṛtam

  420. ViP 2.8.76Open verse →

    प्रथमे कृत्तिकाभागे यदा भास्वांस् तदा शशी । विशाखानां चतुर्थे ऽंशे मुने तिष्ठत्य् असंशयम्

    prathame kṛttikābhāge yadā bhāsvāṃs tadā śaśī / viśākhānāṃ caturthe 'ṃśe mune tiṣṭhaty asaṃśayam

  421. ViP 2.8.77Open verse →

    विशाखानां यदा सूर्यश् चरत्य् अंशं तृतीयकम् । तदा चन्द्रं विजानीयात् कृत्तिकाशिरसि स्थितम्

    viśākhānāṃ yadā sūryaś caraty aṃśaṃ tṛtīyakam / tadā candraṃ vijānīyāt kṛttikāśirasi sthitam

  422. ViP 2.8.78Open verse →

    तदैव विषुवाख्यो वै कालः पुण्यो ऽभिधीयते । तदा दानानि देयानि देवेभ्यः प्रयतात्मभिः

    tadaiva viṣuvākhyo vai kālaḥ puṇyo 'bhidhīyate / tadā dānāni deyāni devebhyaḥ prayatātmabhiḥ

  423. ViP 2.8.79Open verse →

    ब्राह्मणेभ्यः पितृभ्यश् च मुखम् एतत् तु दानजम् । दत्तदानस् तु विषुवे कृतकृत्यो ऽभिजायते

    brāhmaṇebhyaḥ pitṛbhyaś ca mukham etat tu dānajam / dattadānas tu viṣuve kṛtakṛtyo 'bhijāyate

  424. ViP 2.8.80Open verse →

    अहोरात्रार्धमासौ तु कलाः काष्ठाः क्षणास् तथा । पौर्णमासी तथा ज्ञेया अमावास्या तथैव च । सिनीवाली कुहूश् चैव राका चानुमतिस् तथा

    ahorātrārdhamāsau tu kalāḥ kāṣṭhāḥ kṣaṇās tathā / paurṇamāsī tathā jñeyā amāvāsyā tathaiva ca / sinīvālī kuhūś caiva rākā cānumatis tathā

  425. ViP 2.8.81Open verse →

    तपस्तपस्यौ मधुमाधवौ च शुक्रः शुचिश् चायनम् उत्तरं स्यात् । नभो नभस्यो ऽथ इषश् च सोर्जः सहःसहस्याव् इति दक्षिणं स्यात्

    tapastapasyau madhumādhavau ca śukraḥ śuciś cāyanam uttaraṃ syāt / nabho nabhasyo 'tha iṣaś ca sorjaḥ sahaḥsahasyāv iti dakṣiṇaṃ syāt

  426. ViP 2.8.82Open verse →

    लोकालोकस् तु यः शैलः प्रागुक्तो भवतो मया । लोकपालास् तु चत्वारस् तत्र तिष्ठन्ति सुव्रताः

    lokālokas tu yaḥ śailaḥ prāgukto bhavato mayā / lokapālās tu catvāras tatra tiṣṭhanti suvratāḥ

  427. ViP 2.8.83Open verse →

    सुधामा शङ्खपाच् चैव कर्दमस्यात्मजौ द्विज । हिरण्यरोमा चैवान्यश् चतुर्थः केतुमान् अपि

    sudhāmā śaṅkhapāc caiva kardamasyātmajau dvija / hiraṇyaromā caivānyaś caturthaḥ ketumān api

  428. ViP 2.8.84Open verse →

    निर्द्वंद्वा निरभीमाना निस्तन्द्रा निष्परिग्रहाः । लोकपालाः स्थिता ह्य् एते लोकालोके चतुर्दिशम्

    nirdvaṃdvā nirabhīmānā nistandrā niṣparigrahāḥ / lokapālāḥ sthitā hy ete lokāloke caturdiśam

  429. ViP 2.8.85Open verse →

    उत्तरं यद् अगस्त्यस्य अजवीथ्याश् च दक्षिणम् । पितृयानः स वै पन्था वैश्वानरपथाद् बहिः

    uttaraṃ yad agastyasya ajavīthyāś ca dakṣiṇam / pitṛyānaḥ sa vai panthā vaiśvānarapathād bahiḥ

  430. ViP 2.8.86Open verse →

    तत्रासते महात्मान ऋषयो ये ऽग्निहोत्रिणः । भूतारम्भकृतं ब्रह्म शंसन्त ऋत्विगुद्यताः । लोकारम्भं प्रारभन्ते तेषां पन्थाः स दक्षिणः

    tatrāsate mahātmāna ṛṣayo ye 'gnihotriṇaḥ / bhūtārambhakṛtaṃ brahma śaṃsanta ṛtvigudyatāḥ / lokārambhaṃ prārabhante teṣāṃ panthāḥ sa dakṣiṇaḥ

  431. ViP 2.8.87Open verse →

    चलितं ते पुनर् ब्रह्म स्थापयन्ति युगे युगे । संतत्या तपसा चैव मर्यादाभिः श्रुतेन च

    calitaṃ te punar brahma sthāpayanti yuge yuge / saṃtatyā tapasā caiva maryādābhiḥ śrutena ca

  432. ViP 2.8.88Open verse →

    जायमानास् तु पूर्वे तु पश्चिमानां गृहेषु वै । पश्चिमाश् चैव पूर्वेषां जायन्ते निधनेष्व् इह

    jāyamānās tu pūrve tu paścimānāṃ gṛheṣu vai / paścimāś caiva pūrveṣāṃ jāyante nidhaneṣv iha

  433. ViP 2.8.89Open verse →

    एवम् आवर्तमानास् ते तिष्ठन्त्य् आभूतसंप्लवात् । सवितुर् दक्षिणं मार्गं श्रिता ह्य् आचन्द्रतारकम्

    evam āvartamānās te tiṣṭhanty ābhūtasaṃplavāt / savitur dakṣiṇaṃ mārgaṃ śritā hy ācandratārakam

  434. ViP 2.8.90Open verse →

    नागवीथ्युत्तरं यच् च सप्तर्षिभ्यश् च दक्षिणम् । उत्तरः सवितुः पन्था देवयानस् तु स स्मृतः

    nāgavīthyuttaraṃ yac ca saptarṣibhyaś ca dakṣiṇam / uttaraḥ savituḥ panthā devayānas tu sa smṛtaḥ

  435. ViP 2.8.91Open verse →

    तत्र ते वशिनः सिद्धा विमला ब्रह्मचारिणः । संततिं ते जुगुप्सन्ति तस्मान् मृत्युर् जितश् च तैः

    tatra te vaśinaḥ siddhā vimalā brahmacāriṇaḥ / saṃtatiṃ te jugupsanti tasmān mṛtyur jitaś ca taiḥ

  436. ViP 2.8.92Open verse →

    अष्टाशीतिसहस्राणि यतीनाम् ऊर्ध्वरेतसाम् । उदक्पन्थानम् अर्यम्णः श्रिता ह्य् आभूतसंप्लवात्

    aṣṭāśītisahasrāṇi yatīnām ūrdhvaretasām / udakpanthānam aryamṇaḥ śritā hy ābhūtasaṃplavāt

  437. ViP 2.8.93Open verse →

    ते ऽसंप्रयोगाल् लोभस्य मैथुनस्य च वर्जनात् । इच्छाद्वेषाप्रवृत्त्या च भूतारम्भविवर्जनात्

    te 'saṃprayogāl lobhasya maithunasya ca varjanāt / icchādveṣāpravṛttyā ca bhūtārambhavivarjanāt

  438. ViP 2.8.94Open verse →

    पुनश् चाकामसंयोगाच् शब्दादेर् दोषदर्शनात् । इत्य् एभिः कारणैः शुद्धास् ते ऽमृतत्वं हि भेजिरे

    punaś cākāmasaṃyogāc śabdāder doṣadarśanāt / ity ebhiḥ kāraṇaiḥ śuddhās te 'mṛtatvaṃ hi bhejire

  439. ViP 2.8.95Open verse →

    आभूतसंप्लवं स्थानम् अमृतत्वं विभाव्यते । त्रैलोक्यस्थितिकालो ऽयम् अपुनर्मार उच्यते

    ābhūtasaṃplavaṃ sthānam amṛtatvaṃ vibhāvyate / trailokyasthitikālo 'yam apunarmāra ucyate

  440. ViP 2.8.96Open verse →

    ब्रह्महत्याश्वमेधाभ्यां पापपुण्यकृतो विधिः । आभूतसंप्लवान्तान्तं फलम् उक्तं तयोर् द्विज

    brahmahatyāśvamedhābhyāṃ pāpapuṇyakṛto vidhiḥ / ābhūtasaṃplavāntāntaṃ phalam uktaṃ tayor dvija

  441. ViP 2.8.97Open verse →

    यावन्मात्रप्रदेशे तु मैत्रेयावस्थितो ध्रुवः । क्षयम् आयाति तावत् तु भूमेर् आभूतसंप्लवे

    yāvanmātrapradeśe tu maitreyāvasthito dhruvaḥ / kṣayam āyāti tāvat tu bhūmer ābhūtasaṃplave

  442. ViP 2.8.98Open verse →

    ऊर्ध्वोत्तरम् ऋषिभ्यस् तु ध्रुवो यत्र व्यवस्थितः । एतद् विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम्

    ūrdhvottaram ṛṣibhyas tu dhruvo yatra vyavasthitaḥ / etad viṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram

  443. ViP 2.8.99Open verse →

    निर्धूतदोषपङ्कानां यतीनां संयतात्मनाम् । स्थानं तत् परमं विप्र पुण्यपापपरिक्षये

    nirdhūtadoṣapaṅkānāṃ yatīnāṃ saṃyatātmanām / sthānaṃ tat paramaṃ vipra puṇyapāpaparikṣaye

  444. ViP 2.8.100Open verse →

    अपुण्यपुण्योपरमे क्षीणाशेषाप्तिहेतवः । यत्र गत्वा न शोचन्ति तद् विष्णोः परमं पदम्

    apuṇyapuṇyoparame kṣīṇāśeṣāptihetavaḥ / yatra gatvā na śocanti tad viṣṇoḥ paramaṃ padam

  445. ViP 2.8.101Open verse →

    धर्मध्रुवाद्यास् तिष्ठन्ति यत्र ते लोकसाक्षिणः । तत्सार्ष्ट्योत्पन्नयोगेद्धास् तद् विष्णोः परमं पदम्

    dharmadhruvādyās tiṣṭhanti yatra te lokasākṣiṇaḥ / tatsārṣṭyotpannayogeddhās tad viṣṇoḥ paramaṃ padam

  446. ViP 2.8.102Open verse →

    यत्रोतम् एतत् प्रोतं च यद् भूतं सचराचरम् । भाव्यं च विश्वं मैत्रेय तद् विष्णोः परमं पदम्

    yatrotam etat protaṃ ca yad bhūtaṃ sacarācaram / bhāvyaṃ ca viśvaṃ maitreya tad viṣṇoḥ paramaṃ padam

  447. ViP 2.8.103Open verse →

    दिवीव चक्षुर् आततं विततं यन् महात्मनाम् । विवेकज्ञानदृष्टं च तद् विष्णोः परमं पदम्

    divīva cakṣur ātataṃ vitataṃ yan mahātmanām / vivekajñānadṛṣṭaṃ ca tad viṣṇoḥ paramaṃ padam

  448. ViP 2.8.104Open verse →

    यस्मिन् प्रतिष्ठितो भास्वान् मेढीभूतः स्वयं ध्रुवः । ध्रुवे च सर्वज्योतींषि ज्योतिष्व् अम्भोमुचो द्विज

    yasmin pratiṣṭhito bhāsvān meḍhībhūtaḥ svayaṃ dhruvaḥ / dhruve ca sarvajyotīṃṣi jyotiṣv ambhomuco dvija

  449. ViP 2.8.105Open verse →

    मेघेषु संतता वृष्टिर् वृष्टेः सृष्टेश् च पोषणम् । आप्यायनं च सर्वेषां देवादीनां महामुने

    megheṣu saṃtatā vṛṣṭir vṛṣṭeḥ sṛṣṭeś ca poṣaṇam / āpyāyanaṃ ca sarveṣāṃ devādīnāṃ mahāmune

  450. ViP 2.8.106Open verse →

    ततश् चाज्याहुतिद्वारा पोषितास् ते हविर्भुजः । वृष्टेः कारणतां यान्ति भूतानां स्थितये पुनः

    tataś cājyāhutidvārā poṣitās te havirbhujaḥ / vṛṣṭeḥ kāraṇatāṃ yānti bhūtānāṃ sthitaye punaḥ

  451. ViP 2.8.107Open verse →

    एवम् एतत् पदं विष्णोस् तृतीयम् अमलात्मकम् । आधारभूतं लोकानां त्रयाणां वृष्टिकारणम्

    evam etat padaṃ viṣṇos tṛtīyam amalātmakam / ādhārabhūtaṃ lokānāṃ trayāṇāṃ vṛṣṭikāraṇam

  452. ViP 2.8.108Open verse →

    ततः प्रभवति ब्रह्मन् सर्वपापहरा सरित् । गङ्गा देवाङ्गनाङ्गानाम् अनुलेपनपिञ्जरा

    tataḥ prabhavati brahman sarvapāpaharā sarit / gaṅgā devāṅganāṅgānām anulepanapiñjarā

  453. ViP 2.8.109Open verse →

    वामपादाम्बुजाङ्गुष्ठनखस्रोतोविनिर्गताम् । विष्णोर् बिभर्ति यां भक्त्या शिरसाहर्निशं ध्रुवः

    vāmapādāmbujāṅguṣṭhanakhasrotovinirgatām / viṣṇor bibharti yāṃ bhaktyā śirasāharniśaṃ dhruvaḥ

  454. ViP 2.8.110Open verse →

    ततः सप्तर्षयो यस्याः प्राणायामपरायणाः । तिष्ठन्ति वीचिमालाभिर् उह्यमानजटाजले

    tataḥ saptarṣayo yasyāḥ prāṇāyāmaparāyaṇāḥ / tiṣṭhanti vīcimālābhir uhyamānajaṭājale

  455. ViP 2.8.111Open verse →

    वार्योघैः संततैर् यस्याः प्लावितं शशिमण्डलम् । भूयो ऽधिकतरां कान्तिं वहत्य् एतद् उपक्षयम्

    vāryoghaiḥ saṃtatair yasyāḥ plāvitaṃ śaśimaṇḍalam / bhūyo 'dhikatarāṃ kāntiṃ vahaty etad upakṣayam

  456. ViP 2.8.112Open verse →

    मेरुपृष्ठे पतत्य् उच्चैर् निष्क्रान्ता शशिमण्डलात् । जगतः पावनार्थाय या प्रयाति चतुर्दिशम्

    merupṛṣṭhe pataty uccair niṣkrāntā śaśimaṇḍalāt / jagataḥ pāvanārthāya yā prayāti caturdiśam

  457. ViP 2.8.113Open verse →

    सीता चालकनन्दा च चक्षुर् भद्रा च संस्थिता । एकैव या चतुर्भेदा दिग्भेदगतिलक्षणा

    sītā cālakanandā ca cakṣur bhadrā ca saṃsthitā / ekaiva yā caturbhedā digbhedagatilakṣaṇā

  458. ViP 2.8.114Open verse →

    भेदं चालकनन्दाख्यं यस्याः शर्वो ऽपि दक्षिणम् । दधार शिरसा प्रीत्या वर्षाणाम् अधिकं शतम्

    bhedaṃ cālakanandākhyaṃ yasyāḥ śarvo 'pi dakṣiṇam / dadhāra śirasā prītyā varṣāṇām adhikaṃ śatam

  459. ViP 2.8.115Open verse →

    शम्भोर् जटाकलापाच् च विनिष्क्रान्तास्थिशर्करान् । प्लावयित्वा दिवं निन्ये या पापान् सगरात्मजान्

    śambhor jaṭākalāpāc ca viniṣkrāntāsthiśarkarān / plāvayitvā divaṃ ninye yā pāpān sagarātmajān

  460. ViP 2.8.116Open verse →

    स्नातस्य सलिले यस्याः सद्यः पापं प्रणश्यति । अपूर्वपुण्यप्राप्तिश् च सद्यो मैत्रेय जायते

    snātasya salile yasyāḥ sadyaḥ pāpaṃ praṇaśyati / apūrvapuṇyaprāptiś ca sadyo maitreya jāyate

  461. ViP 2.8.117Open verse →

    दत्ताः पितृभ्यो यत्रापस् तनयैः श्रद्धयान्वितैः । समात्रयं प्रयच्छन्ति तृप्तिं मैत्रेय दुर्लभाम्

    dattāḥ pitṛbhyo yatrāpas tanayaiḥ śraddhayānvitaiḥ / samātrayaṃ prayacchanti tṛptiṃ maitreya durlabhām

  462. ViP 2.8.118Open verse →

    यस्याम् इष्ट्वा महायज्ञैर् यज्ञेशं पुरुषोत्तमम् । द्विजभूपाः पराम् ऋद्धिम् अवापुर् दिवि चेह च

    yasyām iṣṭvā mahāyajñair yajñeśaṃ puruṣottamam / dvijabhūpāḥ parām ṛddhim avāpur divi ceha ca

  463. ViP 2.8.119Open verse →

    स्नानाद् विधूतपापाश् च यज्जले यतयस् तथा । केशवासक्तमनसः प्राप्ता निर्वाणम् उत्तमम्

    snānād vidhūtapāpāś ca yajjale yatayas tathā / keśavāsaktamanasaḥ prāptā nirvāṇam uttamam

  464. ViP 2.8.120Open verse →

    श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता । या पावयति भूतानि कीर्तिता च दिने दिने

    śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā / yā pāvayati bhūtāni kīrtitā ca dine dine

  465. ViP 2.8.121Open verse →

    गङ्गा गङ्गेति यन् नाम योजनानां शतेष्व् अपि । स्थितैर् उच्चारितं हन्ति पापं जन्मत्रयार्जितम्

    gaṅgā gaṅgeti yan nāma yojanānāṃ śateṣv api / sthitair uccāritaṃ hanti pāpaṃ janmatrayārjitam

  466. ViP 2.8.122Open verse →

    यतः सा पावनायालं त्रयाणां जगताम् अपि । समुद्भूता परं तत् तु तृतीयं भगवत्पदम्

    yataḥ sā pāvanāyālaṃ trayāṇāṃ jagatām api / samudbhūtā paraṃ tat tu tṛtīyaṃ bhagavatpadam

  467. ______________________________________________________ §पराशर उवाच: तारामयं भगवतः शिशुमाराकृति प्रभोः । दिवि रूपं हरेर् यत् तु तस्य पुच्छे स्थितो ध्रुवः

    ______________________________________________________ §parāśara uvāca: tārāmayaṃ bhagavataḥ śiśumārākṛti prabhoḥ / divi rūpaṃ harer yat tu tasya pucche sthito dhruvaḥ

  468. एष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् । भ्रमन्तम् अनु तं यान्ति नक्षत्राणि च चक्रवत्

    eṣa bhraman bhrāmayati candrādityādikān grahān / bhramantam anu taṃ yānti nakṣatrāṇi ca cakravat

  469. सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह । वातानीकमयैर् बन्धैर् ध्रुवे बद्धानि तानि वै

    sūryācandramasau tārā nakṣatrāṇi grahaiḥ saha / vātānīkamayair bandhair dhruve baddhāni tāni vai

  470. शिशुमाराकृति प्रोक्तं यद् रूपं ज्योतिषां दिवि ॥ विप्_२,९।४अब् ॥ ग्२ इन्स्।: इत्य् एवं वायवः सप्त वहन्ति भुवनत्रयम् ॥ विप्_२,९।४अब्*१० ॥ नारायणो ऽयनं धाम्नां तस्याधारः स्वयं हृदि ॥ विप्_२,९।४च्द् ॥ उत्तानपादपुत्रस् तु तम् आराध्य जगत्पतिम् । सताराशिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः

    śiśumārākṛti proktaṃ yad rūpaṃ jyotiṣāṃ divi // ViP_2,9.4ab // G2 ins.: ity evaṃ vāyavaḥ sapta vahanti bhuvanatrayam // ViP_2,9.4ab*10 // nārāyaṇo 'yanaṃ dhāmnāṃ tasyādhāraḥ svayaṃ hṛdi // ViP_2,9.4cd // uttānapādaputras tu tam ārādhya jagatpatim / satārāśiśumārasya dhruvaḥ pucche vyavasthitaḥ

  471. आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः । ध्रुवस्य शिशुमारश् च ध्रुवे भानुर् व्यवस्थितः

    ādhāraḥ śiśumārasya sarvādhyakṣo janārdanaḥ / dhruvasya śiśumāraś ca dhruve bhānur vyavasthitaḥ

  472. तदाधारं जगच् चेदं सदेवासुरमानुषम्

    tadādhāraṃ jagac cedaṃ sadevāsuramānuṣam

  473. येन विप्र विधानेन तन् ममैकमनाः शृणु । विवस्वान् अष्टभिर् मासैर् आदायापो रसान्विताः । वर्षत्य् अम्बु ततश् चान्नम् अन्नाद् अप्य् अखिलं जगत्

    yena vipra vidhānena tan mamaikamanāḥ śṛṇu / vivasvān aṣṭabhir māsair ādāyāpo rasānvitāḥ / varṣaty ambu tataś cānnam annād apy akhilaṃ jagat

  474. विवस्वान् अंशुभिस् तीक्ष्णैर् आदाय जगतो जलम् । सोमे मुञ्चत्य् अथेन्दुश् च वायुनाडीमयैर् दिवि । नालैर् विक्षिपते ऽभ्रेषु धूमाग्न्यनिलमूर्तिषु

    vivasvān aṃśubhis tīkṣṇair ādāya jagato jalam / some muñcaty athenduś ca vāyunāḍīmayair divi / nālair vikṣipate 'bhreṣu dhūmāgnyanilamūrtiṣu

  475. ViP 2.9.10Open verse →

    न भ्रश्यन्ति यतस् तेभ्यो जलान्य् अभ्राणि तान्य् अतः । अभ्रस्थाः प्रपतन्त्य् आपो वायुना समुदीरिताः । संस्कारं कालजनितं मैत्रेयासाद्य निर्मलाः

    na bhraśyanti yatas tebhyo jalāny abhrāṇi tāny ataḥ / abhrasthāḥ prapatanty āpo vāyunā samudīritāḥ / saṃskāraṃ kālajanitaṃ maitreyāsādya nirmalāḥ

  476. ViP 2.9.11Open verse →

    सरित्समुद्रभौमास् तु तथापः प्राणिसंभवाः । चतुष्प्रकारा भगवान् आदत्ते सविता मुने

    saritsamudrabhaumās tu tathāpaḥ prāṇisaṃbhavāḥ / catuṣprakārā bhagavān ādatte savitā mune

  477. ViP 2.9.12Open verse →

    आकाशगङ्गासलिलं तथादाय गभस्तिमान् । अनभ्रगतम् एवोर्व्यां सद्यः क्षिपति रश्मिभिः

    ākāśagaṅgāsalilaṃ tathādāya gabhastimān / anabhragatam evorvyāṃ sadyaḥ kṣipati raśmibhiḥ

  478. ViP 2.9.13Open verse →

    तस्य संस्पर्शनिर्धूतपापपङ्को द्विजोत्तम । न याति नरकं मर्त्यो दिव्यं स्नानं हि तत् स्मृतम्

    tasya saṃsparśanirdhūtapāpapaṅko dvijottama / na yāti narakaṃ martyo divyaṃ snānaṃ hi tat smṛtam

  479. ViP 2.9.14Open verse →

    दृष्टसूर्यं हि यद् वारि पतत्य् अभ्रैर् विना दिवः । आकाशगङ्गासलिलं तद् गोभिः क्षिप्यते रवेः

    dṛṣṭasūryaṃ hi yad vāri pataty abhrair vinā divaḥ / ākāśagaṅgāsalilaṃ tad gobhiḥ kṣipyate raveḥ

  480. ViP 2.9.15Open verse →

    कृत्तिकादिषु ऋक्षेषु विषमेष्व् अम्बु यद् दिवः । दृष्टार्कं पतितं ज्ञेयं तद् गाङ्गं दिग्गजोज्झितम्

    kṛttikādiṣu ṛkṣeṣu viṣameṣv ambu yad divaḥ / dṛṣṭārkaṃ patitaṃ jñeyaṃ tad gāṅgaṃ diggajojjhitam

  481. ViP 2.9.16Open verse →

    युग्मर्क्षेषु तु यत् तोयं पतत्य् अर्कोज्झितं दिवः । तत् सूर्यरश्मिभिः सद्यः समादाय निरस्यते

    yugmarkṣeṣu tu yat toyaṃ pataty arkojjhitaṃ divaḥ / tat sūryaraśmibhiḥ sadyaḥ samādāya nirasyate

  482. ViP 2.9.17Open verse →

    उभयं पुण्यम् अत्यर्थं नृणां पापहरं द्विज । आकाशगङ्गासलिलं दिव्यं स्नानं महामुने

    ubhayaṃ puṇyam atyarthaṃ nṛṇāṃ pāpaharaṃ dvija / ākāśagaṅgāsalilaṃ divyaṃ snānaṃ mahāmune

  483. ViP 2.9.18Open verse →

    यत् तु मेघैः समुत्सृष्टं वारि तत् प्राणिनां द्विज । पुष्णात्य् ओषधयः सर्वा जीवनायामृतं हि तत्

    yat tu meghaiḥ samutsṛṣṭaṃ vāri tat prāṇināṃ dvija / puṣṇāty oṣadhayaḥ sarvā jīvanāyāmṛtaṃ hi tat

  484. ViP 2.9.19Open verse →

    तेन वृद्धिं परां नीतः सलिलेनौषधीगणः । साधकः फलपाकान्तः प्रजानां द्विज जायते

    tena vṛddhiṃ parāṃ nītaḥ salilenauṣadhīgaṇaḥ / sādhakaḥ phalapākāntaḥ prajānāṃ dvija jāyate

  485. ViP 2.9.20Open verse →

    तेन यज्ञान् यथाप्रोक्तान् मानवाः शास्त्रचक्षुषः । कुर्वन्त्य् अहरहस् तैश् च देवान् आप्याययन्ति ते

    tena yajñān yathāproktān mānavāḥ śāstracakṣuṣaḥ / kurvanty aharahas taiś ca devān āpyāyayanti te

  486. ViP 2.9.21Open verse →

    एवं यज्ञाश् च वेदाश् च वर्णाश् च द्विजपूर्वकाः । सर्वे देवनिकायाश् च पशुभूतगणाश् च ये

    evaṃ yajñāś ca vedāś ca varṇāś ca dvijapūrvakāḥ / sarve devanikāyāś ca paśubhūtagaṇāś ca ye

  487. ViP 2.9.22Open verse →

    वृष्ट्या धृतम् इदं सर्वम् अन्नं निष्पाद्यते यया । सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तम

    vṛṣṭyā dhṛtam idaṃ sarvam annaṃ niṣpādyate yayā / sāpi niṣpādyate vṛṣṭiḥ savitrā munisattama

  488. ViP 2.9.23Open verse →

    आधारभूतः सवितुर् ध्रुवो मुनिवरोत्तम । ध्रुवस्य शिशुमारो ऽसौ सो ऽपि नारायणाश्रयः

    ādhārabhūtaḥ savitur dhruvo munivarottama / dhruvasya śiśumāro 'sau so 'pi nārāyaṇāśrayaḥ

  489. ViP 2.9.24Open verse →

    हृदि नारायणस् तस्य शिशुमारस्य संस्थितः । बिभर्ता सर्वभूतानाम् आदिभूतः सनातनः

    hṛdi nārāyaṇas tasya śiśumārasya saṃsthitaḥ / bibhartā sarvabhūtānām ādibhūtaḥ sanātanaḥ

  490. ViP 2.10.1Open verse →

    ______________________________________________________ §पराशर उवाच: अशीतिमण्डलशतं काष्ठयोर् अन्तरं द्वयोः । आरोहणावरोहाभ्यां भानोर् अब्देन या गतिः

    ______________________________________________________ §parāśara uvāca: aśītimaṇḍalaśataṃ kāṣṭhayor antaraṃ dvayoḥ / ārohaṇāvarohābhyāṃ bhānor abdena yā gatiḥ

  491. ViP 2.10.2Open verse →

    स रथो ऽधिष्ठितो देवैर् आदित्यै ऋषिभिस् तथा । गन्धर्वैर् अप्सरोभिश् च ग्रामणीसर्पराक्षसैः

    sa ratho 'dhiṣṭhito devair ādityai ṛṣibhis tathā / gandharvair apsarobhiś ca grāmaṇīsarparākṣasaiḥ

  492. ViP 2.10.3Open verse →

    धाता कृतस्थला चैव पुलस्त्यो वासुकिस् तथा । रथकृद् ग्रामणीर् हेतिस् तुम्बुरुश् चैव सप्तमः

    dhātā kṛtasthalā caiva pulastyo vāsukis tathā / rathakṛd grāmaṇīr hetis tumburuś caiva saptamaḥ

  493. ViP 2.10.4Open verse →

    एते वसन्ति वै चैत्रे मधुमासे सदैव हि । मैत्रेय स्यन्दने भानोः सप्त मासाधिकारिणः

    ete vasanti vai caitre madhumāse sadaiva hi / maitreya syandane bhānoḥ sapta māsādhikāriṇaḥ

  494. ViP 2.10.5Open verse →

    अर्यमा पुलहश् चैव रथौजाः पुञ्जिकस्थला । प्रहेतिः कच्छनीरश् च नारदश् च रथे रवेः

    aryamā pulahaś caiva rathaujāḥ puñjikasthalā / prahetiḥ kacchanīraś ca nāradaś ca rathe raveḥ

  495. ViP 2.10.6Open verse →

    माधवे निवसन्त्य् एते शुचिसंज्ञे निबोध मे

    mādhave nivasanty ete śucisaṃjñe nibodha me

  496. ViP 2.10.7Open verse →

    मित्रो ऽत्रिस् तक्षको रक्षः पौरुषेयो ऽथ मेनका । हाहा रथस्वनश् चैव मैत्रेयैते वसन्ति वै

    mitro 'tris takṣako rakṣaḥ pauruṣeyo 'tha menakā / hāhā rathasvanaś caiva maitreyaite vasanti vai

  497. ViP 2.10.8Open verse →

    वरुणो वसिष्ठो रम्भा सहजन्या हुहू रथः । रथचित्रस् तथा शुक्रे वसन्त्य् आषाढसंज्ञिते

    varuṇo vasiṣṭho rambhā sahajanyā huhū rathaḥ / rathacitras tathā śukre vasanty āṣāḍhasaṃjñite

  498. ViP 2.10.9Open verse →

    इन्द्रो विश्वावसुः स्रोत एलापत्रस् तथाङ्गिराः । प्रम्लोचा च नभस्य् एते सर्पश् चार्के वसन्ति वै

    indro viśvāvasuḥ srota elāpatras tathāṅgirāḥ / pramlocā ca nabhasy ete sarpaś cārke vasanti vai

  499. ViP 2.10.10Open verse →

    विवस्वान् उग्रसेनश् च भृगुर् आपूरणस् तथा । उम्लोचा शङ्खपालश् च व्याघ्रो भाद्रपदे तथा

    vivasvān ugrasenaś ca bhṛgur āpūraṇas tathā / umlocā śaṅkhapālaś ca vyāghro bhādrapade tathā

  500. ViP 2.10.11Open verse →

    पूषा च सुरुचिर् वातो गौतमो ऽथ धनंजयः । सुषेणो ऽन्यो घृताची च वसन्त्य् आश्वयुजे रवौ

    pūṣā ca surucir vāto gautamo 'tha dhanaṃjayaḥ / suṣeṇo 'nyo ghṛtācī ca vasanty āśvayuje ravau

  501. ViP 2.10.12Open verse →

    विश्वावसुर् भरद्वाजः पर्जन्यैरावतौ तथा । विश्वाची सेनजिच् चापि कार्त्तिके चाधिकारिणः

    viśvāvasur bharadvājaḥ parjanyairāvatau tathā / viśvācī senajic cāpi kārttike cādhikāriṇaḥ

  502. ViP 2.10.13Open verse →

    अंशुकाश्यपतार्क्ष्यास् तु महापद्मस् तथोर्वशी । चित्रसेनस् तथा विद्युन् मार्गशीर्षाधिकारिणः

    aṃśukāśyapatārkṣyās tu mahāpadmas tathorvaśī / citrasenas tathā vidyun mārgaśīrṣādhikāriṇaḥ

  503. ViP 2.10.14Open verse →

    क्रतुर् भगस् तथोर्णायुः स्फूर्जः कर्कोटकस् तथा । अरिष्टनेमिश् चैवान्या पूर्वचित्तिर् वराप्सराः

    kratur bhagas tathorṇāyuḥ sphūrjaḥ karkoṭakas tathā / ariṣṭanemiś caivānyā pūrvacittir varāpsarāḥ

  504. ViP 2.10.15Open verse →

    पौषमासे वसन्त्य् एते सप्त भास्करमण्डले । लोकप्रकाशनार्थाय विप्रवर्याधिकारिणः

    pauṣamāse vasanty ete sapta bhāskaramaṇḍale / lokaprakāśanārthāya vipravaryādhikāriṇaḥ

  505. ViP 2.10.16Open verse →

    त्वष्टा च जमदग्निश् च कम्बलो ऽथ तिलोत्तमा । ब्रह्मापेतो ऽथ ऋतजिद् धृतराष्ट्रश् च सप्तमः

    tvaṣṭā ca jamadagniś ca kambalo 'tha tilottamā / brahmāpeto 'tha ṛtajid dhṛtarāṣṭraś ca saptamaḥ

  506. ViP 2.10.17Open verse →

    माघमासे वसन्त्य् एते सप्त मैत्रेय भास्करे । श्रूयतां चापरे सूर्ये फाल्गुने निवसन्ति ये

    māghamāse vasanty ete sapta maitreya bhāskare / śrūyatāṃ cāpare sūrye phālgune nivasanti ye

  507. ViP 2.10.18Open verse →

    विष्णुर् अश्वतरो रम्भा सूर्यवर्चाश् च सत्यजित् । विश्वामित्रस् तथा रक्षो यज्ञोपेतो महामुने

    viṣṇur aśvataro rambhā sūryavarcāś ca satyajit / viśvāmitras tathā rakṣo yajñopeto mahāmune

  508. ViP 2.10.19Open verse →

    मासेष्व् एतेषु मैत्रेय वसन्त्य् एते तु सप्तकाः । सवितुर् मण्डले ब्रह्मन् विष्णुशक्त्युपबृंहिताः

    māseṣv eteṣu maitreya vasanty ete tu saptakāḥ / savitur maṇḍale brahman viṣṇuśaktyupabṛṃhitāḥ

  509. ViP 2.10.20Open verse →

    स्तुवन्ति मुनयः सूर्यं गन्धर्वैर् गीयते पुरः । नृत्यन्त्य् अप्सरसो यान्ति सूर्यस्यानु निशाचराः

    stuvanti munayaḥ sūryaṃ gandharvair gīyate puraḥ / nṛtyanty apsaraso yānti sūryasyānu niśācarāḥ

  510. ViP 2.10.21Open verse →

    वहन्ति पन्नगा यक्षैः क्रियते ऽभीषुसंग्रहः

    vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ

  511. ViP 2.10.22Open verse →

    वालखिल्यास् तथैवैनं परिवार्य समासते

    vālakhilyās tathaivainaṃ parivārya samāsate

  512. ViP 2.10.23Open verse →

    सो ऽयं सप्तगणः सूर्यमण्डले मुनिसत्तम । हिमोष्णवारिवृष्टीनां हेतुः स्वसमयं गतः

    so 'yaṃ saptagaṇaḥ sūryamaṇḍale munisattama / himoṣṇavārivṛṣṭīnāṃ hetuḥ svasamayaṃ gataḥ

  513. ViP 2.11.1Open verse →

    ______________________________________________________ §मैत्रेय उवाच: यद् एतद् भगवान् आह गणः सप्तविधो रवेः । मण्डले हिमतापादेः कारणं तन् मया श्रुतम्

    ______________________________________________________ §maitreya uvāca: yad etad bhagavān āha gaṇaḥ saptavidho raveḥ / maṇḍale himatāpādeḥ kāraṇaṃ tan mayā śrutam

  514. ViP 2.11.2Open verse →

    व्यापाराश् चापि कथिता गन्धर्वोरगरक्षसाम् । ऋषीणां वालखिल्यानां तथैवाप्सरसां गुरो

    vyāpārāś cāpi kathitā gandharvoragarakṣasām / ṛṣīṇāṃ vālakhilyānāṃ tathaivāpsarasāṃ guro

  515. ViP 2.11.3Open verse →

    यक्षाणां च रथे भानोर् विष्णुशक्तिधृतात्मनाम् । किं त्वादित्यस्य यत् कर्म तन् नात्रोक्तं त्वया मुने

    yakṣāṇāṃ ca rathe bhānor viṣṇuśaktidhṛtātmanām / kiṃ tvādityasya yat karma tan nātroktaṃ tvayā mune

  516. ViP 2.11.4Open verse →

    यदि सप्तगणो वारि हिमम् उष्णं च वर्षति । तत् किम् अत्र रवेर् येन वृष्टिः सूर्याद् इतीर्यते

    yadi saptagaṇo vāri himam uṣṇaṃ ca varṣati / tat kim atra raver yena vṛṣṭiḥ sūryād itīryate

  517. ViP 2.11.5Open verse →

    विवस्वान् उदितो मध्ये यात्य् अस्तम् इति किं जनः । ब्रवीत्य् एतत् समं कर्म यदि सप्तगणस्य तत्

    vivasvān udito madhye yāty astam iti kiṃ janaḥ / bravīty etat samaṃ karma yadi saptagaṇasya tat

  518. ViP 2.11.6Open verse →

    §पराशर उवाच: मैत्रेय श्रूयताम् एतद् यद् भवान् परिपृच्छति । यथा सप्तगणे ऽप्य् एकः प्राधान्येनाधिको रविः

    §parāśara uvāca: maitreya śrūyatām etad yad bhavān paripṛcchati / yathā saptagaṇe 'py ekaḥ prādhānyenādhiko raviḥ

  519. ViP 2.11.7Open verse →

    या तु शक्तिः परा विष्णोर् ऋग्यजुःसामसंज्ञिता । सैषा त्रयी तपत्य् अंहो जगतश् च हिनस्ति यत्

    yā tu śaktiḥ parā viṣṇor ṛgyajuḥsāmasaṃjñitā / saiṣā trayī tapaty aṃho jagataś ca hinasti yat

  520. ViP 2.11.8Open verse →

    सैष विष्णुः स्थितः स्थित्यां जगतः पालनोद्यतः । ऋग्यजुःसामभूतो ऽन्तः सवितुर् द्विज तिष्ठति

    saiṣa viṣṇuḥ sthitaḥ sthityāṃ jagataḥ pālanodyataḥ / ṛgyajuḥsāmabhūto 'ntaḥ savitur dvija tiṣṭhati

  521. ViP 2.11.9Open verse →

    मासि मासि रविर् यो यस् तत्र तत्र हि सा परा । त्रयीमयी विष्णुशक्तिर् अवस्थानं करोति वै

    māsi māsi ravir yo yas tatra tatra hi sā parā / trayīmayī viṣṇuśaktir avasthānaṃ karoti vai

  522. ViP 2.11.10Open verse →

    ऋचस् तपन्ति पूर्वाह्णे मध्याह्ने च यजूंष्य् अथ । बृहद्रथन्तरादीनि सामान्य् अह्नः क्षये रवौ

    ṛcas tapanti pūrvāhṇe madhyāhne ca yajūṃṣy atha / bṛhadrathantarādīni sāmāny ahnaḥ kṣaye ravau

  523. ViP 2.11.11Open verse →

    अंश एषा त्रयी विष्णोर् ऋग्यजुःसामसंज्ञिता । विष्णुशक्तिर् अवस्थानं सदादित्ये करोति सा

    aṃśa eṣā trayī viṣṇor ṛgyajuḥsāmasaṃjñitā / viṣṇuśaktir avasthānaṃ sadāditye karoti sā

  524. ViP 2.11.12Open verse →

    न केवलं रवेः शक्तिर् वैष्णवी सा त्रयीमयी । ब्रह्माथ पुरुषो रुद्रस् त्रयम् एतत् त्रयीमयम्

    na kevalaṃ raveḥ śaktir vaiṣṇavī sā trayīmayī / brahmātha puruṣo rudras trayam etat trayīmayam

  525. ViP 2.11.13Open verse →

    सर्गादौ ऋङ्मयो ब्रह्मा स्थितौ विष्णुर् यजुर्मयः । रुद्रः साममयो ऽन्ताय तस्मात् तस्याशुचिर् ध्वनिः

    sargādau ṛṅmayo brahmā sthitau viṣṇur yajurmayaḥ / rudraḥ sāmamayo 'ntāya tasmāt tasyāśucir dhvaniḥ

  526. ViP 2.11.14Open verse →

    एवं सा सात्त्विकी शक्तिर् वैष्णवी या त्रयीमयी । आत्मसप्तगणस्थं तं भास्वन्तम् अधितिष्ठति

    evaṃ sā sāttvikī śaktir vaiṣṇavī yā trayīmayī / ātmasaptagaṇasthaṃ taṃ bhāsvantam adhitiṣṭhati

  527. ViP 2.11.15Open verse →

    तया चाधिष्ठितः सो ऽपि जाज्वलीति स्वरश्मिभिः । तमः समस्तजगतां नाशं नयति चाखिलम्

    tayā cādhiṣṭhitaḥ so 'pi jājvalīti svaraśmibhiḥ / tamaḥ samastajagatāṃ nāśaṃ nayati cākhilam

  528. ViP 2.11.16Open verse →

    स्तुवन्ति तं वै मुनयो गन्धर्वैर् गीयते पुरः । नृत्यन्त्य् अप्सरसो यान्ति तस्य चानु निशाचराः

    stuvanti taṃ vai munayo gandharvair gīyate puraḥ / nṛtyanty apsaraso yānti tasya cānu niśācarāḥ

  529. ViP 2.11.17Open verse →

    वहन्ति पन्नगा यक्षैः क्रियते ऽभीषुसंग्रहः । वालखिल्यास् तथैवैनं परिवार्य समासते

    vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ / vālakhilyās tathaivainaṃ parivārya samāsate

  530. ViP 2.11.18Open verse →

    नोदेता नास्तमेता च कदाचिच् छक्तिरूपधृक् । विष्णुर् विष्णोः पृथक् तस्य गणः सप्तविधो ऽप्य् अयम्

    nodetā nāstametā ca kadācic chaktirūpadhṛk / viṣṇur viṣṇoḥ pṛthak tasya gaṇaḥ saptavidho 'py ayam

  531. ViP 2.11.19Open verse →

    स्तम्भस्थदर्पणस्यैति यो ऽयम् आसन्नतां नरः । छायादर्शनसंयोगं स संप्राप्नोत्य् अथात्मनः

    stambhasthadarpaṇasyaiti yo 'yam āsannatāṃ naraḥ / chāyādarśanasaṃyogaṃ sa saṃprāpnoty athātmanaḥ

  532. ViP 2.11.20Open verse →

    एवं सा वैष्णवी शक्तिर् नैवापैति ततो द्विज । मासानुमासं भास्वन्तम् अध्यास्ते तत्र संस्थितम्

    evaṃ sā vaiṣṇavī śaktir naivāpaiti tato dvija / māsānumāsaṃ bhāsvantam adhyāste tatra saṃsthitam

  533. ViP 2.11.21Open verse →

    पितृदेवमनुष्यादीन् स सदाप्याययन् प्रभुः । परिवर्तत्य् अहोरात्रकारणं सविता द्विज

    pitṛdevamanuṣyādīn sa sadāpyāyayan prabhuḥ / parivartaty ahorātrakāraṇaṃ savitā dvija

  534. ViP 2.11.22Open verse →

    सूर्यरश्मिः सुषुम्णो यस् तर्पितस् तेन चन्द्रमाः । कृष्णपक्षे ऽमरैः शश्वत् पीयते वै सुधामयः

    sūryaraśmiḥ suṣumṇo yas tarpitas tena candramāḥ / kṛṣṇapakṣe 'maraiḥ śaśvat pīyate vai sudhāmayaḥ

  535. ViP 2.11.23Open verse →

    पीतं तं द्विकलं सोमं कृष्णपक्षक्षये द्विज । पिबन्ति पितरस् तेषां भास्करात् तर्पणं तथा

    pītaṃ taṃ dvikalaṃ somaṃ kṛṣṇapakṣakṣaye dvija / pibanti pitaras teṣāṃ bhāskarāt tarpaṇaṃ tathā

  536. ViP 2.11.24Open verse →

    आदत्ते रश्मिभिर् यं तु क्षितिसंस्थं रसं रविः । तम् उत्सृजति भूतानां पुष्ट्यर्थं सस्यवृद्धये

    ādatte raśmibhir yaṃ tu kṣitisaṃsthaṃ rasaṃ raviḥ / tam utsṛjati bhūtānāṃ puṣṭyarthaṃ sasyavṛddhaye

  537. ViP 2.11.25Open verse →

    तेन प्रीणात्य् अशेषाणि भूतानि भगवान् रविः । पितृदेवमनुष्यादीन् एवम् आप्याययत्य् असौ

    tena prīṇāty aśeṣāṇi bhūtāni bhagavān raviḥ / pitṛdevamanuṣyādīn evam āpyāyayaty asau

  538. ViP 2.11.26Open verse →

    पक्षतृप्तिं तु देवानां पितॄणां चैव मासिकीम् । शश्वत् तृप्तिं च मर्त्यानां मैत्रेयार्कः प्रयच्छति

    pakṣatṛptiṃ tu devānāṃ pitṝṇāṃ caiva māsikīm / śaśvat tṛptiṃ ca martyānāṃ maitreyārkaḥ prayacchati

  539. ViP 2.12.1Open verse →

    ______________________________________________________ §पराशर उवाच: रथस् त्रिचक्रः सोमस्य कुन्दाभास् तस्य वाजिनः । वामदक्षिणतो युक्ता दश तेन चरत्य् असौ

    ______________________________________________________ §parāśara uvāca: rathas tricakraḥ somasya kundābhās tasya vājinaḥ / vāmadakṣiṇato yuktā daśa tena caraty asau

  540. ViP 2.12.2Open verse →

    वीथ्याश्रयाणि ऋक्षाणि ध्रुवाधारेण वेगिना । ह्रासवृद्धिक्रमस् तस्य रश्मीनां सवितुर् यथा

    vīthyāśrayāṇi ṛkṣāṇi dhruvādhāreṇa veginā / hrāsavṛddhikramas tasya raśmīnāṃ savitur yathā

  541. ViP 2.12.3Open verse →

    अर्कस्येव हि तस्याश्वाः सकृद्युक्ता वहन्ति ते । कल्पम् एकं मुनिश्रेष्ठ वारिगर्भसमुद्भवाः

    arkasyeva hi tasyāśvāḥ sakṛdyuktā vahanti te / kalpam ekaṃ muniśreṣṭha vārigarbhasamudbhavāḥ

  542. ViP 2.12.4Open verse →

    क्षीणं पीतं सुरैः सोमम् आप्याययति दीप्तिमान् । मैत्रेयैककलं सन्तं रश्मिनैकेन भास्करः

    kṣīṇaṃ pītaṃ suraiḥ somam āpyāyayati dīptimān / maitreyaikakalaṃ santaṃ raśminaikena bhāskaraḥ

  543. ViP 2.12.5Open verse →

    क्रमेण येन पीतो ऽसौ देवैस् तेन निशाकरम् । आप्याययत्य् अनुदिनं भास्करो वारितस्करः

    krameṇa yena pīto 'sau devais tena niśākaram / āpyāyayaty anudinaṃ bhāskaro vāritaskaraḥ

  544. ViP 2.12.6Open verse →

    संभृतं चार्धमासेन तत् सोमस्थं सुधामृतम् । पिबन्ति देवा मैत्रेय सुधाहारा यतो ऽमराः

    saṃbhṛtaṃ cārdhamāsena tat somasthaṃ sudhāmṛtam / pibanti devā maitreya sudhāhārā yato 'marāḥ

  545. ViP 2.12.7Open verse →

    त्रयस् त्रिंशत्सहस्राणि त्रयस् त्रिंशच्छतानि च । त्रयस् त्रिंशत् तथा देवाः पिबन्ति क्षणदाकरम्

    trayas triṃśatsahasrāṇi trayas triṃśacchatāni ca / trayas triṃśat tathā devāḥ pibanti kṣaṇadākaram

  546. ViP 2.12.8Open verse →

    कलाद्वयावशिष्टस् तु प्रविष्टः सूर्यमण्डलम् । अमाख्यरश्मौ वसति अमावास्या ततः स्मृता

    kalādvayāvaśiṣṭas tu praviṣṭaḥ sūryamaṇḍalam / amākhyaraśmau vasati amāvāsyā tataḥ smṛtā

  547. ViP 2.12.9Open verse →

    अप्सु तस्मिन्न् अहोरात्रे पूर्वं विशति चन्द्रमाः । ततो वीरुत्सु वसति प्रयात्य् अर्कं ततः क्रमात्

    apsu tasminn ahorātre pūrvaṃ viśati candramāḥ / tato vīrutsu vasati prayāty arkaṃ tataḥ kramāt

  548. ViP 2.12.10Open verse →

    छिनत्ति वीरुधो यस् तु वीरुत्संस्थे निशाकरे । पत्रं वा पातयत्य् एकं ब्रह्महत्यां स विन्दति

    chinatti vīrudho yas tu vīrutsaṃsthe niśākare / patraṃ vā pātayaty ekaṃ brahmahatyāṃ sa vindati

  549. ViP 2.12.11Open verse →

    शेषे पञ्चदशे भागे किंचिच्छिष्टे कलात्मके । अपराह्णे पितृगणा जघन्यं पर्युपासते

    śeṣe pañcadaśe bhāge kiṃcicchiṣṭe kalātmake / aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate

  550. ViP 2.12.12Open verse →

    पिबन्ति द्विकलं सोमं शिष्टा तस्य कला तु या । सुधामृतमयी पुण्या ताम् इन्दोः पितरो मुने

    pibanti dvikalaṃ somaṃ śiṣṭā tasya kalā tu yā / sudhāmṛtamayī puṇyā tām indoḥ pitaro mune

  551. ViP 2.12.13Open verse →

    निःसृतं तद् अमावास्यां गभस्तिभ्यः सुधामृतम् । मासतृप्तिम् अवाप्याग्र्यां पितरः सन्ति निर्वृताः । सौम्या बर्हिषदश् चैव अग्निष्वात्ताश् च ते त्रिधा

    niḥsṛtaṃ tad amāvāsyāṃ gabhastibhyaḥ sudhāmṛtam / māsatṛptim avāpyāgryāṃ pitaraḥ santi nirvṛtāḥ / saumyā barhiṣadaś caiva agniṣvāttāś ca te tridhā

  552. ViP 2.12.14Open verse →

    एवं देवान् सिते पक्षे कृष्णपक्षे तथा पितॄन् । वीरुधश् चामृतमयैः शीतैर् अप्परमाणुभिः

    evaṃ devān site pakṣe kṛṣṇapakṣe tathā pitṝn / vīrudhaś cāmṛtamayaiḥ śītair apparamāṇubhiḥ

  553. ViP 2.12.15Open verse →

    वीरुधौषधिनिष्पत्त्या मनुष्यपशुकीटकान् । आप्याययति शीतांशुः प्राकाश्याह्लादनेन तु

    vīrudhauṣadhiniṣpattyā manuṣyapaśukīṭakān / āpyāyayati śītāṃśuḥ prākāśyāhlādanena tu

  554. ViP 2.12.16Open verse →

    वाय्वग्निद्रव्यसंभूतो रथश् चन्द्रसुतस्य च । पिशङ्गैस् तुरगैर् युक्तः सो ऽष्टाभिर् वायुवेगिभिः

    vāyvagnidravyasaṃbhūto rathaś candrasutasya ca / piśaṅgais turagair yuktaḥ so 'ṣṭābhir vāyuvegibhiḥ

  555. ViP 2.12.17Open verse →

    सवरूथः सानुकर्षो युक्तो भूसंभवैर् हयैः । सोपासङ्गपताकस् तु शुक्रस्यापि रथो महान्

    savarūthaḥ sānukarṣo yukto bhūsaṃbhavair hayaiḥ / sopāsaṅgapatākas tu śukrasyāpi ratho mahān

  556. ViP 2.12.18Open verse →

    अष्टाश्वः काञ्चनः श्रीमान् भौमस्यापि रथो महान् । पद्मरागारुणैर् अश्वैः संयुक्तो वह्निसंभवैः

    aṣṭāśvaḥ kāñcanaḥ śrīmān bhaumasyāpi ratho mahān / padmarāgāruṇair aśvaiḥ saṃyukto vahnisaṃbhavaiḥ

  557. ViP 2.12.19Open verse →

    अष्टाभिः पाण्डरैर् युक्तैर् वाजिभिः काञ्चने रथे । तस्मिंस् तिष्ठति वर्षं वै राशौ राशौ बृहस्पतिः

    aṣṭābhiḥ pāṇḍarair yuktair vājibhiḥ kāñcane rathe / tasmiṃs tiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ

  558. ViP 2.12.20Open verse →

    आकाशसंभवैर् अश्वैः शबलैः स्यन्दनं युतम् । समारुह्य शनैर् याति मन्दगामी शनैश्चरः

    ākāśasaṃbhavair aśvaiḥ śabalaiḥ syandanaṃ yutam / samāruhya śanair yāti mandagāmī śanaiścaraḥ

  559. ViP 2.12.21Open verse →

    स्वर्भानोस् तुरगा ह्य् अष्टौ भृङ्गाभा धूसरं रथम् । सकृद्युक्तास् तु मैत्रेय वहन्त्य् अविरतं सदा

    svarbhānos turagā hy aṣṭau bhṛṅgābhā dhūsaraṃ ratham / sakṛdyuktās tu maitreya vahanty avirataṃ sadā

  560. ViP 2.12.22Open verse →

    आदित्यान् निःसृतो राहुः सोमं गच्छति पर्वसु । आदित्यम् एति सोमाच् च पुनः सौरेषु पर्वसु

    ādityān niḥsṛto rāhuḥ somaṃ gacchati parvasu / ādityam eti somāc ca punaḥ saureṣu parvasu

  561. ViP 2.12.23Open verse →

    तथा केतुरथस्याश्वा अष्टौ ते वातरंहसः । पलालधूमवर्णाभा लाक्षारसनिभारुणाः

    tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ / palāladhūmavarṇābhā lākṣārasanibhāruṇāḥ

  562. ViP 2.12.24Open verse →

    एते मया ग्रहाणां वै तवाख्याता रथा नव । सर्वे ध्रुवे महाभाग प्रबद्धा वायुरश्मिभिः

    ete mayā grahāṇāṃ vai tavākhyātā rathā nava / sarve dhruve mahābhāga prabaddhā vāyuraśmibhiḥ

  563. ViP 2.12.25Open verse →

    ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धान्य् अशेषतः । भ्रमन्त्य् उचितचारेण मैत्रेयानिलरश्मिभिः

    graharkṣatārādhiṣṇyāni dhruve baddhāny aśeṣataḥ / bhramanty ucitacāreṇa maitreyānilaraśmibhiḥ

  564. ViP 2.12.26Open verse →

    यावन्त्यश् चैव तारास् तास् तावन्तो वातरश्मयः । सर्वे ध्रुवे निबद्धास् ते भ्रमन्तो भ्रामयन्ति तम्

    yāvantyaś caiva tārās tās tāvanto vātaraśmayaḥ / sarve dhruve nibaddhās te bhramanto bhrāmayanti tam

  565. ViP 2.12.27Open verse →

    तैलपीडा यथा चक्रं भ्रमन्तो भ्रामयन्ति वै । तथा भ्रमन्ति ज्योतींषि वातविद्धानि सर्वशः

    tailapīḍā yathā cakraṃ bhramanto bhrāmayanti vai / tathā bhramanti jyotīṃṣi vātaviddhāni sarvaśaḥ

  566. ViP 2.12.28Open verse →

    अलातचक्रवद् यान्ति वातचक्रेरितानि तु । यस्माज् ज्योतींषि वहति प्रवहस् तेन स स्मृतः

    alātacakravad yānti vātacakreritāni tu / yasmāj jyotīṃṣi vahati pravahas tena sa smṛtaḥ

  567. ViP 2.12.29Open verse →

    शिशुमारस् तु यः प्रोक्तः स ध्रुवो यत्र तिष्ठति । संनिवेशं च तस्यापि शृणुष्व मुनिसत्तम

    śiśumāras tu yaḥ proktaḥ sa dhruvo yatra tiṣṭhati / saṃniveśaṃ ca tasyāpi śṛṇuṣva munisattama

  568. ViP 2.12.30Open verse →

    यद् अह्ना कुरुते पापं दृष्ट्वा तं निशि मुच्यते । यावन्त्यश् चैव तारास् ताः शिशुमाराश्रिता दिवि । तावन्त्य् एव तु वर्षाणि जीवत्य् अभ्यधिकानि च

    yad ahnā kurute pāpaṃ dṛṣṭvā taṃ niśi mucyate / yāvantyaś caiva tārās tāḥ śiśumārāśritā divi / tāvanty eva tu varṣāṇi jīvaty abhyadhikāni ca

  569. ViP 2.12.31Open verse →

    उत्तानपादस् तस्याथ विज्ञेयो ह्य् उत्तरो हनुः । यज्ञो ऽधरश् च विज्ञेयो धर्मो मूर्धानम् आश्रितः

    uttānapādas tasyātha vijñeyo hy uttaro hanuḥ / yajño 'dharaś ca vijñeyo dharmo mūrdhānam āśritaḥ

  570. ViP 2.12.32Open verse →

    हृदि नारायणश् चास्ते अश्विनौ पूर्वपादयोः । वरुणश् चार्यमा चैव पश्चिमे तस्य सक्थिनी

    hṛdi nārāyaṇaś cāste aśvinau pūrvapādayoḥ / varuṇaś cāryamā caiva paścime tasya sakthinī

  571. ViP 2.12.33Open verse →

    शिश्नं संवत्सरस् तस्य मित्रो ऽपानं समाश्रितः

    śiśnaṃ saṃvatsaras tasya mitro 'pānaṃ samāśritaḥ

  572. ViP 2.12.34Open verse →

    पुच्छे ऽग्निश् च महेन्द्रश् च कश्यपो ऽथ ततो ध्रुवः । तारका शिशुमारस्य नास्तम् एति चतुष्टयम्

    pucche 'gniś ca mahendraś ca kaśyapo 'tha tato dhruvaḥ / tārakā śiśumārasya nāstam eti catuṣṭayam

  573. ViP 2.12.35Open verse →

    इत्य् एष संनिवेशो यः पृथिव्या ज्योतिषां तथा । द्वीपानाम् उदधीनां च पर्वतानां च कीर्तितः

    ity eṣa saṃniveśo yaḥ pṛthivyā jyotiṣāṃ tathā / dvīpānām udadhīnāṃ ca parvatānāṃ ca kīrtitaḥ

  574. ViP 2.12.36Open verse →

    वर्षाणां च नदीनां च ये च तेषु वसन्ति वै । तेषां स्वरूपम् आख्यातं संक्षेपाच् छ्रूयतां पुनः

    varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai / teṣāṃ svarūpam ākhyātaṃ saṃkṣepāc chrūyatāṃ punaḥ

  575. ViP 2.12.37Open verse →

    यद् अम्बु वैष्णवः कायस् ततो विप्र वसुंधरा । पद्माकारा समुद्भूता पर्वताब्ध्यादिसंयुता

    yad ambu vaiṣṇavaḥ kāyas tato vipra vasuṃdharā / padmākārā samudbhūtā parvatābdhyādisaṃyutā

  576. ViP 2.12.38Open verse →

    ज्योतींषि विष्णुर् भुवनानि विष्णुर् वनानि विष्णुर् गिरयो दिशश् च । नद्यः समुद्राश् च स एव सर्वं यद् अस्ति यन् नास्ति च विप्रवर्य

    jyotīṃṣi viṣṇur bhuvanāni viṣṇur vanāni viṣṇur girayo diśaś ca / nadyaḥ samudrāś ca sa eva sarvaṃ yad asti yan nāsti ca vipravarya

  577. ViP 2.12.39Open verse →

    ज्ञानस्वरूपो भगवान् यतो ऽसाव् अशेषमूर्तिर् न तु वस्तुभूतः । ततो हि शैलाब्धिधरादिभेदाञ् जानीहि विज्ञानविजृम्भितानि

    jñānasvarūpo bhagavān yato 'sāv aśeṣamūrtir na tu vastubhūtaḥ / tato hi śailābdhidharādibhedāñ jānīhi vijñānavijṛmbhitāni

  578. ViP 2.12.40Open verse →

    यदा तु शुद्धं निजरूपि सर्वं कर्मक्षये ज्ञानम् अपास्तदोषम् । तदा हि संकल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः

    yadā tu śuddhaṃ nijarūpi sarvaṃ karmakṣaye jñānam apāstadoṣam / tadā hi saṃkalpataroḥ phalāni bhavanti no vastuṣu vastubhedāḥ

  579. ViP 2.12.41Open verse →

    वस्त्व् अस्ति किं कुत्रचिद् आदिमध्य पर्यन्तहीनं सततैकरूपम् । यच् चान्यथात्वं द्विज याति भूयो न तत् तथा तत्र कुतो हि तत्त्वम्

    vastv asti kiṃ kutracid ādimadhya paryantahīnaṃ satataikarūpam / yac cānyathātvaṃ dvija yāti bhūyo na tat tathā tatra kuto hi tattvam

  580. ViP 2.12.42Open verse →

    मही घटत्वं घटतः कपालिका कपालिका चूर्णरजस् ततो ऽणुः । जनैः स्वकर्मस्तिमितात्मनिश्चयैर् आलक्ष्यते ब्रूहि किम् अत्र वस्तु

    mahī ghaṭatvaṃ ghaṭataḥ kapālikā kapālikā cūrṇarajas tato 'ṇuḥ / janaiḥ svakarmastimitātmaniścayair ālakṣyate brūhi kim atra vastu

  581. ViP 2.12.43Open verse →

    तस्मान् न विज्ञानम् ऋते ऽस्ति किंचित् क्वचित् कदाचिद् द्विज वस्तुजातम् । विज्ञानम् एकं निजकर्मभेद विभिन्नचित्तैर् बहुधाभ्युपेतम्

    tasmān na vijñānam ṛte 'sti kiṃcit kvacit kadācid dvija vastujātam / vijñānam ekaṃ nijakarmabheda vibhinnacittair bahudhābhyupetam

  582. ViP 2.12.44Open verse →

    ज्ञानं विशुद्धं विमलं विशोकम् अशेषलोभादिनिरस्तसङ्गम् । एकं सदैकं परमः परेशः स वासुदेवो न यतो ऽन्यद् अस्ति

    jñānaṃ viśuddhaṃ vimalaṃ viśokam aśeṣalobhādinirastasaṅgam / ekaṃ sadaikaṃ paramaḥ pareśaḥ sa vāsudevo na yato 'nyad asti

  583. ViP 2.12.45Open verse →

    सद्भाव एषो भवतो मयोक्तो ज्ञानं यथा सत्यम् असत्यम् अन्यत् । एतत् तु यत् संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते

    sadbhāva eṣo bhavato mayokto jñānaṃ yathā satyam asatyam anyat / etat tu yat saṃvyavahārabhūtaṃ tatrāpi coktaṃ bhuvanāśritaṃ te

  584. ViP 2.12.46Open verse →

    यज्ञः पशुर् वह्निर् अशेष-ऋत्विक् सोमः सुराः स्वर्गमयश् च कामः । इत्यादिकर्माश्रितमार्गदृष्टं भूरादिभोगाश् च फलानि तेषाम्

    yajñaḥ paśur vahnir aśeṣa-ṛtvik somaḥ surāḥ svargamayaś ca kāmaḥ / ityādikarmāśritamārgadṛṣṭaṃ bhūrādibhogāś ca phalāni teṣām

  585. ViP 2.12.47Open verse →

    यच् चैतद् भुवनगतं मया तवोक्तं सर्वत्र व्रजति हि कर्मवश्य एकः । ज्ञात्वैवं ध्रुवम् अचलं सदैकरूपं तत् कुर्याद् विशति हि येन वासुदेवम्

    yac caitad bhuvanagataṃ mayā tavoktaṃ sarvatra vrajati hi karmavaśya ekaḥ / jñātvaivaṃ dhruvam acalaṃ sadaikarūpaṃ tat kuryād viśati hi yena vāsudevam

  586. ViP 2.13.1Open verse →

    ______________________________________________________ §मैत्रेय उवाच: भगवन् सम्यग् आख्यातं यत् पृष्टो ऽसि मयाखिलम् । भूसमुद्रादिसरितां संस्थानं ग्रहसंस्थितिः

    ______________________________________________________ §maitreya uvāca: bhagavan samyag ākhyātaṃ yat pṛṣṭo 'si mayākhilam / bhūsamudrādisaritāṃ saṃsthānaṃ grahasaṃsthitiḥ

  587. ViP 2.13.2Open verse →

    विष्ण्वाधारं यथा चैतत् त्रैलोक्यं समवस्थितम् । परमार्थश् च मे प्रोक्तो यथा ज्ञानं प्रधानतः

    viṣṇvādhāraṃ yathā caitat trailokyaṃ samavasthitam / paramārthaś ca me prokto yathā jñānaṃ pradhānataḥ

  588. ViP 2.13.3Open verse →

    यत् तु तद् भगवान् आह भरतस्य महीपतेः । कथयिष्यामि चरितं तन् ममाख्यातुम् अर्हसि

    yat tu tad bhagavān āha bharatasya mahīpateḥ / kathayiṣyāmi caritaṃ tan mamākhyātum arhasi

  589. ViP 2.13.4Open verse →

    भरतः स महीपालः सालग्रामे ऽवसत् किल । योगयुक्तः समाधाय वासुदेवे मनः सदा

    bharataḥ sa mahīpālaḥ sālagrāme 'vasat kila / yogayuktaḥ samādhāya vāsudeve manaḥ sadā

  590. ViP 2.13.5Open verse →

    पुण्यदेशप्रभावेन ध्यायतश् च सदा हरिम् । कथं तु नाभवन् मुक्तिर् यदाभूत् स द्विजः पुनः

    puṇyadeśaprabhāvena dhyāyataś ca sadā harim / kathaṃ tu nābhavan muktir yadābhūt sa dvijaḥ punaḥ

  591. ViP 2.13.6Open verse →

    विप्रत्वे च कृतं तेन यद् भूयः सुमहात्मना । पूर्वकर्मस्वभावेन तन् ममाख्यातुम् अर्हसि

    vipratve ca kṛtaṃ tena yad bhūyaḥ sumahātmanā / pūrvakarmasvabhāvena tan mamākhyātum arhasi

  592. ViP 2.13.7Open verse →

    §पराशर उवाच: सालग्रामे महाभागो भगवन्न्यस्तमानसः । उवास सुचिरं कालं मैत्रेय पृथिवीपतिः

    §parāśara uvāca: sālagrāme mahābhāgo bhagavannyastamānasaḥ / uvāsa suciraṃ kālaṃ maitreya pṛthivīpatiḥ

  593. ViP 2.13.8Open verse →

    अहिंसादिष्व् अशेषेषु गुणेषु गुणिनां वरः । अवाप परमां काष्ठां मनसश् चापि संयमे

    ahiṃsādiṣv aśeṣeṣu guṇeṣu guṇināṃ varaḥ / avāpa paramāṃ kāṣṭhāṃ manasaś cāpi saṃyame

  594. ViP 2.13.9Open verse →

    यज्ञेशाच्युत गोविन्द माधवानन्त केशव । कृष्ण विष्णो हृषीकेशेत्य् आह राजा स केवलम्

    yajñeśācyuta govinda mādhavānanta keśava / kṛṣṇa viṣṇo hṛṣīkeśety āha rājā sa kevalam

  595. ViP 2.13.10Open verse →

    अफ़्तेर् ९च् एद्। वेङ्क्। इन्स्।: नान्यज् जगाद मैत्रेय किंचित् स्वप्नान्तरेष्व् अपि । एतत् पदं तदर्थं च विना नान्यद् अचिन्तयत्

    After 9c ed. Veṅk. ins.: nānyaj jagāda maitreya kiṃcit svapnāntareṣv api / etat padaṃ tadarthaṃ ca vinā nānyad acintayat

  596. ViP 2.13.11Open verse →

    समित्पुष्पकुशादानं चक्रे देवक्रियाकृते । नान्यानि चक्रे कर्माणि निःसङ्गो योगतापसः

    samitpuṣpakuśādānaṃ cakre devakriyākṛte / nānyāni cakre karmāṇi niḥsaṅgo yogatāpasaḥ

  597. ViP 2.13.12Open verse →

    जगाम सो ऽभिषेकार्थम् एकदा तु महानदीम् । सस्नौ तत्र तदा चक्रे स्नानस्यानन्तरक्रियाः

    jagāma so 'bhiṣekārtham ekadā tu mahānadīm / sasnau tatra tadā cakre snānasyānantarakriyāḥ

  598. ViP 2.13.13Open verse →

    अथाजगाम तत् तीर्थं जलं पातुं पिपासिता । आसन्नप्रसवा ब्रह्मन्न् एकैव हरिणी वनात्

    athājagāma tat tīrthaṃ jalaṃ pātuṃ pipāsitā / āsannaprasavā brahmann ekaiva hariṇī vanāt

  599. ViP 2.13.14Open verse →

    ततः समभवत् तत्र पीतप्राये जले तया । सिंहस्य नादः सुमहान् सर्वप्राणिभयंकरः

    tataḥ samabhavat tatra pītaprāye jale tayā / siṃhasya nādaḥ sumahān sarvaprāṇibhayaṃkaraḥ

  600. ViP 2.13.15Open verse →

    ततः सा सहसा त्रासाद् आप्लुता निम्नगातटम् । अत्युच्चारोहणेनास्या नद्यां गर्भः पपात सः

    tataḥ sā sahasā trāsād āplutā nimnagātaṭam / atyuccārohaṇenāsyā nadyāṃ garbhaḥ papāta saḥ

  601. ViP 2.13.16Open verse →

    तम् ऊह्यमानं वेगेन वीचिमालापरिप्लुतम् । जग्राह स नृपो गर्भात् पतितं मृगपोतकम्

    tam ūhyamānaṃ vegena vīcimālāpariplutam / jagrāha sa nṛpo garbhāt patitaṃ mṛgapotakam

  602. ViP 2.13.17Open verse →

    गर्भप्रच्युतिदुःखेन प्रोत्तुङ्गाक्रमणेन च । मैत्रेय सापि हरिणी पपात च ममार च

    garbhapracyutiduḥkhena prottuṅgākramaṇena ca / maitreya sāpi hariṇī papāta ca mamāra ca

  603. ViP 2.13.18Open verse →

    हरिणीं तां विलोक्याथ विपन्नां नृपतापसः । मृगपोतं समादाय पुनर् आश्रमम् आगतः

    hariṇīṃ tāṃ vilokyātha vipannāṃ nṛpatāpasaḥ / mṛgapotaṃ samādāya punar āśramam āgataḥ

  604. ViP 2.13.19Open verse →

    चकारानुदिनं चासौ मृगपोतस्य वै नृपः । पोषणं पुष्यमाणश् च स तेन ववृधे मुने

    cakārānudinaṃ cāsau mṛgapotasya vai nṛpaḥ / poṣaṇaṃ puṣyamāṇaś ca sa tena vavṛdhe mune

  605. ViP 2.13.20Open verse →

    चचाराश्रमपर्यन्ते तृणानि गहनेषु सः । दूरं गत्वा च शार्दूलत्रासाद् अभ्याययौ पुनः

    cacārāśramaparyante tṛṇāni gahaneṣu saḥ / dūraṃ gatvā ca śārdūlatrāsād abhyāyayau punaḥ

  606. ViP 2.13.21Open verse →

    प्रातर् गत्वातिदूरं च सायम् आयात् तदाश्रमम् । पुनश् च भरतस्याभूद् आश्रमस्योटजाजिरे

    prātar gatvātidūraṃ ca sāyam āyāt tadāśramam / punaś ca bharatasyābhūd āśramasyoṭajājire

  607. ViP 2.13.22Open verse →

    तस्य तस्मिन् मृगे दूरसमीपपरिवर्तिनि । आसीच् चेतः समासक्तं न ययाव् अन्यतो द्विज

    tasya tasmin mṛge dūrasamīpaparivartini / āsīc cetaḥ samāsaktaṃ na yayāv anyato dvija

  608. ViP 2.13.23Open verse →

    विमुक्तराज्यतनयः प्रोज्झिताशेषबान्धवः । ममत्वं स चकारोच्चैस् तस्मिन् हरिणबालके

    vimuktarājyatanayaḥ projjhitāśeṣabāndhavaḥ / mamatvaṃ sa cakāroccais tasmin hariṇabālake

  609. ViP 2.13.24Open verse →

    किं वृकैर् भक्षितो व्याघ्रैः किं सिंहेन निपातितः । चिरायमाणे निष्क्रान्ते तस्यासीद् इति मानसम्

    kiṃ vṛkair bhakṣito vyāghraiḥ kiṃ siṃhena nipātitaḥ / cirāyamāṇe niṣkrānte tasyāsīd iti mānasam

  610. ViP 2.13.25Open verse →

    एषा वसुमती तस्य खुराग्रक्षतकर्बुरा

    eṣā vasumatī tasya khurāgrakṣatakarburā

  611. ViP 2.13.26Open verse →

    प्रीतये मम यातो ऽसौ क्व ममैणकबालकः । विषाणाग्रेण मद्बाहुकण्डूयनपरो हि सः । क्षेमेणाभ्यागतो ऽरण्याद् अपि मां सुखयिष्यति

    prītaye mama yāto 'sau kva mamaiṇakabālakaḥ / viṣāṇāgreṇa madbāhukaṇḍūyanaparo hi saḥ / kṣemeṇābhyāgato 'raṇyād api māṃ sukhayiṣyati

  612. ViP 2.13.27Open verse →

    एते लूनशिखास् तस्य दशनैर् अचिरोद्गतैः । कुशकाशा विराजन्ते बटवः सामगा इव

    ete lūnaśikhās tasya daśanair acirodgataiḥ / kuśakāśā virājante baṭavaḥ sāmagā iva

  613. ViP 2.13.28Open verse →

    इत्थं चिरगते तस्मिन् स चक्रे मानसं मुनिः । प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन् मृगे

    itthaṃ ciragate tasmin sa cakre mānasaṃ muniḥ / prītiprasannavadanaḥ pārśvasthe cābhavan mṛge

  614. ViP 2.13.29Open verse →

    समाधिभङ्गस् तस्यासीत् तन्मयत्वादृतात्मनः । संत्यक्तराज्यभोगर्द्धिस्वजनस्यापि भूपतेः

    samādhibhaṅgas tasyāsīt tanmayatvādṛtātmanaḥ / saṃtyaktarājyabhogarddhisvajanasyāpi bhūpateḥ

  615. ViP 2.13.30Open verse →

    चपले चपलं तस्मिन् दूरगं दूरगामिनि । मृगपोते ऽभवच् चित्तं स्थैर्यवत् तस्य भूपतेः

    capale capalaṃ tasmin dūragaṃ dūragāmini / mṛgapote 'bhavac cittaṃ sthairyavat tasya bhūpateḥ

  616. ViP 2.13.31Open verse →

    कालेन गच्छता सो ऽथ कालं चक्रे महीपतिः । पितेव सास्रं पुत्रेण मृगपोतेन वीक्षितः

    kālena gacchatā so 'tha kālaṃ cakre mahīpatiḥ / piteva sāsraṃ putreṇa mṛgapotena vīkṣitaḥ

  617. ViP 2.13.32Open verse →

    मृगम् एष तदाद्राक्षीत् त्यजन् प्राणान् असाव् अपि । तन्मयत्वेन मैत्रेय नान्यत् किंचिद् अचिन्तयत्

    mṛgam eṣa tadādrākṣīt tyajan prāṇān asāv api / tanmayatvena maitreya nānyat kiṃcid acintayat

  618. ViP 2.13.33Open verse →

    ततश् च तत्कालकृतां भावनां प्राप्य तादृशीम् । जम्बूमार्गे महारण्ये जज्ञे जातिस्मरो मृगः

    tataś ca tatkālakṛtāṃ bhāvanāṃ prāpya tādṛśīm / jambūmārge mahāraṇye jajñe jātismaro mṛgaḥ

  619. ViP 2.13.34Open verse →

    जातिस्मरत्वाद् उद्विग्नः संसारात् स द्विजोत्तम । विहाय मातरं भूयः सालग्रामम् उपाययौ

    jātismaratvād udvignaḥ saṃsārāt sa dvijottama / vihāya mātaraṃ bhūyaḥ sālagrāmam upāyayau

  620. ViP 2.13.35Open verse →

    शुष्कैस् तृणैस् तथा पर्णैः स कुर्वन्न् आत्मपोषणम् । मृगत्वहेतुभूतस्य कर्मणो निष्कृतिं ययौ

    śuṣkais tṛṇais tathā parṇaiḥ sa kurvann ātmapoṣaṇam / mṛgatvahetubhūtasya karmaṇo niṣkṛtiṃ yayau

  621. ViP 2.13.36Open verse →

    तत्र चोत्सृष्टदेहो ऽसौ जज्ञे जातिस्मरो द्विजः । सदाचारवतां शुद्धे योगिनां प्रवरे कुले

    tatra cotsṛṣṭadeho 'sau jajñe jātismaro dvijaḥ / sadācāravatāṃ śuddhe yogināṃ pravare kule

  622. ViP 2.13.37Open verse →

    सर्वविज्ञानसंपन्नः सर्वशास्त्रार्थतत्त्ववित् । अपश्यत् स च मैत्रेय आत्मानं प्रकृतेः परम्

    sarvavijñānasaṃpannaḥ sarvaśāstrārthatattvavit / apaśyat sa ca maitreya ātmānaṃ prakṛteḥ param

  623. ViP 2.13.38Open verse →

    आत्मनो ऽधिगतज्ञानो देवादीनि महामुने । सर्वभूतान्य् अभेदेन ददर्श स महामतिः

    ātmano 'dhigatajñāno devādīni mahāmune / sarvabhūtāny abhedena dadarśa sa mahāmatiḥ

  624. ViP 2.13.39Open verse →

    न पपाठ गुरुप्रोक्तां कृतोपनयनः श्रुतिम् । न ददर्श च कर्माणि शास्त्राणि जगृहे न च

    na papāṭha guruproktāṃ kṛtopanayanaḥ śrutim / na dadarśa ca karmāṇi śāstrāṇi jagṛhe na ca

  625. ViP 2.13.40Open verse →

    उक्तो ऽपि बहुशः किंचिज् जडवाक्यम् अभाषत । तद् अप्य् असंस्कारगुणं ग्राम्यवाक्योक्तिसंश्रितम्

    ukto 'pi bahuśaḥ kiṃcij jaḍavākyam abhāṣata / tad apy asaṃskāraguṇaṃ grāmyavākyoktisaṃśritam

  626. ViP 2.13.41Open verse →

    अपध्वस्तवपुः सो ऽथ मलिनाम्बरधृग् द्विजः । क्लिन्नदन्तान्तरः सर्वैः परिभूतः स नागरैः

    apadhvastavapuḥ so 'tha malināmbaradhṛg dvijaḥ / klinnadantāntaraḥ sarvaiḥ paribhūtaḥ sa nāgaraiḥ

  627. ViP 2.13.42Open verse →

    संमानना परां हानिं योगर्द्धेः कुरुते यतः । जनेनावमतो योगी योगसिद्धिं च विन्दति

    saṃmānanā parāṃ hāniṃ yogarddheḥ kurute yataḥ / janenāvamato yogī yogasiddhiṃ ca vindati

  628. ViP 2.13.43Open verse →

    तस्माच् चरेत वै योगी सतां धर्मम् अदूषयन् । जना यथावमन्येरन् गच्छेयुर् नैव संगतिम्

    tasmāc careta vai yogī satāṃ dharmam adūṣayan / janā yathāvamanyeran gaccheyur naiva saṃgatim

  629. ViP 2.13.44Open verse →

    हिरण्यगर्भवचनं विचिन्त्येत्थं महामतिः । आत्मानं दर्शयाम् आस जडोन्मत्ताकृतिं जने

    hiraṇyagarbhavacanaṃ vicintyetthaṃ mahāmatiḥ / ātmānaṃ darśayām āsa jaḍonmattākṛtiṃ jane

  630. ViP 2.13.45Open verse →

    भुङ्क्ते कुल्माषवाट्यादिशाकं वन्यं फलं कणान् । यद् यद् आप्नोति सुबहु तद् अत्ते कालसंयमम्

    bhuṅkte kulmāṣavāṭyādiśākaṃ vanyaṃ phalaṃ kaṇān / yad yad āpnoti subahu tad atte kālasaṃyamam

  631. ViP 2.13.46Open verse →

    पितर्य् उपरते सो ऽथ भ्रातृभ्रातृव्यबान्धवैः । कारितः क्षेत्रकर्मादि कदन्नाहारपोषितः

    pitary uparate so 'tha bhrātṛbhrātṛvyabāndhavaiḥ / kāritaḥ kṣetrakarmādi kadannāhārapoṣitaḥ

  632. ViP 2.13.47Open verse →

    स रूक्षपीनावयवो जडकारी च कर्मणि । सर्वलोकोपकरणं बभूवाहारवेतनः

    sa rūkṣapīnāvayavo jaḍakārī ca karmaṇi / sarvalokopakaraṇaṃ babhūvāhāravetanaḥ

  633. ViP 2.13.48Open verse →

    तं तादृशम् असंस्कारं विप्राकृतिविचेष्टितम् । क्षत्ता सौवीरराजस्य विष्टियोग्यम् अमन्यत

    taṃ tādṛśam asaṃskāraṃ viprākṛtiviceṣṭitam / kṣattā sauvīrarājasya viṣṭiyogyam amanyata

  634. ViP 2.13.49Open verse →

    अफ़्तेर् ४८च् द्४,त्३,ग्२,३,एद्। वेङ्क्। इन्स्।: स राजा शिबिकारूढो गन्तुं कृतमतिर् द्विज । बभूवेक्षुमतीतीरे कपिलर्षेर् वराश्रमम्

    After 48c D4,T3,G2,3,ed. Veṅk. ins.: sa rājā śibikārūḍho gantuṃ kṛtamatir dvija / babhūvekṣumatītīre kapilarṣer varāśramam

  635. ViP 2.13.50Open verse →

    श्रेयः किम् अत्र संसारे दुःखप्राये नृणाम् इति । प्रष्टुं तं मोक्षधर्मज्ञं कपिलाख्यं महामुनिम्

    śreyaḥ kim atra saṃsāre duḥkhaprāye nṛṇām iti / praṣṭuṃ taṃ mokṣadharmajñaṃ kapilākhyaṃ mahāmunim

  636. ViP 2.13.51Open verse →

    उवाह शिबिकां तस्य क्षत्तुर् वचनचोदितः । नृणां विष्टिगृहीतानाम् अन्येषां सो ऽपि मध्यगः

    uvāha śibikāṃ tasya kṣattur vacanacoditaḥ / nṛṇāṃ viṣṭigṛhītānām anyeṣāṃ so 'pi madhyagaḥ

  637. ViP 2.13.52Open verse →

    गृहीतो विष्टिना विप्रः सर्वज्ञानैकभाजनः । जातिस्मरो ऽसौ पापस्य क्षयकाम उवाह ताम्

    gṛhīto viṣṭinā vipraḥ sarvajñānaikabhājanaḥ / jātismaro 'sau pāpasya kṣayakāma uvāha tām

  638. ViP 2.13.53Open verse →

    ययौ जडगतिः सो ऽथ युगमात्रावलोकनम् । कुर्वन् मतिमतां श्रेष्ठस् ते त्व् अन्ये त्वरितं ययुः

    yayau jaḍagatiḥ so 'tha yugamātrāvalokanam / kurvan matimatāṃ śreṣṭhas te tv anye tvaritaṃ yayuḥ

  639. ViP 2.13.54Open verse →

    विलोक्य नृपतिः सो ऽपि विषमां शिबिकागतिम् । किम् एतद् इत्य् आह समं गम्यतां शिबिकावहाः

    vilokya nṛpatiḥ so 'pi viṣamāṃ śibikāgatim / kim etad ity āha samaṃ gamyatāṃ śibikāvahāḥ

  640. ViP 2.13.55Open verse →

    पुनस् तथैव शिबिकां विलोक्य विषमां हसन् । नृपः किम् एतद् इत्य् आह भवद्भिर् गम्यते ऽन्यथा

    punas tathaiva śibikāṃ vilokya viṣamāṃ hasan / nṛpaḥ kim etad ity āha bhavadbhir gamyate 'nyathā

  641. ViP 2.13.56Open verse →

    भूपतेर् वदतस् तस्य श्रुत्वेत्थं बहुशो वचः । शिबिकोद्वाहकाः प्रोचुर् अयं यातीत्य् असत्वरम्

    bhūpater vadatas tasya śrutvetthaṃ bahuśo vacaḥ / śibikodvāhakāḥ procur ayaṃ yātīty asatvaram

  642. ViP 2.13.57Open verse →

    §राजोवाच: किं श्रान्तो ऽस्य् अल्पम् अध्वानं त्वयोढा शिबिका मम । किम् आयाससहो न त्वं पीवान् असि निरीक्ष्यसे

    §rājovāca: kiṃ śrānto 'sy alpam adhvānaṃ tvayoḍhā śibikā mama / kim āyāsasaho na tvaṃ pīvān asi nirīkṣyase

  643. ViP 2.13.58Open verse →

    §ब्राह्मण उवाच: नाहं पीवा न चैवोढा शिबिका भवतो मया । न श्रान्तो ऽस्मि न चायासः सोढव्यो ऽस्ति महीपते

    §brāhmaṇa uvāca: nāhaṃ pīvā na caivoḍhā śibikā bhavato mayā / na śrānto 'smi na cāyāsaḥ soḍhavyo 'sti mahīpate

  644. ViP 2.13.59Open verse →

    §राजोवाच: प्रत्यक्षं दृश्यसे पीवान् अद्यापि शिबिका त्वयि । श्रमश् च भारोद्वहने भवत्य् एव हि देहिनाम्

    §rājovāca: pratyakṣaṃ dṛśyase pīvān adyāpi śibikā tvayi / śramaś ca bhārodvahane bhavaty eva hi dehinām

  645. ViP 2.13.60Open verse →

    §ब्राह्मण उवाच: प्रत्यक्षं भवता भूप यद् दृष्टं मम तद् वद । बलवान् अबलश् चेति वाच्यं पश्चाद् विशेषणम्

    §brāhmaṇa uvāca: pratyakṣaṃ bhavatā bhūpa yad dṛṣṭaṃ mama tad vada / balavān abalaś ceti vācyaṃ paścād viśeṣaṇam

  646. ViP 2.13.61Open verse →

    त्वयोढा शिबिका चेति त्वय्य् अद्यापि च संस्थिता । मिथ्यैतद् अत्र तु भवाञ् शृणोतु वचनं मम

    tvayoḍhā śibikā ceti tvayy adyāpi ca saṃsthitā / mithyaitad atra tu bhavāñ śṛṇotu vacanaṃ mama

  647. ViP 2.13.62Open verse →

    भूमौ पादयुगस्यास्था जङ्घे पादद्वये स्थिते । ऊरू जङ्घाद्वयावस्थौ तदाधारं तथोदरम्

    bhūmau pādayugasyāsthā jaṅghe pādadvaye sthite / ūrū jaṅghādvayāvasthau tadādhāraṃ tathodaram

  648. ViP 2.13.63Open verse →

    वक्षःस्थलं तथा बाहू स्कन्धौ चोदरसंस्थितौ । स्कन्धाश्रितेयं शिबिका मम भारो ऽत्र किं कृतः

    vakṣaḥsthalaṃ tathā bāhū skandhau codarasaṃsthitau / skandhāśriteyaṃ śibikā mama bhāro 'tra kiṃ kṛtaḥ

  649. ViP 2.13.64Open verse →

    शिबिकायां स्थितं चेदं देहं त्वदुपलक्षितम् । तत्र त्वम् अहम् अप्य् अत्र प्रोच्यते चेदम् अन्यथा

    śibikāyāṃ sthitaṃ cedaṃ dehaṃ tvadupalakṣitam / tatra tvam aham apy atra procyate cedam anyathā

  650. ViP 2.13.65Open verse →

    अहं त्वं च तथान्ये च भूतैर् उह्याम पार्थिव । गुणप्रवाहपतितो भूतवर्गो ऽपि यात्य् अयम्

    ahaṃ tvaṃ ca tathānye ca bhūtair uhyāma pārthiva / guṇapravāhapatito bhūtavargo 'pi yāty ayam

  651. ViP 2.13.66Open verse →

    कर्मवश्या गुणा ह्य् एते सत्त्वाद्याः पृथिवीपते । अविद्यासंचितं कर्म तच् चाशेषेषु जन्तुषु

    karmavaśyā guṇā hy ete sattvādyāḥ pṛthivīpate / avidyāsaṃcitaṃ karma tac cāśeṣeṣu jantuṣu

  652. ViP 2.13.67Open verse →

    आत्मा शुद्धो ऽक्षरः शान्तो निर्गुणः प्रकृतेः परः । प्रवृद्ध्यपचयौ नास्य एकस्याखिलजन्तुषु

    ātmā śuddho 'kṣaraḥ śānto nirguṇaḥ prakṛteḥ paraḥ / pravṛddhyapacayau nāsya ekasyākhilajantuṣu

  653. ViP 2.13.68Open verse →

    यदा नोपचयस् तस्य न चैवापचयो नृप । तदा पीवान् असीतीत्थं कया युक्त्या त्वयेरितम्

    yadā nopacayas tasya na caivāpacayo nṛpa / tadā pīvān asītītthaṃ kayā yuktyā tvayeritam

  654. ViP 2.13.69Open verse →

    भूपादजङ्घाकट्यूरुजठरादिषु संस्थिते । शिबिकेयं यदा स्कन्धे तदा भारः समस् त्वया

    bhūpādajaṅghākaṭyūrujaṭharādiṣu saṃsthite / śibikeyaṃ yadā skandhe tadā bhāraḥ samas tvayā

  655. ViP 2.13.70Open verse →

    तथान्यैर् जन्तुभिर् भूप शिबिकोत्थो न केवलम् । शैलद्रुमगृहोत्थो ऽपि पृथिवीसंभवो ऽपि वा

    tathānyair jantubhir bhūpa śibikottho na kevalam / śailadrumagṛhottho 'pi pṛthivīsaṃbhavo 'pi vā

  656. ViP 2.13.71Open verse →

    यदा पुंसः पृथग्भावः प्राकृतैः कारणैर् नृप । वोढव्यस् तु तदा भारः कतमो नृपते मया

    yadā puṃsaḥ pṛthagbhāvaḥ prākṛtaiḥ kāraṇair nṛpa / voḍhavyas tu tadā bhāraḥ katamo nṛpate mayā

  657. ViP 2.13.72Open verse →

    यद्द्रव्या शिबिका चेयं तद्द्रव्यो भूतसंग्रहः । भवतो मे ऽखिलस्यास्य ममत्वेनोपबृंहितः

    yaddravyā śibikā ceyaṃ taddravyo bhūtasaṃgrahaḥ / bhavato me 'khilasyāsya mamatvenopabṛṃhitaḥ

  658. ViP 2.13.73Open verse →

    §पराशर उवाच: एवम् उक्त्वाभवन् मौनी स वहञ् छिबिकां द्विजः । सो ऽपि राजावतीर्योर्व्यां तत्पादौ जगृहे त्वरन्

    §parāśara uvāca: evam uktvābhavan maunī sa vahañ chibikāṃ dvijaḥ / so 'pi rājāvatīryorvyāṃ tatpādau jagṛhe tvaran

  659. ViP 2.13.74Open verse →

    §राजोवाच: भो भो विसृज्य शिबिकां प्रसादं कुरु मे द्विज । कथ्यतां को भवान् अत्र जाल्मरूपधरः स्थितः

    §rājovāca: bho bho visṛjya śibikāṃ prasādaṃ kuru me dvija / kathyatāṃ ko bhavān atra jālmarūpadharaḥ sthitaḥ

  660. ViP 2.13.75Open verse →

    यो भवान् यन् निमित्तं वा यद् आगमनकारणम् । तत् सर्वं कथ्यतां विद्वन् मह्यं शुश्रूषवे त्वया

    yo bhavān yan nimittaṃ vā yad āgamanakāraṇam / tat sarvaṃ kathyatāṃ vidvan mahyaṃ śuśrūṣave tvayā

  661. ViP 2.13.76Open verse →

    §ब्राह्मण उवाच: श्रूयतां को ऽहम् इत्य् एतद् वक्तुं भूप न शक्यते । उपभोगनिमित्तं च सर्वत्रागमनक्रिया

    §brāhmaṇa uvāca: śrūyatāṃ ko 'ham ity etad vaktuṃ bhūpa na śakyate / upabhoganimittaṃ ca sarvatrāgamanakriyā

  662. ViP 2.13.77Open verse →

    सुखदुःखोपभोगौ तु तौ देहाद्युपपादकौ । धर्माधर्मोद्भवौ भोक्तुं जन्तुर् देहादिम् ऋच्छति

    sukhaduḥkhopabhogau tu tau dehādyupapādakau / dharmādharmodbhavau bhoktuṃ jantur dehādim ṛcchati

  663. ViP 2.13.78Open verse →

    सर्वस्यैव हि भूपाल जन्तोः सर्वत्र कारणम् । धर्माधर्मौ यतस् तस्मात् कारणं पृच्छ्यते कुतः

    sarvasyaiva hi bhūpāla jantoḥ sarvatra kāraṇam / dharmādharmau yatas tasmāt kāraṇaṃ pṛcchyate kutaḥ

  664. ViP 2.13.79Open verse →

    §राजोवाच: धर्माधर्मौ न संदेहः सर्वकार्येषु कारणम् । उपभोगनिमित्तं च देहीदेशान्तरागमः

    §rājovāca: dharmādharmau na saṃdehaḥ sarvakāryeṣu kāraṇam / upabhoganimittaṃ ca dehīdeśāntarāgamaḥ

  665. ViP 2.13.80Open verse →

    यत् त्व् एतद् भवता प्रोक्तं को ऽहम् इत्य् एतद् आत्मनः । वक्तुं न शक्यते श्रोतुं तन् ममेच्छा प्रवर्तते

    yat tv etad bhavatā proktaṃ ko 'ham ity etad ātmanaḥ / vaktuṃ na śakyate śrotuṃ tan mamecchā pravartate

  666. ViP 2.13.81Open verse →

    यो ऽस्ति सो ऽहम् इति ब्रह्मन् कथं वक्तुं न शक्यते । आत्मन्य् एव न दोषाय शब्दो ऽहम् इति यो द्विज

    yo 'sti so 'ham iti brahman kathaṃ vaktuṃ na śakyate / ātmany eva na doṣāya śabdo 'ham iti yo dvija

  667. ViP 2.13.82Open verse →

    §ब्राह्मण उवाच: शब्दो ऽहम् इति दोषाय नात्मन्य् एष तथैव तत् । अनात्मन्य् आत्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः

    §brāhmaṇa uvāca: śabdo 'ham iti doṣāya nātmany eṣa tathaiva tat / anātmany ātmavijñānaṃ śabdo vā bhrāntilakṣaṇaḥ

  668. ViP 2.13.83Open verse →

    जिह्वा ब्रवीत्य् अहम् इति दन्तौष्ठौ तालुकं नृप । एते नाहं यतः सर्वे वाङ्निष्पादनहेतवः

    jihvā bravīty aham iti dantauṣṭhau tālukaṃ nṛpa / ete nāhaṃ yataḥ sarve vāṅniṣpādanahetavaḥ

  669. ViP 2.13.84Open verse →

    किं हेतुभिर् वदत्य् एषा वाग् एवाहम् इति स्वयम् । तथापि वाङ् नाहम् एतद् वक्तुम् इत्थं न युज्यते

    kiṃ hetubhir vadaty eṣā vāg evāham iti svayam / tathāpi vāṅ nāham etad vaktum itthaṃ na yujyate

  670. ViP 2.13.85Open verse →

    पिण्डः पृथग् यतः पुंसः शिरःपाण्यादिलक्षणः । ततो ऽहम् इति कुत्रैतां संज्ञां राजन् करोम्य् अहम्

    piṇḍaḥ pṛthag yataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ / tato 'ham iti kutraitāṃ saṃjñāṃ rājan karomy aham

  671. ViP 2.13.86Open verse →

    यद्य् अन्यो ऽस्ति परः को ऽपि मत्तः पार्थिवसत्तम । तदैषो ऽहम् अयं चान्यो वक्तुम् एवम् अपीष्यते

    yady anyo 'sti paraḥ ko 'pi mattaḥ pārthivasattama / tadaiṣo 'ham ayaṃ cānyo vaktum evam apīṣyate

  672. ViP 2.13.87Open verse →

    यदा समस्तदेहेषु पुमान् एको व्यवस्थितः । तदा हि को भवान् को ऽहम् इत्य् एतद् विफलं वचः

    yadā samastadeheṣu pumān eko vyavasthitaḥ / tadā hi ko bhavān ko 'ham ity etad viphalaṃ vacaḥ

  673. ViP 2.13.88Open verse →

    त्वं राजा शिबिका चेयम् वयं वाहाः पुरःसराः । अयं च भवतो लोको न सद् एतन् नृपोच्यते

    tvaṃ rājā śibikā ceyam vayaṃ vāhāḥ puraḥsarāḥ / ayaṃ ca bhavato loko na sad etan nṛpocyate

  674. ViP 2.13.89Open verse →

    वृक्षाद् दारु ततश् चेयं शिबिका त्वदधिष्ठिता । क्व वृक्षसंज्ञा याता स्याद् दारुसंज्ञाथ वा नृप

    vṛkṣād dāru tataś ceyaṃ śibikā tvadadhiṣṭhitā / kva vṛkṣasaṃjñā yātā syād dārusaṃjñātha vā nṛpa

  675. ViP 2.13.90Open verse →

    वृक्षारूढो महाराजो नायं वदति ते जनः । न च दारुणि सर्वस् त्वां ब्रवीति शिबिकागतम्

    vṛkṣārūḍho mahārājo nāyaṃ vadati te janaḥ / na ca dāruṇi sarvas tvāṃ bravīti śibikāgatam

  676. ViP 2.13.91Open verse →

    शिबिकादारुसंघातो रचनास्थितिसंस्थितिः । अन्विष्यतां नृपश्रेष्ठ तद्भेदे शिबिका त्वया

    śibikādārusaṃghāto racanāsthitisaṃsthitiḥ / anviṣyatāṃ nṛpaśreṣṭha tadbhede śibikā tvayā

  677. ViP 2.13.92Open verse →

    एवं छत्रशलाकानां पृथग्भावो विमृश्यताम् । क्व यातं छत्रम् इत्य् एष न्यायस् त्वयि तथा मयि

    evaṃ chatraśalākānāṃ pṛthagbhāvo vimṛśyatām / kva yātaṃ chatram ity eṣa nyāyas tvayi tathā mayi

  678. ViP 2.13.93Open verse →

    पुमान् स्त्री गौर् अयं वाजी कुञ्जरो विहगस् तरुः । देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु

    pumān strī gaur ayaṃ vājī kuñjaro vihagas taruḥ / deheṣu lokasaṃjñeyaṃ vijñeyā karmahetuṣu

  679. ViP 2.13.94Open verse →

    पुमान् न देवो न नरो न पशुर् न च पादपः । शरीराकृतिभेदास् तु भूपैते कर्मयोनयः

    pumān na devo na naro na paśur na ca pādapaḥ / śarīrākṛtibhedās tu bhūpaite karmayonayaḥ

  680. ViP 2.13.95Open verse →

    वस्तु राजेति यल् लोके यच् च राजभटात्मकम् । तथान्यच् च नृपेत्थं तन् न सत्संकल्पनामयम्

    vastu rājeti yal loke yac ca rājabhaṭātmakam / tathānyac ca nṛpetthaṃ tan na satsaṃkalpanāmayam

  681. ViP 2.13.96Open verse →

    यत् तु कालान्तरेणापि नान्यसंज्ञाम् उपैति वै । परिणामादिसंभूतं तद् वस्तु नृप तच् च किम्

    yat tu kālāntareṇāpi nānyasaṃjñām upaiti vai / pariṇāmādisaṃbhūtaṃ tad vastu nṛpa tac ca kim

  682. ViP 2.13.97Open verse →

    त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपो रिपुः । पत्न्याः पतिः पिता सूनोः कं त्वां भूप वदाम्य् अहम्

    tvaṃ rājā sarvalokasya pituḥ putro ripo ripuḥ / patnyāḥ patiḥ pitā sūnoḥ kaṃ tvāṃ bhūpa vadāmy aham

  683. ViP 2.13.98Open verse →

    त्वं किम् एतच् छिरः किं नु शिरस् तव तथोदरम् । किम् उ पादादिकं त्वं वै तवैतत् किं महीपते

    tvaṃ kim etac chiraḥ kiṃ nu śiras tava tathodaram / kim u pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate

  684. ViP 2.13.99Open verse →

    समस्तावयवेभ्यस् त्वं पृथग् भूप व्यवस्थितः । को ऽहम् इत्य् एव निपुणो भूत्वा चिन्तय पार्थिव

    samastāvayavebhyas tvaṃ pṛthag bhūpa vyavasthitaḥ / ko 'ham ity eva nipuṇo bhūtvā cintaya pārthiva

  685. ViP 2.13.100Open verse →

    एवं व्यवस्थिते तत्त्वे मयाहम् इति भाषितुम् । पृथक्करणनिष्पाद्यं शक्यते नृपते कथम्

    evaṃ vyavasthite tattve mayāham iti bhāṣitum / pṛthakkaraṇaniṣpādyaṃ śakyate nṛpate katham

  686. ViP 2.14.1Open verse →

    ______________________________________________________ §पराशर उवाच: निशम्य तस्येति वचः परमार्थसमन्वितम् । प्रश्रयावनतो भूत्वा तम् आह नृपतिर् द्विजम्

    ______________________________________________________ §parāśara uvāca: niśamya tasyeti vacaḥ paramārthasamanvitam / praśrayāvanato bhūtvā tam āha nṛpatir dvijam

  687. ViP 2.14.2Open verse →

    श्२,द्७ इन्स्।: §राजोवाच: भगवन् यत् त्वया प्रोक्तं परमार्थमयं वचः । श्रुते तस्मिन् भ्रमन्तीव मनसो मम वृत्तयः

    Ś2,D7 ins.: §rājovāca: bhagavan yat tvayā proktaṃ paramārthamayaṃ vacaḥ / śrute tasmin bhramantīva manaso mama vṛttayaḥ

  688. ViP 2.14.3Open verse →

    एतद् विवेकविज्ञानं यद् अशेषेषु जन्तुषु । भवता दर्शितं विप्र तत् परं प्रकृतेर् महत्

    etad vivekavijñānaṃ yad aśeṣeṣu jantuṣu / bhavatā darśitaṃ vipra tat paraṃ prakṛter mahat

  689. ViP 2.14.4Open verse →

    नाहं वहामि शिबिकां शिबिका न मयि स्थिता । शरीरम् अन्यद् अस्मत्तो येनेयं शिबिका धृता

    nāhaṃ vahāmi śibikāṃ śibikā na mayi sthitā / śarīram anyad asmatto yeneyaṃ śibikā dhṛtā

  690. ViP 2.14.5Open verse →

    गुणप्रवृत्त्या भूतानां प्रवृत्तिः कर्मचोदिता । प्रवर्तन्ते गुणाश् चैते किं ममेति त्वयोदितम्

    guṇapravṛttyā bhūtānāṃ pravṛttiḥ karmacoditā / pravartante guṇāś caite kiṃ mameti tvayoditam

  691. ViP 2.14.6Open verse →

    एतस्मिन् परमार्थज्ञ मम श्रोत्रपथं गते । मनो विह्वलताम् एति परमार्थार्थितां गतम्

    etasmin paramārthajña mama śrotrapathaṃ gate / mano vihvalatām eti paramārthārthitāṃ gatam

  692. ViP 2.14.7Open verse →

    पूर्वम् एव महाभागं कपिलर्षिम् अहं द्विज । प्रष्टुम् अभ्युद्यतो गत्वा श्रेयः किं न्व् इत्य् असंशयम्

    pūrvam eva mahābhāgaṃ kapilarṣim ahaṃ dvija / praṣṭum abhyudyato gatvā śreyaḥ kiṃ nv ity asaṃśayam

  693. ViP 2.14.8Open verse →

    तदन्तरे च भवता यद् इदं वाक्यम् ईरितम् । तेनैव परमार्थार्थं त्वयि चेतः प्रधावति

    tadantare ca bhavatā yad idaṃ vākyam īritam / tenaiva paramārthārthaṃ tvayi cetaḥ pradhāvati

  694. ViP 2.14.9Open verse →

    कपिलर्षिर् भगवतः सर्वभूतस्य वै किल । विष्णोर् अंशो जगन्मोहनाशायोर्वीम् उपागतः

    kapilarṣir bhagavataḥ sarvabhūtasya vai kila / viṣṇor aṃśo jaganmohanāśāyorvīm upāgataḥ

  695. ViP 2.14.10Open verse →

    स एव भगवान् नूनम् अस्माकं हितकाम्यया । प्रत्यक्षताम् अत्र गतो यथैतद् भवतोच्यते

    sa eva bhagavān nūnam asmākaṃ hitakāmyayā / pratyakṣatām atra gato yathaitad bhavatocyate

  696. ViP 2.14.11Open verse →

    तन् मह्यं प्रणताय त्वं यच् छ्रेयः परमं द्विज । तद् वदाखिलविज्ञानजलवीच्युदधिर् भवान्

    tan mahyaṃ praṇatāya tvaṃ yac chreyaḥ paramaṃ dvija / tad vadākhilavijñānajalavīcyudadhir bhavān

  697. ViP 2.14.12Open verse →

    §ब्राह्मण उवाच: भूप पृच्छसि किं श्रेयः परमार्थं नु पृच्छसि । श्रेयांस्य् अपरमार्थानि अशेषाण्य् एव भूपते

    §brāhmaṇa uvāca: bhūpa pṛcchasi kiṃ śreyaḥ paramārthaṃ nu pṛcchasi / śreyāṃsy aparamārthāni aśeṣāṇy eva bhūpate

  698. ViP 2.14.13Open verse →

    देवताराधनं कृत्वा धनसंपदम् इच्छति । पुत्रान् इच्छति राज्यं च श्रेयस् तत्प्राप्तिलक्षणम्

    devatārādhanaṃ kṛtvā dhanasaṃpadam icchati / putrān icchati rājyaṃ ca śreyas tatprāptilakṣaṇam

  699. ViP 2.14.14Open verse →

    कर्म यज्ञात्मकं श्रेयः स्वर्लोकफलदायि यत् । श्रेयः प्रधानं च फले तद् एवानभिसंहिते

    karma yajñātmakaṃ śreyaḥ svarlokaphaladāyi yat / śreyaḥ pradhānaṃ ca phale tad evānabhisaṃhite

  700. ViP 2.14.15Open verse →

    आत्मा ध्येयः सदा भूप योगयुक्तैस् तथा परम् । श्रेयस् तस्यैव संयोगः श्रेयो यः परमात्मनः

    ātmā dhyeyaḥ sadā bhūpa yogayuktais tathā param / śreyas tasyaiva saṃyogaḥ śreyo yaḥ paramātmanaḥ

  701. ViP 2.14.16Open verse →

    श्रेयांस्य् एवम् अनेकानि शतशो ऽथ सहस्रशः । सन्त्य् अत्र परमार्थास् तु न त्व् एते श्रूयतां च मे

    śreyāṃsy evam anekāni śataśo 'tha sahasraśaḥ / santy atra paramārthās tu na tv ete śrūyatāṃ ca me

  702. ViP 2.14.17Open verse →

    धर्माय त्यज्यते किं तु परमार्थो धनं यदि । व्ययश् च क्रियते कस्मात् कामप्राप्त्युपलक्षणः

    dharmāya tyajyate kiṃ tu paramārtho dhanaṃ yadi / vyayaś ca kriyate kasmāt kāmaprāptyupalakṣaṇaḥ

  703. ViP 2.14.18Open verse →

    पुत्रश् चेत् परमार्थाख्यः सो ऽप्य् अन्यस्य नरेश्वर । परमार्थभूतः सो ऽन्यस्य परमार्थो हि तत्पिता

    putraś cet paramārthākhyaḥ so 'py anyasya nareśvara / paramārthabhūtaḥ so 'nyasya paramārtho hi tatpitā

  704. ViP 2.14.19Open verse →

    एवं न परमार्थो ऽस्ति जगत्य् अस्मिंश् चराचरे । परमार्थो हि कार्याणि कारणानाम् अशेषतः

    evaṃ na paramārtho 'sti jagaty asmiṃś carācare / paramārtho hi kāryāṇi kāraṇānām aśeṣataḥ

  705. ViP 2.14.20Open verse →

    राज्यादिप्राप्तिर् अत्रोक्ता परमार्थतया यदि । परमार्था भवन्त्य् अत्र न भवन्ति च वै ततः

    rājyādiprāptir atroktā paramārthatayā yadi / paramārthā bhavanty atra na bhavanti ca vai tataḥ

  706. ViP 2.14.21Open verse →

    ऋग्यजुःसामनिष्पाद्यं यज्ञकर्म मतं तव । परमार्थभूतं तत्रापि श्रूयतां गदतो मम

    ṛgyajuḥsāmaniṣpādyaṃ yajñakarma mataṃ tava / paramārthabhūtaṃ tatrāpi śrūyatāṃ gadato mama

  707. ViP 2.14.22Open verse →

    यत् तु निष्पाद्यते कार्यं मृदा कारणभूतया । तत् कारणानुगमनाज् ज्ञायते नृप मृण्मयम्

    yat tu niṣpādyate kāryaṃ mṛdā kāraṇabhūtayā / tat kāraṇānugamanāj jñāyate nṛpa mṛṇmayam

  708. ViP 2.14.23Open verse →

    एवं विनाशिभिर् द्रव्यैः समिदाज्यकुशादिभिः । निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी

    evaṃ vināśibhir dravyaiḥ samidājyakuśādibhiḥ / niṣpādyate kriyā yā tu sā bhavitrī vināśinī

  709. ViP 2.14.24Open verse →

    अनाशी परमार्थश् च प्राज्ञैर् अभ्युपगम्यते । तत् तु नाशि न संदेहो नाशिद्रव्योपपादितम्

    anāśī paramārthaś ca prājñair abhyupagamyate / tat tu nāśi na saṃdeho nāśidravyopapāditam

  710. ViP 2.14.25Open verse →

    तद् एवाफलदं कर्म परमार्थो मतस् तव । मुक्तिसाधनभूतत्वात् परमार्थो न साधनम्

    tad evāphaladaṃ karma paramārtho matas tava / muktisādhanabhūtatvāt paramārtho na sādhanam

  711. ViP 2.14.26Open verse →

    ध्यानं चैवात्मनो भूप परमार्थार्थशब्दितम् । भेदकारि परेभ्यस् तत् परमार्थो न भेदवान्

    dhyānaṃ caivātmano bhūpa paramārthārthaśabditam / bhedakāri parebhyas tat paramārtho na bhedavān

  712. ViP 2.14.27Open verse →

    परमात्मात्मनोर् योगः परमार्थ इतीष्यते । मिथ्यैतद् अन्यद्रव्यं हि नैति तद्द्रव्यतां यतः

    paramātmātmanor yogaḥ paramārtha itīṣyate / mithyaitad anyadravyaṃ hi naiti taddravyatāṃ yataḥ

  713. ViP 2.14.28Open verse →

    तस्माच् छ्रेयांस्य् अशेषाणि नृपैतानि न संशयः । परमार्थस् तु भूपाल संक्षेपाच् छ्रूयतां मम

    tasmāc chreyāṃsy aśeṣāṇi nṛpaitāni na saṃśayaḥ / paramārthas tu bhūpāla saṃkṣepāc chrūyatāṃ mama

  714. ViP 2.14.29Open verse →

    एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः । जन्मवृद्ध्यादिरहित आत्मा सर्वगतो ऽव्ययः

    eko vyāpī samaḥ śuddho nirguṇaḥ prakṛteḥ paraḥ / janmavṛddhyādirahita ātmā sarvagato 'vyayaḥ

  715. ViP 2.14.30Open verse →

    परज्ञानमयो ऽसद्भिर् नामजात्यादिभिर् विभुः । न योगवान् न युक्तो ऽभून् नैव पार्थिव योक्ष्यति

    parajñānamayo 'sadbhir nāmajātyādibhir vibhuḥ / na yogavān na yukto 'bhūn naiva pārthiva yokṣyati

  716. ViP 2.14.31Open verse →

    तस्यात्मपरदेहेषु सतो ऽप्य् एकमयं हि यत् । विज्ञानं परमार्थो ऽसौ द्वैतिनो ऽतत्त्वदर्शिनः

    tasyātmaparadeheṣu sato 'py ekamayaṃ hi yat / vijñānaṃ paramārtho 'sau dvaitino 'tattvadarśinaḥ

  717. ViP 2.14.32Open verse →

    वेणुरन्ध्रविभेदेन भेदः षड्जादिसंज्ञितः । अभेदव्यापिनो वायोस् तथा तस्य महात्मनः

    veṇurandhravibhedena bhedaḥ ṣaḍjādisaṃjñitaḥ / abhedavyāpino vāyos tathā tasya mahātmanaḥ

  718. ViP 2.14.33Open verse →

    एकत्वं रूपभेदश् च बाह्यकर्मप्रवृत्तिजः । देवादिभेदे ऽपध्वस्ते नास्त्य् एवावरणो हि सः

    ekatvaṃ rūpabhedaś ca bāhyakarmapravṛttijaḥ / devādibhede 'padhvaste nāsty evāvaraṇo hi saḥ

  719. ViP 2.15.1Open verse →

    ______________________________________________________ §पराशर उवाच: इत्य् उक्ते मौनिनं भूयश् चिन्तयानं महीपतिम् । प्रत्युवाचाथ विप्रो ऽसाव् अद्वैतान्तर्गतां कथाम्

    ______________________________________________________ §parāśara uvāca: ity ukte mauninaṃ bhūyaś cintayānaṃ mahīpatim / pratyuvācātha vipro 'sāv advaitāntargatāṃ kathām

  720. ViP 2.15.2Open verse →

    §ब्राह्मण उवाच: श्रूयतां नृपशार्दूल यद् गीतम् ऋभुणा पुरा । अवबोधं जनयता निदाघस्य द्विजन्मनः

    §brāhmaṇa uvāca: śrūyatāṃ nṛpaśārdūla yad gītam ṛbhuṇā purā / avabodhaṃ janayatā nidāghasya dvijanmanaḥ

  721. ViP 2.15.3Open verse →

    ऋभुर् नामाभवत् पुत्रो ब्रह्मणः परमेष्ठिनः । विज्ञाततत्त्वसद्भावो निसर्गाद् एव भूपते

    ṛbhur nāmābhavat putro brahmaṇaḥ parameṣṭhinaḥ / vijñātatattvasadbhāvo nisargād eva bhūpate

  722. ViP 2.15.4Open verse →

    श्२,द्७ इन्स्।: तस्य शिष्यो निदाघो ऽभूत् पुलस्त्यतनयः पुरा । प्रादाद् अशेषविज्ञानं स तस्मै परया मुदा

    Ś2,D7 ins.: tasya śiṣyo nidāgho 'bhūt pulastyatanayaḥ purā / prādād aśeṣavijñānaṃ sa tasmai parayā mudā

  723. ViP 2.15.5Open verse →

    अवाप्तज्ञानतत्त्वस्य न तस्याद्वैतवासनाम् । स ऋभुस् तर्कयाम् आस निदाघस्य नरेश्वर

    avāptajñānatattvasya na tasyādvaitavāsanām / sa ṛbhus tarkayām āsa nidāghasya nareśvara

  724. ViP 2.15.6Open verse →

    देविकायास् तटे वीरनगरं नाम वै पुरम् । समृद्धम् अतिरम्यं च पुलस्त्येन निवेशितम्

    devikāyās taṭe vīranagaraṃ nāma vai puram / samṛddham atiramyaṃ ca pulastyena niveśitam

  725. ViP 2.15.7Open verse →

    रम्योपवनपर्यन्ते स तस्मिन् पार्थिवोत्तम । निदाघो नाम योगज्ञ ऋभुशिष्यो ऽवसत् पुरा

    ramyopavanaparyante sa tasmin pārthivottama / nidāgho nāma yogajña ṛbhuśiṣyo 'vasat purā

  726. ViP 2.15.8Open verse →

    दिव्ये वर्षसहस्रे तु समतीते ऽस्य तत् पुरम् । जगाम स ऋभुः शिष्यं निदाघम् अवलोकितुम्

    divye varṣasahasre tu samatīte 'sya tat puram / jagāma sa ṛbhuḥ śiṣyaṃ nidāgham avalokitum

  727. ViP 2.15.9Open verse →

    स तस्य वैश्वदेवान्ते द्वारालोकनगोचरे । स्थितस् तेन गृहीतार्घो निजवेश्मप्रवेशितः

    sa tasya vaiśvadevānte dvārālokanagocare / sthitas tena gṛhītārgho nijaveśmapraveśitaḥ

  728. ViP 2.15.10Open verse →

    प्रक्षालिताङ्घ्रिपाणिं च कृतासनपरिग्रहम् । उवाच स द्विजश्रेष्ठो भुज्यताम् इति सादरम्

    prakṣālitāṅghripāṇiṃ ca kṛtāsanaparigraham / uvāca sa dvijaśreṣṭho bhujyatām iti sādaram

  729. ViP 2.15.11Open verse →

    §ऋभुर् उवाच: भो विप्रवर्य भोक्तव्यं यद् अन्नं भवतो गृहे । तत् कथ्यतां कदन्नेषु न प्रीतिः सततं मम

    §ṛbhur uvāca: bho vipravarya bhoktavyaṃ yad annaṃ bhavato gṛhe / tat kathyatāṃ kadanneṣu na prītiḥ satataṃ mama

  730. ViP 2.15.12Open verse →

    §निदाघ उवाच: सक्तुयावकवाट्यानाम् अपूपानां च मे गृहे । यद् रोचते द्विजश्रेष्ठ तत् त्वं भुङ्क्ष्व यथेच्छया

    §nidāgha uvāca: saktuyāvakavāṭyānām apūpānāṃ ca me gṛhe / yad rocate dvijaśreṣṭha tat tvaṃ bhuṅkṣva yathecchayā

  731. ViP 2.15.13Open verse →

    §ऋभुर् उवाच: कदन्नानि द्विजैतानि मिष्टम् अन्नं प्रयच्छ मे । संयावपायसादीनि द्रप्सफाणितवन्ति च

    §ṛbhur uvāca: kadannāni dvijaitāni miṣṭam annaṃ prayaccha me / saṃyāvapāyasādīni drapsaphāṇitavanti ca

  732. ViP 2.15.14Open verse →

    §निदाघ उवाच: हे हे शालिनि मद्गेहे यत् किंचिद् अतिशोभनम् । भक्ष्योपसाधनं मिष्टं तेनास्यान्नं प्रसाधय

    §nidāgha uvāca: he he śālini madgehe yat kiṃcid atiśobhanam / bhakṣyopasādhanaṃ miṣṭaṃ tenāsyānnaṃ prasādhaya

  733. ViP 2.15.15Open verse →

    §ब्राह्मण उवाच: इत्य् उक्ता तेन सा पत्नी मिष्टम् अन्नं द्विजस्य यत् । प्रसाधितवती तद् वै भर्तुर् वचनगौरवात्

    §brāhmaṇa uvāca: ity uktā tena sā patnī miṣṭam annaṃ dvijasya yat / prasādhitavatī tad vai bhartur vacanagauravāt

  734. ViP 2.15.16Open verse →

    तं भुक्तवन्तम् इच्छातो मिष्टम् अन्नं महामुनिम् । निदाघः प्राह भूपाल प्रश्रयावनतः स्थितः

    taṃ bhuktavantam icchāto miṣṭam annaṃ mahāmunim / nidāghaḥ prāha bhūpāla praśrayāvanataḥ sthitaḥ

  735. ViP 2.15.17Open verse →

    §निदाघ उवाच: अपि ते परमा तृप्तिर् उत्पन्ना तुष्टिर् एव च । अपि ते मानसं स्वस्थम् आहारेण कृतं द्विज

    §nidāgha uvāca: api te paramā tṛptir utpannā tuṣṭir eva ca / api te mānasaṃ svastham āhāreṇa kṛtaṃ dvija

  736. ViP 2.15.18Open verse →

    क्वनिवासो भवान् विप्र क्व च गन्तुं समुद्यतः । आगम्यते च भवता यतस् तच् च द्विजोच्यताम्

    kvanivāso bhavān vipra kva ca gantuṃ samudyataḥ / āgamyate ca bhavatā yatas tac ca dvijocyatām

  737. ViP 2.15.19Open verse →

    §ऋभुर् उवाच: क्षुद् यस्य तस्य भुक्ते ऽन्ने तृप्तिर् ब्राह्मण जायते । न मे क्षुद् अभवत् तृप्तिं कस्मान् मां परिपृच्छसि

    §ṛbhur uvāca: kṣud yasya tasya bhukte 'nne tṛptir brāhmaṇa jāyate / na me kṣud abhavat tṛptiṃ kasmān māṃ paripṛcchasi

  738. ViP 2.15.20Open verse →

    वह्निना पार्थिवे धातौ क्षपिते क्षुत्समुद्भवः । भवत्य् अम्भसि च क्षीणे नृणां तृड् अपि जायते

    vahninā pārthive dhātau kṣapite kṣutsamudbhavaḥ / bhavaty ambhasi ca kṣīṇe nṛṇāṃ tṛḍ api jāyate

  739. ViP 2.15.21Open verse →

    क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज । ततः क्षुत्संभवाभावात् तृप्तिर् अस्त्य् एव मे सदा

    kṣuttṛṣṇe dehadharmākhye na mamaite yato dvija / tataḥ kṣutsaṃbhavābhāvāt tṛptir asty eva me sadā

  740. ViP 2.15.22Open verse →

    मनसः स्वस्थता तुष्टिश् चित्तधर्माव् इमौ द्विज । चेतसो यस्य तत् पृच्छ पुमान् एभिर् न युज्यते

    manasaḥ svasthatā tuṣṭiś cittadharmāv imau dvija / cetaso yasya tat pṛccha pumān ebhir na yujyate

  741. ViP 2.15.23Open verse →

    क्व निवासस् तवेत्य् उक्तं क्व गन्तासि च यत् त्वया । कुतश् चागम्यते तत्र त्रितये ऽपि निबोध मे

    kva nivāsas tavety uktaṃ kva gantāsi ca yat tvayā / kutaś cāgamyate tatra tritaye 'pi nibodha me

  742. ViP 2.15.24Open verse →

    पुमान् सर्वगतो व्यापी आकाशवद् अयं यतः । कुतः कुत्र क्व गन्तासीत्य् एतद् अप्य् अर्थवत् कथम्

    pumān sarvagato vyāpī ākāśavad ayaṃ yataḥ / kutaḥ kutra kva gantāsīty etad apy arthavat katham

  743. ViP 2.15.25Open verse →

    सो ऽहं गन्ता न चागन्ता नैकदेशनिकेतनः । त्वं चान्ये च न च त्वं च नान्ये नैवाहम् अप्य् अहम्

    so 'haṃ gantā na cāgantā naikadeśaniketanaḥ / tvaṃ cānye ca na ca tvaṃ ca nānye naivāham apy aham

  744. ViP 2.15.26Open verse →

    मृष्टं न मृष्टम् इत्य् एषा जिज्ञासा मे कृता तव । किं वक्ष्यतीति तत्रापि श्रूयतां द्विजसत्तम

    mṛṣṭaṃ na mṛṣṭam ity eṣā jijñāsā me kṛtā tava / kiṃ vakṣyatīti tatrāpi śrūyatāṃ dvijasattama

  745. ViP 2.15.27Open verse →

    किम् अस्वाद्व् अथ वा मृष्टं भुञ्जतो ऽन्नं द्विजोत्तम । मृष्टम् एव यदामृष्टं तद् एवोद्वेगकारणम्

    kim asvādv atha vā mṛṣṭaṃ bhuñjato 'nnaṃ dvijottama / mṛṣṭam eva yadāmṛṣṭaṃ tad evodvegakāraṇam

  746. ViP 2.15.28Open verse →

    अमृष्टं जायते मृष्टं मृष्टाद् उद्विजते जनः । आदिमध्यावसानेषु किम् अन्नं रुचिकारकम्

    amṛṣṭaṃ jāyate mṛṣṭaṃ mṛṣṭād udvijate janaḥ / ādimadhyāvasāneṣu kim annaṃ rucikārakam

  747. ViP 2.15.29Open verse →

    मृण्मयं हि गृहं यद्वन् मृदा लिप्तं स्थिरं भवेत् । पार्थिवो ऽयं तथा देहः पार्थिवैः परमाणुभिः

    mṛṇmayaṃ hi gṛhaṃ yadvan mṛdā liptaṃ sthiraṃ bhavet / pārthivo 'yaṃ tathā dehaḥ pārthivaiḥ paramāṇubhiḥ

  748. ViP 2.15.30Open verse →

    म्० इन्स्।: यवगोधूममुद्गादि घृतं तैलं पयो दधि । गुडं फलादीनि तथा पार्थिवाः परमाणवः

    M0 ins.: yavagodhūmamudgādi ghṛtaṃ tailaṃ payo dadhi / guḍaṃ phalādīni tathā pārthivāḥ paramāṇavaḥ

  749. ViP 2.15.31Open verse →

    तद् एतद् भवता ज्ञात्वा मृष्टामृष्टविचारि यत् । तन् मनः समतालम्बि कार्यं साम्यं हि मुक्तये

    tad etad bhavatā jñātvā mṛṣṭāmṛṣṭavicāri yat / tan manaḥ samatālambi kāryaṃ sāmyaṃ hi muktaye

  750. ViP 2.15.32Open verse →

    §ब्राह्मण उवाच: इत्य् आकर्ण्य वचस् तस्य परमार्थाश्रितं नृप । प्रणिपत्य महाभागो निदाघो वाक्यम् अब्रवीत्

    §brāhmaṇa uvāca: ity ākarṇya vacas tasya paramārthāśritaṃ nṛpa / praṇipatya mahābhāgo nidāgho vākyam abravīt

  751. ViP 2.15.33Open verse →

    प्रसीद मद्धितार्थाय कथ्यतां यस् त्वम् आगतः । नष्टो मोहस् तवाकर्ण्य वचांस्य् एतानि मे द्विज

    prasīda maddhitārthāya kathyatāṃ yas tvam āgataḥ / naṣṭo mohas tavākarṇya vacāṃsy etāni me dvija

  752. ViP 2.15.34Open verse →

    §ऋभुर् उवाच: ऋभुर् अस्मि तवाचार्यः प्रज्ञादानाय ते द्विज । इहागतो ऽहं यास्यामि परमार्थस् तवोदितः

    §ṛbhur uvāca: ṛbhur asmi tavācāryaḥ prajñādānāya te dvija / ihāgato 'haṃ yāsyāmi paramārthas tavoditaḥ

  753. ViP 2.15.35Open verse →

    एवम् एकम् इदं विद्धि न भेदि सकलं जगत् । वासुदेवाभिधेयस्य स्वरूपं परमात्मनः

    evam ekam idaṃ viddhi na bhedi sakalaṃ jagat / vāsudevābhidheyasya svarūpaṃ paramātmanaḥ

  754. ViP 2.15.36Open verse →

    §ब्राह्मण उवाच: तथेत्य् उक्त्वा निदाघेन प्रणिपातपुरःसरम् । पूजितः परया भक्त्या इच्छातः प्रययाव् ऋभुः

    §brāhmaṇa uvāca: tathety uktvā nidāghena praṇipātapuraḥsaram / pūjitaḥ parayā bhaktyā icchātaḥ prayayāv ṛbhuḥ

  755. ViP 2.16.1Open verse →

    ______________________________________________________ §ब्राह्मण उवाच: ऋभुर् वर्षसहस्रे तु समतीते नरेश्वर । निदाघज्ञानदानाय तद् एव नगरं ययौ

    ______________________________________________________ §brāhmaṇa uvāca: ṛbhur varṣasahasre tu samatīte nareśvara / nidāghajñānadānāya tad eva nagaraṃ yayau

  756. ViP 2.16.2Open verse →

    नगरस्य बहिः सो ऽथ निदाघं ददृशे मुनिः । महाबलपरीवारे पुरं विशति पार्थिवे

    nagarasya bahiḥ so 'tha nidāghaṃ dadṛśe muniḥ / mahābalaparīvāre puraṃ viśati pārthive

  757. ViP 2.16.3Open verse →

    दूरे स्थितं महाभागं जनसंमर्दवर्जकम् । क्षुत्क्षामकण्ठम् आयान्तम् अरण्यात् ससमित्कुशम्

    dūre sthitaṃ mahābhāgaṃ janasaṃmardavarjakam / kṣutkṣāmakaṇṭham āyāntam araṇyāt sasamitkuśam

  758. ViP 2.16.4Open verse →

    दृष्ट्वा निदाघं स ऋभुर् उपगम्याभिवाद्य च । उवाच कस्माद् एकान्ते स्थीयते भवता द्विज

    dṛṣṭvā nidāghaṃ sa ṛbhur upagamyābhivādya ca / uvāca kasmād ekānte sthīyate bhavatā dvija

  759. ViP 2.16.5Open verse →

    §निदाघ उवाच: भो विप्र जनसंमर्दो महान् एष नरेश्वरे । प्रविविक्षौ पुरं रम्यं तेनात्र स्थीयते मया

    §nidāgha uvāca: bho vipra janasaṃmardo mahān eṣa nareśvare / pravivikṣau puraṃ ramyaṃ tenātra sthīyate mayā

  760. ViP 2.16.6Open verse →

    §ऋभुर् उवाच: नराधिपो ऽत्र कतमः कतमश् चेतरो जनः । कथ्यतां मे द्विजश्रेष्ठ त्वम् अभिज्ञो मतो मम

    §ṛbhur uvāca: narādhipo 'tra katamaḥ katamaś cetaro janaḥ / kathyatāṃ me dvijaśreṣṭha tvam abhijño mato mama

  761. ViP 2.16.7Open verse →

    §निदाघ उवाच: यो ऽयं गजेन्द्रम् उन्मत्तम् अद्रिशृङ्गसमुच्छ्रितम् । अधिरूढो नरेन्द्रो ऽयं परिलोकस् तथेतरः

    §nidāgha uvāca: yo 'yaṃ gajendram unmattam adriśṛṅgasamucchritam / adhirūḍho narendro 'yaṃ parilokas tathetaraḥ

  762. ViP 2.16.8Open verse →

    §ऋभुर् उवाच: एतौ हि गजराजानौ युगपद् दर्शितौ मम । भवता न विशेषेण पृथक्चिह्नोपलक्षणौ

    §ṛbhur uvāca: etau hi gajarājānau yugapad darśitau mama / bhavatā na viśeṣeṇa pṛthakcihnopalakṣaṇau

  763. ViP 2.16.9Open verse →

    तत् कथ्यतां महाभाग विशेषो भवतानयोः । ज्ञातुम् इच्छाम्य् अहं को ऽत्र गजः को वा नराधिपः

    tat kathyatāṃ mahābhāga viśeṣo bhavatānayoḥ / jñātum icchāmy ahaṃ ko 'tra gajaḥ ko vā narādhipaḥ

  764. ViP 2.16.10Open verse →

    §निदाघ उवाच: गजो यो ऽयम् अधो ब्रह्मन्न् उपर्य् अस्यैव भूपतिः । वाह्यवाहकसंबन्धं को न जानाति वै द्विज

    §nidāgha uvāca: gajo yo 'yam adho brahmann upary asyaiva bhūpatiḥ / vāhyavāhakasaṃbandhaṃ ko na jānāti vai dvija

  765. ViP 2.16.11Open verse →

    §ऋभुर् उवाच: जानाम्य् अहं यथा ब्रह्मंस् तथा माम् अवबोधय । अधःशब्दनिगद्यं किं किं चोर्ध्वम् अभिधीयते

    §ṛbhur uvāca: jānāmy ahaṃ yathā brahmaṃs tathā mām avabodhaya / adhaḥśabdanigadyaṃ kiṃ kiṃ cordhvam abhidhīyate

  766. ViP 2.16.12Open verse →

    §ब्राह्मण उवाच: इत्य् उक्तः सहसारुह्य निदाघः प्राह तम् ऋभुम् । श्रूयतां कथयाम्य् एष यन् मां त्वं परिपृच्छसि

    §brāhmaṇa uvāca: ity uktaḥ sahasāruhya nidāghaḥ prāha tam ṛbhum / śrūyatāṃ kathayāmy eṣa yan māṃ tvaṃ paripṛcchasi

  767. ViP 2.16.13Open verse →

    उपर्य् अहं यथा राजा त्वम् अधः कुञ्जरो यथा । अवबोधाय ते ब्रह्मन् दृष्टान्तो दर्शितो मया

    upary ahaṃ yathā rājā tvam adhaḥ kuñjaro yathā / avabodhāya te brahman dṛṣṭānto darśito mayā

  768. ViP 2.16.14Open verse →

    §ऋभुर् उवाच: त्वं राजेव द्विजश्रेष्ठ स्थितो ऽहं गजवद् यदि । तद् एव त्वं ममाचक्ष्व कतमस् त्वम् अहं तथा

    §ṛbhur uvāca: tvaṃ rājeva dvijaśreṣṭha sthito 'haṃ gajavad yadi / tad eva tvaṃ mamācakṣva katamas tvam ahaṃ tathā

  769. ViP 2.16.15Open verse →

    §ब्राह्मण उवाच: इत्य् उक्तः सत्वरस् तस्य प्रगृह्य चरणाव् उभौ । निदाघः प्राह भगवान् आचार्यस् त्वम् ऋभुर् ध्रुवम्

    §brāhmaṇa uvāca: ity uktaḥ satvaras tasya pragṛhya caraṇāv ubhau / nidāghaḥ prāha bhagavān ācāryas tvam ṛbhur dhruvam

  770. ViP 2.16.16Open verse →

    नान्यस्याद्वैतसंस्कारसंस्कृतं मानसं तथा । यथाचार्यस्य तेन त्वां मन्ये प्राप्तम् अहं गुरुम्

    nānyasyādvaitasaṃskārasaṃskṛtaṃ mānasaṃ tathā / yathācāryasya tena tvāṃ manye prāptam ahaṃ gurum

  771. ViP 2.16.17Open verse →

    §ऋभुर् उवाच: तवोपदेशदानाय पूर्वशुश्रूषणादृतः । गुरुस् ते ऽहम् ऋभुर् नाम्ना निदाघ समुपागतः

    §ṛbhur uvāca: tavopadeśadānāya pūrvaśuśrūṣaṇādṛtaḥ / gurus te 'ham ṛbhur nāmnā nidāgha samupāgataḥ

  772. ViP 2.16.18Open verse →

    तद् एतद् उपदिष्टं ते संक्षेपेण महामते । परमार्थसारभूतं यद् अद्वैतम् अशेषतः

    tad etad upadiṣṭaṃ te saṃkṣepeṇa mahāmate / paramārthasārabhūtaṃ yad advaitam aśeṣataḥ

  773. ViP 2.16.19Open verse →

    §ब्राह्मण उवाच: एवम् उक्त्वा ययौ विद्वान् निदाघं स ऋभुर् गुरुः । निदाघो ऽप्य् उपदेशेन तेनाद्वैतपरो ऽभवत्

    §brāhmaṇa uvāca: evam uktvā yayau vidvān nidāghaṃ sa ṛbhur guruḥ / nidāgho 'py upadeśena tenādvaitaparo 'bhavat

  774. ViP 2.16.20Open verse →

    सर्वभूतान्य् अभेदेन ददृशे स तदात्मनः । तथा ब्रह्म ततो मुक्तिम् अवाप परमां द्विजः

    sarvabhūtāny abhedena dadṛśe sa tadātmanaḥ / tathā brahma tato muktim avāpa paramāṃ dvijaḥ

  775. ViP 2.16.21Open verse →

    तथा त्वम् अपि धर्मज्ञ तुल्यात्मरिपुबान्धवः । भव सर्वगतं जानन्न् आत्मानम् अवनीपते

    tathā tvam api dharmajña tulyātmaripubāndhavaḥ / bhava sarvagataṃ jānann ātmānam avanīpate

  776. ViP 2.16.22Open verse →

    सितनीलादिभेदेन यथैकं दृश्यते नभः । भ्रान्तदृष्टिभिर् आत्मापि तथैकः सन् पृथक् पृथक्

    sitanīlādibhedena yathaikaṃ dṛśyate nabhaḥ / bhrāntadṛṣṭibhir ātmāpi tathaikaḥ san pṛthak pṛthak

  777. ViP 2.16.23Open verse →

    एकः समस्तं यद् इहास्ति किंचित् तद् अच्युतो वास्ति परं ततो ऽन्यत् । सो ऽहं स च त्वं स च सर्वम् एतद् आत्मस्वरूपं त्यज भेदमोहम्

    ekaḥ samastaṃ yad ihāsti kiṃcit tad acyuto vāsti paraṃ tato 'nyat / so 'haṃ sa ca tvaṃ sa ca sarvam etad ātmasvarūpaṃ tyaja bhedamoham

  778. ViP 2.16.24Open verse →

    §पराशर उवाच: इतीरितस् तेन स राजवर्यस् तत्याज भेदं परमार्थदृष्टिः । स चापि जातिस्मरणाप्तबोधस् तत्रैव जन्मन्य् अपवर्गम् आप

    §parāśara uvāca: itīritas tena sa rājavaryas tatyāja bhedaṃ paramārthadṛṣṭiḥ / sa cāpi jātismaraṇāptabodhas tatraiva janmany apavargam āpa

  779. ViP 2.16.25Open verse →

    इति भरतनरेन्द्रसारवृत्तं कथयति यश् च शृणोति भक्तियुक्तः । स विमलमतिर् एति नात्ममोहं भवति च संसरणेषु मुक्तियोग्यः

    iti bharatanarendrasāravṛttaṃ kathayati yaś ca śṛṇoti bhaktiyuktaḥ / sa vimalamatir eti nātmamohaṃ bhavati ca saṃsaraṇeṣu muktiyogyaḥ

  780. ViP 2.2.29*2Open verse →

    अफ़्तेर् २९, ग्१,२ इन्स्।: केसरास् तु तथोच्छ्रायस् ते ऽशीतिपृथुलायताः

    After 29, G1,2 ins.: kesarās tu tathocchrāyas te 'śītipṛthulāyatāḥ

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *2 before ViP 2.2.29 (Pathak Critical Edition apparatus).

  781. ViP 2.4.1*3:1Open verse →

    श्२,द्७ इन्स्।: अथ प्लक्षादिकद्वीपान् वर्षाद्रिसरिदब्धिभिः

    Ś2,D7 ins.: atha plakṣādikadvīpān varṣādrisaridabdhibhiḥ

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *3 line 1 before ViP 2.4.1 (Pathak Critical Edition apparatus).

  782. ViP 2.4.1*3:2Open verse →

    वर्णरूपादिभेदेन वर्णयत्य् आकटाहतः

    varṇarūpādibhedena varṇayaty ākaṭāhataḥ

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *3 line 2 before ViP 2.4.1 (Pathak Critical Edition apparatus).

  783. ViP 2.4.62*4Open verse →

    द्६ इन्स्।: निवसन्ति महात्मानो निरातङ्का निरामयाः

    D6 ins.: nivasanti mahātmāno nirātaṅkā nirāmayāḥ

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *4 before ViP 2.4.62 (Pathak Critical Edition apparatus).

  784. ViP 2.4.72*5Open verse →

    द्१ इन्स्।: पुष्करेणावृतो ब्रह्मन् क्षीरोदुसापि सर्वतः

    D1 ins.: puṣkareṇāvṛto brahman kṣīrodusāpi sarvataḥ

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *5 before ViP 2.4.72 (Pathak Critical Edition apparatus).

  785. ViP 2.4.95*6:1Open verse →

    द्७ इन्स्।: क्वचित् क्वचित् पुराणेषु विरोधो यदि लक्ष्यते

    D7 ins.: kvacit kvacit purāṇeṣu virodho yadi lakṣyate

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *6 line 1 before ViP 2.4.95 (Pathak Critical Edition apparatus).

  786. ViP 2.4.95*6:2Open verse →

    कल्पभेदादिभिस् तत्र व्यवस्था सद्भिर् इष्यते

    kalpabhedādibhis tatra vyavasthā sadbhir iṣyate

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *6 line 2 before ViP 2.4.95 (Pathak Critical Edition apparatus).

  787. ViP 2.5.1*7:1Open verse →

    श्२,द्७ इन्स्।, ग्२ इन्स्। अफ़्तेर् १अब्: सप्तभूमिकविस्तारः प्रासादवद् अधोभुवः

    Ś2,D7 ins., G2 ins. after 1ab: saptabhūmikavistāraḥ prāsādavad adhobhuvaḥ

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *7 line 1 before ViP 2.5.1 (Pathak Critical Edition apparatus).

  788. ViP 2.5.1*7:2Open verse →

    सप्तपातालव्यक्तिस् तु वर्ण्यते ऽनन्तमस्तके

    saptapātālavyaktis tu varṇyate 'nantamastake

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *7 line 2 before ViP 2.5.1 (Pathak Critical Edition apparatus).

  789. ViP 2.6.21*8Open verse →

    म्० इन्स्।: अपूपविक्रयाच् चैव तथा पुस्तकविक्रयाः

    M0 ins.: apūpavikrayāc caiva tathā pustakavikrayāḥ

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *8 before ViP 2.6.21 (Pathak Critical Edition apparatus).

  790. ViP 2.8.58*9:1Open verse →

    अफ़्तेर् ५८च् द्३,४,त्१,म्०,४ इन्स्।: ॥॥ ॥॥ प्रभुर् वैखानसैर् अपि

    After 58c D3,4,T1,M0,4 ins.: .... .... prabhur vaikhānasair api

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *9 line 1 before ViP 2.8.58 (Pathak Critical Edition apparatus).

  791. ViP 2.8.58*9:2Open verse →

    महात्मभिर् महात्मा वै ॥॥ ॥॥

    mahātmabhir mahātmā vai .... ....

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *9 line 2 before ViP 2.8.58 (Pathak Critical Edition apparatus).

  792. ViP 2.13.9*11:1Open verse →

    अफ़्तेर् ९च् एद्। वेङ्क्। इन्स्।: ॥॥ ॥॥ वासुदेव नमो ऽस्तु ते

    After 9c ed. Veṅk. ins.: .... .... vāsudeva namo 'stu te

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *11 line 1 before ViP 2.13.9 (Pathak Critical Edition apparatus).

  793. ViP 2.13.9*11:2Open verse →

    इति राजाह भरतो ॥।

    iti rājāha bharato ...

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *11 line 2 before ViP 2.13.9 (Pathak Critical Edition apparatus).

  794. ViP 2.13.48*12:1Open verse →

    अफ़्तेर् ४८च् द्४,त्३,ग्२,३,एद्। वेङ्क्। इन्स्।: ॥॥ ॥॥ काल्यै पशुम् अयोजयत्

    After 48c D4,T3,G2,3,ed. Veṅk. ins.: .... .... kālyai paśum ayojayat

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *12 line 1 before ViP 2.13.48 (Pathak Critical Edition apparatus).

  795. ViP 2.13.48*12:2Open verse →

    रात्रौ तं समलंकृत्य वैशंसनविधानतः

    rātrau taṃ samalaṃkṛtya vaiśaṃsanavidhānataḥ

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *12 line 2 before ViP 2.13.48 (Pathak Critical Edition apparatus).

  796. ViP 2.13.48*12:3Open verse →

    अधिष्ठितं महाकाली ज्ञात्वा योगेश्वरं तदा

    adhiṣṭhitaṃ mahākālī jñātvā yogeśvaraṃ tadā

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *12 line 3 before ViP 2.13.48 (Pathak Critical Edition apparatus).

  797. ViP 2.13.48*12:4Open verse →

    ततः खड्गं समादाय निशितं निशि सा तदा

    tataḥ khaḍgaṃ samādāya niśitaṃ niśi sā tadā

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *12 line 4 before ViP 2.13.48 (Pathak Critical Edition apparatus).

  798. ViP 2.13.48*12:5Open verse →

    क्षत्तारं क्रूरकर्माणम् अच्छिनत् कण्ठमूलतः

    kṣattāraṃ krūrakarmāṇam acchinat kaṇṭhamūlataḥ

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *12 line 5 before ViP 2.13.48 (Pathak Critical Edition apparatus).

  799. ViP 2.13.48*12:6Open verse →

    पिशितार्थपरिकरैः पपौ रुधिरम् उल्बणम्

    piśitārthaparikaraiḥ papau rudhiram ulbaṇam

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *12 line 6 before ViP 2.13.48 (Pathak Critical Edition apparatus).

  800. ViP 2.13.48*12:7Open verse →

    ततः सौवीरराजस्य प्रयातस्य महात्मनः

    tataḥ sauvīrarājasya prayātasya mahātmanaḥ

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *12 line 7 before ViP 2.13.48 (Pathak Critical Edition apparatus).

  801. ViP 2.13.48*12:8Open verse →

    विष्टिकर्ताथ तं तत्र विष्टियोग्यो ऽयम् इत्य् अपि

    viṣṭikartātha taṃ tatra viṣṭiyogyo 'yam ity api

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *12 line 8 before ViP 2.13.48 (Pathak Critical Edition apparatus).

  802. ViP 2.13.48*12:9Open verse →

    क्षत्ता सौवीरराजस्य ॥॥ ॥॥

    kṣattā sauvīrarājasya .... ....

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *12 line 9 before ViP 2.13.48 (Pathak Critical Edition apparatus).

  803. ViP 2.14.1*13:1Open verse →

    श्२,द्७ इन्स्।: नाहम् इत्यादिवाक्येन प्रमाणासंभवे गते

    Ś2,D7 ins.: nāham ityādivākyena pramāṇāsaṃbhave gate

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *13 line 1 before ViP 2.14.1 (Pathak Critical Edition apparatus).

  804. ViP 2.14.1*13:2Open verse →

    प्रमेयासंभवाशङ्की भूयो भूयो ऽथ पृच्छति

    prameyāsaṃbhavāśaṅkī bhūyo bhūyo 'tha pṛcchati

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *13 line 2 before ViP 2.14.1 (Pathak Critical Edition apparatus).

  805. ViP 2.15.3*14Open verse →

    श्२,द्७ इन्स्।: प्रमाणतर्कतः सम्यक् माने मेये ऽपि निश्चिते

    Ś2,D7 ins.: pramāṇatarkataḥ samyak māne meye 'pi niścite

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *14 before ViP 2.15.3 (Pathak Critical Edition apparatus).

  806. ViP 2.15.29*15Open verse →

    म्० इन्स्।: आलिप्त आप्याययतः पुंसो भोगो ऽत्र किं कृतः

    M0 ins.: ālipta āpyāyayataḥ puṃso bhogo 'tra kiṃ kṛtaḥ

    Meaning · English — Pathak Critical Edition apparatus

    Manuscript insertion *15 before ViP 2.15.29 (Pathak Critical Edition apparatus).