Vishnu Purana · अध्याय 1
Aṃśa 1 — Creation
प्रथमोऽंशः
Maitreya questions Parāśara. Origin of the universe from Viṣṇu; the cosmic egg; the four-faced Brahmā; Dakṣa and his daughters; the Varāha avatāra lifting the earth from the cosmic waters; the legend of Dhruva.
- ViP 1.1.1Open verse →
विप्_न्,न्न्।न्न् = नुम्बेर् ओफ़् अंश,अध्याय।वेर्से विप्_न्,न्न्।न्न्*न्न्(:न्न्) = नुम्बेर् ओफ़् प्रेचेदिन्ग् अंश,अध्याय।वेर्से*इन्सेर्तिओन्(:लिने [ओप्तिओनल् फ़ोर् इन्सेर्तिओन्स् ओफ़् मोरे थन् ओने लिने]) विप्_न्,न्न्।न्न्@न्:न्न् = नुम्बेर् ओफ़् प्रेचेदिन्ग् अंश,अध्याय।वेर्से@अप्पेन्दिx:लिने । = दण्ड इन् मेत्रिच् पर्त्स् । = दण्ड इन् प्रोसे पर्त्स् §॥। = इन्तेर्लोचुतोर्स् xxx = मिस्सिन्ग्।इल्लेगिब्ले छरच्तेर् त्हिस् ग्रेतिल् तेXत् फ़िले इस् फ़ोर् रेफ़ेरेन्चे पुर्पोसेस् ओन्ल्य्! चोप्य्रिग्ह्त् अन्द् तेर्म्स् ओफ़् उस्अगे अस् फ़ोर् सोउर्चे फ़िले। तेxत् चोन्वेर्तेद् तो उनिचोदे (उत्फ़्-८)। (थिस् फ़िले इस् तो बे उसेद् wइथ् अ उत्फ़्-८ फ़ोन्त् अन्द् योउर् ब्रोwसेर्ऽस् विएW चोन्फ़िगुरतिओन् सेत् तो उत्फ़्-८।) देस्च्रिप्तिओन्:मुल्तिब्य्ते सेक़ुएन्चे: लोन्ग् अ आ लोन्ग् अ आ लोन्ग् इ ई लोन्ग् इ ई लोन्ग् उ ऊ लोन्ग् उ ऊ वोचलिच् र् ऋ वोचलिच् र् ऋ लोन्ग् वोचलिच् र् ॠ वोचलिच् ल् ऌ वोचलिच् ल् ऌ लोन्ग् वोचलिच् ल् ॡ वेलर् न् ङ् वेलर् न् ङ् पलतल् न् ञ् पलतल् न् ञ् रेत्रोफ़्लेx त् ट् रेत्रोफ़्लेx त् ट् रेत्रोफ़्लेx द् ड् रेत्रोफ़्लेx द् ड् रेत्रोफ़्लेx न् ण् रेत्रोफ़्लेx न् ण् पलतल् स् श् पलतल् स् श् रेत्रोफ़्लेx स् ष् रेत्रोफ़्लेx स् ष् अनुस्वर ं विसर्ग ः लोन्ग् ए ē लोन्ग् ओ ō ल् उन्देर्बर् ऴ् र् उन्देर्बर् ऱ् न् उन्देर्बर् ऩ् क् उन्देर्बर् ḵ त् उन्देर्बर् ṯ उन्लेस्स् इन्दिचतेद् ओथेर्wइसे, अच्चेन्त्स् हवे बेएन् द्रोप्पेद् इन् ओर्देर् तो फ़चिलितते wओर्द् सेअर्छ्। फ़ोर् अ चोम्प्रेहेन्सिवे लिस्त् ओफ़् ग्रेतिल् एन्चोदिन्ग्स् अन्द् फ़ोर्मत्स् सेए: ह्त्त्प्:॥ग्रेतिल्।सुब्।उनि-गोएत्तिन्गेन्।दे।ग्रेतिल्।ग्रेत्दिअच्।प्द्फ़् अन्द् ह्त्त्प्:॥ग्रेतिल्।सुब्।उनि-गोएत्तिन्गेन्।दे।ग्रेतिल्।ग्रेत्दिअस्।प्द्फ़् फ़ोर् फ़ुर्थेर् इन्फ़ोर्मतिओन् सेए: ह्त्त्प्:॥ग्रेतिल्।सुब्।उनि-गोएत्तिन्गेन्।दे।ग्रेतिल्।ह्त्म् ॐ नमो भगवते वासुदेवाय । ॐ श्रीगणेशाय नमः ॐ नमो नारायणाय ॐ । ॐ नमो कृष्णाय । ॐ नमो भगवते वासुदेवाय । नमो गणपतये । ॐ श्रीकृष्णः । जितं ते पुण्डरीकाक्ष नमस् ते विश्वभावन । सदक्षरं ब्रह्म य ईश्वरः पुमान् गुणोर्मिसृष्टिस्थितिकालसंलयः । प्रणम्य विष्णुं विश्वेशं ब्रह्मादीन् प्रणिपत्य च । इतिहासपुराणज्ञं वेदवेदाङ्गपारगम् । स्वस्ति श्रीगुरुगणेशभारतीस्वरूपिणे श्रीनारायणाय नमः । समस्तचेतोभिमतार्थसिद्धये गणैः सुराणाम् अपि संस्तुतौ यः । पद्मासनं पद्मसमाननं च पद्मस्य योनिश् चतुराननं च । ॥॥ ॥॥ ॥॥ ।तात्मने [लचुन] । कृत्वा तन् नरसिंहरूपम् अतुलं लोकत्रयव्यापि यद् व्यालं विस्फुटचारुकेसरसटासंघातरम्याकृतिः । ॐ नमो भगवते वासुदेवाय श्रीगणेशसरस्वतीभ्यां नमः । जयति कमलोदरवपुः कम[ल]मुखः कमलगर्भसंभूतः ।* * जयति जलभारगर्भितनिलाम्बुदनीलवपुः ।* * जयति शशिखण्डमण्डितविकटजटामुकुटसंकटललाटम् ।* * श्रीगणेशाय नमः ॐ नमो भगवते श्रीवासुदेवाय । ॐ । ॐ नमो भगवते वासुदेवाय श्रीगणेशसरस्वतीभ्यां नमः । ॐ । शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । अगजाननपद्मार्कं गजाननम् अहर्निशम् । या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासन । ॐ । यस्माद् इदं जगद् अजायत यत्र तिष्ठत्य् अन्ते समस्तम् इदं अस्तम् उपैति यत्र ।* * तत्त्वेन यश् च दधदीश्वरतत्स्वभाव भोगापवर्गतदुपायगतीर् उदारः ।* * अंशैः षड्भिः समाकीणम् अङ्गैर् वेदम् इवापरम् । ॐ श्रीविष्णवे नमः । श्रीमहागणपतये नमः । अविघ्नम् अस्तु । पङ्केरुहाक्षाय भवौषधाय भक्तार्तिनाशाय परात् पराय । हरिः ॐ विष्णुपुराणं संपुतं आरम्भं शुभम् अस्तु अविघ्नम् अस्तु श्रीश्रियै न्मः [नमः] श्रीहयग्रीवाय न्मः [नमः] श्रीरामचन्द्राय परस्मै ब्रह्मणे न्मः [नमः] हरिः ॐ अविघ्नम् अस्तु । श्रीगणेशाय नमः अविघ्नेन परिसमाप्तिर् अस्तु । यस्यासीत् प्रपितामहो गुणनिधेर् देवः पुराणो जगत् सृष्टा यस्य पितामहो मतिमतां श्रेष्ठो वसिष्ठः पिता । पराशरं मुनिवरं कृतपूर्वाह्णिकक्रियम् । मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च
ViP_n,nn.nn = number of aṃśa,adhyāya.verse ViP_n,nn.nn*nn(:nn) = number of PRECEDING aṃśa,adhyāya.verse*insertion(:line [optional for insertions of more than one line]) ViP_n,nn.nn@n:nn = number of PRECEDING aṃśa,adhyāya.verse@appendix:line / = daṇḍa in metric parts | = daṇḍa in prose parts §... = interlocutors xxx = missing/illegible character THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.) description:multibyte sequence: long a ā long A Ā long i ī long I Ī long u ū long U Ū vocalic r ṛ vocalic R Ṛ long vocalic r ṝ vocalic l ḷ vocalic L Ḷ long vocalic l ḹ velar n ṅ velar N Ṅ palatal n ñ palatal N Ñ retroflex t ṭ retroflex T Ṭ retroflex d ḍ retroflex D Ḍ retroflex n ṇ retroflex N Ṇ palatal s ś palatal S Ś retroflex s ṣ retroflex S Ṣ anusvara ṃ visarga ḥ long e ē long o ō l underbar ḻ r underbar ṟ n underbar ṉ k underbar ḵ t underbar ṯ Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm oṃ namo bhagavate vāsudevāya | oṃ śrīgaṇeśāya namaḥ oṃ namo nārāyaṇāya oṃ | oṃ namo kṛṣṇāya | oṃ namo bhagavate vāsudevāya | namo gaṇapataye | oṃ śrīkṛṣṇaḥ | jitaṃ te puṇḍarīkākṣa namas te viśvabhāvana / sadakṣaraṃ brahma ya īśvaraḥ pumān guṇormisṛṣṭisthitikālasaṃlayaḥ / praṇamya viṣṇuṃ viśveśaṃ brahmādīn praṇipatya ca / itihāsapurāṇajñaṃ vedavedāṅgapāragam / svasti śrīgurugaṇeśabhāratīsvarūpiṇe śrīnārāyaṇāya namaḥ | samastacetobhimatārthasiddhaye gaṇaiḥ surāṇām api saṃstutau yaḥ / padmāsanaṃ padmasamānanaṃ ca padmasya yoniś caturānanaṃ ca / .... .... .... .tātmane [lacuna] / kṛtvā tan narasiṃharūpam atulaṃ lokatrayavyāpi yad vyālaṃ visphuṭacārukesarasaṭāsaṃghātaramyākṛtiḥ / oṃ namo bhagavate vāsudevāya śrīgaṇeśasarasvatībhyāṃ namaḥ | jayati kamalodaravapuḥ kama[la]mukhaḥ kamalagarbhasaṃbhūtaḥ /* * jayati jalabhāragarbhitanilāmbudanīlavapuḥ /* * jayati śaśikhaṇḍamaṇḍitavikaṭajaṭāmukuṭasaṃkaṭalalāṭam /* * śrīgaṇeśāya namaḥ oṃ namo bhagavate śrīvāsudevāya | oṃ | oṃ namo bhagavate vāsudevāya śrīgaṇeśasarasvatībhyāṃ namaḥ | oṃ | śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam / agajānanapadmārkaṃ gajānanam aharniśam / yā kundendutuṣārahāradhavalā yā śubhravastrāvṛtā yā vīṇāvaradaṇḍamaṇḍitakarā yā śvetapadmāsana / oṃ | yasmād idaṃ jagad ajāyata yatra tiṣṭhaty ante samastam idaṃ astam upaiti yatra /* * tattvena yaś ca dadhadīśvaratatsvabhāva bhogāpavargatadupāyagatīr udāraḥ /* * aṃśaiḥ ṣaḍbhiḥ samākīṇam aṅgair vedam ivāparam / oṃ śrīviṣṇave namaḥ | śrīmahāgaṇapataye namaḥ | avighnam astu | paṅkeruhākṣāya bhavauṣadhāya bhaktārtināśāya parāt parāya / hariḥ oṃ viṣṇupurāṇaṃ saṃputaṃ ārambhaṃ śubham astu avighnam astu śrīśriyai nmaḥ [namaḥ] śrīhayagrīvāya nmaḥ [namaḥ] śrīrāmacandrāya parasmai brahmaṇe nmaḥ [namaḥ] hariḥ oṃ avighnam astu | śrīgaṇeśāya namaḥ avighnena parisamāptir astu | yasyāsīt prapitāmaho guṇanidher devaḥ purāṇo jagat sṛṣṭā yasya pitāmaho matimatāṃ śreṣṭho vasiṣṭhaḥ pitā / parāśaraṃ munivaraṃ kṛtapūrvāhṇikakriyam / maitreyaḥ paripapraccha praṇipatyābhivādya ca
- ViP 1.1.2Open verse →
त्वत्तो हि वेदाध्ययनम् अधीतम् अखिलं गुरो । धर्मशास्त्राणि सर्वाणि वेदाङ्गानि यथाक्रमम्
tvatto hi vedādhyayanam adhītam akhilaṃ guro / dharmaśāstrāṇi sarvāṇi vedāṅgāni yathākramam
- ViP 1.1.3Open verse →
त्वत्प्रसादान् मुनिश्रेष्ठ माम् अन्ये नाकृतश्रमम् । वक्ष्यन्ति सर्वशास्त्रेषु प्रायशो ये ऽपि विद्विषः
tvatprasādān muniśreṣṭha mām anye nākṛtaśramam / vakṣyanti sarvaśāstreṣu prāyaśo ye 'pi vidviṣaḥ
- ViP 1.1.4Open verse →
सो ऽहम् इच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् । बभूव भूयश् च यथा महाभाग भविष्यति
so 'ham icchāmi dharmajña śrotuṃ tvatto yathā jagat / babhūva bhūyaś ca yathā mahābhāga bhaviṣyati
- ViP 1.1.5Open verse →
यन्मयं च जगद् ब्रह्मन् यतश् चैतच् चराचरम् । लीनम् आसीद् यथा यत्र लयम् एष्यति यत्र च
yanmayaṃ ca jagad brahman yataś caitac carācaram / līnam āsīd yathā yatra layam eṣyati yatra ca
- ViP 1.1.6Open verse →
यत्प्रमाणानि भूतानि देवादीनां च संभवम् । समुद्रपर्वतानां च संस्थानं च यथा भुवः
yatpramāṇāni bhūtāni devādīnāṃ ca saṃbhavam / samudraparvatānāṃ ca saṃsthānaṃ ca yathā bhuvaḥ
- ViP 1.1.7Open verse →
सूर्यादीनां च संस्थानं प्रमाणं मुनिसत्तम । देवादीनां तथा वंशान् मनून् मन्वन्तराणि च
sūryādīnāṃ ca saṃsthānaṃ pramāṇaṃ munisattama / devādīnāṃ tathā vaṃśān manūn manvantarāṇi ca
- ViP 1.1.8Open verse →
कल्पान् कल्पविकल्पांश् च चतुर्युगविकल्पितान् । कल्पान्तस्य स्वरूपं च युगधर्मांश् च कृत्स्नशः
kalpān kalpavikalpāṃś ca caturyugavikalpitān / kalpāntasya svarūpaṃ ca yugadharmāṃś ca kṛtsnaśaḥ
- ViP 1.1.9Open verse →
देवर्षिपार्थिवानां च चरितं यन् महामुने । वेदशाखाप्रणयनं यथावद् व्यासकर्तृकम्
devarṣipārthivānāṃ ca caritaṃ yan mahāmune / vedaśākhāpraṇayanaṃ yathāvad vyāsakartṛkam
- ViP 1.1.10Open verse →
धर्मांश् च ब्राह्मणादीनां तथा चाश्रमवासिनाम् । श्रोतुम् इच्छाम्य् अहं सर्वं त्वत्तो वासिष्ठनन्दन
dharmāṃś ca brāhmaṇādīnāṃ tathā cāśramavāsinām / śrotum icchāmy ahaṃ sarvaṃ tvatto vāsiṣṭhanandana
- ViP 1.1.11Open verse →
ब्रह्मन् प्रसादप्रवणं कुरुष्व मयि मानसम् । येनाहम् एतज् जानीयां त्वत्प्रसादान् महामुने
brahman prasādapravaṇaṃ kuruṣva mayi mānasam / yenāham etaj jānīyāṃ tvatprasādān mahāmune
- ViP 1.1.12Open verse →
§पराशर उवाच: साधु मैत्रेय धर्मज्ञ स्मारितो ऽस्मि पुरातनम् । पितुः पिता मे भगवान् वसिष्ठो यद् उवाच ह
§parāśara uvāca: sādhu maitreya dharmajña smārito 'smi purātanam / pituḥ pitā me bhagavān vasiṣṭho yad uvāca ha
- ViP 1.1.13Open verse →
विश्वामित्रप्रयुक्तेन रक्षसा भक्षितो मया । श्रुतस् तातस् ततः क्रोधो मैत्रेयासीन् ममातुलः
viśvāmitraprayuktena rakṣasā bhakṣito mayā / śrutas tātas tataḥ krodho maitreyāsīn mamātulaḥ
- ViP 1.1.14Open verse →
ततो ऽहं रक्षसां सत्रं विनाशाय समारभम् । भस्मीकृताश् च शतशस् तस्मिन् सत्रे निशाचराः
tato 'haṃ rakṣasāṃ satraṃ vināśāya samārabham / bhasmīkṛtāś ca śataśas tasmin satre niśācarāḥ
- ViP 1.1.15Open verse →
ततः संक्षीयमाणेषु तेषु रक्षःस्व् अशेषतः । माम् उवाच महाभागो वसिष्ठो ऽस्मत्पितामहः
tataḥ saṃkṣīyamāṇeṣu teṣu rakṣaḥsv aśeṣataḥ / mām uvāca mahābhāgo vasiṣṭho 'smatpitāmahaḥ
- ViP 1.1.16Open verse →
अलम् अत्यन्तकोपेन तात मन्युम् इमं जहि । राक्षसा नापराध्यन्ते पितुस् ते विहितं तथा
alam atyantakopena tāta manyum imaṃ jahi / rākṣasā nāparādhyante pitus te vihitaṃ tathā
- ViP 1.1.17Open verse →
मूढानाम् एष भवति क्रोधो ज्ञानवतां कुतः । हन्यते तात कः केन यतः स्वकृतभुक् पुमान्
mūḍhānām eṣa bhavati krodho jñānavatāṃ kutaḥ / hanyate tāta kaḥ kena yataḥ svakṛtabhuk pumān
- ViP 1.1.18Open verse →
संचितस्यापि महता वत्स क्लेशेन मानवैः । यशसस् तपसश् चैव क्रोधो नाशकरः परः
saṃcitasyāpi mahatā vatsa kleśena mānavaiḥ / yaśasas tapasaś caiva krodho nāśakaraḥ paraḥ
- ViP 1.1.19Open verse →
स्वर्गापवर्गव्यासेधकारणं परमर्षयः । वर्जयन्ति सदा क्रोधं तात मा तद्वशो भव
svargāpavargavyāsedhakāraṇaṃ paramarṣayaḥ / varjayanti sadā krodhaṃ tāta mā tadvaśo bhava
- ViP 1.1.20Open verse →
अलं निशाचरैर् दग्धैर् दीनैर् अनपराधिभिः । सत्रं ते विरमत्व् एतत् क्षमासारा हि साधवः
alaṃ niśācarair dagdhair dīnair anaparādhibhiḥ / satraṃ te viramatv etat kṣamāsārā hi sādhavaḥ
- ViP 1.1.21Open verse →
एवं तातेन तेनाहम् अनुनीतो महात्मना । उपसंहृतवान् सत्रं सद्यस् तद्वाक्यगौरवात्
evaṃ tātena tenāham anunīto mahātmanā / upasaṃhṛtavān satraṃ sadyas tadvākyagauravāt
- ViP 1.1.22Open verse →
ततः प्रीतः स भगवान् वसिष्ठो मुनिसत्तमः । संप्राप्तश् च तदा तत्र पुलस्त्यो ब्रह्मणः सुतः
tataḥ prītaḥ sa bhagavān vasiṣṭho munisattamaḥ / saṃprāptaś ca tadā tatra pulastyo brahmaṇaḥ sutaḥ
- ViP 1.1.23Open verse →
पितामहेन दत्तार्घ्यः कृतासनपरिग्रहः । माम् उवाच महाभागो मैत्रेय पुलहाग्रजः
pitāmahena dattārghyaḥ kṛtāsanaparigrahaḥ / mām uvāca mahābhāgo maitreya pulahāgrajaḥ
- ViP 1.1.24Open verse →
§पुलस्त्य उवाच: वैरे महति यद् वाक्याद् गुरोर् अस्याश्रिता क्षमा । त्वया तस्मात् समस्तानि भवाञ् छास्त्राणि वेत्स्यति
§pulastya uvāca: vaire mahati yad vākyād guror asyāśritā kṣamā / tvayā tasmāt samastāni bhavāñ chāstrāṇi vetsyati
- ViP 1.1.25Open verse →
संततेर् न ममोच्छेदः क्रुद्धेनापि यतः कृतः । त्वया तस्मान् महाभाग ददाम्य् अन्यं महावरम्
saṃtater na mamocchedaḥ kruddhenāpi yataḥ kṛtaḥ / tvayā tasmān mahābhāga dadāmy anyaṃ mahāvaram
- ViP 1.1.26Open verse →
पुराणसंहिताकर्ता भवान् वत्स भविष्यति । देवतापारमार्थ्यं च यथावद् वेत्स्यते भवान्
purāṇasaṃhitākartā bhavān vatsa bhaviṣyati / devatāpāramārthyaṃ ca yathāvad vetsyate bhavān
- ViP 1.1.27Open verse →
प्रवृत्ते च निवृत्ते च कर्मण्य् अस्तमला मतिः । मत्प्रसादाद् असंदिग्धा तव वत्स भविष्यति
pravṛtte ca nivṛtte ca karmaṇy astamalā matiḥ / matprasādād asaṃdigdhā tava vatsa bhaviṣyati
- ViP 1.1.28Open verse →
ततश् च भगवान् प्राह वसिष्ठो मे पितामहः । पुलस्त्येन यद् उक्तं ते सर्वम् एतद् भविष्यति
tataś ca bhagavān prāha vasiṣṭho me pitāmahaḥ / pulastyena yad uktaṃ te sarvam etad bhaviṣyati
- ViP 1.1.29Open verse →
इति पूर्वं वसिष्ठेन पुलस्त्येन च धीमता । यद् उक्तं तत् स्मृतिं यातं त्वत्प्रश्नाद् अखिलं मम
iti pūrvaṃ vasiṣṭhena pulastyena ca dhīmatā / yad uktaṃ tat smṛtiṃ yātaṃ tvatpraśnād akhilaṃ mama
- ViP 1.1.30Open verse →
सो ऽहं वदाम्य् अशेषं ते मैत्रेय परिपृच्छते । पुराणसंहितां सम्यक् तां निबोध यथातथम्
so 'haṃ vadāmy aśeṣaṃ te maitreya paripṛcchate / purāṇasaṃhitāṃ samyak tāṃ nibodha yathātatham
- ViP 1.1.31Open verse →
विष्णोः सकाशाद् उद्भूतं जगत् तत्रैव च स्थितम् । स्थितिसंयमकर्तासौ जगतो ऽस्य जगच् च सः
viṣṇoḥ sakāśād udbhūtaṃ jagat tatraiva ca sthitam / sthitisaṃyamakartāsau jagato 'sya jagac ca saḥ
- ViP 1.2.1Open verse →
म्० इन्स्।: मित्रापुत्रवचो निशम्य सकलं स्मृत्वात्मनस् तद् वरम् सत्रं चैव निवारितं स सुमहाभागो ऽभवत् तारणम् । ______________________________________________________ §पराशर उवाच: अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे
M0 ins.: mitrāputravaco niśamya sakalaṃ smṛtvātmanas tad varam satraṃ caiva nivāritaṃ sa sumahābhāgo 'bhavat tāraṇam / ______________________________________________________ §parāśara uvāca: avikārāya śuddhāya nityāya paramātmane / sadaikarūparūpāya viṣṇave sarvajiṣṇave
- ViP 1.2.2Open verse →
नमो हिरण्यगर्भाय हरये शंकराय च । वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे
namo hiraṇyagarbhāya haraye śaṃkarāya ca / vāsudevāya tārāya sargasthityantakāriṇe
- ViP 1.2.3Open verse →
एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । अव्यक्तव्यक्तरूपाय विष्णवे मुक्तिहेतवे
ekānekasvarūpāya sthūlasūkṣmātmane namaḥ / avyaktavyaktarūpāya viṣṇave muktihetave
- ViP 1.2.4Open verse →
सर्गस्थितिविनाशानां जगतो यो जगन्मयः । मूलभूतो नमस् तस्मै विष्णवे परमात्मने
sargasthitivināśānāṃ jagato yo jaganmayaḥ / mūlabhūto namas tasmai viṣṇave paramātmane
- ViP 1.2.5Open verse →
आधारभूतं विश्वस्याप्य् अणीयांसम् अणीयसाम् । प्रणम्य सर्वभूतस्थम् अच्युतं पुरुषोत्तमम्
ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām / praṇamya sarvabhūtastham acyutaṃ puruṣottamam
- ViP 1.2.6Open verse →
ज्ञानस्वरूपम् अत्यन्तनिर्मलं परमार्थतः । तम् एवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम्
jñānasvarūpam atyantanirmalaṃ paramārthataḥ / tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam
- ViP 1.2.7Open verse →
विष्णुं ग्रसिष्णुं विश्वस्य स्थितिसर्गे तथा प्रभुम् । प्रणम्य जगताम् ईशम् अजम् अक्षयम् अव्ययम्
viṣṇuṃ grasiṣṇuṃ viśvasya sthitisarge tathā prabhum / praṇamya jagatām īśam ajam akṣayam avyayam
- ViP 1.2.8Open verse →
कथयामि यथापूर्वं दक्षाद्यैर् मुनिसत्तमैः । पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः
kathayāmi yathāpūrvaṃ dakṣādyair munisattamaiḥ / pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ
- ViP 1.2.9Open verse →
तैश् चोक्तं पुरुकुत्साय भूभुजे नर्मदातटे । सारस्वताय तेनापि मम सारस्वतेन च
taiś coktaṃ purukutsāya bhūbhuje narmadātaṭe / sārasvatāya tenāpi mama sārasvatena ca
- ViP 1.2.10Open verse →
परः पराणां परमः परमात्मात्मसंस्थितः । रूपवर्णादिनिर्देशविशेषणविवर्जितः
paraḥ parāṇāṃ paramaḥ paramātmātmasaṃsthitaḥ / rūpavarṇādinirdeśaviśeṣaṇavivarjitaḥ
- ViP 1.2.11Open verse →
अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः । वर्जितः शक्यते वक्तुं यः सदास्तीति केवलम्
apakṣayavināśābhyāṃ pariṇāmarddhijanmabhiḥ / varjitaḥ śakyate vaktuṃ yaḥ sadāstīti kevalam
- ViP 1.2.12Open verse →
सर्वत्रासौ समस्तं च वसत्य् अत्रेति वै यतः । ततः स वासुदेवेति विद्वद्भिः परिपठ्यते
sarvatrāsau samastaṃ ca vasaty atreti vai yataḥ / tataḥ sa vāsudeveti vidvadbhiḥ paripaṭhyate
- ViP 1.2.13Open verse →
तद् ब्रह्म परमं नित्यम् अजम् अक्षयम् अव्ययम् । एकस्वरूपं च सदा हेयाभावाच् च निर्मलम्
tad brahma paramaṃ nityam ajam akṣayam avyayam / ekasvarūpaṃ ca sadā heyābhāvāc ca nirmalam
- ViP 1.2.14Open verse →
तद् एव सर्वम् एवैतद् व्यक्ताव्यक्तस्वरूपवत् । तथा पुरुषरूपेण कालरूपेण च स्थितम्
tad eva sarvam evaitad vyaktāvyaktasvarūpavat / tathā puruṣarūpeṇa kālarūpeṇa ca sthitam
- ViP 1.2.15Open verse →
परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज । व्यक्ताव्यक्ते तथैवान्ये रूपे कालस् तथापरम्
parasya brahmaṇo rūpaṃ puruṣaḥ prathamaṃ dvija / vyaktāvyakte tathaivānye rūpe kālas tathāparam
- ViP 1.2.16Open verse →
प्रधानपुरुषव्यक्तकालानां परमं हि यत् । पश्यन्ति सूरयः शुद्धं तद् विष्णोः परमं पदम्
pradhānapuruṣavyaktakālānāṃ paramaṃ hi yat / paśyanti sūrayaḥ śuddhaṃ tad viṣṇoḥ paramaṃ padam
- ViP 1.2.17Open verse →
प्रधानपुरुषव्यक्तकालास् तु प्रविभागशः । रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतवः
pradhānapuruṣavyaktakālās tu pravibhāgaśaḥ / rūpāṇi sthitisargāntavyaktisadbhāvahetavaḥ
- ViP 1.2.18Open verse →
व्यक्तं विष्णुस् तथाव्यक्तं पुरुषः काल एव च । क्रीडतो बालकस्येव चेष्टां तस्य निशामय
vyaktaṃ viṣṇus tathāvyaktaṃ puruṣaḥ kāla eva ca / krīḍato bālakasyeva ceṣṭāṃ tasya niśāmaya
- ViP 1.2.19Open verse →
अव्यक्तं कारणं यत् तत् प्रधानम् ऋषिसत्तमैः । प्रोच्यते प्रकृतिः सूक्ष्मा नित्या सदसदात्मिका
avyaktaṃ kāraṇaṃ yat tat pradhānam ṛṣisattamaiḥ / procyate prakṛtiḥ sūkṣmā nityā sadasadātmikā
- ViP 1.2.20Open verse →
अक्षयं नान्यदाधारम् अमेयम् अजरं ध्रुवम् । शब्दस्पर्शविहीनं तद् रूपादिभिर् असंहतम्
akṣayaṃ nānyadādhāram ameyam ajaraṃ dhruvam / śabdasparśavihīnaṃ tad rūpādibhir asaṃhatam
- ViP 1.2.21Open verse →
त्रिगुणं तज् जगद्योनिर् अनादिप्रभवाव्ययम् । तेनाग्रे सर्वम् एवासीद् व्याप्तं वै प्रलयाद् अनु
triguṇaṃ taj jagadyonir anādiprabhavāvyayam / tenāgre sarvam evāsīd vyāptaṃ vai pralayād anu
- ViP 1.2.22Open verse →
वेदवादविदो विद्वन् नियता ब्रह्मवादिनः । पठन्ति चैतम् एवार्थं प्रधानप्रतिपादकम्
vedavādavido vidvan niyatā brahmavādinaḥ / paṭhanti caitam evārthaṃ pradhānapratipādakam
- ViP 1.2.23Open verse →
नाहो न रात्रिर् न नभो न भूमिर् नासीत् तमो ज्योतिर् अभून् न चान्यत् । श्रोत्रादिबुद्ध्यानुपलभ्यम् एकं प्राधानिकं ब्रह्म पुमांस् तदासीत्
nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat / śrotrādibuddhyānupalabhyam ekaṃ prādhānikaṃ brahma pumāṃs tadāsīt
- ViP 1.2.24Open verse →
विष्णोः स्वरूपात् परतो हि ते ऽन्ये रूपे प्रधानं पुरुषश् च विप्र । तस्यैव ते ऽन्येन धृते वियुक्ते रूपान्तरं तद् द्विज कालसंज्ञम्
viṣṇoḥ svarūpāt parato hi te 'nye rūpe pradhānaṃ puruṣaś ca vipra / tasyaiva te 'nyena dhṛte viyukte rūpāntaraṃ tad dvija kālasaṃjñam
- ViP 1.2.25Open verse →
प्रकृतौ च स्थितं व्यक्तम् अतीतप्रलये तु यत् । तस्मात् प्राकृतसंज्ञो ऽयम् उच्यते प्रतिसंचरः
prakṛtau ca sthitaṃ vyaktam atītapralaye tu yat / tasmāt prākṛtasaṃjño 'yam ucyate pratisaṃcaraḥ
- ViP 1.2.26Open verse →
अनादिर् भगवान् कालो नान्तो ऽस्य द्विज विद्यते । अव्युच्छिन्नास् ततस् त्व् एते सर्गस्थित्यन्तसंयमाः
anādir bhagavān kālo nānto 'sya dvija vidyate / avyucchinnās tatas tv ete sargasthityantasaṃyamāḥ
- ViP 1.2.27Open verse →
गुणसाम्ये ततस् तस्मिन् पृथक् पुंसि व्यवस्थिते । कालस्वरूपं तद् विष्णोर् मैत्रेय परिवर्तते
guṇasāmye tatas tasmin pṛthak puṃsi vyavasthite / kālasvarūpaṃ tad viṣṇor maitreya parivartate
- ViP 1.2.28Open verse →
श्२,ञ्१,व्१,ब्,द्२,४-८,ग्२,म्२ सुब्स्त्।: ततस् तत् परमं ब्रह्म परमात्मा जगन्मयः । सर्वगः सर्वभूतेशः सर्वात्मा परमेश्वरः
Ś2,Ñ1,V1,B,D2,4-8,G2,M2 subst.: tatas tat paramaṃ brahma paramātmā jaganmayaḥ / sarvagaḥ sarvabhūteśaḥ sarvātmā parameśvaraḥ
- ViP 1.2.29Open verse →
प्रधानं पुरुषं चापि प्रविश्यात्मेच्छया हरिः । क्षोभयाम् आस संप्राप्ते सर्गकाले व्ययाव्ययौ
pradhānaṃ puruṣaṃ cāpi praviśyātmecchayā hariḥ / kṣobhayām āsa saṃprāpte sargakāle vyayāvyayau
- ViP 1.2.30Open verse →
यथा संनिधिमात्रेण गन्धः क्षोभाय जायते । मनसो नोपकर्तृत्वात् तथासौ परमेश्वरः
yathā saṃnidhimātreṇa gandhaḥ kṣobhāya jāyate / manaso nopakartṛtvāt tathāsau parameśvaraḥ
- ViP 1.2.31Open verse →
स एव क्षोभको ब्रह्मन् क्षोभ्यश् च पुरुषोत्तमः । स संकोचविकासाभ्यां प्रधानत्वे ऽपि च स्थितः
sa eva kṣobhako brahman kṣobhyaś ca puruṣottamaḥ / sa saṃkocavikāsābhyāṃ pradhānatve 'pi ca sthitaḥ
- ViP 1.2.32Open verse →
विकासाणुस्वरूपैश् च ब्रह्मरूपादिभिस् तथा । व्यक्तस्वरूपश् च तथा विष्णुः सर्वेश्वरेश्वरः
vikāsāṇusvarūpaiś ca brahmarūpādibhis tathā / vyaktasvarūpaś ca tathā viṣṇuḥ sarveśvareśvaraḥ
- ViP 1.2.33Open verse →
गुणसाम्यात् ततस् तस्मात् क्षेत्रज्ञाधिष्ठितान् मुने । गुणव्यञ्जनसंभूतिः सर्गकाले द्विजोत्तम
guṇasāmyāt tatas tasmāt kṣetrajñādhiṣṭhitān mune / guṇavyañjanasaṃbhūtiḥ sargakāle dvijottama
- ViP 1.2.34Open verse →
प्रधानतत्त्वम् उद्भूतं महान्तं तत् समावृणोत् । सात्त्विको राजसश् चैव तामसश् च त्रिधा महान् । प्रधानतत्त्वेन समं त्वचा बीजम् इवावृतम्
pradhānatattvam udbhūtaṃ mahāntaṃ tat samāvṛṇot / sāttviko rājasaś caiva tāmasaś ca tridhā mahān / pradhānatattvena samaṃ tvacā bījam ivāvṛtam
- ViP 1.2.35Open verse →
वैकारिकस् तैजसश् च भूतादिश् चैव तामसः । त्रिविधो ऽयम् अहंकारो महत्तत्त्वाद् अजायत
vaikārikas taijasaś ca bhūtādiś caiva tāmasaḥ / trividho 'yam ahaṃkāro mahattattvād ajāyata
- ViP 1.2.36Open verse →
भूतेन्द्रियाणां हेतुः स त्रिगुणत्वान् महामुने । यथा प्रधानेन महान् महता स तथावृतः
bhūtendriyāṇāṃ hetuḥ sa triguṇatvān mahāmune / yathā pradhānena mahān mahatā sa tathāvṛtaḥ
- ViP 1.2.37Open verse →
भूतादिस् तु विकुर्वाणः शब्दतन्मात्रकं ततः । ससर्ज शब्दतन्मात्राद् आकाशं शब्दलक्षणम्
bhūtādis tu vikurvāṇaḥ śabdatanmātrakaṃ tataḥ / sasarja śabdatanmātrād ākāśaṃ śabdalakṣaṇam
- ViP 1.2.38Open verse →
शब्दमात्रं तथाकाशं भूतादिः स समावृणोत् । आकाशस् तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह
śabdamātraṃ tathākāśaṃ bhūtādiḥ sa samāvṛṇot / ākāśas tu vikurvāṇaḥ sparśamātraṃ sasarja ha
- ViP 1.2.39Open verse →
बलवान् अभवद् वायुस् तस्य स्पर्शो गुणो मतः । आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत्
balavān abhavad vāyus tasya sparśo guṇo mataḥ / ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot
- ViP 1.2.40Open verse →
ततो वायुर् विकुर्वाणो रूपमात्रं ससर्ज ह । ज्योतिर् उत्पद्यते वायोस् तद् रूपगुणम् उच्यते
tato vāyur vikurvāṇo rūpamātraṃ sasarja ha / jyotir utpadyate vāyos tad rūpaguṇam ucyate
- ViP 1.2.41Open verse →
स्पर्शमात्रस् ततो वायू रूपमात्रं समावृणोत् । ज्योतिश् चापि विकुर्वाणं रसमात्रं ससर्ज ह
sparśamātras tato vāyū rūpamātraṃ samāvṛṇot / jyotiś cāpi vikurvāṇaṃ rasamātraṃ sasarja ha
- ViP 1.2.42Open verse →
संभवन्ति ततो ऽम्भांसि रसाधाराणि तानि च । रसमात्राणि चाम्भांसि रूपमात्रं समावृणोत्
saṃbhavanti tato 'mbhāṃsi rasādhārāṇi tāni ca / rasamātrāṇi cāmbhāṃsi rūpamātraṃ samāvṛṇot
- ViP 1.2.43Open verse →
विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे । संघातो जायते तस्मात् तस्य गन्धो गुणो मतः
vikurvāṇāni cāmbhāṃsi gandhamātraṃ sasarjire / saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ
- ViP 1.2.44Open verse →
तस्मिंस् तस्मिंस् तु तन्मात्रा तेन तन्मात्रता स्मृता । तन्मात्राण्य् अविशेषाणि अविशेषास् ततो हि ते
tasmiṃs tasmiṃs tu tanmātrā tena tanmātratā smṛtā / tanmātrāṇy aviśeṣāṇi aviśeṣās tato hi te
- ViP 1.2.45Open verse →
न शान्ता नापि घोरास् ते न मूढाश् चाविशेषिणः । भूततन्मात्रसर्गो ऽयम् अहंकारात् तु तामसात्
na śāntā nāpi ghorās te na mūḍhāś cāviśeṣiṇaḥ / bhūtatanmātrasargo 'yam ahaṃkārāt tu tāmasāt
- ViP 1.2.46Open verse →
तैजसानीन्द्रियाण्य् आहुर् देवा वैकारिका दश । एकादशं मनश् चात्र देवा वैकारिकाः स्मृताः
taijasānīndriyāṇy āhur devā vaikārikā daśa / ekādaśaṃ manaś cātra devā vaikārikāḥ smṛtāḥ
- ViP 1.2.47Open verse →
त्वक् चक्षुर् नासिका जिह्वा श्रोत्रम् अत्र च पञ्चमम् । शब्दादीनाम् अवाप्त्यर्थं बुद्धियुक्तानि वै द्विज
tvak cakṣur nāsikā jihvā śrotram atra ca pañcamam / śabdādīnām avāptyarthaṃ buddhiyuktāni vai dvija
- ViP 1.2.48Open verse →
पायूपस्थौ करौ पादौ वाक् च मैत्रेय पञ्चमी । विसर्गशिल्पगत्युक्ति कर्म तेषां च कथ्यते
pāyūpasthau karau pādau vāk ca maitreya pañcamī / visargaśilpagatyukti karma teṣāṃ ca kathyate
- ViP 1.2.49Open verse →
आकाशवायुतेजांसि सलिलं पृथिवी तथा । शब्दादिभिर् गुणैर् ब्रह्मन् संयुक्तान्य् उत्तरोत्तरैः
ākāśavāyutejāṃsi salilaṃ pṛthivī tathā / śabdādibhir guṇair brahman saṃyuktāny uttarottaraiḥ
- ViP 1.2.50Open verse →
शान्ता घोराश् च मूढाश् च विशेषास् तेन ते स्मृताः
śāntā ghorāś ca mūḍhāś ca viśeṣās tena te smṛtāḥ
- ViP 1.2.51Open verse →
नानावीर्याः पृथग्भूतास् ततस् ते संहतिं विना । नाशक्नुवन् प्रजाः स्रष्टुम् असमागम्य कृत्स्नशः
nānāvīryāḥ pṛthagbhūtās tatas te saṃhatiṃ vinā / nāśaknuvan prajāḥ sraṣṭum asamāgamya kṛtsnaśaḥ
- ViP 1.2.52Open verse →
समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । एकसंघातलक्ष्याश् च संप्राप्यैक्यम् अशेषतः
sametyānyonyasaṃyogaṃ parasparasamāśrayāḥ / ekasaṃghātalakṣyāś ca saṃprāpyaikyam aśeṣataḥ
- ViP 1.2.53Open verse →
पुरुषाधिष्ठितत्वाच् च अव्यक्तानुग्रहेण च । महदाद्या विशेषान्ता ह्य् अण्डम् उत्पादयन्ति ते
puruṣādhiṣṭhitatvāc ca avyaktānugraheṇa ca / mahadādyā viśeṣāntā hy aṇḍam utpādayanti te
- ViP 1.2.54Open verse →
तत् क्रमेण विवृद्धं तु जलबुद्बुदवत् समम् । भूतेभ्यो ऽण्डं महाबुद्धे बृहत् तद् उदकेशयम् । प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानम् अनुत्तमम्
tat krameṇa vivṛddhaṃ tu jalabudbudavat samam / bhūtebhyo 'ṇḍaṃ mahābuddhe bṛhat tad udakeśayam / prākṛtaṃ brahmarūpasya viṣṇoḥ sthānam anuttamam
- ViP 1.2.55Open verse →
तत्राव्यक्तस्वरूपो ऽसौ व्यक्तरूपी जगत्पतिः । विष्णुर् ब्रह्मस्वरूपेण स्वयम् एव व्यवस्थितः
tatrāvyaktasvarūpo 'sau vyaktarūpī jagatpatiḥ / viṣṇur brahmasvarūpeṇa svayam eva vyavasthitaḥ
- ViP 1.2.56Open verse →
मेरुर् उल्बम् अभूत् तस्य जरायुश् च महीधराः । गर्भोदकं समुद्राश् च तस्यासन् सुमहात्मनः
merur ulbam abhūt tasya jarāyuś ca mahīdharāḥ / garbhodakaṃ samudrāś ca tasyāsan sumahātmanaḥ
- ViP 1.2.57Open verse →
साद्रिद्वीपसमुद्राश् च सज्योतिर् लोकसंग्रहः । तस्मिन्न् अण्डे ऽभवद् विप्र सदेवासुरमानुषः
sādridvīpasamudrāś ca sajyotir lokasaṃgrahaḥ / tasminn aṇḍe 'bhavad vipra sadevāsuramānuṣaḥ
- ViP 1.2.58Open verse →
वारिवह्न्यनिलाकाशैस् ततो भूतादिना बहिः । वृतं दशगुणैर् अण्डं भूतादिर् महता तथा
vārivahnyanilākāśais tato bhūtādinā bahiḥ / vṛtaṃ daśaguṇair aṇḍaṃ bhūtādir mahatā tathā
- ViP 1.2.59Open verse →
अव्यक्तेनावृतो ब्रह्मंस् तैः सर्वैः सहितो महान् । एभिर् आवरणैर् अण्डं सप्तभिः प्राकृतैर् वृतम् । नालिकेरफलस्यान्तर् बीजं बाह्यदलैर् इव
avyaktenāvṛto brahmaṃs taiḥ sarvaiḥ sahito mahān / ebhir āvaraṇair aṇḍaṃ saptabhiḥ prākṛtair vṛtam / nālikeraphalasyāntar bījaṃ bāhyadalair iva
- ViP 1.2.60Open verse →
जुषन् रजोगुणं तत्र स्वयं विश्वेश्वरो हरिः । ब्रह्मा भूत्वास्य जगतो विसृष्टौ संप्रवर्तते
juṣan rajoguṇaṃ tatra svayaṃ viśveśvaro hariḥ / brahmā bhūtvāsya jagato visṛṣṭau saṃpravartate
- ViP 1.2.61Open verse →
सृष्टं च पात्य् अनुयुगं यावत् कल्पविकल्पना । सत्त्वभृद् भगवान् विष्णुर् अप्रमेयपराक्रमः
sṛṣṭaṃ ca pāty anuyugaṃ yāvat kalpavikalpanā / sattvabhṛd bhagavān viṣṇur aprameyaparākramaḥ
- ViP 1.2.62Open verse →
तमोउद्रेकी च कल्पान्ते रुद्ररूपी जनार्दनः । मैत्रेयाखिलभूतानि भक्षयत्य् अतिभीषणः
tamoudrekī ca kalpānte rudrarūpī janārdanaḥ / maitreyākhilabhūtāni bhakṣayaty atibhīṣaṇaḥ
- ViP 1.2.63Open verse →
संभक्षयित्वा भूतानि जगत्य् एकार्णवीकृते । नागपर्यङ्कशयने शेते ऽसौ परमेश्वरः
saṃbhakṣayitvā bhūtāni jagaty ekārṇavīkṛte / nāgaparyaṅkaśayane śete 'sau parameśvaraḥ
- ViP 1.2.64Open verse →
प्रबुद्धश् च पुनः सृष्टिं करोति ब्रह्मरूपधृक्
prabuddhaś ca punaḥ sṛṣṭiṃ karoti brahmarūpadhṛk
- ViP 1.2.65Open verse →
सृष्टिस्थित्यन्तकरणाद् ब्रह्मविष्णुशिवात्मिकाम् । स संज्ञां याति भगवान् एक एव जनार्दनः
sṛṣṭisthityantakaraṇād brahmaviṣṇuśivātmikām / sa saṃjñāṃ yāti bhagavān eka eva janārdanaḥ
- ViP 1.2.66Open verse →
स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च । उपसंहरते चान्ते संहर्ता च स्वयं प्रभुः
sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca / upasaṃharate cānte saṃhartā ca svayaṃ prabhuḥ
- ViP 1.2.67Open verse →
पृथिव्य् आपस् तथा तेजो वायुर् आकाशम् एव च । सर्वेन्द्रियान्तःकरणं पुरुषाख्यं हि यज् जगत्
pṛthivy āpas tathā tejo vāyur ākāśam eva ca / sarvendriyāntaḥkaraṇaṃ puruṣākhyaṃ hi yaj jagat
- ViP 1.2.68Open verse →
स एव सर्वभूतेशो विश्वरूपो यतो ऽव्ययः । सर्गादिकं ततो ऽस्यैव भूतस्थम् उपकारकम्
sa eva sarvabhūteśo viśvarūpo yato 'vyayaḥ / sargādikaṃ tato 'syaiva bhūtastham upakārakam
- ViP 1.2.69Open verse →
स एव सृज्यः स च सर्गकर्ता स एव पात्य् अत्ति च पाल्यते च । ब्रह्माद्यवस्थाभिर् अशेषमूर्तिर् विष्णुर् वरिष्ठो वरदो वरेण्यः
sa eva sṛjyaḥ sa ca sargakartā sa eva pāty atti ca pālyate ca / brahmādyavasthābhir aśeṣamūrtir viṣṇur variṣṭho varado vareṇyaḥ
- ViP 1.3.1Open verse →
______________________________________________________ §मैत्रेय उवाच: निर्गुणस्याप्रमेयस्य शुद्धस्याप्य् अमलात्मनः । कथं सर्गादिकर्तृत्वं ब्रह्मणो ऽभ्युपगम्यते
______________________________________________________ §maitreya uvāca: nirguṇasyāprameyasya śuddhasyāpy amalātmanaḥ / kathaṃ sargādikartṛtvaṃ brahmaṇo 'bhyupagamyate
- ViP 1.3.2Open verse →
§पराशर उवाच: शक्तयः सर्वभावानाम् अचिन्त्यज्ञानगोचराः । यतो ऽतो ब्रह्मणस् तास् तु सर्गाद्या भावशक्तयः । भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता
§parāśara uvāca: śaktayaḥ sarvabhāvānām acintyajñānagocarāḥ / yato 'to brahmaṇas tās tu sargādyā bhāvaśaktayaḥ / bhavanti tapatāṃ śreṣṭha pāvakasya yathoṣṇatā
- ViP 1.3.3Open verse →
तन् निबोध यथा सर्गे भगवान् संप्रवर्तते । नारायणाख्यो भगवान् ब्रह्मा लोकपितामहः
tan nibodha yathā sarge bhagavān saṃpravartate / nārāyaṇākhyo bhagavān brahmā lokapitāmahaḥ
- ViP 1.3.4Open verse →
उत्पन्नः प्रोच्यते विद्वन् नित्य एवोपचारतः
utpannaḥ procyate vidvan nitya evopacārataḥ
- ViP 1.3.5Open verse →
निजेन तस्य मानेन आयुर् वर्षशतं स्मृतम् । तत् पराख्यं तदर्धं च परार्धम् अभिधीयते
nijena tasya mānena āyur varṣaśataṃ smṛtam / tat parākhyaṃ tadardhaṃ ca parārdham abhidhīyate
- ViP 1.3.6Open verse →
कालस्वरूपं विष्णोश् च यन् मयोक्तं तवानघ । तेन तस्य निबोध त्वं परिमाणोपपादनम्
kālasvarūpaṃ viṣṇoś ca yan mayoktaṃ tavānagha / tena tasya nibodha tvaṃ parimāṇopapādanam
- ViP 1.3.7Open verse →
अन्येषां चैव जन्तूनां चराणाम् अचराश् च ये । भूभूभृत्सागरादीनाम् अशेषाणां च सत्तम
anyeṣāṃ caiva jantūnāṃ carāṇām acarāś ca ye / bhūbhūbhṛtsāgarādīnām aśeṣāṇāṃ ca sattama
- ViP 1.3.8Open verse →
काष्ठा पञ्चदशाख्याता निमेषा मुनिसत्तम । काष्ठात्रिंशत् कला त्रिंशत् कला मौहूर्तिको विधिः
kāṣṭhā pañcadaśākhyātā nimeṣā munisattama / kāṣṭhātriṃśat kalā triṃśat kalā mauhūrtiko vidhiḥ
- ViP 1.3.9Open verse →
तावत्संख्यैर् अहोरात्रं मुहूर्तैर् मानुषं स्मृतम् । अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः
tāvatsaṃkhyair ahorātraṃ muhūrtair mānuṣaṃ smṛtam / ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ
- ViP 1.3.10Open verse →
तैः षड्भिर् अयनं वर्षं द्वे ऽयने दक्षिणोत्तरे । अयनं दक्षिणं रात्रिर् देवानाम् उत्तरं दिनम्
taiḥ ṣaḍbhir ayanaṃ varṣaṃ dve 'yane dakṣiṇottare / ayanaṃ dakṣiṇaṃ rātrir devānām uttaraṃ dinam
- ViP 1.3.11Open verse →
दिव्यैर् वर्षसहस्रैस् तु कृतत्रेतादिसंज्ञितम् । चतुर्युगं द्वादशभिस् तद्विभागं निबोध मे
divyair varṣasahasrais tu kṛtatretādisaṃjñitam / caturyugaṃ dvādaśabhis tadvibhāgaṃ nibodha me
- ViP 1.3.12Open verse →
चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् । दिव्याब्दानां सहस्राणि युगेष्व् आहुः पुराविदः
catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam / divyābdānāṃ sahasrāṇi yugeṣv āhuḥ purāvidaḥ
- ViP 1.3.13Open verse →
तत्प्रमाणैः शतैः संध्या पूर्वा तत्राभिधीयते । संध्यांशकश् च तत्तुल्यो युगस्यानन्तरो हि सः
tatpramāṇaiḥ śataiḥ saṃdhyā pūrvā tatrābhidhīyate / saṃdhyāṃśakaś ca tattulyo yugasyānantaro hi saḥ
- ViP 1.3.14Open verse →
संध्यासंध्यांशयोर् अन्तर् यः कालो मुनिसत्तम । युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञितः
saṃdhyāsaṃdhyāṃśayor antar yaḥ kālo munisattama / yugākhyaḥ sa tu vijñeyaḥ kṛtatretādisaṃjñitaḥ
- ViP 1.3.15Open verse →
कृतं त्रेता द्वापरश् च कलिश् चैव चतुर्युगम् । प्रोच्यते तत्सहस्रं च ब्रह्मणो दिवसं मुने
kṛtaṃ tretā dvāparaś ca kaliś caiva caturyugam / procyate tatsahasraṃ ca brahmaṇo divasaṃ mune
- ViP 1.3.16Open verse →
ब्रह्मणो दिवसे ब्रह्मन् मनवस् तु चतुर्दश । भवन्ति परिमाणं च तेषां कालकृतं शृणु
brahmaṇo divase brahman manavas tu caturdaśa / bhavanti parimāṇaṃ ca teṣāṃ kālakṛtaṃ śṛṇu
- ViP 1.3.17Open verse →
सप्तर्षयः सुराः शक्रो मनुस् तत्सूनवो नृपाः । एककाले हि सृज्यन्ते संह्रियन्ते च पूर्ववत्
saptarṣayaḥ surāḥ śakro manus tatsūnavo nṛpāḥ / ekakāle hi sṛjyante saṃhriyante ca pūrvavat
- ViP 1.3.18Open verse →
चतुर्युगाणां संख्याता साधिका ह्य् एकसप्ततिः । मन्वन्तरं मनोः कालः सुरादीनां च सत्तम
caturyugāṇāṃ saṃkhyātā sādhikā hy ekasaptatiḥ / manvantaraṃ manoḥ kālaḥ surādīnāṃ ca sattama
- ViP 1.3.19Open verse →
अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतम् । द्वापञ्चाशत् तथान्यानि सहस्राण्य् अधिकानि तु
aṣṭau śatasahasrāṇi divyayā saṃkhyayā smṛtam / dvāpañcāśat tathānyāni sahasrāṇy adhikāni tu
- ViP 1.3.20Open verse →
त्रिंशत्कोट्यस् तु संपूर्णाः संख्याताः संख्यया द्विज । सप्तषष्टिस् तथान्यानि नियुतानि महामुने
triṃśatkoṭyas tu saṃpūrṇāḥ saṃkhyātāḥ saṃkhyayā dvija / saptaṣaṣṭis tathānyāni niyutāni mahāmune
- ViP 1.3.21Open verse →
द्७ इन्स्।: विंशतिश् च सहस्राणि कालो ऽयम् अधिकं विना । मन्वन्तरस्य संख्येयं मानुषैर् वत्सरैर् द्विज
D7 ins.: viṃśatiś ca sahasrāṇi kālo 'yam adhikaṃ vinā / manvantarasya saṃkhyeyaṃ mānuṣair vatsarair dvija
- ViP 1.3.22Open verse →
चतुर्दशगुणो ह्य् एष कालो ब्राह्मम् अहः स्मृतम् । ब्राह्मो नैमित्तिको नाम तस्यान्ते प्रतिसंचरः
caturdaśaguṇo hy eṣa kālo brāhmam ahaḥ smṛtam / brāhmo naimittiko nāma tasyānte pratisaṃcaraḥ
- ViP 1.3.23Open verse →
तदा हि दह्यते सर्वं त्रैलोक्यं भूर्भुवादिकम् । जनं प्रयान्ति तापार्ता महर्लोकनिवासिनः
tadā hi dahyate sarvaṃ trailokyaṃ bhūrbhuvādikam / janaṃ prayānti tāpārtā maharlokanivāsinaḥ
- ViP 1.3.24Open verse →
एकार्णवे तु त्रैलोक्ये ब्रह्मा नारायणात्मकः । भोगिशय्यागतः शेते त्रैलोक्यग्रासबृंहितः
ekārṇave tu trailokye brahmā nārāyaṇātmakaḥ / bhogiśayyāgataḥ śete trailokyagrāsabṛṃhitaḥ
- ViP 1.3.25Open verse →
जनस्थैर् योगिभिर् देवश् चिन्त्यमानो ऽब्जसंभवः । तत्प्रमाणां हि तां रात्रिं तदन्ते सृजते पुनः
janasthair yogibhir devaś cintyamāno 'bjasaṃbhavaḥ / tatpramāṇāṃ hi tāṃ rātriṃ tadante sṛjate punaḥ
- ViP 1.3.26Open verse →
एवं तु ब्रह्मणो वर्षम् एवं वर्षशतं च यत् । शतं हि तस्य वर्षाणां परमायुर् महात्मनः
evaṃ tu brahmaṇo varṣam evaṃ varṣaśataṃ ca yat / śataṃ hi tasya varṣāṇāṃ paramāyur mahātmanaḥ
- ViP 1.3.27Open verse →
एकम् अस्य व्यतीतं तु परार्धं ब्रह्मणो ऽनघ । तस्यान्ते ऽभून् महाकल्पः पाद्म इत्य् अभिविश्रुतः
ekam asya vyatītaṃ tu parārdhaṃ brahmaṇo 'nagha / tasyānte 'bhūn mahākalpaḥ pādma ity abhiviśrutaḥ
- ViP 1.3.28Open verse →
द्वितीयस्य परार्धस्य वर्तमानस्य वै द्विज । वाराह इति कल्पो ऽयं प्रथमः परिकीर्तितः
dvitīyasya parārdhasya vartamānasya vai dvija / vārāha iti kalpo 'yaṃ prathamaḥ parikīrtitaḥ
- ViP 1.4.1Open verse →
______________________________________________________ §मैत्रेय उवाच: ब्रह्मा नारायणाख्यो ऽसौ कल्पादौ भगवान् यथा । ससर्ज सर्वभूतानि तद् आचक्ष्व महामुने
______________________________________________________ §maitreya uvāca: brahmā nārāyaṇākhyo 'sau kalpādau bhagavān yathā / sasarja sarvabhūtāni tad ācakṣva mahāmune
- ViP 1.4.2Open verse →
§पराशर उवाच: प्रजाः ससर्ज भगवान् ब्रह्मा नारायणात्मकः । प्रजापतिपतिर् देवो यथा तन् मे निशामय
§parāśara uvāca: prajāḥ sasarja bhagavān brahmā nārāyaṇātmakaḥ / prajāpatipatir devo yathā tan me niśāmaya
- ViP 1.4.3Open verse →
अतीतकल्पावसाने निशासुप्तोत्थितः प्रभुः । सत्त्वोद्रिक्तस् तथा ब्रह्मा शून्यं लोकम् अवैक्षत
atītakalpāvasāne niśāsuptotthitaḥ prabhuḥ / sattvodriktas tathā brahmā śūnyaṃ lokam avaikṣata
- ViP 1.4.4Open verse →
नारायणः परो ऽचिन्त्यः परेषाम् अपि स प्रभुः । ब्रह्मस्वरूपी भगवान् अनादिः सर्वसंभवः
nārāyaṇaḥ paro 'cintyaḥ pareṣām api sa prabhuḥ / brahmasvarūpī bhagavān anādiḥ sarvasaṃbhavaḥ
- ViP 1.4.5Open verse →
इमं चोदाहरन्त्य् अत्र श्लोकं नारायणं प्रति । ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम्
imaṃ codāharanty atra ślokaṃ nārāyaṇaṃ prati / brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam
- ViP 1.4.6Open verse →
आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः
āpo nārā iti proktā āpo vai narasūnavaḥ / ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ
- ViP 1.4.7Open verse →
तोयान्तः स महीं ज्ञात्वा जगत्य् एकार्णवे प्रभुः । अनुमानात् तदुद्धारं कर्तुकामः प्रजापतिः
toyāntaḥ sa mahīṃ jñātvā jagaty ekārṇave prabhuḥ / anumānāt taduddhāraṃ kartukāmaḥ prajāpatiḥ
- ViP 1.4.8Open verse →
अकरोत् स तनूम् अन्यां कल्पादिषु यथा पुरा । मत्स्यकूर्मादिकां तद्वद् वाराहं वपुर् आस्थितः
akarot sa tanūm anyāṃ kalpādiṣu yathā purā / matsyakūrmādikāṃ tadvad vārāhaṃ vapur āsthitaḥ
- ViP 1.4.9Open verse →
वेदयज्ञमयं रूपम् अशेषजगतः स्थितौ । स्थितः स्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः
vedayajñamayaṃ rūpam aśeṣajagataḥ sthitau / sthitaḥ sthirātmā sarvātmā paramātmā prajāpatiḥ
- ViP 1.4.10Open verse →
जनलोकगतैः सिद्धैः सनकाद्यैर् अभिष्टुतः । प्रविवेश तदा तोयम् आत्माधारो धराधरः
janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ / praviveśa tadā toyam ātmādhāro dharādharaḥ
- ViP 1.4.11Open verse →
निरीक्ष्य तं तदा देवी पातालतलम् आगतम् । तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुंधरा
nirīkṣya taṃ tadā devī pātālatalam āgatam / tuṣṭāva praṇatā bhūtvā bhaktinamrā vasuṃdharā
- ViP 1.4.12Open verse →
§पृथिव्य् उवाच: नमस् ते सर्वभूताय तुभ्यं शङ्खगदाधर । माम् उद्धरास्माद् अद्य त्वं त्वत्तो ऽहं पूर्वम् उत्थिता
§pṛthivy uvāca: namas te sarvabhūtāya tubhyaṃ śaṅkhagadādhara / mām uddharāsmād adya tvaṃ tvatto 'haṃ pūrvam utthitā
- ViP 1.4.13Open verse →
त्वयाहम् उद्धृता पूर्वं त्वन्मयाहं जनार्दन । तथान्यानि च भूतानि गगनादीन्य् अशेषतः
tvayāham uddhṛtā pūrvaṃ tvanmayāhaṃ janārdana / tathānyāni ca bhūtāni gaganādīny aśeṣataḥ
- ViP 1.4.14Open verse →
नमस् ते परमात्मात्मन् पुरुषात्मन् नमो ऽस्तु ते । प्रधानव्यक्तभूताय कालभूताय ते नमः
namas te paramātmātman puruṣātman namo 'stu te / pradhānavyaktabhūtāya kālabhūtāya te namaḥ
- ViP 1.4.15Open verse →
त्वं कर्ता सर्वभूतानां त्वं पाता त्वं विनाशकृत् । सर्गादिषु प्रभो ब्रह्मविष्णुरुद्रात्मरूपधृक्
tvaṃ kartā sarvabhūtānāṃ tvaṃ pātā tvaṃ vināśakṛt / sargādiṣu prabho brahmaviṣṇurudrātmarūpadhṛk
- ViP 1.4.16Open verse →
संभक्षयित्वा सकलं जगत्य् एकार्णवीकृते । शेषे त्वम् एव गोविन्द चिन्त्यमानो मनीषिभिः
saṃbhakṣayitvā sakalaṃ jagaty ekārṇavīkṛte / śeṣe tvam eva govinda cintyamāno manīṣibhiḥ
- ViP 1.4.17Open verse →
भवतो यत् परं रूपं तन् न जानाति कश्चन । अवतारेषु यद् रूपं तद् अर्चन्ति दिवौकसः
bhavato yat paraṃ rūpaṃ tan na jānāti kaścana / avatāreṣu yad rūpaṃ tad arcanti divaukasaḥ
- ViP 1.4.18Open verse →
त्वाम् आराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः । वासुदेवम् अनाराध्य को मोक्षं समवाप्स्यति
tvām ārādhya paraṃ brahma yātā muktiṃ mumukṣavaḥ / vāsudevam anārādhya ko mokṣaṃ samavāpsyati
- ViP 1.4.19Open verse →
यत् किंचिन् मनसा ग्राह्यं यद् ग्राह्यं चक्षुरादिभिः । बुद्ध्या च यत् परिच्छेद्यं तद् रूपम् अखिलं तव
yat kiṃcin manasā grāhyaṃ yad grāhyaṃ cakṣurādibhiḥ / buddhyā ca yat paricchedyaṃ tad rūpam akhilaṃ tava
- ViP 1.4.20Open verse →
त्वन्मयाहं त्वदाधारा त्वत्सृष्टा त्वाम् उपाश्रिता । माधवीम् इति लोको ऽयम् अभिधत्ते ततो हि माम्
tvanmayāhaṃ tvadādhārā tvatsṛṣṭā tvām upāśritā / mādhavīm iti loko 'yam abhidhatte tato hi mām
- ViP 1.4.21Open verse →
जयाखिलज्ञानमय जय स्थूलमयाव्यय । जयानन्त जयाव्यक्त जय व्यक्तमय प्रभो । परापरात्मन् विश्वात्मञ् जय यज्ञपते ऽनघ
jayākhilajñānamaya jaya sthūlamayāvyaya / jayānanta jayāvyakta jaya vyaktamaya prabho / parāparātman viśvātmañ jaya yajñapate 'nagha
- ViP 1.4.22Open verse →
त्वं यज्ञस् त्वं वषट्कारस् त्वम् ॐकारस् त्वम् अग्नयः । त्वं वेदास् त्वं तदङ्गानि त्वं यज्ञपुरुषो हरे
tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāras tvam agnayaḥ / tvaṃ vedās tvaṃ tadaṅgāni tvaṃ yajñapuruṣo hare
- ViP 1.4.23Open verse →
सूर्यादयो ग्रहास् तारा नक्षत्राण्य् अखिलानि च । मूर्तामूर्तम् अदृश्यं च दृश्यं च पुरुषोत्तम
sūryādayo grahās tārā nakṣatrāṇy akhilāni ca / mūrtāmūrtam adṛśyaṃ ca dṛśyaṃ ca puruṣottama
- ViP 1.4.24Open verse →
द्४ इन्स्।: यच् चोक्तं यच् च नैवोक्तं मयात्र परमेश्वर । तत् सर्वं त्वं नमस् तुभ्यं भूयो भूयो नमो नमः
D4 ins.: yac coktaṃ yac ca naivoktaṃ mayātra parameśvara / tat sarvaṃ tvaṃ namas tubhyaṃ bhūyo bhūyo namo namaḥ
- ViP 1.4.25Open verse →
§पराशर उवाच: एवं संस्तूयमानस् तु पृथिव्या पृथिवीधरः । सामस्वरध्वनिः श्रीमाञ् जगर्ज परिघर्घरम्
§parāśara uvāca: evaṃ saṃstūyamānas tu pṛthivyā pṛthivīdharaḥ / sāmasvaradhvaniḥ śrīmāñ jagarja parighargharam
- ViP 1.4.26Open verse →
ततः समुत्क्षिप्य धरां स्वदंष्ट्रया महावराहः स्फुटपद्मलोचनः । रसातलाद् उत्पलपत्रसंनिभः समुत्थितो नील इवाचलो महान्
tataḥ samutkṣipya dharāṃ svadaṃṣṭrayā mahāvarāhaḥ sphuṭapadmalocanaḥ / rasātalād utpalapatrasaṃnibhaḥ samutthito nīla ivācalo mahān
- ViP 1.4.27Open verse →
उत्तिष्ठता तेन मुखानिलाहतं तत्संप्लवाम्भो जनलोकसंश्रयान् । सनन्दनादीन् अपकल्मषान् मुनीन् चकार भूयो ऽपि पवित्रतास्पदम्
uttiṣṭhatā tena mukhānilāhataṃ tatsaṃplavāmbho janalokasaṃśrayān / sanandanādīn apakalmaṣān munīn cakāra bhūyo 'pi pavitratāspadam
- ViP 1.4.28Open verse →
प्रयान्ति तोयानि खुराग्रविक्षते रसातले ऽधः कृतशब्दसंततम् । श्वासानिलार्ताः परितः प्रयान्ति सिद्धा जने ये नियतं वसन्ति
prayānti toyāni khurāgravikṣate rasātale 'dhaḥ kṛtaśabdasaṃtatam / śvāsānilārtāḥ paritaḥ prayānti siddhā jane ye niyataṃ vasanti
- ViP 1.4.29Open verse →
द्५ इन्स्।: उत्तिष्ठतस् तस्य जलार्द्रकुक्षेर् महावराहस्य महीं विगृह्य । विधुन्वतो वेदमयं शरीरं रोमान्तरस्था मुनयः स्तुवन्ति
D5 ins.: uttiṣṭhatas tasya jalārdrakukṣer mahāvarāhasya mahīṃ vigṛhya / vidhunvato vedamayaṃ śarīraṃ romāntarasthā munayaḥ stuvanti
- ViP 1.4.30Open verse →
तं तुष्टुवुस् तोषपरीतचेतसो लोके जने ये निवसन्ति योगिनः । सनन्दनाद्या नतिनम्रकन्धरा धराधरं धीरतरोद्धतेक्षणम्
taṃ tuṣṭuvus toṣaparītacetaso loke jane ye nivasanti yoginaḥ / sanandanādyā natinamrakandharā dharādharaṃ dhīrataroddhatekṣaṇam
- ViP 1.4.31Open verse →
जयेश्वराणां परमेश केशव प्रभो गदाशङ्खधरासिचक्रधृक् । प्रसूतिनाशस्थितिहेतुर् ईश्वरस् त्वम् एव नान्यत् परमं च यत् पदम्
jayeśvarāṇāṃ parameśa keśava prabho gadāśaṅkhadharāsicakradhṛk / prasūtināśasthitihetur īśvaras tvam eva nānyat paramaṃ ca yat padam
- ViP 1.4.32Open verse →
पादेषु वेदास् तव यूपदंष्ट्र दन्तेषु यज्ञाश् चितयश् च वक्त्रे । हुताशजिह्वो ऽसि तनूरुहाणि दर्भाः प्रभो यज्ञपुमांस् त्वम् एव
pādeṣu vedās tava yūpadaṃṣṭra danteṣu yajñāś citayaś ca vaktre / hutāśajihvo 'si tanūruhāṇi darbhāḥ prabho yajñapumāṃs tvam eva
- ViP 1.4.33Open verse →
विलोचने रात्र्यहनी महात्मन् सर्वास्पदं ब्रह्म परं शिरस् ते । सूक्तान्य् अशेषाणि सटाकलापो घ्राणं समस्तानि हवींषि देव
vilocane rātryahanī mahātman sarvāspadaṃ brahma paraṃ śiras te / sūktāny aśeṣāṇi saṭākalāpo ghrāṇaṃ samastāni havīṃṣi deva
- ViP 1.4.34Open verse →
स्रुक्तुण्ड सामस्वरधीरनाद प्राग्वंशकायाखिलसत्रसंधे । पूर्तेष्टधर्मश्रवणो ऽसि देव सनातनात्मन् भगवन् प्रसीद
sruktuṇḍa sāmasvaradhīranāda prāgvaṃśakāyākhilasatrasaṃdhe / pūrteṣṭadharmaśravaṇo 'si deva sanātanātman bhagavan prasīda
- ViP 1.4.35Open verse →
पदक्रमाक्रान्तम् अनन्तम् आदि स्थितं त्वम् एवाक्षर विश्वमूर्ते । विश्वस्य विद्मः परमेश्वरो ऽसि प्रसीद नाथो ऽसि चराचरस्य
padakramākrāntam anantam ādi sthitaṃ tvam evākṣara viśvamūrte / viśvasya vidmaḥ parameśvaro 'si prasīda nātho 'si carācarasya
- ViP 1.4.36Open verse →
दंष्ट्राग्रविन्यस्तम् अशेषम् एतद् भूमण्डलं नाथ विभाव्यते ते । विगाहतः पद्मवनं विलग्नं सरोजिनीपत्रम् इवोढपङ्कम्
daṃṣṭrāgravinyastam aśeṣam etad bhūmaṇḍalaṃ nātha vibhāvyate te / vigāhataḥ padmavanaṃ vilagnaṃ sarojinīpatram ivoḍhapaṅkam
- ViP 1.4.37Open verse →
द्यावापृथिव्योर् अतुलप्रभाव यद् अन्तरं तद् वपुषा तवैव । व्याप्तं जगद् व्याप्तिसमर्थदीप्ते हिताय विश्वस्य विभो भव त्वम्
dyāvāpṛthivyor atulaprabhāva yad antaraṃ tad vapuṣā tavaiva / vyāptaṃ jagad vyāptisamarthadīpte hitāya viśvasya vibho bhava tvam
- ViP 1.4.38Open verse →
परमार्थस् त्वम् एवैको नान्यो ऽस्ति जगतः पते । तवैष महिमा येन व्याप्तम् एतच् चराचरम्
paramārthas tvam evaiko nānyo 'sti jagataḥ pate / tavaiṣa mahimā yena vyāptam etac carācaram
- ViP 1.4.39Open verse →
यद् एतद् दृश्यते मूर्तम् एतज् ज्ञानात्मनस् तव । भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपम् अयोगिनः
yad etad dṛśyate mūrtam etaj jñānātmanas tava / bhrāntijñānena paśyanti jagadrūpam ayoginaḥ
- ViP 1.4.40Open verse →
ज्ञानस्वरूपम् अखिलं जगद् एतद् अबुद्धयः । अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे
jñānasvarūpam akhilaṃ jagad etad abuddhayaḥ / arthasvarūpaṃ paśyanto bhrāmyante mohasaṃplave
- ViP 1.4.41Open verse →
ये तु ज्ञानविदः शुद्धचेतसस् ते ऽखिलं जगत् । ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर
ye tu jñānavidaḥ śuddhacetasas te 'khilaṃ jagat / jñānātmakaṃ prapaśyanti tvadrūpaṃ parameśvara
- ViP 1.4.42Open verse →
प्रसीद सर्वसर्वात्मन् भवाय जगताम् इमाम् । उद्धरोर्वीम् अमेयात्मञ् शं नो देह्य् अब्जलोचन
prasīda sarvasarvātman bhavāya jagatām imām / uddharorvīm ameyātmañ śaṃ no dehy abjalocana
- ViP 1.4.43Open verse →
सत्त्वोद्रिक्तो ऽसि भगवन् गोविन्द पृथिवीम् इमाम् । समुद्धर भवायेश शं नो देह्य् अब्जलोचन
sattvodrikto 'si bhagavan govinda pṛthivīm imām / samuddhara bhavāyeśa śaṃ no dehy abjalocana
- ViP 1.4.44Open verse →
सर्गप्रवृत्तिर् भवतो जगताम् उपकारिणी । भवत्व् एषा नमस् ते ऽस्तु शं नो देह्य् अब्जलोचन
sargapravṛttir bhavato jagatām upakāriṇī / bhavatv eṣā namas te 'stu śaṃ no dehy abjalocana
- ViP 1.4.45Open verse →
§पराशर उवाच: एवं संस्तूयमानस् तु परमात्मा महीधरः । उज्जहार क्षितिं क्षिप्रं न्यस्तवांश् च महार्णवे
§parāśara uvāca: evaṃ saṃstūyamānas tu paramātmā mahīdharaḥ / ujjahāra kṣitiṃ kṣipraṃ nyastavāṃś ca mahārṇave
- ViP 1.4.46Open verse →
तस्योपरि जलौघस्य महती नौर् इव स्थिता । विततत्वात् तु देहस्य न मही याति संप्लवम्
tasyopari jalaughasya mahatī naur iva sthitā / vitatatvāt tu dehasya na mahī yāti saṃplavam
- ViP 1.4.47Open verse →
ततः क्षितिं समां कृत्वा पृथिव्यां सो ऽचिनोद् गिरीन् । यथाविभागं भगवान् अनादिः सर्वसंभवः
tataḥ kṣitiṃ samāṃ kṛtvā pṛthivyāṃ so 'cinod girīn / yathāvibhāgaṃ bhagavān anādiḥ sarvasaṃbhavaḥ
- ViP 1.4.48Open verse →
प्राक्सर्गदग्धान् अखिलान् पर्वतान् पृथिवीतले । अमोघेन प्रभावेन ससर्जामोघवाञ्छितः
prāksargadagdhān akhilān parvatān pṛthivītale / amoghena prabhāvena sasarjāmoghavāñchitaḥ
- ViP 1.4.49Open verse →
भूविभागं ततः कृत्वा सप्तद्वीपं यथातथम् । भूराद्यांश् चतुरो लोकान् पूर्ववत् समकल्पयत्
bhūvibhāgaṃ tataḥ kṛtvā saptadvīpaṃ yathātatham / bhūrādyāṃś caturo lokān pūrvavat samakalpayat
- ViP 1.4.50Open verse →
ब्रह्मरूपधरो देवस् ततो ऽसौ रजसा वृतः । चकार सृष्टिं भगवांश् चतुर्वक्त्रधरो हरिः
brahmarūpadharo devas tato 'sau rajasā vṛtaḥ / cakāra sṛṣṭiṃ bhagavāṃś caturvaktradharo hariḥ
- ViP 1.4.51Open verse →
निमित्तमात्रम् एवासौ सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः
nimittamātram evāsau sṛjyānāṃ sargakarmaṇi / pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ
- ViP 1.4.52Open verse →
निमित्तमात्रं मुक्त्वैकं नान्यत् किंचिद् अपेक्ष्यते । नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम्
nimittamātraṃ muktvaikaṃ nānyat kiṃcid apekṣyate / nīyate tapatāṃ śreṣṭha svaśaktyā vastu vastutām
- ViP 1.5.1Open verse →
______________________________________________________ §मैत्रेय उवाच: यथा ससर्ज देवो ऽसौ देवर्षिपितृदानवान् । मनुष्यतिर्यग्वृक्षादीन् भूव्योमसलिलौकसः
______________________________________________________ §maitreya uvāca: yathā sasarja devo 'sau devarṣipitṛdānavān / manuṣyatiryagvṛkṣādīn bhūvyomasalilaukasaḥ
- ViP 1.5.2Open verse →
यद्गुणं यत्स्वभावं च यद्रूपं च जगद् द्विज । सर्गादौ सृष्टवान् ब्रह्मा तन् ममाचक्ष्व विस्तरात्
yadguṇaṃ yatsvabhāvaṃ ca yadrūpaṃ ca jagad dvija / sargādau sṛṣṭavān brahmā tan mamācakṣva vistarāt
- ViP 1.5.3Open verse →
§पराशर उवाच: मैत्रेय कथयाम्य् एष शृणुष्व सुसमाहितः । यथा ससर्ज देवो ऽसौ देवादीन् अखिलान् विभुः
§parāśara uvāca: maitreya kathayāmy eṣa śṛṇuṣva susamāhitaḥ / yathā sasarja devo 'sau devādīn akhilān vibhuḥ
- ViP 1.5.4Open verse →
सृष्टिं चिन्तयतस् तस्य कल्पादिषु यथा पुरा । अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस् तमोमयः
sṛṣṭiṃ cintayatas tasya kalpādiṣu yathā purā / abuddhipūrvakaḥ sargaḥ prādurbhūtas tamomayaḥ
- ViP 1.5.5Open verse →
तमो मोहो महामोहस् तामिस्रो ह्य् अन्धसंज्ञितः । अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः
tamo moho mahāmohas tāmisro hy andhasaṃjñitaḥ / avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ
- ViP 1.5.6Open verse →
पञ्चधावस्थितः सर्गो ध्यायतो ऽप्रतिबोधवान् । बहिर् अन्तश् चाप्रकाशः संवृतात्मा नगात्मकः
pañcadhāvasthitaḥ sargo dhyāyato 'pratibodhavān / bahir antaś cāprakāśaḥ saṃvṛtātmā nagātmakaḥ
- ViP 1.5.7Open verse →
मुख्या नगा यतश् चोक्ता मुख्यसर्गस् ततस् त्व् अयम्
mukhyā nagā yataś coktā mukhyasargas tatas tv ayam
- ViP 1.5.8Open verse →
तं दृष्ट्वासाधकं सर्गम् अमन्यद् अपरं पुनः
taṃ dṛṣṭvāsādhakaṃ sargam amanyad aparaṃ punaḥ
- ViP 1.5.9Open verse →
तस्याभिध्यायतः सर्गं तिर्यक्स्रोतो ऽभ्यवर्तत । यस्मात् तिर्यक्प्रवृत्तः स तिर्यक्स्रोतस् ततः स्मृतः
tasyābhidhyāyataḥ sargaṃ tiryaksroto 'bhyavartata / yasmāt tiryakpravṛttaḥ sa tiryaksrotas tataḥ smṛtaḥ
- ViP 1.5.10Open verse →
पश्वादयस् ते विख्यातास् तमःप्राया ह्य् अवेदिनः । उत्पथग्राहिणश् चैव ते ऽज्ञाने ज्ञानमानिनः
paśvādayas te vikhyātās tamaḥprāyā hy avedinaḥ / utpathagrāhiṇaś caiva te 'jñāne jñānamāninaḥ
- ViP 1.5.11Open verse →
अहंकृता अहंमाना अष्टाविंशद्वधात्मकाः । अन्तःप्रकाशास् ते सर्वे आवृताश् च परस्परम्
ahaṃkṛtā ahaṃmānā aṣṭāviṃśadvadhātmakāḥ / antaḥprakāśās te sarve āvṛtāś ca parasparam
- ViP 1.5.12Open verse →
तम् अप्य् असाधकं मत्वा ध्यायतो ऽन्यस् ततो ऽभवत् । ऊर्ध्वस्रोतस् तृतीयस् तु सात्त्विकोर्ध्वम् अवर्तत
tam apy asādhakaṃ matvā dhyāyato 'nyas tato 'bhavat / ūrdhvasrotas tṛtīyas tu sāttvikordhvam avartata
- ViP 1.5.13Open verse →
ते सुखप्रीतिबहुला बहिर् अन्तश् च नावृताः । प्रकाशा बहिर् अन्तश् च ऊर्ध्वस्रोतोद्भवाः स्मृताः
te sukhaprītibahulā bahir antaś ca nāvṛtāḥ / prakāśā bahir antaś ca ūrdhvasrotodbhavāḥ smṛtāḥ
- ViP 1.5.14Open verse →
तुष्ट्यात्मकस् तृतीयस् तु देवसर्गस् तु स स्मृतः । तस्मिन् सर्गे ऽभवत् प्रीतिर् निष्पन्ने ब्रह्मणस् तथा
tuṣṭyātmakas tṛtīyas tu devasargas tu sa smṛtaḥ / tasmin sarge 'bhavat prītir niṣpanne brahmaṇas tathā
- ViP 1.5.15Open verse →
ततो ऽन्यं स तदा दध्यौ साधकं सर्गम् उत्तमम् । असाधकांस् तु ताञ् ज्ञात्वा मुख्यसर्गादिसंभवान्
tato 'nyaṃ sa tadā dadhyau sādhakaṃ sargam uttamam / asādhakāṃs tu tāñ jñātvā mukhyasargādisaṃbhavān
- ViP 1.5.16Open verse →
तथाभिध्यायतस् तस्य सत्याभिध्यायिनस् ततः । प्रादुर्भूतस् तदाव्यक्ताद् अर्वाक्स्रोतस् तु साधकः
tathābhidhyāyatas tasya satyābhidhyāyinas tataḥ / prādurbhūtas tadāvyaktād arvāksrotas tu sādhakaḥ
- ViP 1.5.17Open verse →
यस्माद् अर्वाग् व्यवर्तन्त ततो ऽर्वाक्स्रोतसस् तु ते । ते च प्रकाशबहुलास् तमोउद्रिक्ता रजोऽधिकाः
yasmād arvāg vyavartanta tato 'rvāksrotasas tu te / te ca prakāśabahulās tamoudriktā rajo'dhikāḥ
- ViP 1.5.18Open verse →
तस्मात् ते दुःखबहुला भूयो भूयश् च कारिणः । प्रकाशा बहिर् अन्तश् च मनुष्याः साधकास् तु ते
tasmāt te duḥkhabahulā bhūyo bhūyaś ca kāriṇaḥ / prakāśā bahir antaś ca manuṣyāḥ sādhakās tu te
- ViP 1.5.19Open verse →
द्२ इन्स्।: इत्य् एते कथिताः सर्गाः षड् अत्र मुनिसत्तम । प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस् तु सः
D2 ins.: ity ete kathitāḥ sargāḥ ṣaḍ atra munisattama / prathamo mahataḥ sargo vijñeyo brahmaṇas tu saḥ
- ViP 1.5.20Open verse →
तन्मात्राणां द्वितीयश् च भूतसर्गस् तु स स्मृतः । वैकारिकस् तृतीयस् तु सर्ग ऐन्द्रियकः स्मृतः
tanmātrāṇāṃ dvitīyaś ca bhūtasargas tu sa smṛtaḥ / vaikārikas tṛtīyas tu sarga aindriyakaḥ smṛtaḥ
- ViP 1.5.21Open verse →
इत्य् एष प्राकृतः सर्गः संभूतो बुद्धिपूर्वकः । मुख्यसर्गश् चतुर्थस् तु मुख्या वै स्थावराः स्मृताः
ity eṣa prākṛtaḥ sargaḥ saṃbhūto buddhipūrvakaḥ / mukhyasargaś caturthas tu mukhyā vai sthāvarāḥ smṛtāḥ
- ViP 1.5.22Open verse →
पञ्चमस् तु च यः प्रोक्तस् तैर्यग्योन्यः स उच्यते । ततोर्ध्वस्रोतसां षष्ठो देवसर्गस् तु स स्मृतः
pañcamas tu ca yaḥ proktas tairyagyonyaḥ sa ucyate / tatordhvasrotasāṃ ṣaṣṭho devasargas tu sa smṛtaḥ
- ViP 1.5.23Open verse →
ततो ऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः
tato 'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ
- ViP 1.5.24Open verse →
अष्टमो ऽनुग्रहः सर्गः सात्त्विकस् तामसश् च सः । पञ्चैते वैकृताः सर्गाः प्राकृतास् तु त्रयः स्मृताः
aṣṭamo 'nugrahaḥ sargaḥ sāttvikas tāmasaś ca saḥ / pañcaite vaikṛtāḥ sargāḥ prākṛtās tu trayaḥ smṛtāḥ
- ViP 1.5.25Open verse →
प्राकृतो वैकृतश् चैव कौमारो नवमः स्मृतः । इत्य् एते वै समाख्याता नव सर्गाः प्रजापतेः
prākṛto vaikṛtaś caiva kaumāro navamaḥ smṛtaḥ / ity ete vai samākhyātā nava sargāḥ prajāpateḥ
- ViP 1.5.26Open verse →
प्राकृता वैकृताश् चैव जगतो मूलहेतवः । सृजतो जगदीशस्य किम् अन्यच् छ्रोतुम् इच्छसि
prākṛtā vaikṛtāś caiva jagato mūlahetavaḥ / sṛjato jagadīśasya kim anyac chrotum icchasi
- ViP 1.5.27Open verse →
§मैत्रेय उवाच: संक्षेपात् कथितः सर्गो देवादीनां मुने त्वया । विस्तराच् छ्रोतुम् इच्छामि त्वत्तो मुनिवरोत्तम
§maitreya uvāca: saṃkṣepāt kathitaḥ sargo devādīnāṃ mune tvayā / vistarāc chrotum icchāmi tvatto munivarottama
- ViP 1.5.28Open verse →
§पराशर उवाच: कर्मभिर् भाविताः पूर्वैः कुशलाकुशलैस् तु ताः । ख्यात्या तया ह्य् अनिर्मुक्ताः संहारे ऽप्य् उपसंहृताः
§parāśara uvāca: karmabhir bhāvitāḥ pūrvaiḥ kuśalākuśalais tu tāḥ / khyātyā tayā hy anirmuktāḥ saṃhāre 'py upasaṃhṛtāḥ
- ViP 1.5.29Open verse →
स्थावरान्ताः सुराद्यास् तु प्रजा ब्रह्मंश् चतुर्विधाः । ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसास् तु ताः
sthāvarāntāḥ surādyās tu prajā brahmaṃś caturvidhāḥ / brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasās tu tāḥ
- ViP 1.5.30Open verse →
ततो देवासुरपितॄन् मनुष्यांश् च चतुष्टयम् । सिसृक्षुर् अम्भांस्य् एतानि स्वम् आत्मानम् अयूयुजत्
tato devāsurapitṝn manuṣyāṃś ca catuṣṭayam / sisṛkṣur ambhāṃsy etāni svam ātmānam ayūyujat
- ViP 1.5.31Open verse →
युक्तात्मनस् तमोमात्रा उद्रिक्ताभूत् प्रजापतेः । सिसृक्षोर् जघनात् पूर्वम् असुरा जज्ञिरे ततः
yuktātmanas tamomātrā udriktābhūt prajāpateḥ / sisṛkṣor jaghanāt pūrvam asurā jajñire tataḥ
- ViP 1.5.32Open verse →
उत्ससर्ज ततस् तां तु तमोमात्रात्मिकां तनुम् । सा तु त्यक्ता ततस् तेन मैत्रेयाभूद् विभावरी
utsasarja tatas tāṃ tu tamomātrātmikāṃ tanum / sā tu tyaktā tatas tena maitreyābhūd vibhāvarī
- ViP 1.5.33Open verse →
सिसृक्षुर् अन्यदेहस्थः प्रीतिम् आप ततः सुराः । सत्त्वोद्रिक्ताः समुद्भूता मुखतो ब्रह्मणो द्विज
sisṛkṣur anyadehasthaḥ prītim āpa tataḥ surāḥ / sattvodriktāḥ samudbhūtā mukhato brahmaṇo dvija
- ViP 1.5.34Open verse →
त्यक्ता सापि तनुस् तेन सत्त्वप्रायम् अभूद् दिनम् । ततो हि बलिनो रात्राव् असुरा देवता दिवा
tyaktā sāpi tanus tena sattvaprāyam abhūd dinam / tato hi balino rātrāv asurā devatā divā
- ViP 1.5.35Open verse →
सत्त्वमात्रात्मिकाम् एव ततो ऽन्यां जगृहे तनुम् । पितृवन् मन्यमानस्य पितरस् तस्य जज्ञिरे
sattvamātrātmikām eva tato 'nyāṃ jagṛhe tanum / pitṛvan manyamānasya pitaras tasya jajñire
- ViP 1.5.36Open verse →
उत्ससर्ज पितॄन् सृष्ट्वा ततस् ताम् अपि स प्रभुः । सा चोत्सृष्टाभवत् संध्या दिननक्तान्तरस्थिता
utsasarja pitṝn sṛṣṭvā tatas tām api sa prabhuḥ / sā cotsṛṣṭābhavat saṃdhyā dinanaktāntarasthitā
- ViP 1.5.37Open verse →
रजोमात्रात्मिकाम् अन्यां जगृहे स तनुं ततः । रजोमात्रोत्कटा जाता मनुष्या द्विजसत्तम
rajomātrātmikām anyāṃ jagṛhe sa tanuṃ tataḥ / rajomātrotkaṭā jātā manuṣyā dvijasattama
- ViP 1.5.38Open verse →
ताम् अप्य् आशु स तत्याज तनुं सद्यः प्रजापतिः । ज्योत्स्ना समभवत् सापि प्राक्संध्या याभिधीयते
tām apy āśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ / jyotsnā samabhavat sāpi prāksaṃdhyā yābhidhīyate
- ViP 1.5.39Open verse →
ज्योत्स्नागमे तु बलिनो मनुष्याः पितरस् तथा । मैत्रेय संध्यासमये तस्माद् एते भवन्ति वै
jyotsnāgame tu balino manuṣyāḥ pitaras tathā / maitreya saṃdhyāsamaye tasmād ete bhavanti vai
- ViP 1.5.40Open verse →
ज्योत्स्ना रात्र्यहनी संध्या चत्वार्य् एतानि वै विभोः । ब्रह्मणस् तु शरीराणि त्रिगुणोपाश्रयाणि तु
jyotsnā rātryahanī saṃdhyā catvāry etāni vai vibhoḥ / brahmaṇas tu śarīrāṇi triguṇopāśrayāṇi tu
- ViP 1.5.41Open verse →
रजोमात्रात्मिकाम् एव ततो ऽन्यां जगृहे तनुम् । ततः क्षुद् ब्रह्मणो जाता जज्ञे कोपस् तया ततः
rajomātrātmikām eva tato 'nyāṃ jagṛhe tanum / tataḥ kṣud brahmaṇo jātā jajñe kopas tayā tataḥ
- ViP 1.5.42Open verse →
क्षुत्क्षामान् अन्धकारे ऽथ सो ऽसृजद् भगवान् प्रभुः । विरूपाः श्मश्रुला जातास् ते ऽभ्यधावन्त तं प्रभुम्
kṣutkṣāmān andhakāre 'tha so 'sṛjad bhagavān prabhuḥ / virūpāḥ śmaśrulā jātās te 'bhyadhāvanta taṃ prabhum
- ViP 1.5.43Open verse →
मैवं भो रक्ष्यताम् एष यैर् उक्तं राक्षसास् तु ते । ऊचुः खादाम इत्य् अन्ये ये ते यक्षास् तु जक्षणात्
maivaṃ bho rakṣyatām eṣa yair uktaṃ rākṣasās tu te / ūcuḥ khādāma ity anye ye te yakṣās tu jakṣaṇāt
- ViP 1.5.44Open verse →
अप्रियान् अथ तान् दृष्ट्वा केशाः शीर्यन्त वेधसः । हीनाश् च शिरसो भूयः समारोहन्त तच्छिरः
apriyān atha tān dṛṣṭvā keśāḥ śīryanta vedhasaḥ / hīnāś ca śiraso bhūyaḥ samārohanta tacchiraḥ
- ViP 1.5.45Open verse →
सर्पणात् ते ऽभवन् सर्पा हीनत्वाद् अहयः स्मृताः । ततः क्रुद्धो जगत्स्रष्टा क्रोधात्मानो विनिर्ममे । वर्णेन कपिशेनोग्रा भूतास् ते पिशिताशनाः
sarpaṇāt te 'bhavan sarpā hīnatvād ahayaḥ smṛtāḥ / tataḥ kruddho jagatsraṣṭā krodhātmāno vinirmame / varṇena kapiśenogrā bhūtās te piśitāśanāḥ
- ViP 1.5.46Open verse →
ध्यायतो ऽङ्गात् समुद्भूता गन्धर्वास् तस्य तत्क्षणात् । पिबन्तो जज्ञिरे वाचं गन्धर्वास् तेन ते द्विज
dhyāyato 'ṅgāt samudbhūtā gandharvās tasya tatkṣaṇāt / pibanto jajñire vācaṃ gandharvās tena te dvija
- ViP 1.5.47Open verse →
एतानि सृष्ट्वा भगवान् ब्रह्मा तच्छक्तिचोदितः । ततः स्वच्छन्दतो ऽन्यानि वयांसि वयसो ऽसृजत्
etāni sṛṣṭvā bhagavān brahmā tacchakticoditaḥ / tataḥ svacchandato 'nyāni vayāṃsi vayaso 'sṛjat
- ViP 1.5.48Open verse →
अवयो वक्षसश् चक्रे मुखतो ऽजाः स सृष्टवान् । सृष्टवान् उदराद् गाश् च पार्श्वाभ्यां च प्रजापतिः
avayo vakṣasaś cakre mukhato 'jāḥ sa sṛṣṭavān / sṛṣṭavān udarād gāś ca pārśvābhyāṃ ca prajāpatiḥ
- ViP 1.5.49Open verse →
पद्भ्यां चाश्वान् समातङ्गान् रासभान् गवयान् मृगान् । उष्ट्रान् अश्वतरांश् चैव न्यङ्कून् अन्याश् च जातयः
padbhyāṃ cāśvān samātaṅgān rāsabhān gavayān mṛgān / uṣṭrān aśvatarāṃś caiva nyaṅkūn anyāś ca jātayaḥ
- ViP 1.5.50Open verse →
ओषध्यः फलमूलिन्यो रोमभ्यस् तस्य जज्ञिरे । त्रेतायुगमुखे ब्रह्मा कल्पस्यादौ द्विजोत्तम । सृष्ट्वा पश्वोषधीः सम्यग् युयोज स तदाध्वरे
oṣadhyaḥ phalamūlinyo romabhyas tasya jajñire / tretāyugamukhe brahmā kalpasyādau dvijottama / sṛṣṭvā paśvoṣadhīḥ samyag yuyoja sa tadādhvare
- ViP 1.5.51Open verse →
गौर् अजः पुरुषो मेषा अश्वाश्वतरगर्दभाः । एतान् ग्राम्यान् पशून् आहुर् आरण्यांश् च निबोध मे
gaur ajaḥ puruṣo meṣā aśvāśvataragardabhāḥ / etān grāmyān paśūn āhur āraṇyāṃś ca nibodha me
- ViP 1.5.52Open verse →
श्वापदो द्विखुरो हस्ती वानरः पक्षिपञ्चमाः । औदकाः पशवः षष्ठाः सप्तमास् तु सरीसृपाः
śvāpado dvikhuro hastī vānaraḥ pakṣipañcamāḥ / audakāḥ paśavaḥ ṣaṣṭhāḥ saptamās tu sarīsṛpāḥ
- ViP 1.5.53Open verse →
गायत्रं च ऋचश् चैव त्रिवृत्साम रथन्तरम् । अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान् मुखात्
gāyatraṃ ca ṛcaś caiva trivṛtsāma rathantaram / agniṣṭomaṃ ca yajñānāṃ nirmame prathamān mukhāt
- ViP 1.5.54Open verse →
यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा । बृहत् साम तथोक्थं च दक्षिणाद् असृजन् मुखात्
yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā / bṛhat sāma tathokthaṃ ca dakṣiṇād asṛjan mukhāt
- ViP 1.5.55Open verse →
सामानि जगतीछन्दः स्तोमं सप्तदशं तथा । वैरूपम् अतिरात्रं च पश्चिमाद् असृजन् मुखात्
sāmāni jagatīchandaḥ stomaṃ saptadaśaṃ tathā / vairūpam atirātraṃ ca paścimād asṛjan mukhāt
- ViP 1.5.56Open verse →
एकविंशम् अथर्वाणम् आप्तोर्यामाणम् एव च । अनुष्टुभं स वैराजम् उत्तराद् असृजन् मुखात्
ekaviṃśam atharvāṇam āptoryāmāṇam eva ca / anuṣṭubhaṃ sa vairājam uttarād asṛjan mukhāt
- ViP 1.5.57Open verse →
उच्चावचानि भूतानि गात्रेभ्यस् तस्य जज्ञिरे । देवासुरपितॄन् सृष्ट्वा मनुष्यांश् च प्रजापतिः
uccāvacāni bhūtāni gātrebhyas tasya jajñire / devāsurapitṝn sṛṣṭvā manuṣyāṃś ca prajāpatiḥ
- ViP 1.5.58Open verse →
ततः पुनः ससर्जादौ स कल्पस्य पितामहः । यक्षान् पिशाचान् गन्धर्वान् तथैवाप्सरसां गणान्
tataḥ punaḥ sasarjādau sa kalpasya pitāmahaḥ / yakṣān piśācān gandharvān tathaivāpsarasāṃ gaṇān
- ViP 1.5.59Open verse →
नरकिंनररक्षांसि वयःपशुमृगोरगान् । अव्ययं च व्ययं चैव यद् इदं स्थाणुजङ्गमम्
narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān / avyayaṃ ca vyayaṃ caiva yad idaṃ sthāṇujaṅgamam
- ViP 1.5.60Open verse →
तत् ससर्ज तदा ब्रह्मा भगवान् आदिकृद् विभुः । तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे । तान्य् एव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः
tat sasarja tadā brahmā bhagavān ādikṛd vibhuḥ / teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire / tāny eva pratipadyante sṛjyamānāḥ punaḥ punaḥ
- ViP 1.5.61Open verse →
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्माव् ऋतानृते । तद्भाविताः प्रपद्यन्ते तस्मात् तत् तस्य रोचते
hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte / tadbhāvitāḥ prapadyante tasmāt tat tasya rocate
- ViP 1.5.62Open verse →
इन्द्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः । नानात्वं विनियोगांश् च धातैवं व्यसृजत् स्वयम्
indriyārtheṣu bhūteṣu śarīreṣu ca sa prabhuḥ / nānātvaṃ viniyogāṃś ca dhātaivaṃ vyasṛjat svayam
- ViP 1.5.63Open verse →
नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः
nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam / vedaśabdebhya evādau devādīnāṃ cakāra saḥ
- ViP 1.5.64Open verse →
ऋषीणां नामधेयानि यथा वेदश्रुतानि वै । यथा नियोगयोग्यानि सर्वेषाम् अपि सो ऽकरोत्
ṛṣīṇāṃ nāmadheyāni yathā vedaśrutāni vai / yathā niyogayogyāni sarveṣām api so 'karot
- ViP 1.5.65Open verse →
यथर्तुष्व् ऋतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्य् एव तथा भावा युगादिषु
yathartuṣv ṛtuliṅgāni nānārūpāṇi paryaye / dṛśyante tāni tāny eva tathā bhāvā yugādiṣu
- ViP 1.5.66Open verse →
करोत्य् एवंविधां सृष्टिं कल्पादौ स पुनः पुनः । सिसृक्षाशक्तियुक्तो ऽसौ सृज्यशक्तिप्रचोदितः
karoty evaṃvidhāṃ sṛṣṭiṃ kalpādau sa punaḥ punaḥ / sisṛkṣāśaktiyukto 'sau sṛjyaśaktipracoditaḥ
- ViP 1.6.1Open verse →
______________________________________________________ §मैत्रेय उवाच: अर्वाक्स्रोतस् तु कथितो भवता यस् तु मानुषः । ब्रह्मन् विस्तरतो ब्रूहि ब्रह्मा तम् असृजद् यथा
______________________________________________________ §maitreya uvāca: arvāksrotas tu kathito bhavatā yas tu mānuṣaḥ / brahman vistarato brūhi brahmā tam asṛjad yathā
- ViP 1.6.2Open verse →
यथा च वर्णान् असृजद् यद्गुणांश् च महामुने । यच् च तेषां स्मृतं कर्म विप्रादीनां तद् उच्यताम्
yathā ca varṇān asṛjad yadguṇāṃś ca mahāmune / yac ca teṣāṃ smṛtaṃ karma viprādīnāṃ tad ucyatām
- ViP 1.6.3Open verse →
§पराशर उवाच: सत्याभिध्यायिनः पूर्वं सिसृक्षोर् ब्रह्मणो जगत् । अजायन्त द्विजश्रेष्ठ सत्त्वोद्रिक्ता मुखात् प्रजाः
§parāśara uvāca: satyābhidhyāyinaḥ pūrvaṃ sisṛkṣor brahmaṇo jagat / ajāyanta dvijaśreṣṭha sattvodriktā mukhāt prajāḥ
- ViP 1.6.4Open verse →
वक्षसो रजसोद्रिक्तास् तथान्या ब्रह्मणो ऽभवन् । रजसा तमसा चैव समुद्रिक्तास् तथोरुतः
vakṣaso rajasodriktās tathānyā brahmaṇo 'bhavan / rajasā tamasā caiva samudriktās tathorutaḥ
- ViP 1.6.5Open verse →
पद्भ्याम् अन्याः प्रजा ब्रह्मा ससर्ज द्विजसत्तम । तमःप्रधानास् ताः सर्वाश् चातुर्वर्ण्यम् इदं ततः
padbhyām anyāḥ prajā brahmā sasarja dvijasattama / tamaḥpradhānās tāḥ sarvāś cāturvarṇyam idaṃ tataḥ
- ViP 1.6.6Open verse →
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च द्विजसत्तम । पादोरुवक्षःस्थलतो मुखतश् च समुद्गताः
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama / pādoruvakṣaḥsthalato mukhataś ca samudgatāḥ
- ViP 1.6.7Open verse →
यज्ञनिष्पत्तये सर्वम् एतद् ब्रह्मा चकार वै । चातुर्वर्ण्यं महाभाग यज्ञसाधनम् उत्तमम्
yajñaniṣpattaye sarvam etad brahmā cakāra vai / cāturvarṇyaṃ mahābhāga yajñasādhanam uttamam
- ViP 1.6.8Open verse →
यज्ञैर् आप्यायिता देवा वृष्ट्युत्सर्गेण वै प्रजाः । आप्याययन्ते धर्मज्ञ यज्ञाः कल्याणहेतवः
yajñair āpyāyitā devā vṛṣṭyutsargeṇa vai prajāḥ / āpyāyayante dharmajña yajñāḥ kalyāṇahetavaḥ
- ViP 1.6.9Open verse →
निष्पाद्यन्ते नरैस् तैस् तु स्वकर्माभिरतैः सदा । विशुद्धाचरणोपेतैः सद्भिः सन्मार्गगामिभिः
niṣpādyante narais tais tu svakarmābhirataiḥ sadā / viśuddhācaraṇopetaiḥ sadbhiḥ sanmārgagāmibhiḥ
- ViP 1.6.10Open verse →
स्वर्गापवर्गौ मानुष्यात् प्राप्नुवन्ति नरा मुने । यद् वाभिरुचितं स्थानं तद् यान्ति मनुजा द्विज
svargāpavargau mānuṣyāt prāpnuvanti narā mune / yad vābhirucitaṃ sthānaṃ tad yānti manujā dvija
- ViP 1.6.11Open verse →
प्रजास् ता ब्रह्मणा सृष्टाश् चातुर्वर्ण्यव्यवस्थितौ । सम्यक्छ्रद्धाः समाचारप्रवणा मुनिसत्तम
prajās tā brahmaṇā sṛṣṭāś cāturvarṇyavyavasthitau / samyakchraddhāḥ samācārapravaṇā munisattama
- ViP 1.6.12Open verse →
यथेच्छावासनिरताः सर्वबाधाविवर्जिताः । शुद्धान्तःकरणाः शुद्धाः सर्वानुष्ठाननिर्मलाः
yathecchāvāsaniratāḥ sarvabādhāvivarjitāḥ / śuddhāntaḥkaraṇāḥ śuddhāḥ sarvānuṣṭhānanirmalāḥ
- ViP 1.6.13Open verse →
शुद्धे च तासां मनसि शुद्धे ऽन्तःसंस्थिते हरौ । शुद्धज्ञानं प्रपश्यन्ति विष्ण्वाख्यं येन तत् पदम्
śuddhe ca tāsāṃ manasi śuddhe 'ntaḥsaṃsthite harau / śuddhajñānaṃ prapaśyanti viṣṇvākhyaṃ yena tat padam
- ViP 1.6.14Open verse →
ततः कालात्मको यो ऽसौ स चांशः कथितो हरेः । स पातयत्य् अघं घोरम् अल्पम् अल्पाल्पसारवत्
tataḥ kālātmako yo 'sau sa cāṃśaḥ kathito hareḥ / sa pātayaty aghaṃ ghoram alpam alpālpasāravat
- ViP 1.6.15Open verse →
अधर्मबीजम् उद्भूतं तमोलोभसमुद्भवम् । प्रजासु तासु मैत्रेय रागादिकम् असाधकम्
adharmabījam udbhūtaṃ tamolobhasamudbhavam / prajāsu tāsu maitreya rāgādikam asādhakam
- ViP 1.6.16Open verse →
ततः सा सहजा सिद्धिस् तेषां नातीव जायते । रसोल्लासादयश् चान्याः सिद्धयो ऽष्टौ भवन्ति याः
tataḥ sā sahajā siddhis teṣāṃ nātīva jāyate / rasollāsādayaś cānyāḥ siddhayo 'ṣṭau bhavanti yāḥ
- ViP 1.6.17Open verse →
तासु क्षीणास्व् अशेषासु वर्धमाने च पातके । द्वन्द्वाभिभवदुःखार्तास् ता भवन्ति ततः प्रजाः
tāsu kṣīṇāsv aśeṣāsu vardhamāne ca pātake / dvandvābhibhavaduḥkhārtās tā bhavanti tataḥ prajāḥ
- ViP 1.6.18Open verse →
ततो दुर्गाणि ताश् चक्रुर् वार्क्षं पार्वतम् औदकम् । कृत्रिमं च तथा दुर्गं पुरखर्वटकादि यत्
tato durgāṇi tāś cakrur vārkṣaṃ pārvatam audakam / kṛtrimaṃ ca tathā durgaṃ purakharvaṭakādi yat
- ViP 1.6.19Open verse →
गृहाणि च यथान्यायं तेषु चक्रुः पुरादिषु । शीतातपादिबाधानां प्रशमाय महामते
gṛhāṇi ca yathānyāyaṃ teṣu cakruḥ purādiṣu / śītātapādibādhānāṃ praśamāya mahāmate
- ViP 1.6.20Open verse →
प्रतीकारम् इमं कृत्वा शीतादेस् ताः प्रजाः पुनः । वार्तोपायं ततश् चक्रुर् हस्तसिद्धिं च कर्मजाम्
pratīkāram imaṃ kṛtvā śītādes tāḥ prajāḥ punaḥ / vārtopāyaṃ tataś cakrur hastasiddhiṃ ca karmajām
- ViP 1.6.21Open verse →
व्रीहयश् च यवाश् चैव गोधूमा अणवस् तिलाः । प्रियंगवो ह्य् उदाराश् च कोरदूषाः सतीनकाः
vrīhayaś ca yavāś caiva godhūmā aṇavas tilāḥ / priyaṃgavo hy udārāś ca koradūṣāḥ satīnakāḥ
- ViP 1.6.22Open verse →
माषा मुद्गा मसूराश् च निष्पावाः सकुलत्थकाः । आढक्यश् चणकाश् चैव शणाः सप्तदश स्मृताः
māṣā mudgā masūrāś ca niṣpāvāḥ sakulatthakāḥ / āḍhakyaś caṇakāś caiva śaṇāḥ saptadaśa smṛtāḥ
- ViP 1.6.23Open verse →
इत्य् एता ओषधीनां तु ग्राम्यानां जातयो मुने । ओषध्यो यज्ञियाश् चैव ग्राम्यारण्याश् चतुर्दश
ity etā oṣadhīnāṃ tu grāmyānāṃ jātayo mune / oṣadhyo yajñiyāś caiva grāmyāraṇyāś caturdaśa
- ViP 1.6.24Open verse →
व्रीहयः सयवा माषा गोधूमा अणवस् तिलाः । प्रियंगुसप्तमा ह्य् एता अष्टमास् तु कुलत्थकाः
vrīhayaḥ sayavā māṣā godhūmā aṇavas tilāḥ / priyaṃgusaptamā hy etā aṣṭamās tu kulatthakāḥ
- ViP 1.6.25Open verse →
श्यामाकास् त्व् अथ नीवारा जर्तिलाः सगवेधुकाः । तथा वेणुयवाः प्रोक्तास् तद्वन् मर्कटका मुने
śyāmākās tv atha nīvārā jartilāḥ sagavedhukāḥ / tathā veṇuyavāḥ proktās tadvan markaṭakā mune
- ViP 1.6.26Open verse →
ग्राम्यारण्याः स्मृता ह्य् एता ओषध्यस् तु चतुर्दश । यज्ञनिष्पत्तये यज्ञस् तथासां हेतुर् उत्तमः
grāmyāraṇyāḥ smṛtā hy etā oṣadhyas tu caturdaśa / yajñaniṣpattaye yajñas tathāsāṃ hetur uttamaḥ
- ViP 1.6.27Open verse →
एताश् च सह यज्ञेन प्रजानां कारणं परम् । परावरविदः प्राज्ञास् ततो यज्ञान् वितन्वते
etāś ca saha yajñena prajānāṃ kāraṇaṃ param / parāvaravidaḥ prājñās tato yajñān vitanvate
- ViP 1.6.28Open verse →
अहन्य् अहन्य् अनुष्ठानं यज्ञानां मुनिसत्तम । उपकारकरं पुंसां क्रियमाणाघशान्तिदम्
ahany ahany anuṣṭhānaṃ yajñānāṃ munisattama / upakārakaraṃ puṃsāṃ kriyamāṇāghaśāntidam
- ViP 1.6.29Open verse →
येषां तु कालसृष्टो ऽसौ पापबिन्दुर् महामते । चेतःसु ववृधे चक्रुस् ते न यज्ञेषु मानसम्
yeṣāṃ tu kālasṛṣṭo 'sau pāpabindur mahāmate / cetaḥsu vavṛdhe cakrus te na yajñeṣu mānasam
- ViP 1.6.30Open verse →
वेदवादांस् तथा वेदान् यज्ञकर्मादिकं च यत् । तत् सर्वं निन्दमानास् ते यज्ञव्यासेधकारिणः
vedavādāṃs tathā vedān yajñakarmādikaṃ ca yat / tat sarvaṃ nindamānās te yajñavyāsedhakāriṇaḥ
- ViP 1.6.31Open verse →
प्रवृत्तिमार्गव्युच्छित्तिकारिणो वेदनिन्दकाः । दुरात्मानो दुराचारा बभूवुः कुटिलाशयाः
pravṛttimārgavyucchittikāriṇo vedanindakāḥ / durātmāno durācārā babhūvuḥ kuṭilāśayāḥ
- ViP 1.6.32Open verse →
संसिद्धायां तु वार्तायां प्रजाः सृष्ट्वा प्रजापतिः । मर्यादां स्थापयाम् आस यथास्थानं यथागुणम्
saṃsiddhāyāṃ tu vārtāyāṃ prajāḥ sṛṣṭvā prajāpatiḥ / maryādāṃ sthāpayām āsa yathāsthānaṃ yathāguṇam
- ViP 1.6.33Open verse →
वर्णानाम् आश्रमाणां च धर्मान् धर्मभृतां वर । लोकांश् च सर्ववर्णानां सम्यग्धर्मानुपालिनाम्
varṇānām āśramāṇāṃ ca dharmān dharmabhṛtāṃ vara / lokāṃś ca sarvavarṇānāṃ samyagdharmānupālinām
- ViP 1.6.34Open verse →
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् । स्थानम् ऐन्द्रं क्षत्रियाणां संग्रामेष्व् अनिवर्तिनाम्
prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām / sthānam aindraṃ kṣatriyāṇāṃ saṃgrāmeṣv anivartinām
- ViP 1.6.35Open verse →
वैश्यानां मारुतं स्थानं स्वधर्मनिरतात्मनाम् । गान्धर्वं शूद्रजातीनां परिचर्यानुवर्तिनाम्
vaiśyānāṃ mārutaṃ sthānaṃ svadharmaniratātmanām / gāndharvaṃ śūdrajātīnāṃ paricaryānuvartinām
- ViP 1.6.36Open verse →
अष्टाशीतिसहस्राणि मुनीनाम् ऊर्ध्वरेतसाम् । स्मृतं तेषां तु यत् स्थानं तद् एव गुरुवासिनाम्
aṣṭāśītisahasrāṇi munīnām ūrdhvaretasām / smṛtaṃ teṣāṃ tu yat sthānaṃ tad eva guruvāsinām
- ViP 1.6.37Open verse →
सप्तर्षीणां तु यत् स्थानं स्मृतं तद् वै वनौकसाम् । प्राजापत्यं गृहस्थानां ब्राह्मं संन्यासिनां स्मृतम्
saptarṣīṇāṃ tu yat sthānaṃ smṛtaṃ tad vai vanaukasām / prājāpatyaṃ gṛhasthānāṃ brāhmaṃ saṃnyāsināṃ smṛtam
- ViP 1.6.38Open verse →
योगिनाम् अमृतं स्थानं यद् विष्णोः परमं पदम्
yoginām amṛtaṃ sthānaṃ yad viṣṇoḥ paramaṃ padam
- ViP 1.6.39Open verse →
एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ये । तेषां तत् परमं स्थानं यद् वै पश्यन्ति सूरयः
ekāntinaḥ sadā brahmadhyāyino yogino hi ye / teṣāṃ tat paramaṃ sthānaṃ yad vai paśyanti sūrayaḥ
- ViP 1.6.40Open verse →
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः । अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः
gatvā gatvā nivartante candrasūryādayo grahāḥ / adyāpi na nivartante dvādaśākṣaracintakāḥ
- ViP 1.6.41Open verse →
तामिस्रम् अन्धतामिस्रं महारौरवरौरवौ । असिपत्रवनं घोरं कालसूत्रम् अवीचिमत्
tāmisram andhatāmisraṃ mahārauravarauravau / asipatravanaṃ ghoraṃ kālasūtram avīcimat
- ViP 1.6.42Open verse →
विनिन्दकानां वेदस्य यज्ञव्यासेधकारिणाम् । स्थानम् एतत् समाख्यातं स्वधर्मत्यागिनश् च ये
vinindakānāṃ vedasya yajñavyāsedhakāriṇām / sthānam etat samākhyātaṃ svadharmatyāginaś ca ye
- ViP 1.7.1Open verse →
______________________________________________________ §पराशर उवाच: ततो ऽभिध्यायतस् तस्य जज्ञिरे मानसाः प्रजाः । तच्छरीरसमुत्पन्नैः कार्यैस् तैः करणैः सह । क्षेत्रज्ञाः समवर्तन्त गात्रेभ्यस् तस्य धीमतः
______________________________________________________ §parāśara uvāca: tato 'bhidhyāyatas tasya jajñire mānasāḥ prajāḥ / taccharīrasamutpannaiḥ kāryais taiḥ karaṇaiḥ saha / kṣetrajñāḥ samavartanta gātrebhyas tasya dhīmataḥ
- ViP 1.7.2Open verse →
ते सर्वे समवर्तन्त ये मया प्राग् उदाहृताः । देवाद्याः स्थावरान्ताश् च त्रैगुण्यविषये स्थिताः
te sarve samavartanta ye mayā prāg udāhṛtāḥ / devādyāḥ sthāvarāntāś ca traiguṇyaviṣaye sthitāḥ
- ViP 1.7.3Open verse →
एवं भूतानि सृष्टानि चराणि स्थावराणि च
evaṃ bhūtāni sṛṣṭāni carāṇi sthāvarāṇi ca
- ViP 1.7.4Open verse →
यदास्य ताः प्रजाः सर्वा न व्यवर्धन्त धीमतः । तदान्यान् मानसान् पुत्रान् सदृशान् आत्मनो ऽसृजत्
yadāsya tāḥ prajāḥ sarvā na vyavardhanta dhīmataḥ / tadānyān mānasān putrān sadṛśān ātmano 'sṛjat
- ViP 1.7.5Open verse →
भृगुं पुलस्त्यं पुलहं क्रतुम् अङ्गिरसं तथा । मरीचिं दक्षम् अत्रिं च वसिष्ठं चैव मानसान्
bhṛguṃ pulastyaṃ pulahaṃ kratum aṅgirasaṃ tathā / marīciṃ dakṣam atriṃ ca vasiṣṭhaṃ caiva mānasān
- ViP 1.7.6Open verse →
नव ब्रह्माण इत्य् एते पुराणे निश्चयं गताः
nava brahmāṇa ity ete purāṇe niścayaṃ gatāḥ
- ViP 1.7.7Open verse →
ब्२,द्३,४,त्,ग्२,३,म्०,एद्। वेङ्क्। इन्स्।: सनन्दनादयो ये च पूर्वं सृष्टास् तु वेधसा । न ते लोकेष्व् असज्जन्त निरपेक्षाः प्रजासु ते
B2,D3,4,T,G2,3,M0,ed. Veṅk. ins.: sanandanādayo ye ca pūrvaṃ sṛṣṭās tu vedhasā / na te lokeṣv asajjanta nirapekṣāḥ prajāsu te
- ViP 1.7.8Open verse →
सर्वे ते ऽभ्यागतज्ञाना वीतरागा विमत्सराः । तेष्व् एवं निरपेक्षेषु लोकसृष्टौ महात्मनः । ब्रह्मणो ऽभून् महान् क्रोधस् त्रैलोक्यदहनक्षमः
sarve te 'bhyāgatajñānā vītarāgā vimatsarāḥ / teṣv evaṃ nirapekṣeṣu lokasṛṣṭau mahātmanaḥ / brahmaṇo 'bhūn mahān krodhas trailokyadahanakṣamaḥ
- ViP 1.7.9Open verse →
तस्य क्रोधसमुद्भूतं ज्वालामालाविदीपितम् । ब्रह्मणो ऽभूत् तदा सर्वं त्रैलोक्यम् अखिलं मुने
tasya krodhasamudbhūtaṃ jvālāmālāvidīpitam / brahmaṇo 'bhūt tadā sarvaṃ trailokyam akhilaṃ mune
- ViP 1.7.10Open verse →
भ्रुकुटीकुटिलात् तस्य ललाटात् क्रोधदीपितात् । समुत्पन्नस् तदा रुद्रो मध्याह्नार्कसमप्रभः । अर्धनारीनरवपुः प्रचण्डो ऽतिशरीरवान्
bhrukuṭīkuṭilāt tasya lalāṭāt krodhadīpitāt / samutpannas tadā rudro madhyāhnārkasamaprabhaḥ / ardhanārīnaravapuḥ pracaṇḍo 'tiśarīravān
- ViP 1.7.11Open verse →
विभजात्मानम् इत्य् उक्त्वा तं ब्रह्मान्तर्दधे ततः
vibhajātmānam ity uktvā taṃ brahmāntardadhe tataḥ
- ViP 1.7.12Open verse →
तथोक्तो ऽसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाकरोत् । बिभेद पुरुषत्वं च दशधा चैकधा च सः
tathokto 'sau dvidhā strītvaṃ puruṣatvaṃ tathākarot / bibheda puruṣatvaṃ ca daśadhā caikadhā ca saḥ
- ViP 1.7.13Open verse →
सौम्यासौम्यैस् तथा शान्ताशान्तैः स्त्रीत्वं च स प्रभुः । बिभेद बहुधा देवः स्वरूपैर् असितैः सितैः
saumyāsaumyais tathā śāntāśāntaiḥ strītvaṃ ca sa prabhuḥ / bibheda bahudhā devaḥ svarūpair asitaiḥ sitaiḥ
- ViP 1.7.14Open verse →
ततो ब्रह्मात्मसंभूतं पूर्वं स्वायम्भुवं प्रभुः । आत्मानम् एव कृतवान् प्राजापत्ये मनुं द्विज
tato brahmātmasaṃbhūtaṃ pūrvaṃ svāyambhuvaṃ prabhuḥ / ātmānam eva kṛtavān prājāpatye manuṃ dvija
- ViP 1.7.15Open verse →
शतरूपां च तां नारीं तपोनिर्धूतकल्मषाम् । स्वायम्भुवो मनुर् देवः पत्नीत्वे जगृहे विभुः
śatarūpāṃ ca tāṃ nārīṃ taponirdhūtakalmaṣām / svāyambhuvo manur devaḥ patnītve jagṛhe vibhuḥ
- ViP 1.7.16Open verse →
तस्माच् च पुरुषाद् देवी शतरूपा व्यजायत । प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसंज्ञितम् । कन्याद्वयं च धर्मज्ञ रूपौदार्यगुणान्वितम्
tasmāc ca puruṣād devī śatarūpā vyajāyata / priyavratottānapādau prasūtyākūtisaṃjñitam / kanyādvayaṃ ca dharmajña rūpaudāryaguṇānvitam
- ViP 1.7.17Open verse →
ददौ प्रसूतिं दक्षाय आकूतिं रुचये पुरा । प्रजापतिः स जग्राह तयोर् जज्ञे सदक्षिणः । पुत्रो यज्ञो महाभाग दम्पत्योर् मिथुनं ततः
dadau prasūtiṃ dakṣāya ākūtiṃ rucaye purā / prajāpatiḥ sa jagrāha tayor jajñe sadakṣiṇaḥ / putro yajño mahābhāga dampatyor mithunaṃ tataḥ
- ViP 1.7.18Open verse →
यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे । यामा इति समाख्याता देवाः स्वायम्भुवे मनौ
yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire / yāmā iti samākhyātā devāḥ svāyambhuve manau
- ViP 1.7.19Open verse →
प्रसूत्यां च तथा दक्षश् चतस्रो विंशतिं तथा । ससर्ज कन्यास् तासां तु सम्यङ् नामानि मे शृणु
prasūtyāṃ ca tathā dakṣaś catasro viṃśatiṃ tathā / sasarja kanyās tāsāṃ tu samyaṅ nāmāni me śṛṇu
- ViP 1.7.20Open verse →
श्रद्धा लक्ष्मीर् धृतिस् तुष्टिर् पुष्टिर् मेधा क्रिया तथा । बुद्धिर् लज्जा वपुः शान्तिः सिद्धिः कीर्तिस् त्रयोदशी
śraddhā lakṣmīr dhṛtis tuṣṭir puṣṭir medhā kriyā tathā / buddhir lajjā vapuḥ śāntiḥ siddhiḥ kīrtis trayodaśī
- ViP 1.7.21Open verse →
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः । ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः
patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ / tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ
- ViP 1.7.22Open verse →
ख्यातिः सत्य् अथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा । सन्नतिश् चानसूया च ऊर्जा स्वाहा स्वधा तथा
khyātiḥ saty atha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā / sannatiś cānasūyā ca ūrjā svāhā svadhā tathā
- ViP 1.7.23Open verse →
भृगुर् भवो मरीचिश् च तथा चैवाङ्गिरा मुनिः । पुलस्त्यः पुलहश् चैव क्रतुश् चर्षिवरस् तथा
bhṛgur bhavo marīciś ca tathā caivāṅgirā muniḥ / pulastyaḥ pulahaś caiva kratuś carṣivaras tathā
- ViP 1.7.24Open verse →
अत्रिर् वसिष्ठो वह्निश् च पितरश् च यथाक्रमम् । ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तम
atrir vasiṣṭho vahniś ca pitaraś ca yathākramam / khyātyādyā jagṛhuḥ kanyā munayo munisattama
- ViP 1.7.25Open verse →
श्रद्धा कामं चला दर्पं नियमं धृतिर् आत्मजम् । संतोषं च तथा तुष्टिर् लोभं पुष्टिर् असूयत
śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtir ātmajam / saṃtoṣaṃ ca tathā tuṣṭir lobhaṃ puṣṭir asūyata
- ViP 1.7.26Open verse →
मेधा श्रुतं क्रिया दण्डं नयं विनयम् एव च । बोधं बुद्धिस् तथा लज्जा विनयं वपुर् आत्मजम् । व्यवसायं प्रजज्ञे वै क्षेमं शान्तिर् असूयत
medhā śrutaṃ kriyā daṇḍaṃ nayaṃ vinayam eva ca / bodhaṃ buddhis tathā lajjā vinayaṃ vapur ātmajam / vyavasāyaṃ prajajñe vai kṣemaṃ śāntir asūyata
- ViP 1.7.27Open verse →
सुखं सिद्धिर् यशः कीर्तिर् इत्य् एते धर्मसूनवः । कामाद् रतिः सुतं हर्षं धर्मपौत्रम् असूयत
sukhaṃ siddhir yaśaḥ kīrtir ity ete dharmasūnavaḥ / kāmād ratiḥ sutaṃ harṣaṃ dharmapautram asūyata
- ViP 1.7.28Open verse →
हिंसा भार्या त्व् अधर्मस्य तयोर् जज्ञे तथानृतम् । कन्या च निकृतिस् ताभ्यां भयं नरकम् एव च
hiṃsā bhāryā tv adharmasya tayor jajñe tathānṛtam / kanyā ca nikṛtis tābhyāṃ bhayaṃ narakam eva ca
- ViP 1.7.29Open verse →
माया च वेदना चैव मिथुनं त्व् इदम् एतयोः । तयोर् जज्ञे ऽथ वै माया मृत्युं भूतापहारिणम्
māyā ca vedanā caiva mithunaṃ tv idam etayoḥ / tayor jajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam
- ViP 1.7.30Open verse →
वेदना स्वसुतं चापि दुःखं जज्ञे ऽथ रौरवात् । मृत्योर् व्याधिजराशोकतृष्णाक्रोधाश् च जज्ञिरे
vedanā svasutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt / mṛtyor vyādhijarāśokatṛṣṇākrodhāś ca jajñire
- ViP 1.7.31Open verse →
दुःखोत्तराः स्मृता ह्य् एते सर्वे चाधर्मलक्षणाः । नैषां भार्यास्ति पुत्रो वा ते सर्वे ह्य् ऊर्ध्वरेतसः
duḥkhottarāḥ smṛtā hy ete sarve cādharmalakṣaṇāḥ / naiṣāṃ bhāryāsti putro vā te sarve hy ūrdhvaretasaḥ
- ViP 1.7.32Open verse →
रौद्राण्य् एतानि रूपाणि विष्णोर् मुनिवरात्मज । नित्यप्रलयहेतुत्वं जगतो ऽस्य प्रयान्ति वै
raudrāṇy etāni rūpāṇi viṣṇor munivarātmaja / nityapralayahetutvaṃ jagato 'sya prayānti vai
- ViP 1.7.33Open verse →
दक्षो मरीचिर् अत्रिश् च भृग्वाद्याश् च प्रजेश्वराः । जगत्य् अत्र महाभाग नित्यं सर्गस्य हेतवः
dakṣo marīcir atriś ca bhṛgvādyāś ca prajeśvarāḥ / jagaty atra mahābhāga nityaṃ sargasya hetavaḥ
- ViP 1.7.34Open verse →
मनवो मनुपुत्राश् च भूपा वीर्यधराश् च ये । सन्मार्गाभिरताः शूरास् ते नित्यं स्थितिकारिणः
manavo manuputrāś ca bhūpā vīryadharāś ca ye / sanmārgābhiratāḥ śūrās te nityaṃ sthitikāriṇaḥ
- ViP 1.7.35Open verse →
§मैत्रेय उवाच: येयं नित्यस्थितिर् ब्रह्मन् नित्यसर्गस् तथेरितः । नित्याभावश् च तेषां वै स्वरूपं मम कथ्यताम्
§maitreya uvāca: yeyaṃ nityasthitir brahman nityasargas tatheritaḥ / nityābhāvaś ca teṣāṃ vai svarūpaṃ mama kathyatām
- ViP 1.7.36Open verse →
§पराशर उवाच: सर्गस्थितिविनाशांश् च भगवान् मधुसूदनः । तैस् तै रूपैर् अचिन्त्यात्मा करोत्य् अव्याहतान् विभुः
§parāśara uvāca: sargasthitivināśāṃś ca bhagavān madhusūdanaḥ / tais tai rūpair acintyātmā karoty avyāhatān vibhuḥ
- ViP 1.7.37Open verse →
नैमित्तिकः प्राकृतिकस् तथैवात्यन्तिको द्विज । नित्यश् च सर्वभूतानां प्रलयो ऽयं चतुर्विधः
naimittikaḥ prākṛtikas tathaivātyantiko dvija / nityaś ca sarvabhūtānāṃ pralayo 'yaṃ caturvidhaḥ
- ViP 1.7.38Open verse →
ब्राह्मो नैमित्तिकस् तत्र यच् छेते जगतः पतिः । प्रयाति प्राकृते चैव ब्रह्माण्डं प्रकृतौ लयम्
brāhmo naimittikas tatra yac chete jagataḥ patiḥ / prayāti prākṛte caiva brahmāṇḍaṃ prakṛtau layam
- ViP 1.7.39Open verse →
ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि । नित्यः सदैव जातानां यो विनाशो दिवानिशम्
jñānād ātyantikaḥ prokto yoginaḥ paramātmani / nityaḥ sadaiva jātānāṃ yo vināśo divāniśam
- ViP 1.7.40Open verse →
प्रसूतिः प्रकृतेर् या तु सा सृष्टिः प्राकृता स्मृता । दैनंदिनी तथा प्रोक्ता यान्तरप्रलयाद् अनु
prasūtiḥ prakṛter yā tu sā sṛṣṭiḥ prākṛtā smṛtā / dainaṃdinī tathā proktā yāntarapralayād anu
- ViP 1.7.41Open verse →
भूतान्य् अनुदिनं यत्र जायन्ते मुनिसत्तम । नित्यसर्गो हि स प्रोक्तः पुराणार्थविचक्षणैः
bhūtāny anudinaṃ yatra jāyante munisattama / nityasargo hi sa proktaḥ purāṇārthavicakṣaṇaiḥ
- ViP 1.7.42Open verse →
एवं सर्वशरीरेषु भगवान् भूतभावनः । संस्थितः कुरुते विष्णुर् उत्पत्तिस्थितिसंयमान्
evaṃ sarvaśarīreṣu bhagavān bhūtabhāvanaḥ / saṃsthitaḥ kurute viṣṇur utpattisthitisaṃyamān
- ViP 1.7.43Open verse →
सृष्टिस्थितिविनाशानां शक्तयः सर्वदेहिषु । वैष्णव्यः परिवर्तन्ते मैत्रेयाहर्निशं सदा
sṛṣṭisthitivināśānāṃ śaktayaḥ sarvadehiṣu / vaiṣṇavyaḥ parivartante maitreyāharniśaṃ sadā
- ViP 1.7.44Open verse →
गुणत्रयमयं ह्य् एतद् ब्रह्मञ् छक्तित्रयं महत् । यो ऽतियाति स यात्य् एव परं नावर्तते पुनः
guṇatrayamayaṃ hy etad brahmañ chaktitrayaṃ mahat / yo 'tiyāti sa yāty eva paraṃ nāvartate punaḥ
- ViP 1.8.1Open verse →
______________________________________________________ §पराशर उवाच: कथितस् तामसः सर्गो ब्रह्मणस् ते महामुने । रुद्रसर्गं प्रवक्ष्यामि तन् मे निगदतः शृणु
______________________________________________________ §parāśara uvāca: kathitas tāmasaḥ sargo brahmaṇas te mahāmune / rudrasargaṃ pravakṣyāmi tan me nigadataḥ śṛṇu
- ViP 1.8.2Open verse →
कल्पादाव् आत्मनस् तुल्यं सुतं प्रध्यायतस् ततः । प्रादुर् आसीत् प्रभोर् अङ्के कुमारो नीललोहितः
kalpādāv ātmanas tulyaṃ sutaṃ pradhyāyatas tataḥ / prādur āsīt prabhor aṅke kumāro nīlalohitaḥ
- ViP 1.8.3Open verse →
रुदन् वै सुस्वरं सो ऽथ द्रवंश् च द्विजसत्तम । किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह
rudan vai susvaraṃ so 'tha dravaṃś ca dvijasattama / kiṃ rodiṣīti taṃ brahmā rudantaṃ pratyuvāca ha
- ViP 1.8.4Open verse →
नाम देहीति तं सो ऽथ प्रत्युवाच प्रजापतिः । रुद्रस् त्वं देव नाम्नासि मा रोदीर् धैर्यम् आवह । एवम् उक्तः पुनः सो ऽथ सप्तकृत्वो रुरोद वै
nāma dehīti taṃ so 'tha pratyuvāca prajāpatiḥ / rudras tvaṃ deva nāmnāsi mā rodīr dhairyam āvaha / evam uktaḥ punaḥ so 'tha saptakṛtvo ruroda vai
- ViP 1.8.5Open verse →
ततो ऽन्यानि ददौ तस्मै सप्त नामानि स प्रभुः । स्थानानि चैषाम् अष्टानां पत्नीः पुत्रांश् च वै विभुः
tato 'nyāni dadau tasmai sapta nāmāni sa prabhuḥ / sthānāni caiṣām aṣṭānāṃ patnīḥ putrāṃś ca vai vibhuḥ
- ViP 1.8.6Open verse →
भवं शर्वम् अथेशानं तथा पशुपतिं द्विज । भीमम् उग्रं महादेवम् उवाच स पितामहः
bhavaṃ śarvam atheśānaṃ tathā paśupatiṃ dvija / bhīmam ugraṃ mahādevam uvāca sa pitāmahaḥ
- ViP 1.8.7Open verse →
चक्रे नामान्य् अथैतानि स्थानान्य् एषां चकार सः । सूर्यो जलं मही वायुर् वह्निर् आकाशम् एव च । दीक्षितो ब्राह्मणः सोम इत्य् एतास् तनवः क्रमात्
cakre nāmāny athaitāni sthānāny eṣāṃ cakāra saḥ / sūryo jalaṃ mahī vāyur vahnir ākāśam eva ca / dīkṣito brāhmaṇaḥ soma ity etās tanavaḥ kramāt
- ViP 1.8.8Open verse →
सुवर्चला तथैवोषा विकेशी चापरा शिवा । स्वाहा दिशस् तथा दीक्षा रोहिणी च यथाक्रमम्
suvarcalā tathaivoṣā vikeśī cāparā śivā / svāhā diśas tathā dīkṣā rohiṇī ca yathākramam
- ViP 1.8.9Open verse →
सूर्यादीनां नरश्रेष्ठ रुद्राद्यैर् नामभिः सह । पत्न्यः स्मृता महाभाग तदपत्यानि मे शृणु
sūryādīnāṃ naraśreṣṭha rudrādyair nāmabhiḥ saha / patnyaḥ smṛtā mahābhāga tadapatyāni me śṛṇu
- ViP 1.8.10Open verse →
येषां सूतिप्रसूतैश् च इदम् आपूरितं जगत्
yeṣāṃ sūtiprasūtaiś ca idam āpūritaṃ jagat
- ViP 1.8.11Open verse →
शनैश्चरस् तथा शुक्रो लोहिताङ्गो मनोजवः । स्कन्दः स्वर्गो ऽथ सन्तानो बुधश् चानुक्रमात् सुताः
śanaiścaras tathā śukro lohitāṅgo manojavaḥ / skandaḥ svargo 'tha santāno budhaś cānukramāt sutāḥ
- ViP 1.8.12Open verse →
एवंप्रकारो रुद्रो ऽसौ सतीं भार्याम् अविन्दत । दक्षकोपाच् च तत्याज सा सती स्वं कलेवरम्
evaṃprakāro rudro 'sau satīṃ bhāryām avindata / dakṣakopāc ca tatyāja sā satī svaṃ kalevaram
- ViP 1.8.13Open verse →
द्३,५,ग्३,म्०,एद्। वेङ्क्। इन्स्।: हिमवद्दुहिता साभून् मेनायां द्विजसत्तम । उपयेमे पुनश् चोमाम् अनन्यां भगवान् भवः
D3,5,G3,M0,ed. Veṅk. ins.: himavadduhitā sābhūn menāyāṃ dvijasattama / upayeme punaś comām ananyāṃ bhagavān bhavaḥ
- ViP 1.8.14Open verse →
देवौ धातृविधातारौ भृगोः ख्यातिर् असूयत । श्रियं च देवदेवस्य पत्नी नारायणस्य या
devau dhātṛvidhātārau bhṛgoḥ khyātir asūyata / śriyaṃ ca devadevasya patnī nārāyaṇasya yā
- ViP 1.8.15Open verse →
§मैत्रेय उवाच: क्षीराब्धौ श्रीः समुत्पन्ना श्रूयते ऽमृतमन्थने । भृगोः ख्यात्यां समुत्पन्नेत्य् एतद् आह कथं भवान्
§maitreya uvāca: kṣīrābdhau śrīḥ samutpannā śrūyate 'mṛtamanthane / bhṛgoḥ khyātyāṃ samutpannety etad āha kathaṃ bhavān
- ViP 1.8.16Open verse →
§पराशर उवाच: नित्यैवैषा जगन्माता विष्णोः श्रीर् अनपायिनी । यथा सर्वगतो विष्णुस् तथैवेयं द्विजोत्तम
§parāśara uvāca: nityaivaiṣā jaganmātā viṣṇoḥ śrīr anapāyinī / yathā sarvagato viṣṇus tathaiveyaṃ dvijottama
- ViP 1.8.17Open verse →
अर्थो विष्णुर् इयं वाणी नीतिर् एषा नयो हरिः । बोधो विष्णुर् इयं बुद्धिर् धर्मो ऽसौ सत्क्रिया त्व् इयम्
artho viṣṇur iyaṃ vāṇī nītir eṣā nayo hariḥ / bodho viṣṇur iyaṃ buddhir dharmo 'sau satkriyā tv iyam
- ViP 1.8.18Open verse →
स्रष्टा विष्णुर् इयं सृष्टिः श्रीर् भूमिर् भूधरो हरिः । संतोषो भगवांल् लक्ष्मीस् तुष्टिर् मैत्रेय शाश्वती
sraṣṭā viṣṇur iyaṃ sṛṣṭiḥ śrīr bhūmir bhūdharo hariḥ / saṃtoṣo bhagavāṃl lakṣmīs tuṣṭir maitreya śāśvatī
- ViP 1.8.19Open verse →
इच्छा श्रीर् भगवान् कामो यज्ञो ऽसौ दक्षिणा तु सा । आज्याहुतिर् असौ देवी पुरोडाशो जनार्दनः
icchā śrīr bhagavān kāmo yajño 'sau dakṣiṇā tu sā / ājyāhutir asau devī puroḍāśo janārdanaḥ
- ViP 1.8.20Open verse →
पत्नीशाला मुने लक्ष्मीः प्राग्वंशो मधुसूदनः । चितिर् लक्ष्मीर् हरिर् यूप इध्मा श्रीर् भगवान् कुशः
patnīśālā mune lakṣmīḥ prāgvaṃśo madhusūdanaḥ / citir lakṣmīr harir yūpa idhmā śrīr bhagavān kuśaḥ
- ViP 1.8.21Open verse →
सामस्वरूपी भगवान् उद्गीतिः कमलालया । स्वाहा लक्ष्मीर् जगन्नाथो वासुदेवो हुताशनः
sāmasvarūpī bhagavān udgītiḥ kamalālayā / svāhā lakṣmīr jagannātho vāsudevo hutāśanaḥ
- ViP 1.8.22Open verse →
शंकरो भगवाञ् छौरिर् गौरी लक्ष्मीर् द्विजोत्तम । मैत्रेय केशवः सूर्यस् तत्प्रभा कमलालया
śaṃkaro bhagavāñ chaurir gaurī lakṣmīr dvijottama / maitreya keśavaḥ sūryas tatprabhā kamalālayā
- ViP 1.8.23Open verse →
विष्णुः पितृगणः पद्मा स्वधा शाश्वतपुष्टिदा । द्यौः श्रीः सर्वात्मको विष्णुर् अवकाशो ऽतिविस्तरः
viṣṇuḥ pitṛgaṇaḥ padmā svadhā śāśvatapuṣṭidā / dyauḥ śrīḥ sarvātmako viṣṇur avakāśo 'tivistaraḥ
- ViP 1.8.24Open verse →
शशाङ्कः श्रीधरः कान्तिः श्रीस् तस्यैवानपायिनी । धृतिर् लक्ष्मीर् जगच्चेष्टा वायुः सर्वत्रगो हरिः
śaśāṅkaḥ śrīdharaḥ kāntiḥ śrīs tasyaivānapāyinī / dhṛtir lakṣmīr jagacceṣṭā vāyuḥ sarvatrago hariḥ
- ViP 1.8.25Open verse →
जलधिर् द्विज गोविन्दस् तद्वेला श्रीर् महामते । लक्ष्मीस्वरूपम् इन्द्राणी देवेन्द्रो मधुसूदनः
jaladhir dvija govindas tadvelā śrīr mahāmate / lakṣmīsvarūpam indrāṇī devendro madhusūdanaḥ
- ViP 1.8.26Open verse →
यमश् चक्रधरः साक्षाद् धूमोर्णा कमलालया । ऋद्धिः श्रीः श्रीधरो देवः स्वयम् एव धनेश्वरः
yamaś cakradharaḥ sākṣād dhūmorṇā kamalālayā / ṛddhiḥ śrīḥ śrīdharo devaḥ svayam eva dhaneśvaraḥ
- ViP 1.8.27Open verse →
गौरी लक्ष्मीर् महाभागा केशवो वरुणः स्वयम् । श्रीर् देवसेना विप्रेन्द्र देवसेनापतिर् हरिः
gaurī lakṣmīr mahābhāgā keśavo varuṇaḥ svayam / śrīr devasenā viprendra devasenāpatir hariḥ
- ViP 1.8.28Open verse →
अवष्टम्भो गदापाणिः शक्तिर् लक्ष्मीर् द्विजोत्तम । काष्ठा लक्ष्मीर् निमेषो ऽसौ मुहूर्तो ऽसौ कला तु सा
avaṣṭambho gadāpāṇiḥ śaktir lakṣmīr dvijottama / kāṣṭhā lakṣmīr nimeṣo 'sau muhūrto 'sau kalā tu sā
- ViP 1.8.29Open verse →
ज्योत्स्ना लक्ष्मीः प्रदीपो ऽसौ सर्वः सर्वेश्वरो हरिः । लताभूता जगन्माता श्रीर् विष्णुर् द्रुमसंस्थितिः
jyotsnā lakṣmīḥ pradīpo 'sau sarvaḥ sarveśvaro hariḥ / latābhūtā jaganmātā śrīr viṣṇur drumasaṃsthitiḥ
- ViP 1.8.30Open verse →
विभावरी श्रीर् दिवसो देवश् चक्रगदाधरः । वरप्रदो वरो विष्णुर् वधूः पद्मवनालया
vibhāvarī śrīr divaso devaś cakragadādharaḥ / varaprado varo viṣṇur vadhūḥ padmavanālayā
- ViP 1.8.31Open verse →
नदस्वरूपी भगवाञ् श्रीर् नदीरूपसंस्थिता । ध्वजश् च पुण्डरीकाक्षः पताका कमलालया
nadasvarūpī bhagavāñ śrīr nadīrūpasaṃsthitā / dhvajaś ca puṇḍarīkākṣaḥ patākā kamalālayā
- ViP 1.8.32Open verse →
तृष्णा लक्ष्मीर् जगत्स्वामी लोभो नारायणः परः । रतिरागौ च धर्मज्ञ लक्ष्मीर् गोविन्द एव च
tṛṣṇā lakṣmīr jagatsvāmī lobho nārāyaṇaḥ paraḥ / ratirāgau ca dharmajña lakṣmīr govinda eva ca
- ViP 1.8.33Open verse →
किं वात्र बहुनोक्तेन संक्षेपेणेदम् उच्यते
kiṃ vātra bahunoktena saṃkṣepeṇedam ucyate
- ViP 1.8.34Open verse →
देवतिर्यङ्मनुष्येषु पुंनाम्नि भगवान् हरिः । स्त्रीनाम्नि लक्ष्मीर् मैत्रेय नानयोर् विद्यते परम्
devatiryaṅmanuṣyeṣu puṃnāmni bhagavān hariḥ / strīnāmni lakṣmīr maitreya nānayor vidyate param
- ViP 1.9.1Open verse →
______________________________________________________ §पराशर उवाच: इदं च शृणु मैत्रेय यत् पृष्टो ऽहम् इह त्वया । श्रीसंबद्धं मयाप्य् एतच् श्रुतम् आसीन् मरीचितः
______________________________________________________ §parāśara uvāca: idaṃ ca śṛṇu maitreya yat pṛṣṭo 'ham iha tvayā / śrīsaṃbaddhaṃ mayāpy etac śrutam āsīn marīcitaḥ
- ViP 1.9.2Open verse →
दुर्वासाः शंकरस्यांशश् चचार पृथिवीम् इमाम् । स ददर्श स्रजं दिव्याम् ऋषिर् विद्याधरीकरे
durvāsāḥ śaṃkarasyāṃśaś cacāra pṛthivīm imām / sa dadarśa srajaṃ divyām ṛṣir vidyādharīkare
- ViP 1.9.3Open verse →
संतानकानाम् अखिलं यस्या गन्धेन वासितम् । अतिसेव्यम् अभूद् ब्रह्मन् तद् वनं वनचारिणाम्
saṃtānakānām akhilaṃ yasyā gandhena vāsitam / atisevyam abhūd brahman tad vanaṃ vanacāriṇām
- ViP 1.9.4Open verse →
उन्मत्तव्रतधृग् विप्रः स दृष्ट्वा शोभनां स्रजम् । तां ययाचे वरारोहां विद्याधरवधूं ततः
unmattavratadhṛg vipraḥ sa dṛṣṭvā śobhanāṃ srajam / tāṃ yayāce varārohāṃ vidyādharavadhūṃ tataḥ
- ViP 1.9.5Open verse →
याचिता तेन तन्वङ्गी मालां विद्याधराङ्गना । ददौ तस्मै विशालाक्षी सादरं प्रणिपत्य तम्
yācitā tena tanvaṅgī mālāṃ vidyādharāṅganā / dadau tasmai viśālākṣī sādaraṃ praṇipatya tam
- ViP 1.9.6Open verse →
ताम् आदायात्मनो मूर्ध्नि स्रजम् उन्मत्तरूपधृक् । कृत्वा स विप्रो मैत्रेय परिबभ्राम मेदिनीम्
tām ādāyātmano mūrdhni srajam unmattarūpadhṛk / kṛtvā sa vipro maitreya paribabhrāma medinīm
- ViP 1.9.7Open verse →
स ददर्श समायान्तम् उन्मत्तैरावतस्थितम् । त्रैलोक्याधिपतिं देवं सह देवैः शचीपतिम्
sa dadarśa samāyāntam unmattairāvatasthitam / trailokyādhipatiṃ devaṃ saha devaiḥ śacīpatim
- ViP 1.9.8Open verse →
ताम् आत्मनः स शिरसः स्रजम् उन्मत्तषट्पदाम् । आदायामरराजाय चिक्षेपोन्मत्तवन् मुनिः
tām ātmanaḥ sa śirasaḥ srajam unmattaṣaṭpadām / ādāyāmararājāya cikṣeponmattavan muniḥ
- ViP 1.9.9Open verse →
गृहीत्वामरराजेन स्रग् ऐरावतमूर्धनि । न्यस्ता रराज कैलासशिखरे जाह्नवी यथा
gṛhītvāmararājena srag airāvatamūrdhani / nyastā rarāja kailāsaśikhare jāhnavī yathā
- ViP 1.9.10Open verse →
मदान्धकारिताक्षो ऽसौ गन्धाकृष्टेन वारणः । करेणाघ्राय चिक्षेप तां स्रजं धरणीतले
madāndhakāritākṣo 'sau gandhākṛṣṭena vāraṇaḥ / kareṇāghrāya cikṣepa tāṃ srajaṃ dharaṇītale
- ViP 1.9.11Open verse →
ततश् चुक्रोध भगवान् दुर्वासा मुनिसत्तमः । मैत्रेय देवराजानं क्रुद्धश् चैतद् उवाच ह
tataś cukrodha bhagavān durvāsā munisattamaḥ / maitreya devarājānaṃ kruddhaś caitad uvāca ha
- ViP 1.9.12Open verse →
§दुर्वासा उवाच: ऐश्वर्यमददुष्टात्मन्न् अतिस्तब्धो ऽसि वासव । श्रियो धाम स्रजं यस् त्वं मद्दत्तां नाभिनन्दसि
§durvāsā uvāca: aiśvaryamadaduṣṭātmann atistabdho 'si vāsava / śriyo dhāma srajaṃ yas tvaṃ maddattāṃ nābhinandasi
- ViP 1.9.13Open verse →
प्रसाद इति नोक्तं ते प्रणिपातपुरःसरम् । हर्षोत्फुल्लकपोलेन न चापि शिरसा धृता
prasāda iti noktaṃ te praṇipātapuraḥsaram / harṣotphullakapolena na cāpi śirasā dhṛtā
- ViP 1.9.14Open verse →
मया दत्ताम् इमां मालां यस्मान् न बहु मन्यसे । त्रैलोक्यश्रीर् अतो मूढ विनाशम् उपयास्यति
mayā dattām imāṃ mālāṃ yasmān na bahu manyase / trailokyaśrīr ato mūḍha vināśam upayāsyati
- ViP 1.9.15Open verse →
मां मन्यते ऽन्यैः सदृशं नूनं शक्र भवान् द्विजैः । अतो ऽवमानम् अस्मासु मानिना भवता कृतम्
māṃ manyate 'nyaiḥ sadṛśaṃ nūnaṃ śakra bhavān dvijaiḥ / ato 'vamānam asmāsu māninā bhavatā kṛtam
- ViP 1.9.16Open verse →
मद्दत्ता भवता यस्मात् क्षिप्ता माला महीतले । तस्मात् प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति
maddattā bhavatā yasmāt kṣiptā mālā mahītale / tasmāt praṇaṣṭalakṣmīkaṃ trailokyaṃ te bhaviṣyati
- ViP 1.9.17Open verse →
यस्य संजातकोपस्य भयम् एति चराचरम् । तं त्वं माम् अतिगर्वेण देवराजावमन्यसे
yasya saṃjātakopasya bhayam eti carācaram / taṃ tvaṃ mām atigarveṇa devarājāvamanyase
- ViP 1.9.18Open verse →
§पराशर उवाच: महेन्द्रो वारणस्कन्धाद् अवतीर्य त्वरान्वितः । प्रसादयाम् आस मुनिं दुर्वाससम् अकल्मषम्
§parāśara uvāca: mahendro vāraṇaskandhād avatīrya tvarānvitaḥ / prasādayām āsa muniṃ durvāsasam akalmaṣam
- ViP 1.9.19Open verse →
प्रसाद्यमानः स तदा प्रणिपातपुरःसरम् । प्रत्युवाच सहस्राक्षं दुर्वासा मुनिसत्तमः
prasādyamānaḥ sa tadā praṇipātapuraḥsaram / pratyuvāca sahasrākṣaṃ durvāsā munisattamaḥ
- ViP 1.9.20Open verse →
§दुर्वासा उवाच: नाहं कृपालुहृदयो न च मां भजते क्षमा । अन्ये ते मुनयः शक्र दुर्वाससम् अवेहि माम्
§durvāsā uvāca: nāhaṃ kṛpāluhṛdayo na ca māṃ bhajate kṣamā / anye te munayaḥ śakra durvāsasam avehi mām
- ViP 1.9.21Open verse →
गौतमादिभिर् अन्यैस् त्वं गर्वम् आपादितो मुधा । अक्षान्तिसारसर्वस्वं दुर्वाससम् अवेहि माम्
gautamādibhir anyais tvaṃ garvam āpādito mudhā / akṣāntisārasarvasvaṃ durvāsasam avehi mām
- ViP 1.9.22Open verse →
वसिष्ठाद्यैर् दयासारैः स्तोत्रं कुर्वद्भिर् उच्चकैः । गर्वं गतो ऽसि येनैवं माम् अप्य् अद्यावमन्यसे
vasiṣṭhādyair dayāsāraiḥ stotraṃ kurvadbhir uccakaiḥ / garvaṃ gato 'si yenaivaṃ mām apy adyāvamanyase
- ViP 1.9.23Open verse →
ज्वलज्जटाकलापस्य भृकुटीकुटिलं मुखम् । निरीक्ष्य कस् त्रिभुवने मम यो न गतो भयम्
jvalajjaṭākalāpasya bhṛkuṭīkuṭilaṃ mukham / nirīkṣya kas tribhuvane mama yo na gato bhayam
- ViP 1.9.24Open verse →
नाहं क्षमिष्ये बहुना किम् उक्तेन शतक्रतो । विडम्बनाम् इमां भूयः करोष्य् अनुनयात्मिकाम्
nāhaṃ kṣamiṣye bahunā kim uktena śatakrato / viḍambanām imāṃ bhūyaḥ karoṣy anunayātmikām
- ViP 1.9.25Open verse →
§पराशर उवाच: इत्य् उक्त्वा प्रययौ विप्रो देवराजो ऽपि तं पुनः । आरुह्यैरावतं ब्रह्मन् प्रययाव् अमरावतीम्
§parāśara uvāca: ity uktvā prayayau vipro devarājo 'pi taṃ punaḥ / āruhyairāvataṃ brahman prayayāv amarāvatīm
- ViP 1.9.26Open verse →
ततःप्रभृति निःश्रीकं सशक्रं भुवनत्रयम् । मैत्रेयासीद् अपध्वस्तं संक्षीणौषधिवीरुधम्
tataḥprabhṛti niḥśrīkaṃ saśakraṃ bhuvanatrayam / maitreyāsīd apadhvastaṃ saṃkṣīṇauṣadhivīrudham
- ViP 1.9.27Open verse →
न यज्ञाः संप्रवर्तन्ते न तपस्यन्ति तापसाः । न च दानादिधर्मेषु मनश् चक्रे तदा जनः
na yajñāḥ saṃpravartante na tapasyanti tāpasāḥ / na ca dānādidharmeṣu manaś cakre tadā janaḥ
- ViP 1.9.28Open verse →
निःसत्त्वाः सकला लोका लोभाद्युपहतेन्द्रियाः । स्वल्पे ऽपि हि बभूवुस् ते साभिलाषा द्विजोत्तम
niḥsattvāḥ sakalā lokā lobhādyupahatendriyāḥ / svalpe 'pi hi babhūvus te sābhilāṣā dvijottama
- ViP 1.9.29Open verse →
यतः सत्त्वं ततो लक्ष्मीः सत्त्वं भूत्यनुसारि च । निःश्रीकाणां कुतः सत्त्वं विना तेन गुणाः कुतः
yataḥ sattvaṃ tato lakṣmīḥ sattvaṃ bhūtyanusāri ca / niḥśrīkāṇāṃ kutaḥ sattvaṃ vinā tena guṇāḥ kutaḥ
- ViP 1.9.30Open verse →
बलशौर्याद्यभावश् च पुरुषाणां गुणैर् विना । लङ्घनीयः समस्तस्य बलशौर्यविवर्जितः । भवत्य् अपध्वस्तमतिर् लङ्घितः प्रथितः पुमान्
balaśauryādyabhāvaś ca puruṣāṇāṃ guṇair vinā / laṅghanīyaḥ samastasya balaśauryavivarjitaḥ / bhavaty apadhvastamatir laṅghitaḥ prathitaḥ pumān
- ViP 1.9.31Open verse →
एवम् अत्यन्तनिःश्रीके त्रैलोक्ये सत्त्ववर्जिते । देवान् प्रति बलोद्योगं चक्रुर् दैतेयदानवाः
evam atyantaniḥśrīke trailokye sattvavarjite / devān prati balodyogaṃ cakrur daiteyadānavāḥ
- ViP 1.9.32Open verse →
लोभाभिभूता निःश्रीका दैत्याः सत्त्वविवर्जिताः । श्रिया विहीनैर् निःसत्त्वैर् देवैश् चक्रुस् ततो रणम्
lobhābhibhūtā niḥśrīkā daityāḥ sattvavivarjitāḥ / śriyā vihīnair niḥsattvair devaiś cakrus tato raṇam
- ViP 1.9.33Open verse →
विजितास् त्रिदशा दैत्यैर् इन्द्राद्याः शरणं ययुः । पितामहं महाभागं हुताशनपुरोगमाः
vijitās tridaśā daityair indrādyāḥ śaraṇaṃ yayuḥ / pitāmahaṃ mahābhāgaṃ hutāśanapurogamāḥ
- ViP 1.9.34Open verse →
यथावत् कथितो देवैर् ब्रह्मा प्राह ततः सुरान् । परावरेशं शरणं व्रजध्वम् असुरार्दनम्
yathāvat kathito devair brahmā prāha tataḥ surān / parāvareśaṃ śaraṇaṃ vrajadhvam asurārdanam
- ViP 1.9.35Open verse →
उत्पत्तिस्थितिनाशानाम् अहेतुं हेतुम् ईश्वरम् । प्रजापतिपतिं विष्णुम् अनन्तम् अपराजितम्
utpattisthitināśānām ahetuṃ hetum īśvaram / prajāpatipatiṃ viṣṇum anantam aparājitam
- ViP 1.9.36Open verse →
प्रधानपुंसोर् अजयोः कारणं कार्यभूतयोः । प्रणतार्तिहरं विष्णुं स वः श्रेयो विधास्यति
pradhānapuṃsor ajayoḥ kāraṇaṃ kāryabhūtayoḥ / praṇatārtiharaṃ viṣṇuṃ sa vaḥ śreyo vidhāsyati
- ViP 1.9.37Open verse →
§पराशर उवाच: एवम् उक्त्वा सुरान् सर्वान् ब्रह्मा लोकपितामहः । क्षीरोदस्योत्तरं तीरं तैर् एव सहितो ययौ
§parāśara uvāca: evam uktvā surān sarvān brahmā lokapitāmahaḥ / kṣīrodasyottaraṃ tīraṃ tair eva sahito yayau
- ViP 1.9.38Open verse →
स गत्वा त्रिदशैः सर्वैः समवेतः पितामहः । तुष्टाव वाग्भिर् इष्टाभिः परावरपतिं हरिम्
sa gatvā tridaśaiḥ sarvaiḥ samavetaḥ pitāmahaḥ / tuṣṭāva vāgbhir iṣṭābhiḥ parāvarapatiṃ harim
- ViP 1.9.39Open verse →
§ब्रह्मोवाच: नमामि सर्वं सर्वेशम् अनन्तम् अजम् अव्ययम् । लोकधामधराधारम् अप्रकाशम् अभेदिनम्
§brahmovāca: namāmi sarvaṃ sarveśam anantam ajam avyayam / lokadhāmadharādhāram aprakāśam abhedinam
- ViP 1.9.40Open verse →
नारायणम् अणीयांसम् अशेषाणाम् अणीयसाम् । समस्तानां गरिष्ठं च भूरादीनां गरीयसाम्
nārāyaṇam aṇīyāṃsam aśeṣāṇām aṇīyasām / samastānāṃ gariṣṭhaṃ ca bhūrādīnāṃ garīyasām
- ViP 1.9.41Open verse →
यत्र सर्वं यतः सर्वम् उत्पन्नं मत्पुरःसरम् । सर्वभूतश् च यो देवः पराणाम् अपि यः परः
yatra sarvaṃ yataḥ sarvam utpannaṃ matpuraḥsaram / sarvabhūtaś ca yo devaḥ parāṇām api yaḥ paraḥ
- ViP 1.9.42Open verse →
परः परस्मात् पुरुषात् परमात्मस्वरूपधृक् । योगिभिश् चिन्त्यते यो ऽसौ मुक्तिहेतोर् मुमुक्षुभिः
paraḥ parasmāt puruṣāt paramātmasvarūpadhṛk / yogibhiś cintyate yo 'sau muktihetor mumukṣubhiḥ
- ViP 1.9.43Open verse →
सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । स शुद्धः सर्वशुद्धेभ्यः पुमान् आद्यः प्रसीदतु
sattvādayo na santīśe yatra ca prākṛtā guṇāḥ / sa śuddhaḥ sarvaśuddhebhyaḥ pumān ādyaḥ prasīdatu
- ViP 1.9.44Open verse →
कलाकाष्ठानिमेषादि कालसूत्रस्य गोचरे । यस्य शक्तिर् न शुद्धस्य प्रसीदतु स नो हरिः
kalākāṣṭhānimeṣādi kālasūtrasya gocare / yasya śaktir na śuddhasya prasīdatu sa no hariḥ
- ViP 1.9.45Open verse →
प्रोच्यते परमेशो हि यः शुद्धो ऽप्य् उपचारतः । प्रसीदतु स नो विष्णुर् आत्मा यः सर्वदेहिनाम्
procyate parameśo hi yaḥ śuddho 'py upacārataḥ / prasīdatu sa no viṣṇur ātmā yaḥ sarvadehinām
- ViP 1.9.46Open verse →
यः कारणं च कार्यं च कारणस्यापि कारणम् । कार्यस्यापि च यः कार्यं प्रसीदतु स नो हरिः
yaḥ kāraṇaṃ ca kāryaṃ ca kāraṇasyāpi kāraṇam / kāryasyāpi ca yaḥ kāryaṃ prasīdatu sa no hariḥ
- ViP 1.9.47Open verse →
कार्यकार्यस्य यत् कार्यं तत्कार्यस्यापि यः स्वयम् । तत्कार्यकार्यभूतो यस् ततश् च प्रणतो ऽस्मि तम्
kāryakāryasya yat kāryaṃ tatkāryasyāpi yaḥ svayam / tatkāryakāryabhūto yas tataś ca praṇato 'smi tam
- ViP 1.9.48Open verse →
कारणं कारणस्यापि तस्य कारणकारणम् । तत्कारणानां हेतुं तं प्रणतो ऽस्मि सुरेश्वरम्
kāraṇaṃ kāraṇasyāpi tasya kāraṇakāraṇam / tatkāraṇānāṃ hetuṃ taṃ praṇato 'smi sureśvaram
- ViP 1.9.49Open verse →
भोक्तारं भोज्यभूतं च स्रष्टारं सृज्यम् एव च । कार्यकर्तृस्वरूपं तं प्रणतो ऽस्मि परं पदम्
bhoktāraṃ bhojyabhūtaṃ ca sraṣṭāraṃ sṛjyam eva ca / kāryakartṛsvarūpaṃ taṃ praṇato 'smi paraṃ padam
- ViP 1.9.50Open verse →
विशुद्धबोधवन् नित्यम् अजम् अक्षयम् अव्ययम् । अव्यक्तम् अविकारं यत् तद् विष्णोः परमं पदम्
viśuddhabodhavan nityam ajam akṣayam avyayam / avyaktam avikāraṃ yat tad viṣṇoḥ paramaṃ padam
- ViP 1.9.51Open verse →
न स्थूलं न च सूक्ष्मं यन् न विशेषणगोचरम् । तत् पदं परमं विष्णोः प्रणमामि सदामलम्
na sthūlaṃ na ca sūkṣmaṃ yan na viśeṣaṇagocaram / tat padaṃ paramaṃ viṣṇoḥ praṇamāmi sadāmalam
- ViP 1.9.52Open verse →
यस्यायुतायुतांशांशे विश्वशक्तिर् इयं स्थिता । परब्रह्मस्वरूपस्य प्रणमामि तम् अव्ययम्
yasyāyutāyutāṃśāṃśe viśvaśaktir iyaṃ sthitā / parabrahmasvarūpasya praṇamāmi tam avyayam
- ViP 1.9.53Open verse →
यन् न देवा न मुनयो न चाहं न च शंकरः । जानन्ति परमेशस्य तद् विष्णोः परमं पदम्
yan na devā na munayo na cāhaṃ na ca śaṃkaraḥ / jānanti parameśasya tad viṣṇoḥ paramaṃ padam
- ViP 1.9.54Open verse →
यद् योगिनः सदोद्युक्ताः पुण्यपापक्षये ऽक्षयम् । पश्यन्ति प्रणवे चिन्त्यं तद् विष्णोः परमं पदम्
yad yoginaḥ sadodyuktāḥ puṇyapāpakṣaye 'kṣayam / paśyanti praṇave cintyaṃ tad viṣṇoḥ paramaṃ padam
- ViP 1.9.55Open verse →
शक्तयो यस्य देवस्य ब्रह्मविष्णुशिवात्मिकाः । भवन्त्य् अभूतपूर्वस्य तद् विष्णोः परमं पदम्
śaktayo yasya devasya brahmaviṣṇuśivātmikāḥ / bhavanty abhūtapūrvasya tad viṣṇoḥ paramaṃ padam
- ViP 1.9.56Open verse →
सर्वेश सर्वभूतात्मन् सर्व सर्वाश्रयाच्युत । प्रसीद विष्णो भक्तानां व्रज नो दृष्टिगोचरम्
sarveśa sarvabhūtātman sarva sarvāśrayācyuta / prasīda viṣṇo bhaktānāṃ vraja no dṛṣṭigocaram
- ViP 1.9.57Open verse →
§पराशर उवाच: इत्य् उदीरितम् आकर्ण्य ब्रह्मणस् त्रिदशास् ततः । प्रणम्योचुः प्रसीदेति व्रज नो दृष्टिगोचरम्
§parāśara uvāca: ity udīritam ākarṇya brahmaṇas tridaśās tataḥ / praṇamyocuḥ prasīdeti vraja no dṛṣṭigocaram
- ViP 1.9.58Open verse →
यन् नायं भगवान् ब्रह्मा जानाति परमं पदम् । तं नताः स्मो जगद्धाम तव सर्वगताच्युत
yan nāyaṃ bhagavān brahmā jānāti paramaṃ padam / taṃ natāḥ smo jagaddhāma tava sarvagatācyuta
- ViP 1.9.59Open verse →
इत्य् अन्ते वचसस् तेषां देवानां ब्रह्मणस् तथा । ऊचुर् देवर्षयः सर्वे बृहस्पतिपुरोगमाः
ity ante vacasas teṣāṃ devānāṃ brahmaṇas tathā / ūcur devarṣayaḥ sarve bṛhaspatipurogamāḥ
- ViP 1.9.60Open verse →
आद्यो यज्ञः पुमान् ईड्यो यः पूर्वेषां च पूर्वजः । तं नताः स्मो जगत्स्रष्टुः स्रष्टारम् अविशेषणम्
ādyo yajñaḥ pumān īḍyo yaḥ pūrveṣāṃ ca pūrvajaḥ / taṃ natāḥ smo jagatsraṣṭuḥ sraṣṭāram aviśeṣaṇam
- ViP 1.9.61Open verse →
भगवन् भूतभव्येश यज्ञमूर्तिधराव्यय । प्रसीद प्रणतानां त्वं सर्वेषां देहि दर्शनम्
bhagavan bhūtabhavyeśa yajñamūrtidharāvyaya / prasīda praṇatānāṃ tvaṃ sarveṣāṃ dehi darśanam
- ViP 1.9.62Open verse →
एष ब्रह्मा तथैवायं सह रुद्रैस् त्रिलोचनः । सर्वादित्यैः समं पूषा पावको ऽयं सहाग्निभिः
eṣa brahmā tathaivāyaṃ saha rudrais trilocanaḥ / sarvādityaiḥ samaṃ pūṣā pāvako 'yaṃ sahāgnibhiḥ
- ViP 1.9.63Open verse →
अश्विनौ वसवश् चेमे सर्वे चैते मरुद्गणाः । साध्या विश्वे तथा देवा देवेन्द्रश् चायम् ईश्वरः
aśvinau vasavaś ceme sarve caite marudgaṇāḥ / sādhyā viśve tathā devā devendraś cāyam īśvaraḥ
- ViP 1.9.64Open verse →
प्रणामप्रवणा नाथ दैत्यसैन्यपराजिताः । शरणं त्वाम् अनुप्राप्ताः समस्ता देवतागणाः
praṇāmapravaṇā nātha daityasainyaparājitāḥ / śaraṇaṃ tvām anuprāptāḥ samastā devatāgaṇāḥ
- ViP 1.9.65Open verse →
§पराशर उवाच: एवं संस्तूयमानस् तु भगवाञ् छङ्खचक्रधृक् । जगाम दर्शनं तेषां मैत्रेय परमेश्वरः
§parāśara uvāca: evaṃ saṃstūyamānas tu bhagavāñ chaṅkhacakradhṛk / jagāma darśanaṃ teṣāṃ maitreya parameśvaraḥ
- ViP 1.9.66Open verse →
तं दृष्ट्वा ते तदा देवाः शङ्खचक्रगदाधरम् । अपूर्वरूपसंस्थानं तेजसां राशिम् ऊर्जितम्
taṃ dṛṣṭvā te tadā devāḥ śaṅkhacakragadādharam / apūrvarūpasaṃsthānaṃ tejasāṃ rāśim ūrjitam
- ViP 1.9.67Open verse →
प्रणम्य प्रणताः पूर्वं संक्षोभस्तिमितेक्षणाः । तुष्टुवुः पुण्डरीकाक्षं पितामहपुरोगमाः
praṇamya praṇatāḥ pūrvaṃ saṃkṣobhastimitekṣaṇāḥ / tuṣṭuvuḥ puṇḍarīkākṣaṃ pitāmahapurogamāḥ
- ViP 1.9.68Open verse →
§देवा ऊचुः: नमो नमस् ते विश्वेश त्वं ब्रह्मा त्वं पिनाकधृक् । इन्द्रस् त्वम् अग्निः पवनो वरुणः सविता यमः । वसवो मरुतः साध्या विश्वेदेवगणा भवान्
§devā ūcuḥ: namo namas te viśveśa tvaṃ brahmā tvaṃ pinākadhṛk / indras tvam agniḥ pavano varuṇaḥ savitā yamaḥ / vasavo marutaḥ sādhyā viśvedevagaṇā bhavān
- ViP 1.9.69Open verse →
यो ऽयं तवागतो देव समीपं देवतागणः । स त्वम् एव जगत्स्रष्टा यतः सर्वगतो भवान्
yo 'yaṃ tavāgato deva samīpaṃ devatāgaṇaḥ / sa tvam eva jagatsraṣṭā yataḥ sarvagato bhavān
- ViP 1.9.70Open verse →
त्वं यज्ञस् त्वं वषट्कारस् त्वम् ओङ्कारः प्रजापतिः । वेत्ता वेद्यं च सर्वात्मंस् त्वन्मयं चाखिलं जगत्
tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṅkāraḥ prajāpatiḥ / vettā vedyaṃ ca sarvātmaṃs tvanmayaṃ cākhilaṃ jagat
- ViP 1.9.71Open verse →
त्वाम् आर्ताः शरणं विष्णो प्रयाता दैत्यनिर्जिताः । वयं प्रसीद सर्वात्मंस् तेजसाप्याययस्व नः
tvām ārtāḥ śaraṇaṃ viṣṇo prayātā daityanirjitāḥ / vayaṃ prasīda sarvātmaṃs tejasāpyāyayasva naḥ
- ViP 1.9.72Open verse →
तावद् आर्तिस् तथा वाञ्छा तावन् मोहस् तथासुखम् । यावन् नायाति शरणं त्वाम् अशेषाघनाशनम्
tāvad ārtis tathā vāñchā tāvan mohas tathāsukham / yāvan nāyāti śaraṇaṃ tvām aśeṣāghanāśanam
- ViP 1.9.73Open verse →
त्वं प्रसादं प्रसन्नात्मन् प्रपन्नानां कुरुष्व नः । तेजसां नाथ सर्वेषां स्वशक्त्याप्यायनं कुरु
tvaṃ prasādaṃ prasannātman prapannānāṃ kuruṣva naḥ / tejasāṃ nātha sarveṣāṃ svaśaktyāpyāyanaṃ kuru
- ViP 1.9.74Open verse →
§पराशर उवाच: एवं संस्तूयमानस् तु प्रणतैर् अमरैर् हरिः । प्रसन्नदृष्टिर् भगवान् इदम् आह स विश्वकृत्
§parāśara uvāca: evaṃ saṃstūyamānas tu praṇatair amarair hariḥ / prasannadṛṣṭir bhagavān idam āha sa viśvakṛt
- ViP 1.9.75Open verse →
§भगवान् उवाच: तेजसो भवतां देवाः करिष्याम्य् उपबृंहणम् । वदाम्य् अहं यत् क्रियतां भवद्भिस् तद् इदं सुराः
§bhagavān uvāca: tejaso bhavatāṃ devāḥ kariṣyāmy upabṛṃhaṇam / vadāmy ahaṃ yat kriyatāṃ bhavadbhis tad idaṃ surāḥ
- ViP 1.9.76Open verse →
आनीय सहिता दैत्यैः क्षीराब्धौ सकलौषधीः । मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् । मथ्यताम् अमृतं देवाः सहाये मय्य् अवस्थिते
ānīya sahitā daityaiḥ kṣīrābdhau sakalauṣadhīḥ / manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim / mathyatām amṛtaṃ devāḥ sahāye mayy avasthite
- ViP 1.9.77Open verse →
सामपूर्वं च दैतेयास् तत्र साहाय्यकर्मणि । सामान्यफलभोक्तारो यूयं वाच्या भविष्यथ
sāmapūrvaṃ ca daiteyās tatra sāhāyyakarmaṇi / sāmānyaphalabhoktāro yūyaṃ vācyā bhaviṣyatha
- ViP 1.9.78Open verse →
मथ्यमाने च तत्राब्धौ यत् समुत्पद्यते ऽमृतम् । तत्पानाद् बलिनो यूयम् अमराश् च भविष्यथ
mathyamāne ca tatrābdhau yat samutpadyate 'mṛtam / tatpānād balino yūyam amarāś ca bhaviṣyatha
- ViP 1.9.79Open verse →
तथा चाहं करिष्यामि ते यथा त्रिदशद्विषः । न प्राप्स्यन्त्य् अमृतं देवाः केवलं क्लेशभागिनः
tathā cāhaṃ kariṣyāmi te yathā tridaśadviṣaḥ / na prāpsyanty amṛtaṃ devāḥ kevalaṃ kleśabhāginaḥ
- ViP 1.9.80Open verse →
§पराशर उवाच: इत्य् उक्ता देवदेवेन सर्व एव ततः सुराः । संधानम् असुरैः कृत्वा यत्नवन्तो ऽमृते ऽभवन्
§parāśara uvāca: ity uktā devadevena sarva eva tataḥ surāḥ / saṃdhānam asuraiḥ kṛtvā yatnavanto 'mṛte 'bhavan
- ViP 1.9.81Open verse →
नानौषधीः समानीय देवदैतेयदानवाः । क्षिप्त्वा क्षीराब्धिपयसि शरदभ्रामलत्विषि
nānauṣadhīḥ samānīya devadaiteyadānavāḥ / kṣiptvā kṣīrābdhipayasi śaradabhrāmalatviṣi
- ViP 1.9.82Open verse →
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् । ततो मथितुम् आरब्धा मैत्रेय तरसामृतम्
manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā ca vāsukim / tato mathitum ārabdhā maitreya tarasāmṛtam
- ViP 1.9.83Open verse →
विबुधाः सहिताः सर्वे यतः पुच्छं ततः कृताः । कृष्णेन वासुकेर् दैत्याः पूर्वकाये निवेशिताः
vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ kṛtāḥ / kṛṣṇena vāsuker daityāḥ pūrvakāye niveśitāḥ
- ViP 1.9.84Open verse →
ते तस्य फणनिःश्वासवह्निनापहतत्विषः । निस्तेजसो ऽसुराः सर्वे बभूवुर् अमितद्युते
te tasya phaṇaniḥśvāsavahnināpahatatviṣaḥ / nistejaso 'surāḥ sarve babhūvur amitadyute
- ViP 1.9.85Open verse →
तेनैव मुखनिःश्वासवायुनास्तबलाहकैः । पुच्छप्रदेशे वर्षद्भिस् तदा चाप्यायिताः सुराः
tenaiva mukhaniḥśvāsavāyunāstabalāhakaiḥ / pucchapradeśe varṣadbhis tadā cāpyāyitāḥ surāḥ
- ViP 1.9.86Open verse →
क्षीरोदमध्ये भगवान् कूर्मरूपी स्वयं हरिः । मन्दराद्रेर् अधिष्ठानं भ्रमतो ऽभून् महामुने
kṣīrodamadhye bhagavān kūrmarūpī svayaṃ hariḥ / mandarādrer adhiṣṭhānaṃ bhramato 'bhūn mahāmune
- ViP 1.9.87Open verse →
रूपेणान्येन देवानां मध्ये चक्रगदाधरः । चकर्ष नागराजानं दैत्यमध्ये ऽपरेण च
rūpeṇānyena devānāṃ madhye cakragadādharaḥ / cakarṣa nāgarājānaṃ daityamadhye 'pareṇa ca
- ViP 1.9.88Open verse →
उपर्य् आक्रान्तवाञ् छैलं बृहद्रूपेण केशवः । तथापरेण मैत्रेय यन् न दृष्टं सुरासुरैः
upary ākrāntavāñ chailaṃ bṛhadrūpeṇa keśavaḥ / tathāpareṇa maitreya yan na dṛṣṭaṃ surāsuraiḥ
- ViP 1.9.89Open verse →
तेजसा नागराजानं तथाप्यायितवान् हरिः । अन्येन तेजसा देवान् उपबृंहितवान् विभुः
tejasā nāgarājānaṃ tathāpyāyitavān hariḥ / anyena tejasā devān upabṛṃhitavān vibhuḥ
- ViP 1.9.90Open verse →
मथ्यमाने ततस् तस्मिन् क्षीराब्धौ देवदानवैः । हविर्धामाभवत् पूर्वं सुरभिः सुरपूजिता
mathyamāne tatas tasmin kṣīrābdhau devadānavaiḥ / havirdhāmābhavat pūrvaṃ surabhiḥ surapūjitā
- ViP 1.9.91Open verse →
जग्मुर् मुदं ततो देवा दानवाश् च महामुने । व्याक्षिप्तचेतसश् चैव बभूवुः स्तिमितेक्षणाः
jagmur mudaṃ tato devā dānavāś ca mahāmune / vyākṣiptacetasaś caiva babhūvuḥ stimitekṣaṇāḥ
- ViP 1.9.92Open verse →
किम् एतद् इति सिद्धानां दिवि चिन्तयतां ततः । बभूव वारुणी देवी मदाघूर्णितलोचना
kim etad iti siddhānāṃ divi cintayatāṃ tataḥ / babhūva vāruṇī devī madāghūrṇitalocanā
- ViP 1.9.93Open verse →
कृतावर्तात् ततस् तस्मात् क्षीरोदाद् वासयञ् जगत् । गन्धेन पारिजातो ऽभूद् देवस्त्रीनन्दनस् तरुः
kṛtāvartāt tatas tasmāt kṣīrodād vāsayañ jagat / gandhena pārijāto 'bhūd devastrīnandanas taruḥ
- ViP 1.9.94Open verse →
रूपौदार्यगुणोपेतस् ततश् चाप्सरसां गणः । क्षीरोदधेः समुत्पन्नो मैत्रेय परमाद्भुतः
rūpaudāryaguṇopetas tataś cāpsarasāṃ gaṇaḥ / kṣīrodadheḥ samutpanno maitreya paramādbhutaḥ
- ViP 1.9.95Open verse →
ततः शीतांशुर् अभवज् जगृहे तं महेश्वरः । जगृहुश् च विषं नागाः क्षीरोदाब्धिसमुत्थितम्
tataḥ śītāṃśur abhavaj jagṛhe taṃ maheśvaraḥ / jagṛhuś ca viṣaṃ nāgāḥ kṣīrodābdhisamutthitam
- ViP 1.9.96Open verse →
ततो धन्वन्तरिर् देवः श्वेताम्बरधरः स्वयम् । बिभ्रत्कमण्डलुं पूर्णम् अमृतस्य समुत्थितः
tato dhanvantarir devaḥ śvetāmbaradharaḥ svayam / bibhratkamaṇḍaluṃ pūrṇam amṛtasya samutthitaḥ
- ViP 1.9.97Open verse →
ततः स्वस्थमनस्कास् ते सर्वे दैतेयदानवाः । बभूवुर् मुदिताः सद्यो मैत्रेय मुनिभिः सह
tataḥ svasthamanaskās te sarve daiteyadānavāḥ / babhūvur muditāḥ sadyo maitreya munibhiḥ saha
- ViP 1.9.98Open verse →
ततः स्फुरत्कान्तिमती विकासिकमले स्थिता । श्रीर् देवी पयसस् तस्माद् उत्थिता धृतपङ्कजा
tataḥ sphuratkāntimatī vikāsikamale sthitā / śrīr devī payasas tasmād utthitā dhṛtapaṅkajā
- ViP 1.9.99Open verse →
तां तुष्टुवुर् मुदा युक्ताः श्रीसूक्तेन महर्षयः
tāṃ tuṣṭuvur mudā yuktāḥ śrīsūktena maharṣayaḥ
- ViP 1.9.100Open verse →
विश्वावसुमुखास् तस्या गन्धर्वाः पुरतो जगुः । घृताचीप्रमुखा ब्रह्मन् ननृतुश् चाप्सरोगणाः
viśvāvasumukhās tasyā gandharvāḥ purato jaguḥ / ghṛtācīpramukhā brahman nanṛtuś cāpsarogaṇāḥ
- ViP 1.9.101Open verse →
गङ्गाद्याः सरितस् तोयैः स्नानार्थम् उपतस्थिरे । दिग्गजा हेमपात्रस्थम् आदाय विमलं जलम् । स्नापयां चक्रिरे देवीं सर्वलोकमहेश्वरीम्
gaṅgādyāḥ saritas toyaiḥ snānārtham upatasthire / diggajā hemapātrastham ādāya vimalaṃ jalam / snāpayāṃ cakrire devīṃ sarvalokamaheśvarīm
- ViP 1.9.102Open verse →
क्षीरोदो रूपधृक् तस्यै मालाम् अम्लानपङ्कजाम् । ददौ विभूषणान्य् अङ्गे विश्वकर्मा चकार ह
kṣīrodo rūpadhṛk tasyai mālām amlānapaṅkajām / dadau vibhūṣaṇāny aṅge viśvakarmā cakāra ha
- ViP 1.9.103Open verse →
दिव्यमाल्याम्बरधरा स्नाता भूषणभूषिता । पश्यतां सर्वदेवानां ययौ वक्षःस्थलं हरेः
divyamālyāmbaradharā snātā bhūṣaṇabhūṣitā / paśyatāṃ sarvadevānāṃ yayau vakṣaḥsthalaṃ hareḥ
- ViP 1.9.104Open verse →
ततो ऽवलोकिता देवा हरिवक्षःस्थलस्थया । लक्ष्म्या मैत्रेय सहसा परां निर्वृतिम् आगताः
tato 'valokitā devā harivakṣaḥsthalasthayā / lakṣmyā maitreya sahasā parāṃ nirvṛtim āgatāḥ
- ViP 1.9.105Open verse →
उद्वेगं परमं जग्मुर् दैत्या विष्णुपराङ्मुखाः । त्यक्ता लक्ष्म्या महाभाग विप्रचित्तिपुरोगमाः
udvegaṃ paramaṃ jagmur daityā viṣṇuparāṅmukhāḥ / tyaktā lakṣmyā mahābhāga vipracittipurogamāḥ
- ViP 1.9.106Open verse →
ततस् ते जगृहुर् दैत्या धन्वन्तरिकरे स्थितम् । कमण्डलुं महावीर्या यत्रास्ते तद् द्विजामृतम्
tatas te jagṛhur daityā dhanvantarikare sthitam / kamaṇḍaluṃ mahāvīryā yatrāste tad dvijāmṛtam
- ViP 1.9.107Open verse →
मायया मोहयित्वा तान् विष्णुः स्त्रीरूपम् आस्थितः । दानवेभ्यस् तद् आदाय देवेभ्यः प्रददौ विभुः
māyayā mohayitvā tān viṣṇuḥ strīrūpam āsthitaḥ / dānavebhyas tad ādāya devebhyaḥ pradadau vibhuḥ
- ViP 1.9.108Open verse →
ततः पपुः सुरगणाः शक्राद्यास् तत् तदामृतम् । उद्यतायुधनिस्त्रिंशा दैत्यास् तांश् च समभ्ययुः
tataḥ papuḥ suragaṇāḥ śakrādyās tat tadāmṛtam / udyatāyudhanistriṃśā daityās tāṃś ca samabhyayuḥ
- ViP 1.9.109Open verse →
पीते ऽमृते च बलिभिर् देवैर् दैत्यचमूस् तदा । वध्यमाना दिशो भेजे पातालं च विवेश वै
pīte 'mṛte ca balibhir devair daityacamūs tadā / vadhyamānā diśo bheje pātālaṃ ca viveśa vai
- ViP 1.9.110Open verse →
ततो देवा मुदा युक्ताः शङ्खचक्रगदाधरम् । प्रणिपत्य यथापूर्वम् अशासंस् तत् त्रिविष्टपम्
tato devā mudā yuktāḥ śaṅkhacakragadādharam / praṇipatya yathāpūrvam aśāsaṃs tat triviṣṭapam
- ViP 1.9.111Open verse →
द्६ इन्स्।: ततः प्रसन्नभाः सूर्यः प्रययौ स्वेन वर्त्मना । ज्योतींषि च यथामार्गं प्रययुर् मुनिसत्तम
D6 ins.: tataḥ prasannabhāḥ sūryaḥ prayayau svena vartmanā / jyotīṃṣi ca yathāmārgaṃ prayayur munisattama
- ViP 1.9.112Open verse →
जज्वाल भगवांश् चोच्चैश् चारुदीप्तिर् विभावसुः । धर्मे च सर्वभूतानां तदा मतिर् अजायत
jajvāla bhagavāṃś coccaiś cārudīptir vibhāvasuḥ / dharme ca sarvabhūtānāṃ tadā matir ajāyata
- ViP 1.9.113Open verse →
श्रिया जुष्टं च त्रैलोक्यं बभूव द्विजसत्तम । शक्रश् च त्रिदशश्रेष्ठः पुनः श्रीमान् अजायत
śriyā juṣṭaṃ ca trailokyaṃ babhūva dvijasattama / śakraś ca tridaśaśreṣṭhaḥ punaḥ śrīmān ajāyata
- ViP 1.9.114Open verse →
सिंहासनगतः शक्रः संप्राप्य त्रिदिवं पुनः । देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः
siṃhāsanagataḥ śakraḥ saṃprāpya tridivaṃ punaḥ / devarājye sthito devīṃ tuṣṭāvābjakarāṃ tataḥ
- ViP 1.9.115Open verse →
द्७ इन्स्।: §इन्द्र उवाच: नमस्ये सर्वलोकानां जननीम् अब्जसंभवाम् । श्रियम् उन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम्
D7 ins.: §indra uvāca: namasye sarvalokānāṃ jananīm abjasaṃbhavām / śriyam unnidrapadmākṣīṃ viṣṇuvakṣaḥsthalasthitām
- ViP 1.9.116Open verse →
ब्२,द्३,५,त्१,२,ग्३,म्०,एद्। वेङ्क्। इन्स्।: त्वं सिद्धिस् त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी । संध्या रात्रिः प्रभा भूतिर् मेधा श्रद्धा सरस्वती
B2,D3,5,T1,2,G3,M0,ed. Veṅk. ins.: tvaṃ siddhis tvaṃ svadhā svāhā sudhā tvaṃ lokapāvanī / saṃdhyā rātriḥ prabhā bhūtir medhā śraddhā sarasvatī
- ViP 1.9.117Open verse →
यज्ञविद्या महाविद्या गुह्यविद्या च शोभने । आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी
yajñavidyā mahāvidyā guhyavidyā ca śobhane / ātmavidyā ca devi tvaṃ vimuktiphaladāyinī
- ViP 1.9.118Open verse →
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस् त्वम् एव च । सौम्यासौम्यैर् जगद् रूपैस् त्वयैतद् देवि पूरितम्
ānvīkṣikī trayī vārtā daṇḍanītis tvam eva ca / saumyāsaumyair jagad rūpais tvayaitad devi pūritam
- ViP 1.9.119Open verse →
का त्व् अन्या त्वाम् ऋते देवि सर्वयज्ञमयं वपुः । अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः
kā tv anyā tvām ṛte devi sarvayajñamayaṃ vapuḥ / adhyāste devadevasya yogicintyaṃ gadābhṛtaḥ
- ViP 1.9.120Open verse →
त्वया देवि परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायम् अभवत् त्वयेदानीं समेधितम्
tvayā devi parityaktaṃ sakalaṃ bhuvanatrayam / vinaṣṭaprāyam abhavat tvayedānīṃ samedhitam
- ViP 1.9.121Open verse →
दाराः पुत्रास् तथागारं सुहृद्धान्यधनादिकम् । भवत्य् एतन् महाभागे नित्यं त्वद्वीक्षणान् नृणाम्
dārāḥ putrās tathāgāraṃ suhṛddhānyadhanādikam / bhavaty etan mahābhāge nityaṃ tvadvīkṣaṇān nṛṇām
- ViP 1.9.122Open verse →
शरीरारोग्यम् ऐश्वर्यम् अरिपक्षक्षयः सुखम् । देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम्
śarīrārogyam aiśvaryam aripakṣakṣayaḥ sukham / devi tvaddṛṣṭidṛṣṭānāṃ puruṣāṇāṃ na durlabham
- ViP 1.9.123Open verse →
त्वं माता सर्वभूतानां देवदेवो हरिः पिता । त्वयैतद् विष्णुना चाम्ब जगद् व्याप्तं चराचरम्
tvaṃ mātā sarvabhūtānāṃ devadevo hariḥ pitā / tvayaitad viṣṇunā cāmba jagad vyāptaṃ carācaram
- ViP 1.9.124Open verse →
मा नः कोशं तथा गोष्ठं मा गृहं मा परिच्छदम् । मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि
mā naḥ kośaṃ tathā goṣṭhaṃ mā gṛhaṃ mā paricchadam / mā śarīraṃ kalatraṃ ca tyajethāḥ sarvapāvani
- ViP 1.9.125Open verse →
मा पुत्रान् मा सुहृद्वर्गान् मा पशून् मा विभूषणम् । त्यजेथा मम देवस्य विष्णोर् वक्षःस्थलालये
mā putrān mā suhṛdvargān mā paśūn mā vibhūṣaṇam / tyajethā mama devasya viṣṇor vakṣaḥsthalālaye
- ViP 1.9.126Open verse →
सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर् गुणैः । त्यज्यन्ते ते नराः सद्यः संत्यक्ता ये त्वयामले
sattvena satyaśaucābhyāṃ tathā śīlādibhir guṇaiḥ / tyajyante te narāḥ sadyaḥ saṃtyaktā ye tvayāmale
- ViP 1.9.127Open verse →
त्वयावलोकिताः सद्यः शीलाद्यैर् अखिलैर् गुणैः । कुलैश्वर्यैश् च युज्यन्ते पुरुषा निर्गुणा अपि
tvayāvalokitāḥ sadyaḥ śīlādyair akhilair guṇaiḥ / kulaiśvaryaiś ca yujyante puruṣā nirguṇā api
- ViP 1.9.128Open verse →
स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् । स शूरः स च विक्रान्तो यस् त्वया देवि वीक्षितः
sa ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān / sa śūraḥ sa ca vikrānto yas tvayā devi vīkṣitaḥ
- ViP 1.9.129Open verse →
सद्यो वैगुण्यम् आयान्ति शीलाद्याः सकला गुणाः । पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे
sadyo vaiguṇyam āyānti śīlādyāḥ sakalā guṇāḥ / parāṅmukhī jagaddhātrī yasya tvaṃ viṣṇuvallabhe
- ViP 1.9.130Open verse →
न ते वर्णयितुं शक्ता गुणाञ् जिह्वापि वेधसः । प्रसीद देवि पद्माक्षि मास्मांस् त्याक्षीः कदाचन
na te varṇayituṃ śaktā guṇāñ jihvāpi vedhasaḥ / prasīda devi padmākṣi māsmāṃs tyākṣīḥ kadācana
- ViP 1.9.131Open verse →
§पराशर उवाच: एवं श्रीः संस्तुता सम्यक् प्राह हृष्टा शतक्रतुम् । शृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज
§parāśara uvāca: evaṃ śrīḥ saṃstutā samyak prāha hṛṣṭā śatakratum / śṛṇvatāṃ sarvadevānāṃ sarvabhūtasthitā dvija
- ViP 1.9.132Open verse →
§श्रीर् उवाच: परितुष्टास्मि देवेश स्तोत्रेणानेन ते हरे । वरं वृणीष्व यस् त्व् इष्टो वरदाहं तवागता
§śrīr uvāca: parituṣṭāsmi deveśa stotreṇānena te hare / varaṃ vṛṇīṣva yas tv iṣṭo varadāhaṃ tavāgatā
- ViP 1.9.133Open verse →
§इन्द्र उवाच: वरदा यदि मे देवि वरार्हो यदि चाप्य् अहम् । त्रैलोक्यं न त्वया त्याज्यम् एष मे ऽस्तु वरः परः
§indra uvāca: varadā yadi me devi varārho yadi cāpy aham / trailokyaṃ na tvayā tyājyam eṣa me 'stu varaḥ paraḥ
- ViP 1.9.134Open verse →
स्तोत्रेण यस् तथैतेन त्वां स्तोष्यत्य् अब्धिसंभवे । स त्वया न परित्याज्यो द्वितीयो ऽस्तु वरो मम
stotreṇa yas tathaitena tvāṃ stoṣyaty abdhisaṃbhave / sa tvayā na parityājyo dvitīyo 'stu varo mama
- ViP 1.9.135Open verse →
§श्रीर् उवाच: त्रैलोक्यं त्रिदशश्रेष्ठ न संत्यक्ष्यामि वासव । दत्तो वरो मयायं ते स्तोत्राराधनतुष्टया
§śrīr uvāca: trailokyaṃ tridaśaśreṣṭha na saṃtyakṣyāmi vāsava / datto varo mayāyaṃ te stotrārādhanatuṣṭayā
- ViP 1.9.136Open verse →
यश् च सायं तथा प्रातः स्तोत्रेणानेन मानवः । मां स्तोष्यति न तस्याहं भविष्यामि पराङ्मुखी
yaś ca sāyaṃ tathā prātaḥ stotreṇānena mānavaḥ / māṃ stoṣyati na tasyāhaṃ bhaviṣyāmi parāṅmukhī
- ViP 1.9.137Open verse →
§पराशर उवाच: एवं ददौ वरौ देवी देवराजाय वै पुरा । मैत्रेय श्रीर् महाभागा स्तोत्राराधनतोषिता
§parāśara uvāca: evaṃ dadau varau devī devarājāya vai purā / maitreya śrīr mahābhāgā stotrārādhanatoṣitā
- ViP 1.9.138Open verse →
भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वम् उदधेः पुनः । देवदानवयत्नेन प्रसूतामृतमन्थने
bhṛgoḥ khyātyāṃ samutpannā śrīḥ pūrvam udadheḥ punaḥ / devadānavayatnena prasūtāmṛtamanthane
- ViP 1.9.139Open verse →
एवं यदा जगत्स्वामी देवदेवो जनार्दनः । अवतारं करोत्य् एषा तदा श्रीस् तत्सहायिनी
evaṃ yadā jagatsvāmī devadevo janārdanaḥ / avatāraṃ karoty eṣā tadā śrīs tatsahāyinī
- ViP 1.9.140Open verse →
पुनश् च पद्मा संभूता आदित्यो ऽभूद् यदा हरिः । यदा तु भार्गवो रामस् तदाभूद् धरणी त्व् इयम्
punaś ca padmā saṃbhūtā ādityo 'bhūd yadā hariḥ / yadā tu bhārgavo rāmas tadābhūd dharaṇī tv iyam
- ViP 1.9.141Open verse →
राघवत्वे ऽभवत् सीता रुक्मिणी कृष्णजन्मनि । अन्येषु चावतारेषु विष्णोर् एषा सहायिनी
rāghavatve 'bhavat sītā rukmiṇī kṛṣṇajanmani / anyeṣu cāvatāreṣu viṣṇor eṣā sahāyinī
- ViP 1.9.142Open verse →
देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी । विष्णोर् देहानुरूपां वै करोत्य् एषात्मनस् तनुम्
devatve devadeheyaṃ manuṣyatve ca mānuṣī / viṣṇor dehānurūpāṃ vai karoty eṣātmanas tanum
- ViP 1.9.143Open verse →
यश् चैतच् छृणुयाज् जन्म लक्ष्म्या यश् च पठेन् नरः । श्रियो न विच्युतिस् तस्य गृहे यावत् कुलत्रयम्
yaś caitac chṛṇuyāj janma lakṣmyā yaś ca paṭhen naraḥ / śriyo na vicyutis tasya gṛhe yāvat kulatrayam
- ViP 1.9.144Open verse →
पठ्यते येषु चैवेयं गृहेषु श्रीस्तुतिर् मुने । अलक्ष्मीः कलहाधारा न तेष्व् आस्ते कदाचन
paṭhyate yeṣu caiveyaṃ gṛheṣu śrīstutir mune / alakṣmīḥ kalahādhārā na teṣv āste kadācana
- ViP 1.9.145Open verse →
एतत् ते कथितं ब्रह्मन् यन् मां त्वं परिपृच्छसि । क्षीराब्धौ श्रीर् यथा जाता पूर्वं भृगुसुता सती
etat te kathitaṃ brahman yan māṃ tvaṃ paripṛcchasi / kṣīrābdhau śrīr yathā jātā pūrvaṃ bhṛgusutā satī
- ViP 1.9.146Open verse →
इति सकलविभूत्यवाप्तिहेतुः स्तुतिर् इयम् इन्द्रमुखोद्गता हि लक्ष्म्याः । अनुदिनम् इह पठ्यते नृभिर् यैर् वसति न तेषु कदाचिद् अप्य् अलक्ष्मीः
iti sakalavibhūtyavāptihetuḥ stutir iyam indramukhodgatā hi lakṣmyāḥ / anudinam iha paṭhyate nṛbhir yair vasati na teṣu kadācid apy alakṣmīḥ
- ViP 1.10.1Open verse →
______________________________________________________ §मैत्रेय उवाच: कथितं मे त्वया सर्वं यत् पृष्टो ऽसि महामुने । भृगुसर्गात् प्रभृत्य् एष सर्गो मे कथ्यतां पुनः
______________________________________________________ §maitreya uvāca: kathitaṃ me tvayā sarvaṃ yat pṛṣṭo 'si mahāmune / bhṛgusargāt prabhṛty eṣa sargo me kathyatāṃ punaḥ
- ViP 1.10.2Open verse →
§पराशर उवाच: भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर् विष्णुपरिग्रहः । तथा धातृविधातारौ ख्यात्यां जातौ सुतौ भृगोः
§parāśara uvāca: bhṛgoḥ khyātyāṃ samutpannā lakṣmīr viṣṇuparigrahaḥ / tathā dhātṛvidhātārau khyātyāṃ jātau sutau bhṛgoḥ
- ViP 1.10.3Open verse →
आयतिर् नियतिश् चैव मेरोः कन्ये महात्मनः । धातृविधात्रोस् ते भार्ये तयोर् जातौ सुताव् उभौ
āyatir niyatiś caiva meroḥ kanye mahātmanaḥ / dhātṛvidhātros te bhārye tayor jātau sutāv ubhau
- ViP 1.10.4Open verse →
प्राणश् चैव मृकण्डुश् च मार्कण्डेयो मृकण्डुतः । ततो वेदशिरा जज्ञे प्राणस्यापि सुतं शृणु
prāṇaś caiva mṛkaṇḍuś ca mārkaṇḍeyo mṛkaṇḍutaḥ / tato vedaśirā jajñe prāṇasyāpi sutaṃ śṛṇu
- ViP 1.10.5Open verse →
प्राणस्य द्युतिमान् पुत्रो राजवांश् च ततो ऽभवत् । ततो वंशो महाभाग विस्तारं भार्गवो गतः
prāṇasya dyutimān putro rājavāṃś ca tato 'bhavat / tato vaṃśo mahābhāga vistāraṃ bhārgavo gataḥ
- ViP 1.10.6Open verse →
पत्नी मरीचेः संभूतिः पौर्णमासम् असूयत । विरजाः पर्वतश् चैव तस्य पुत्रौ महात्मनः
patnī marīceḥ saṃbhūtiḥ paurṇamāsam asūyata / virajāḥ parvataś caiva tasya putrau mahātmanaḥ
- ViP 1.10.7Open verse →
वंशसंकीर्तने पुत्रान् वदिष्ये ऽहं ततो द्विज । स्मृतिश् चाङ्गिरसः पत्नी प्रसूता कन्यकास् तथा । सिनीवाली कुहूश् चैव राका चानुमती तथा
vaṃśasaṃkīrtane putrān vadiṣye 'haṃ tato dvija / smṛtiś cāṅgirasaḥ patnī prasūtā kanyakās tathā / sinīvālī kuhūś caiva rākā cānumatī tathā
- ViP 1.10.8Open verse →
अनसूया तथैवात्रेर् जज्ञे पुत्रान् अकल्मषान् । सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम्
anasūyā tathaivātrer jajñe putrān akalmaṣān / somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam
- ViP 1.10.9Open verse →
प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस् तत्सुतो ऽभवत् । पूर्वजन्मनि सो ऽगस्त्यः स्मृतः स्वायंभुवे ऽन्तरे
prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat / pūrvajanmani so 'gastyaḥ smṛtaḥ svāyaṃbhuve 'ntare
- ViP 1.10.10Open verse →
कर्दमश् चार्वरीवांश् च सहिष्णुश् च सुतत्रयम् । क्षमा तु सुषुवे भार्या पुलहस्य प्रजापतेः
kardamaś cārvarīvāṃś ca sahiṣṇuś ca sutatrayam / kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ
- ViP 1.10.11Open verse →
क्रतोश् च सन्नतिर् भार्या वालखिल्यान् असूयत । षष्टिस् तानि सहस्राणि ऋषीणाम् ऊर्ध्वरेतसाम् । अङ्गुष्ठपर्वमात्राणां ज्वलद्भास्करतेजसाम्
kratoś ca sannatir bhāryā vālakhilyān asūyata / ṣaṣṭis tāni sahasrāṇi ṛṣīṇām ūrdhvaretasām / aṅguṣṭhaparvamātrāṇāṃ jvaladbhāskaratejasām
- ViP 1.10.12Open verse →
ऊर्जायां च वसिष्ठस्य सप्ताजायन्त वै सुताः
ūrjāyāṃ ca vasiṣṭhasya saptājāyanta vai sutāḥ
- ViP 1.10.13Open verse →
रजो गोत्रोर्ध्वबाहुश् च सवनश् चानघस् तथा । सुतपाः शुक्र इत्य् एते सर्वे सप्तर्षयो ऽमलाः
rajo gotrordhvabāhuś ca savanaś cānaghas tathā / sutapāḥ śukra ity ete sarve saptarṣayo 'malāḥ
- ViP 1.10.14Open verse →
यो ऽसाव् अग्निर् अभिमानी ब्रह्मणस् तनयो ऽग्रजः । तस्मात् स्वाहा सुतांल् लेभे त्रीन् उदारौजसो द्विज
yo 'sāv agnir abhimānī brahmaṇas tanayo 'grajaḥ / tasmāt svāhā sutāṃl lebhe trīn udāraujaso dvija
- ViP 1.10.15Open verse →
पावकं पवमानं च शुचिं चापि जलाशिनम्
pāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinam
- ViP 1.10.16Open verse →
तेषां तु संतताव् अन्ये चत्वारिंशच् च पञ्च च । कथ्यन्ते वह्नयश् चैते पिता पुत्रत्रयं च यत्
teṣāṃ tu saṃtatāv anye catvāriṃśac ca pañca ca / kathyante vahnayaś caite pitā putratrayaṃ ca yat
- ViP 1.10.17Open verse →
एवम् एकोनपञ्चाशद् वह्नयः परिकीर्तिताः
evam ekonapañcāśad vahnayaḥ parikīrtitāḥ
- ViP 1.10.18Open verse →
पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव । अग्निष्वात्ता बर्हिषदो ऽनग्नयः साग्नयश् च ये
pitaro brahmaṇā sṛṣṭā vyākhyātā ye mayā tava / agniṣvāttā barhiṣado 'nagnayaḥ sāgnayaś ca ye
- ViP 1.10.19Open verse →
तेभ्यः स्वधा सुते जज्ञे मेनां वै धारिणीं तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्य् उभे द्विज
tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā / te ubhe brahmavādinyau yoginyau cāpy ubhe dvija
- ViP 1.10.20Open verse →
उत्तमज्ञानसंपन्ने सर्वैः समुदितैर् गुणैः
uttamajñānasaṃpanne sarvaiḥ samuditair guṇaiḥ
- ViP 1.10.21Open verse →
इत्य् एषा दक्षकन्यानां कथितापत्यसंततिः । श्रद्धावान् संस्मरन्न् एताम् अनपत्यो न जायते
ity eṣā dakṣakanyānāṃ kathitāpatyasaṃtatiḥ / śraddhāvān saṃsmarann etām anapatyo na jāyate
- ViP 1.11.1Open verse →
______________________________________________________ §पराशर उवाच: प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवस्य तु । द्वौ पुत्रौ सुमहावीर्यौ धर्मज्ञौ कथितौ तव
______________________________________________________ §parāśara uvāca: priyavratottānapādau manoḥ svāyambhuvasya tu / dvau putrau sumahāvīryau dharmajñau kathitau tava
- ViP 1.11.2Open verse →
तयोर् उत्तानपादस्य सुरुच्याम् उत्तमः सुतः । अभीष्टायाम् अभूद् ब्रह्मन् पितुर् अत्यन्तवल्लभः
tayor uttānapādasya surucyām uttamaḥ sutaḥ / abhīṣṭāyām abhūd brahman pitur atyantavallabhaḥ
- ViP 1.11.3Open verse →
सुनीतिर् नाम या राज्ञस् तस्याभून् महिषी द्विज । स नातिप्रीतिमांस् तस्यां तस्याश् चाभूद् ध्रुवः सुतः
sunītir nāma yā rājñas tasyābhūn mahiṣī dvija / sa nātiprītimāṃs tasyāṃ tasyāś cābhūd dhruvaḥ sutaḥ
- ViP 1.11.4Open verse →
राजासनस्थितस्याङ्कं पितुर् भ्रातरम् आश्रितम् । दृष्ट्वोत्तमं ध्रुवश् चक्रे तम् आरोढुं मनोरथम्
rājāsanasthitasyāṅkaṃ pitur bhrātaram āśritam / dṛṣṭvottamaṃ dhruvaś cakre tam āroḍhuṃ manoratham
- ViP 1.11.5Open verse →
प्रत्यक्षं भूपतिस् तस्याः सुरुच्या नाभ्यनन्दत । प्रणयेनागतं पुत्रम् उत्सङ्गारोहणोत्सुकम्
pratyakṣaṃ bhūpatis tasyāḥ surucyā nābhyanandata / praṇayenāgataṃ putram utsaṅgārohaṇotsukam
- ViP 1.11.6Open verse →
सपत्नी तनयं दृष्ट्वा तम् अङ्कारोहणोत्सुकम् । स्वपुत्रं च तथारूढं सुरुचिर् वाक्यम् अब्रवीत्
sapatnī tanayaṃ dṛṣṭvā tam aṅkārohaṇotsukam / svaputraṃ ca tathārūḍhaṃ surucir vākyam abravīt
- ViP 1.11.7Open verse →
क्रियते किं वृथा वत्स महान् एष मनोरथः । अन्यस्त्रीगर्भजातेन असंभूय ममोदरे । उत्तमोत्तमम् अप्राप्यम् अविवेको ऽभिवाञ्छसि
kriyate kiṃ vṛthā vatsa mahān eṣa manorathaḥ / anyastrīgarbhajātena asaṃbhūya mamodare / uttamottamam aprāpyam aviveko 'bhivāñchasi
- ViP 1.11.8Open verse →
सत्यं सुतस् त्वम् अप्य् अस्य किन्तु न त्वं मया धृतः
satyaṃ sutas tvam apy asya kintu na tvaṃ mayā dhṛtaḥ
- ViP 1.11.9Open verse →
एतद् राजासनं सर्वभूभृत्संश्रयकेतनम् । योग्यं ममैव पुत्रस्य किम् आत्मा क्लिश्यते त्वया
etad rājāsanaṃ sarvabhūbhṛtsaṃśrayaketanam / yogyaṃ mamaiva putrasya kim ātmā kliśyate tvayā
- ViP 1.11.10Open verse →
उच्चैर् मनोरथस् ते ऽयं मत्पुत्रस्येव किं वृथा । सुनीत्याम् आत्मनो जन्म किं त्वया नावगम्यते
uccair manorathas te 'yaṃ matputrasyeva kiṃ vṛthā / sunītyām ātmano janma kiṃ tvayā nāvagamyate
- ViP 1.11.11Open verse →
§पराशर उवाच: उत्सृज्य पितरं बालस् तच् छ्रुत्वा मातृभाषितम् । जगाम कुपितो मातुर् निजाया द्विज मन्दिरम्
§parāśara uvāca: utsṛjya pitaraṃ bālas tac chrutvā mātṛbhāṣitam / jagāma kupito mātur nijāyā dvija mandiram
- ViP 1.11.12Open verse →
तं दृष्ट्वा कुपितं पुत्रम् ईषत्प्रस्फुरिताधरम् । सुनीतिर् अङ्कम् आरोप्य मैत्रेयैतद् अभाषत
taṃ dṛṣṭvā kupitaṃ putram īṣatprasphuritādharam / sunītir aṅkam āropya maitreyaitad abhāṣata
- ViP 1.11.13Open verse →
§सुनीतिर् उवाच: वत्स कः कोपहेतुस् ते कश् च त्वां नाभिनन्दति । को ऽवजानाति पितरं तव यस् ते ऽपराध्यति
§sunītir uvāca: vatsa kaḥ kopahetus te kaś ca tvāṃ nābhinandati / ko 'vajānāti pitaraṃ tava yas te 'parādhyati
- ViP 1.11.14Open verse →
§पराशर उवाच: इत्य् उक्तः सकलं मात्रे कथयाम् आस तद् यथा । सुरुचिः प्राह भूपालप्रत्यक्षम् अतिगर्विता
§parāśara uvāca: ity uktaḥ sakalaṃ mātre kathayām āsa tad yathā / suruciḥ prāha bhūpālapratyakṣam atigarvitā
- ViP 1.11.15Open verse →
निःश्वस्य सेति कथिते तस्मिन् पुत्रेण दुर्मनाः । श्वासक्षामेक्षणा दीना सुनीतिर् वाक्यम् अब्रवीत्
niḥśvasya seti kathite tasmin putreṇa durmanāḥ / śvāsakṣāmekṣaṇā dīnā sunītir vākyam abravīt
- ViP 1.11.16Open verse →
§सुनीतिर् उवाच: सुरुचिः सत्यम् आहेदं स्वल्पभाग्यो ऽसि पुत्रक । न हि पुण्यवतां वत्स सपत्नैर् एवम् उच्यते
§sunītir uvāca: suruciḥ satyam āhedaṃ svalpabhāgyo 'si putraka / na hi puṇyavatāṃ vatsa sapatnair evam ucyate
- ViP 1.11.17Open verse →
नोद्वेगस् तात कर्तव्यः कृतं यद् भवता पुरा । तत् को ऽपहर्तुं शक्नोति दातुं कश् चाकृतं त्वया
nodvegas tāta kartavyaḥ kṛtaṃ yad bhavatā purā / tat ko 'pahartuṃ śaknoti dātuṃ kaś cākṛtaṃ tvayā
- ViP 1.11.18Open verse →
म्०,एद्। वेङ्क्। इन्स्।: राजासनं तथा छत्रं वराश्वा वरवारणाः । यस्य पुण्यानि तस्यैव मत्वैतच् छाम्य पुत्रक
M0,ed. Veṅk. ins.: rājāsanaṃ tathā chatraṃ varāśvā varavāraṇāḥ / yasya puṇyāni tasyaiva matvaitac chāmya putraka
- ViP 1.11.19Open verse →
अन्यजन्मकृतैः पुण्यैः सुरुच्यां सुरुचिर् नृपः । भार्येति प्रोच्यते चान्या मद्विधा पुण्यवर्जिता
anyajanmakṛtaiḥ puṇyaiḥ surucyāṃ surucir nṛpaḥ / bhāryeti procyate cānyā madvidhā puṇyavarjitā
- ViP 1.11.20Open verse →
पुण्योपचयसंपन्नस् तस्याः पुत्रस् तथोत्तमः । मम पुत्रस् तथा जातः स्वल्पपुण्यो ध्रुवो भवान्
puṇyopacayasaṃpannas tasyāḥ putras tathottamaḥ / mama putras tathā jātaḥ svalpapuṇyo dhruvo bhavān
- ViP 1.11.21Open verse →
तथापि दुःखं न भवान् कर्तुम् अर्हति पुत्रक । यस्य यावत् स तेनैव स्वेन तुष्यति बुद्धिमान्
tathāpi duḥkhaṃ na bhavān kartum arhati putraka / yasya yāvat sa tenaiva svena tuṣyati buddhimān
- ViP 1.11.22Open verse →
यदि चेद् दुःखम् अत्यर्थं सुरुच्या वचनात् तव । तत् पुण्योपचये यत्नं कुरु सर्वफलप्रदे
yadi ced duḥkham atyarthaṃ surucyā vacanāt tava / tat puṇyopacaye yatnaṃ kuru sarvaphalaprade
- ViP 1.11.23Open verse →
सुशीलो भव धर्मात्मा मैत्रः प्राणिहिते रतः । निम्नं यथापः प्रवणाः पात्रम् आयान्ति संपदः
suśīlo bhava dharmātmā maitraḥ prāṇihite rataḥ / nimnaṃ yathāpaḥ pravaṇāḥ pātram āyānti saṃpadaḥ
- ViP 1.11.24Open verse →
§ध्रुव उवाच: अम्ब यत् त्वम् इदं प्राह प्रशमाय वचो मम । नैतद् दुर्वचसा भिन्ने हृदये मम तिष्ठति
§dhruva uvāca: amba yat tvam idaṃ prāha praśamāya vaco mama / naitad durvacasā bhinne hṛdaye mama tiṣṭhati
- ViP 1.11.25Open verse →
सो ऽहं तथा यतिष्यामि यथा सर्वोत्तमोत्तमम् । स्थानं प्राप्स्याम्य् अशेषाणां जगताम् अभिपूजितम्
so 'haṃ tathā yatiṣyāmi yathā sarvottamottamam / sthānaṃ prāpsyāmy aśeṣāṇāṃ jagatām abhipūjitam
- ViP 1.11.26Open verse →
सुरुचिर् दयिता राज्ञस् तस्या जातो ऽस्मि नोदरात् । प्रभावं पश्य मे ऽम्ब त्वं धृतस्यापि तवोदरे
surucir dayitā rājñas tasyā jāto 'smi nodarāt / prabhāvaṃ paśya me 'mba tvaṃ dhṛtasyāpi tavodare
- ViP 1.11.27Open verse →
उत्तमः स मम भ्राता यो गर्भेण धृतस् तया । स राजासनम् आप्नोतु पित्रा दत्तं तथास्तु तत्
uttamaḥ sa mama bhrātā yo garbheṇa dhṛtas tayā / sa rājāsanam āpnotu pitrā dattaṃ tathāstu tat
- ViP 1.11.28Open verse →
नान्यदत्तम् अभीप्स्यामि स्थानम् अम्ब स्वकर्मणा । इच्छामि तद् अहं स्थानं यन् न प्राप पिता मम
nānyadattam abhīpsyāmi sthānam amba svakarmaṇā / icchāmi tad ahaṃ sthānaṃ yan na prāpa pitā mama
- ViP 1.11.29Open verse →
§पराशर उवाच: निर्जगाम गृहान् मातुर् इत्य् उक्त्वा मातरं ध्रुवः । पुराच् च निर्गम्य ततस् तद्बाह्योपवनं ययौ
§parāśara uvāca: nirjagāma gṛhān mātur ity uktvā mātaraṃ dhruvaḥ / purāc ca nirgamya tatas tadbāhyopavanaṃ yayau
- ViP 1.11.30Open verse →
स ददर्श मुनींस् तत्र सप्त पूर्वागतान् ध्रुवः । कृष्णाजिनोत्तरीयेषु विष्टरेषु समास्थितान्
sa dadarśa munīṃs tatra sapta pūrvāgatān dhruvaḥ / kṛṣṇājinottarīyeṣu viṣṭareṣu samāsthitān
- ViP 1.11.31Open verse →
स राजपुत्रस् तान् सर्वान् प्रणिपत्याभ्यभाषत । प्रश्रयावनतः सम्यग् अभिवादनपूर्वकम्
sa rājaputras tān sarvān praṇipatyābhyabhāṣata / praśrayāvanataḥ samyag abhivādanapūrvakam
- ViP 1.11.32Open verse →
§ध्रुव उवाच: उत्तानपादतनयं मां निबोधत सत्तमाः । जातं सुनीत्यां निर्वेदाद् युष्माकं प्राप्तम् अन्तिकम्
§dhruva uvāca: uttānapādatanayaṃ māṃ nibodhata sattamāḥ / jātaṃ sunītyāṃ nirvedād yuṣmākaṃ prāptam antikam
- ViP 1.11.33Open verse →
§ऋषय ऊचुः: चतुःपञ्चाब्दसंभूतो बालस् त्वं नृपनन्दन । निर्वेदकारणं किंचित् तव नाद्यापि विद्यते
§ṛṣaya ūcuḥ: catuḥpañcābdasaṃbhūto bālas tvaṃ nṛpanandana / nirvedakāraṇaṃ kiṃcit tava nādyāpi vidyate
- ViP 1.11.34Open verse →
न चिन्त्यं भवतः किंचिद् ध्रियते भूपतिः पिता । न चैवेष्टवियोगादि तव पश्याम बालक
na cintyaṃ bhavataḥ kiṃcid dhriyate bhūpatiḥ pitā / na caiveṣṭaviyogādi tava paśyāma bālaka
- ViP 1.11.35Open verse →
शरीरे न च ते व्याधिर् अस्माभिर् उपलक्ष्यते । निर्वेदः किंनिमित्तस् ते कथ्यतां यदि विद्यते
śarīre na ca te vyādhir asmābhir upalakṣyate / nirvedaḥ kiṃnimittas te kathyatāṃ yadi vidyate
- ViP 1.11.36Open verse →
§पराशर उवाच: ततः स कथयाम् आस सुरुच्या यद् उदाहृतम् । तन् निशम्य ततः प्रोचुर् मुनयस् ते परस्परम्
§parāśara uvāca: tataḥ sa kathayām āsa surucyā yad udāhṛtam / tan niśamya tataḥ procur munayas te parasparam
- ViP 1.11.37Open verse →
अहो क्षात्रं परं तेजो बालस्यापि यद् अक्षमा । सपत्न्या मातुर् उक्तस्य हृदयान् नापसर्पति
aho kṣātraṃ paraṃ tejo bālasyāpi yad akṣamā / sapatnyā mātur uktasya hṛdayān nāpasarpati
- ViP 1.11.38Open verse →
भो भोः क्षत्रियदायाद निर्वेदाद् यत् त्वयाधुना । कर्तुं व्यवसितं तन् नः कथ्यतां यदि रोचते
bho bhoḥ kṣatriyadāyāda nirvedād yat tvayādhunā / kartuṃ vyavasitaṃ tan naḥ kathyatāṃ yadi rocate
- ViP 1.11.39Open verse →
यच् च कार्यं तवास्माभिः साहाय्यम् अमितद्युते । तद् उच्यतां विवक्षुस् त्वम् अस्माभिर् उपलक्ष्यसे
yac ca kāryaṃ tavāsmābhiḥ sāhāyyam amitadyute / tad ucyatāṃ vivakṣus tvam asmābhir upalakṣyase
- ViP 1.11.40Open verse →
§ध्रुव उवाच: नाहम् अर्थम् अभीप्सामि न राज्यं द्विजसत्तमाः । तत् स्थानम् एकम् इच्छामि भुक्तं नान्येन यत् पुरा
§dhruva uvāca: nāham artham abhīpsāmi na rājyaṃ dvijasattamāḥ / tat sthānam ekam icchāmi bhuktaṃ nānyena yat purā
- ViP 1.11.41Open verse →
एतन् मे क्रियतां सम्यक् कथ्यतां प्राप्यते यथा । स्थानम् अग्र्यं समस्तेभ्यः स्थानेभ्यो मुनिसत्तमाः
etan me kriyatāṃ samyak kathyatāṃ prāpyate yathā / sthānam agryaṃ samastebhyaḥ sthānebhyo munisattamāḥ
- ViP 1.11.42Open verse →
§मरीचिर् उवाच: अनाराधितगोविन्दैर् नरैः स्थानं नृपात्मज । न हि संप्राप्यते श्रेष्ठं तस्माद् आराधयाच्युतम्
§marīcir uvāca: anārādhitagovindair naraiḥ sthānaṃ nṛpātmaja / na hi saṃprāpyate śreṣṭhaṃ tasmād ārādhayācyutam
- ViP 1.11.43Open verse →
§अत्रिर् उवाच: परः पराणां पुरुषो यस्य तुष्टो जनार्दनः । स प्राप्नोत्य् अक्षयं स्थानम् एतत् सत्यं मयोदितम्
§atrir uvāca: paraḥ parāṇāṃ puruṣo yasya tuṣṭo janārdanaḥ / sa prāpnoty akṣayaṃ sthānam etat satyaṃ mayoditam
- ViP 1.11.44Open verse →
§अङ्गिरा उवाच: यस्यान्तः सर्वम् एवेदम् अच्युतस्याव्ययात्मनः । तम् आराधय गोविन्दं स्थानम् अग्र्यं यदीच्छसि
§aṅgirā uvāca: yasyāntaḥ sarvam evedam acyutasyāvyayātmanaḥ / tam ārādhaya govindaṃ sthānam agryaṃ yadīcchasi
- ViP 1.11.45Open verse →
§पुलस्त्य उवाच: परं ब्रह्म परं धाम यो ऽसौ ब्रह्म तथा परम् । तम् आराध्य हरिं याति मुक्तिम् अप्य् अतिदुर्लभाम्
§pulastya uvāca: paraṃ brahma paraṃ dhāma yo 'sau brahma tathā param / tam ārādhya hariṃ yāti muktim apy atidurlabhām
- ViP 1.11.46Open verse →
§क्रतुर् उवाच: यो यज्ञपुरुषो यज्ञे योगे यः परमः पुमान् । तस्मिंस् तुष्टे यद् अप्राप्यं किं तद् अस्ति जनार्दने
§kratur uvāca: yo yajñapuruṣo yajñe yoge yaḥ paramaḥ pumān / tasmiṃs tuṣṭe yad aprāpyaṃ kiṃ tad asti janārdane
- ViP 1.11.47Open verse →
§पुलह उवाच: ऐन्द्रम् इन्द्रः परं स्थानं यम् आराध्य जगत्पतिम् । प्राप यज्ञपतिं विष्णुं तम् आराधय सुव्रत
§pulaha uvāca: aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim / prāpa yajñapatiṃ viṣṇuṃ tam ārādhaya suvrata
- ViP 1.11.48Open verse →
§वसिष्ठ उवाच: प्राप्नोष्य् आराधिते विष्णौ मनसा यद् यद् इच्छसि । त्रैलोक्यान्तर्गतं स्थानं किम् उ वत्सोत्तमोत्तमम्
§vasiṣṭha uvāca: prāpnoṣy ārādhite viṣṇau manasā yad yad icchasi / trailokyāntargataṃ sthānaṃ kim u vatsottamottamam
- ViP 1.11.49Open verse →
ग्२,३ इन्स्।: §ध्रुव उवाच: आराध्यः कथितो देवो भवद्भिः प्रणतस्य मे । मया तत्परितोषाय यज् जप्तव्यं तद् उच्यताम्
G2,3 ins.: §dhruva uvāca: ārādhyaḥ kathito devo bhavadbhiḥ praṇatasya me / mayā tatparitoṣāya yaj japtavyaṃ tad ucyatām
- ViP 1.11.50Open verse →
यथा चाराधनं तस्य मया कार्यं महात्मनः । प्रसादसुमुखास् तन् मे कथयन्तु महर्षयः
yathā cārādhanaṃ tasya mayā kāryaṃ mahātmanaḥ / prasādasumukhās tan me kathayantu maharṣayaḥ
- ViP 1.11.51Open verse →
§ऋषय ऊचुः: राजपुत्र यथा विष्णोर् आराधनपरैर् नरैः । कार्यम् आराधनं तन् नो यथावच् छ्रोतुम् अर्हसि
§ṛṣaya ūcuḥ: rājaputra yathā viṣṇor ārādhanaparair naraiḥ / kāryam ārādhanaṃ tan no yathāvac chrotum arhasi
- ViP 1.11.52Open verse →
बाह्यार्थाद् अखिलाच् चित्तं त्याजयेत् प्रथमं नरः । तस्मिन्न् एव जगद्धाम्नि ततः कुर्वीत निश्चलम्
bāhyārthād akhilāc cittaṃ tyājayet prathamaṃ naraḥ / tasminn eva jagaddhāmni tataḥ kurvīta niścalam
- ViP 1.11.53Open verse →
एवम् एकाग्रचित्तेन तन्मयेन धृतात्मना । जप्तव्यं यन् निबोधैतत् तन् नः पार्थिवनन्दन
evam ekāgracittena tanmayena dhṛtātmanā / japtavyaṃ yan nibodhaitat tan naḥ pārthivanandana
- ViP 1.11.54Open verse →
हिरण्यगर्भपुरुषप्रधानव्यक्तरूपिणे । ॐ नमो वासुदेवाय शुद्धज्ञानस्वभाविने
hiraṇyagarbhapuruṣapradhānavyaktarūpiṇe / oṃ namo vāsudevāya śuddhajñānasvabhāvine
- ViP 1.11.55Open verse →
एतज् जजाप भगवान् जप्यं स्वायम्भुवो मनुः । पितामहस् तव पुरा तस्य तुष्टो जनार्दनः
etaj jajāpa bhagavān japyaṃ svāyambhuvo manuḥ / pitāmahas tava purā tasya tuṣṭo janārdanaḥ
- ViP 1.11.56Open verse →
ददौ यथाभिलषिताम् ऋद्धिं त्रैलोक्यदुर्लभाम् । तथा त्वम् अपि गोविन्दं तोषयैतत् सदा जपन्
dadau yathābhilaṣitām ṛddhiṃ trailokyadurlabhām / tathā tvam api govindaṃ toṣayaitat sadā japan
- ViP 1.12.1Open verse →
______________________________________________________ §पराशर उवाच: निशम्यैतद् अशेषेण मैत्रेय नृपतेः सुतः । निर्जगाम वनात् तस्मात् प्रणिपत्य स तान् ऋषीन्
______________________________________________________ §parāśara uvāca: niśamyaitad aśeṣeṇa maitreya nṛpateḥ sutaḥ / nirjagāma vanāt tasmāt praṇipatya sa tān ṛṣīn
- ViP 1.12.2Open verse →
कृतकृत्यम् इवात्मानं मन्यमानस् ततो द्विज । मधुसंज्ञं महापुण्यं जगाम यमुनातटम्
kṛtakṛtyam ivātmānaṃ manyamānas tato dvija / madhusaṃjñaṃ mahāpuṇyaṃ jagāma yamunātaṭam
- ViP 1.12.3Open verse →
पुनश् च मधुसंज्ञेन दैत्येनाधिष्ठितं यतः । ततो मधुवनं नाम्ना ख्यातम् अत्र महीतले
punaś ca madhusaṃjñena daityenādhiṣṭhitaṃ yataḥ / tato madhuvanaṃ nāmnā khyātam atra mahītale
- ViP 1.12.4Open verse →
हत्वा च लवणं रक्षो मधुपुत्रं महाबलम् । शत्रुघ्नो मधुरां नाम पुरीं यत्र चकार वै
hatvā ca lavaṇaṃ rakṣo madhuputraṃ mahābalam / śatrughno madhurāṃ nāma purīṃ yatra cakāra vai
- ViP 1.12.5Open verse →
यत्र वै देवदेवस्य सांनिध्यं हरिमेधसः । सर्वपापहरे तस्मिंस् तपस् तीर्थे चकार सः
yatra vai devadevasya sāṃnidhyaṃ harimedhasaḥ / sarvapāpahare tasmiṃs tapas tīrthe cakāra saḥ
- ViP 1.12.6Open verse →
मरीचिमिश्रैर् मुनिभिर् यथोद्दिष्टम् अभूत् तथा । आत्मन्य् अशेषदेवेशं स्थितं विष्णुम् अमन्यत
marīcimiśrair munibhir yathoddiṣṭam abhūt tathā / ātmany aśeṣadeveśaṃ sthitaṃ viṣṇum amanyata
- ViP 1.12.7Open verse →
अनन्यचेतसस् तस्य ध्यायतो भगवान् हरिः । सर्वभूतगतो विप्र सर्वभावगतो ऽभवत्
ananyacetasas tasya dhyāyato bhagavān hariḥ / sarvabhūtagato vipra sarvabhāvagato 'bhavat
- ViP 1.12.8Open verse →
मनस्य् अवस्थिते तस्य विष्णौ मैत्रेय योगिनः । न शशाक धरा भारम् उद्वोढुं भूतधारिणी
manasy avasthite tasya viṣṇau maitreya yoginaḥ / na śaśāka dharā bhāram udvoḍhuṃ bhūtadhāriṇī
- ViP 1.12.9Open verse →
वामपादस्थिते तस्मिन् ननामार्धेन मेदिनी । द्वितीयं च ननामार्धं क्षितेर् दक्षिणतः स्थिते
vāmapādasthite tasmin nanāmārdhena medinī / dvitīyaṃ ca nanāmārdhaṃ kṣiter dakṣiṇataḥ sthite
- ViP 1.12.10Open verse →
पादाङ्गुष्ठेन संपीड्य यदा स वसुधां स्थितः । तदा सा वसुधा विप्र चचाल सह पर्वतैः
pādāṅguṣṭhena saṃpīḍya yadā sa vasudhāṃ sthitaḥ / tadā sā vasudhā vipra cacāla saha parvataiḥ
- ViP 1.12.11Open verse →
नद्यो नदाः समुद्राश् च संक्षोभं परमं ययुः । तत्क्षोभाद् अमराः क्षोभं परं जग्मुर् महामुने
nadyo nadāḥ samudrāś ca saṃkṣobhaṃ paramaṃ yayuḥ / tatkṣobhād amarāḥ kṣobhaṃ paraṃ jagmur mahāmune
- ViP 1.12.12Open verse →
यामा नाम तदा देवा मैत्रेय परमाकुलाः । इन्द्रेण सह संमन्त्र्य ध्यानभङ्गं प्रचक्रमुः
yāmā nāma tadā devā maitreya paramākulāḥ / indreṇa saha saṃmantrya dhyānabhaṅgaṃ pracakramuḥ
- ViP 1.12.13Open verse →
कूष्माण्डा विविधै रूपैर् महेन्द्रेण महामुने । समाधिभङ्गम् अत्यन्तम् आरब्धाः कर्तुम् आतुराः
kūṣmāṇḍā vividhai rūpair mahendreṇa mahāmune / samādhibhaṅgam atyantam ārabdhāḥ kartum āturāḥ
- ViP 1.12.14Open verse →
सुनीतिर् नाम तन्माता सास्रा तत्पुरतः स्थिता । पुत्रेति करुणां वाचम् आह मायामयी तदा
sunītir nāma tanmātā sāsrā tatpurataḥ sthitā / putreti karuṇāṃ vācam āha māyāmayī tadā
- ViP 1.12.15Open verse →
पुत्रकास्मान् निवर्तस्व शरीरव्ययदारुणात् । निर्बन्धतो मया लब्धो बहुभिस् त्वं मनोरथैः
putrakāsmān nivartasva śarīravyayadāruṇāt / nirbandhato mayā labdho bahubhis tvaṃ manorathaiḥ
- ViP 1.12.16Open verse →
दीनाम् एकां परित्यक्तुम् अनाथां न त्वम् अर्हसि । सपत्नीवचनाद् वत्स अगतेस् त्वं गतिर् मम
dīnām ekāṃ parityaktum anāthāṃ na tvam arhasi / sapatnīvacanād vatsa agates tvaṃ gatir mama
- ViP 1.12.17Open verse →
क्व च त्वं पञ्चवर्षीयः क्व चैतद् दारुणं तपः । निवर्त्यतां मनः कष्टान् निर्बन्धात् फलवर्जितात्
kva ca tvaṃ pañcavarṣīyaḥ kva caitad dāruṇaṃ tapaḥ / nivartyatāṃ manaḥ kaṣṭān nirbandhāt phalavarjitāt
- ViP 1.12.18Open verse →
कालः क्रीडनकानां ते तदन्ते ऽध्ययनस्य च । ततः समस्तभोगानां तदन्ते चेष्यते तपः
kālaḥ krīḍanakānāṃ te tadante 'dhyayanasya ca / tataḥ samastabhogānāṃ tadante ceṣyate tapaḥ
- ViP 1.12.19Open verse →
कालः क्रीडनकानां यस् तव बालस्य पुत्रक । तस्मिंस् त्वम् इत्थं तपसि किं नाशायात्मनो रतः
kālaḥ krīḍanakānāṃ yas tava bālasya putraka / tasmiṃs tvam itthaṃ tapasi kiṃ nāśāyātmano rataḥ
- ViP 1.12.20Open verse →
मत्प्रीतिः परमो धर्मो वयोवस्थाक्रियाक्रमम् । अनुवर्तस्व मा मोहं निवर्तास्माद् अधर्मतः
matprītiḥ paramo dharmo vayovasthākriyākramam / anuvartasva mā mohaṃ nivartāsmād adharmataḥ
- ViP 1.12.21Open verse →
परित्यजति वत्साद्य यद्य् एतन् न भवांस् तपः । त्यक्ष्याम्य् अहम् अपि प्राणांस् ततो वै पश्यतस् तव
parityajati vatsādya yady etan na bhavāṃs tapaḥ / tyakṣyāmy aham api prāṇāṃs tato vai paśyatas tava
- ViP 1.12.22Open verse →
§पराशर उवाच: स तां विलपतीम् एवं बाष्पव्याकुललोचनाम् । समाहितमना विष्णौ पश्यन्न् अपि न दृष्टवान्
§parāśara uvāca: sa tāṃ vilapatīm evaṃ bāṣpavyākulalocanām / samāhitamanā viṣṇau paśyann api na dṛṣṭavān
- ViP 1.12.23Open verse →
वत्स वत्स सुघोराणि रक्षांस्य् एतानि भीषणे । वने ऽभ्युद्यतशस्त्राणि समायान्त्य् अपगम्यताम्
vatsa vatsa sughorāṇi rakṣāṃsy etāni bhīṣaṇe / vane 'bhyudyataśastrāṇi samāyānty apagamyatām
- ViP 1.12.24Open verse →
इत्य् उक्त्वा प्रययौ साथ रक्षांस्य् आविर्बभुस् ततः । अभ्युद्यतोग्रशस्त्राणि ज्वालामालाकुलैर् मुखैः
ity uktvā prayayau sātha rakṣāṃsy āvirbabhus tataḥ / abhyudyatograśastrāṇi jvālāmālākulair mukhaiḥ
- ViP 1.12.25Open verse →
ततो नादान् अतीवोग्रान् राजपुत्रस्य ते पुरः । मुमुचुर् दीप्तशस्त्राणि भ्रामयन्तो निशाचराः
tato nādān atīvogrān rājaputrasya te puraḥ / mumucur dīptaśastrāṇi bhrāmayanto niśācarāḥ
- ViP 1.12.26Open verse →
शिवाश् च शतशो नेदुः सज्वालकवलैर् मुखैः । त्रासाय तस्य बालस्य योगयुक्तस्य सर्वतः
śivāś ca śataśo neduḥ sajvālakavalair mukhaiḥ / trāsāya tasya bālasya yogayuktasya sarvataḥ
- ViP 1.12.27Open verse →
हन्यतां हन्यताम् एष छिद्यतां छिद्यताम् अयम् । भक्ष्यतां भक्ष्यतां चायम् इत्य् ऊचुस् ते निशाचराः
hanyatāṃ hanyatām eṣa chidyatāṃ chidyatām ayam / bhakṣyatāṃ bhakṣyatāṃ cāyam ity ūcus te niśācarāḥ
- ViP 1.12.28Open verse →
ततो नानाविधान् नादान् सिंहोष्ट्रमकराननाः । त्रासाय राजपुत्रस्य नेदुस् ते रजनीचराः
tato nānāvidhān nādān siṃhoṣṭramakarānanāḥ / trāsāya rājaputrasya nedus te rajanīcarāḥ
- ViP 1.12.29Open verse →
रक्षांसि तानि ते नादाः शिवास् तान्य् आयुधानि च । गोविन्दासक्तचित्तस्य ययुर् नेन्द्रियगोचरम्
rakṣāṃsi tāni te nādāḥ śivās tāny āyudhāni ca / govindāsaktacittasya yayur nendriyagocaram
- ViP 1.12.30Open verse →
एकाग्रचेताः सततं विष्णुम् एवात्मसंश्रयम् । दृष्टवान् पृथिवीनाथपुत्रो नान्यत् कथंचन
ekāgracetāḥ satataṃ viṣṇum evātmasaṃśrayam / dṛṣṭavān pṛthivīnāthaputro nānyat kathaṃcana
- ViP 1.12.31Open verse →
ततः सर्वासु मायासु विलीनासु पुनः सुराः । संक्षोभं परमं जग्मुस् तत्पराभवशङ्किताः
tataḥ sarvāsu māyāsu vilīnāsu punaḥ surāḥ / saṃkṣobhaṃ paramaṃ jagmus tatparābhavaśaṅkitāḥ
- ViP 1.12.32Open verse →
ते समेत्य जगद्योनिम् अनादिनिधनं हरिम् । शरण्यं शरणं यातास् तपसा तस्य तापिताः
te sametya jagadyonim anādinidhanaṃ harim / śaraṇyaṃ śaraṇaṃ yātās tapasā tasya tāpitāḥ
- ViP 1.12.33Open verse →
§देवा ऊचुः: देवदेव जगन्नाथ परेश पुरुषोत्तम । ध्रुवस्य तपसा तप्तास् त्वां वयं शरणं गताः
§devā ūcuḥ: devadeva jagannātha pareśa puruṣottama / dhruvasya tapasā taptās tvāṃ vayaṃ śaraṇaṃ gatāḥ
- ViP 1.12.34Open verse →
दिने दिने कलाशेषैः शशाङ्कः पूर्यते यथा । तथायं तपसा देव प्रयात्य् ऋद्धिम् अहर्निशम्
dine dine kalāśeṣaiḥ śaśāṅkaḥ pūryate yathā / tathāyaṃ tapasā deva prayāty ṛddhim aharniśam
- ViP 1.12.35Open verse →
औत्तानपादितपसा वयम् इत्थं जनार्दन । भीतास् त्वां शरणं यातास् तपसस् तं निवर्तय
auttānapāditapasā vayam itthaṃ janārdana / bhītās tvāṃ śaraṇaṃ yātās tapasas taṃ nivartaya
- ViP 1.12.36Open verse →
न विद्मः किं स शक्रत्वं किं सूर्यत्वम् अभीप्सति । वित्तपाम्बुपसोमानां साभिलाषः पदेषु किम्
na vidmaḥ kiṃ sa śakratvaṃ kiṃ sūryatvam abhīpsati / vittapāmbupasomānāṃ sābhilāṣaḥ padeṣu kim
- ViP 1.12.37Open verse →
तद् अस्माकं प्रसीदेश हृदयाच् छल्यम् उद्धर । उत्तानपादतनयं तपसः संनिवर्तय
tad asmākaṃ prasīdeśa hṛdayāc chalyam uddhara / uttānapādatanayaṃ tapasaḥ saṃnivartaya
- ViP 1.12.38Open verse →
§श्रीभगवान् उवाच: नेन्द्रत्वं न च सूर्यत्वं नैवाम्बुपधनेशताम् । प्रार्थयत्य् एष यं कामं तं करोम्य् अखिलं सुराः
§śrībhagavān uvāca: nendratvaṃ na ca sūryatvaṃ naivāmbupadhaneśatām / prārthayaty eṣa yaṃ kāmaṃ taṃ karomy akhilaṃ surāḥ
- ViP 1.12.39Open verse →
यात देवा यथाकामं स्वस्थानं विगतज्वराः । निवर्तयाम्य् अहं बालं तपस्य् आसक्तमानसम्
yāta devā yathākāmaṃ svasthānaṃ vigatajvarāḥ / nivartayāmy ahaṃ bālaṃ tapasy āsaktamānasam
- ViP 1.12.40Open verse →
§पराशर उवाच: इत्य् उक्ता देवदेवेन प्रणम्य त्रिदशास् ततः । प्रययुः स्वानि धिष्ण्यानि शतक्रतुपुरोगमाः
§parāśara uvāca: ity uktā devadevena praṇamya tridaśās tataḥ / prayayuḥ svāni dhiṣṇyāni śatakratupurogamāḥ
- ViP 1.12.41Open verse →
भगवान् अपि सर्वात्मा तन्मयत्वेन तोषितः । गत्वा ध्रुवम् उवाचेदं चतुर्भुजवपुर् हरिः
bhagavān api sarvātmā tanmayatvena toṣitaḥ / gatvā dhruvam uvācedaṃ caturbhujavapur hariḥ
- ViP 1.12.42Open verse →
§श्रीभगवान् उवाच: औत्तानपादे भद्रं ते तपसा परितोषितः । वरदो ऽहम् अनुप्राप्तो वरं वरय सुव्रत
§śrībhagavān uvāca: auttānapāde bhadraṃ te tapasā paritoṣitaḥ / varado 'ham anuprāpto varaṃ varaya suvrata
- ViP 1.12.43Open verse →
बाह्यार्थनिरपेक्षं ते मयि चित्तं यद् आहितम् । तुष्टो ऽहं भवतस् तेन तद् वृणीष्व वरं परम्
bāhyārthanirapekṣaṃ te mayi cittaṃ yad āhitam / tuṣṭo 'haṃ bhavatas tena tad vṛṇīṣva varaṃ param
- ViP 1.12.44Open verse →
§पराशर उवाच: श्रुत्वेत्थं गदितं तस्य देवदेवस्य बालकः । उन्मीलिताक्षो ददृशे ध्यानदृष्टं हरिं पुरः
§parāśara uvāca: śrutvetthaṃ gaditaṃ tasya devadevasya bālakaḥ / unmīlitākṣo dadṛśe dhyānadṛṣṭaṃ hariṃ puraḥ
- ViP 1.12.45Open verse →
शङ्खचक्रगदाशार्ङ्गवरासिधरम् अच्युतम् । किरीटिनं समालोक्य जगाम शिरसा महीम्
śaṅkhacakragadāśārṅgavarāsidharam acyutam / kirīṭinaṃ samālokya jagāma śirasā mahīm
- ViP 1.12.46Open verse →
रोमाञ्चिताङ्गः सहसा साध्वसं परमं गतः । स्तवाय देवदेवस्य स चक्रे मानसं ध्रुवः
romāñcitāṅgaḥ sahasā sādhvasaṃ paramaṃ gataḥ / stavāya devadevasya sa cakre mānasaṃ dhruvaḥ
- ViP 1.12.47Open verse →
किं वदामि स्तुताव् अस्य केनोक्तेनास्य संस्तुतिः । इत्य् आकुलमतिर् देवं तम् एव शरणं ययौ
kiṃ vadāmi stutāv asya kenoktenāsya saṃstutiḥ / ity ākulamatir devaṃ tam eva śaraṇaṃ yayau
- ViP 1.12.48Open verse →
§ध्रुव उवाच: भगवन् यदि मे तोषं तपसा परमं गतः । स्तोतुं तद् अहम् इच्छामि वरम् एनं प्रयच्छ मे
§dhruva uvāca: bhagavan yadi me toṣaṃ tapasā paramaṃ gataḥ / stotuṃ tad aham icchāmi varam enaṃ prayaccha me
- ViP 1.12.49Open verse →
ब्रह्माद्यैर् वेदवेदज्ञैर् ज्ञायते यस्य नो गतिः । तं त्वां कथम् अहं देव स्तोतुं शक्ष्यामि बालकः
brahmādyair vedavedajñair jñāyate yasya no gatiḥ / taṃ tvāṃ katham ahaṃ deva stotuṃ śakṣyāmi bālakaḥ
- ViP 1.12.50Open verse →
त्वद्भक्तिप्रवणं ह्य् एतत् परमेश्वर मे मनः । स्तोतुं प्रवृत्तं त्वत्पादौ तत्र प्रज्ञां प्रयच्छ मे
tvadbhaktipravaṇaṃ hy etat parameśvara me manaḥ / stotuṃ pravṛttaṃ tvatpādau tatra prajñāṃ prayaccha me
- ViP 1.12.51Open verse →
§पराशर उवाच: शङ्खप्रान्तेन गोविन्दस् तं पस्पर्श कृताञ्जलिम् । उत्तानपादतनयं द्विजवर्य जगत्पतिः
§parāśara uvāca: śaṅkhaprāntena govindas taṃ pasparśa kṛtāñjalim / uttānapādatanayaṃ dvijavarya jagatpatiḥ
- ViP 1.12.52Open verse →
अथ प्रसन्नवदनः तत्क्षणान् नृपनन्दनः । तुष्टाव प्रणतो भूत्वा भूतधातारम् अच्युतम्
atha prasannavadanaḥ tatkṣaṇān nṛpanandanaḥ / tuṣṭāva praṇato bhūtvā bhūtadhātāram acyutam
- ViP 1.12.53Open verse →
§ध्रुव उवाच: भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च । भूतादिर् आदिप्रकृतिर् यस्य रूपं नतो ऽस्मि तम्
§dhruva uvāca: bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca / bhūtādir ādiprakṛtir yasya rūpaṃ nato 'smi tam
- ViP 1.12.54Open verse →
शुद्धः सूक्ष्मो ऽखिलव्यापी प्रधानात् परतः पुमान् । यस्य रूपं नमस् तस्मै पुरुषाय गुणात्मने
śuddhaḥ sūkṣmo 'khilavyāpī pradhānāt parataḥ pumān / yasya rūpaṃ namas tasmai puruṣāya guṇātmane
- ViP 1.12.55Open verse →
भूरादीनां समस्तानां गन्धादीनां च शाश्वतः । बुद्ध्यादीनां प्रधानस्य पुरुषस्य च यः परः
bhūrādīnāṃ samastānāṃ gandhādīnāṃ ca śāśvataḥ / buddhyādīnāṃ pradhānasya puruṣasya ca yaḥ paraḥ
- ViP 1.12.56Open verse →
तं ब्रह्मभूतम् आत्मानम् अशेषजगतः पतिम् । प्रपद्ये शरणं शुद्धं त्वद्रूपं परमेश्वर
taṃ brahmabhūtam ātmānam aśeṣajagataḥ patim / prapadye śaraṇaṃ śuddhaṃ tvadrūpaṃ parameśvara
- ViP 1.12.57Open verse →
बृहत्त्वाद् बृंहणत्वाच् च यद् रूपं ब्रह्मसंज्ञितम् । तस्मै नमस् ते सर्वात्मन् योगिचिन्त्याविकारवत्
bṛhattvād bṛṃhaṇatvāc ca yad rūpaṃ brahmasaṃjñitam / tasmai namas te sarvātman yogicintyāvikāravat
- ViP 1.12.58Open verse →
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सर्वव्यापी भुवः स्पर्शाद् अत्यतिष्ठद् दशाङ्गुलम्
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt / sarvavyāpī bhuvaḥ sparśād atyatiṣṭhad daśāṅgulam
- ViP 1.12.59Open verse →
यद् भूतं यच् च वै भव्यं पुरुषोत्तम तद् भवान् । त्वत्तो विराट् स्वराट् सम्राट् त्वत्तश् चाप्य् अधिपूरुषः
yad bhūtaṃ yac ca vai bhavyaṃ puruṣottama tad bhavān / tvatto virāṭ svarāṭ samrāṭ tvattaś cāpy adhipūruṣaḥ
- ViP 1.12.60Open verse →
अत्यरिच्यत सो ऽधश् च तिर्यग् ऊर्ध्वं च वै भुवः । त्वत्तो विश्वम् इदं जातं त्वत्तो भूतभविष्यती
atyaricyata so 'dhaś ca tiryag ūrdhvaṃ ca vai bhuvaḥ / tvatto viśvam idaṃ jātaṃ tvatto bhūtabhaviṣyatī
- ViP 1.12.61Open verse →
त्वद्रूपधारिणश् चान्तः सर्वभूतम् इदं जगत् । त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर् द्विधा
tvadrūpadhāriṇaś cāntaḥ sarvabhūtam idaṃ jagat / tvatto yajñaḥ sarvahutaḥ pṛṣadājyaṃ paśur dvidhā
- ViP 1.12.62Open verse →
त्वत्त ऋचो ऽथ सामानि त्वत्तश् छन्दांसि जज्ञिरे । त्वत्तो यजूंष्य् अजायन्त त्वत्तो ऽश्वाश् चैकतोदतः
tvatta ṛco 'tha sāmāni tvattaś chandāṃsi jajñire / tvatto yajūṃṣy ajāyanta tvatto 'śvāś caikatodataḥ
- ViP 1.12.63Open verse →
गावस् त्वत्तः समुद्भूतास् त्वत्तो ऽजा अवयो मृगाः । त्वन्मुखाद् ब्राह्मणा बाह्वोस् त्वत्तः क्षत्रम् अजायत
gāvas tvattaḥ samudbhūtās tvatto 'jā avayo mṛgāḥ / tvanmukhād brāhmaṇā bāhvos tvattaḥ kṣatram ajāyata
- ViP 1.12.64Open verse →
वैश्यास् तवोरुजाः शूद्रास् तव पद्भ्यां समुद्गताः । अक्ष्णोः सूर्यो ऽनिलः प्राणाच् चन्द्रमा मनसस् तव
vaiśyās tavorujāḥ śūdrās tava padbhyāṃ samudgatāḥ / akṣṇoḥ sūryo 'nilaḥ prāṇāc candramā manasas tava
- ViP 1.12.65Open verse →
प्राणो ऽन्तःसुषिराज् जातो मुखाद् अग्निर् अजायत । नाभितो गगनं द्यौश् च शिरसः समवर्तत । दिशः श्रोत्रात् क्षितिः पद्भ्यां त्वत्तः सर्वम् अभूद् इदम्
prāṇo 'ntaḥsuṣirāj jāto mukhād agnir ajāyata / nābhito gaganaṃ dyauś ca śirasaḥ samavartata / diśaḥ śrotrāt kṣitiḥ padbhyāṃ tvattaḥ sarvam abhūd idam
- ViP 1.12.66Open verse →
न्यग्रोधः सुमहान् अल्पे यथा बीजे व्यवस्थितः । संयमे विश्वम् अखिलं बीजभूते तथा त्वयि
nyagrodhaḥ sumahān alpe yathā bīje vyavasthitaḥ / saṃyame viśvam akhilaṃ bījabhūte tathā tvayi
- ViP 1.12.67Open verse →
बीजाद् अङ्कुरसंभूतो न्यग्रोधः स समुच्छ्रितः । विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत्
bījād aṅkurasaṃbhūto nyagrodhaḥ sa samucchritaḥ / vistāraṃ ca yathā yāti tvattaḥ sṛṣṭau tathā jagat
- ViP 1.12.68Open verse →
यथा हि कदली नान्या त्वक्पत्रान् नाथ दृश्यते । एवं विश्वस्य नान्यस् त्वं त्वत्स्थायीश्वर दृश्यते
yathā hi kadalī nānyā tvakpatrān nātha dṛśyate / evaṃ viśvasya nānyas tvaṃ tvatsthāyīśvara dṛśyate
- ViP 1.12.69Open verse →
ह्लादिनी संधिनी संवित् त्वय्य् एका सर्वसंस्थितौ । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते
hlādinī saṃdhinī saṃvit tvayy ekā sarvasaṃsthitau / hlādatāpakarī miśrā tvayi no guṇavarjite
- ViP 1.12.70Open verse →
पृथग्भूतैकभूताय भूतभूताय ते नमः । प्रभूतभूतभूताय तुभ्यं भूतात्मने नमः
pṛthagbhūtaikabhūtāya bhūtabhūtāya te namaḥ / prabhūtabhūtabhūtāya tubhyaṃ bhūtātmane namaḥ
- ViP 1.12.71Open verse →
व्यक्तप्रधानपुरुषविराट् संराट् स्वराट् तथा । विभाव्यते ऽन्तःकरणे पुरुषेष्व् अक्षयो भवान्
vyaktapradhānapuruṣavirāṭ saṃrāṭ svarāṭ tathā / vibhāvyate 'ntaḥkaraṇe puruṣeṣv akṣayo bhavān
- ViP 1.12.72Open verse →
सर्वस्मिन् सर्वभूतस् त्वं सर्वः सर्वस्वरूपधृक् । सर्वं त्वत्तस् ततश् च त्वं नमः सर्वात्मने ऽस्तु ते
sarvasmin sarvabhūtas tvaṃ sarvaḥ sarvasvarūpadhṛk / sarvaṃ tvattas tataś ca tvaṃ namaḥ sarvātmane 'stu te
- ViP 1.12.73Open verse →
सर्वात्मको ऽसि सर्वेश सर्वभूतस्थितो यतः । कथयामि ततः किं ते सर्वं वेत्सि हृदि स्थितम्
sarvātmako 'si sarveśa sarvabhūtasthito yataḥ / kathayāmi tataḥ kiṃ te sarvaṃ vetsi hṛdi sthitam
- ViP 1.12.74Open verse →
सर्वात्मन् सर्वभूतेश सर्वसत्त्वसमुद्भव । सर्वभूतो भवान् वेत्ति सर्वसत्त्वमनोरथम्
sarvātman sarvabhūteśa sarvasattvasamudbhava / sarvabhūto bhavān vetti sarvasattvamanoratham
- ViP 1.12.75Open verse →
यो मे मनोरथो नाथ सफलः स त्वया कृतः । तपश् च तप्तं सफलं यद् दृष्टो ऽसि जगत्पते
yo me manoratho nātha saphalaḥ sa tvayā kṛtaḥ / tapaś ca taptaṃ saphalaṃ yad dṛṣṭo 'si jagatpate
- ViP 1.12.76Open verse →
§श्रीभगवान् उवाच: तपसस् तत् फलं प्राप्तं यद् दृष्टो ऽहं त्वया ध्रुव । मद्दर्शनं हि विफलं राजपुत्र न जायते
§śrībhagavān uvāca: tapasas tat phalaṃ prāptaṃ yad dṛṣṭo 'haṃ tvayā dhruva / maddarśanaṃ hi viphalaṃ rājaputra na jāyate
- ViP 1.12.77Open verse →
वरं वरय तस्मात् त्वं यथाभिमतम् आत्मनः । सर्वं संपद्यते पुंसां मयि दृष्टिपथं गते
varaṃ varaya tasmāt tvaṃ yathābhimatam ātmanaḥ / sarvaṃ saṃpadyate puṃsāṃ mayi dṛṣṭipathaṃ gate
- ViP 1.12.78Open verse →
§ध्रुव उवाच: भगवन् सर्वभूतेश सर्वस्यास्ते भवान् हृदि । किम् अज्ञातं तव स्वामिन् मनसा यन् मयेप्सितम्
§dhruva uvāca: bhagavan sarvabhūteśa sarvasyāste bhavān hṛdi / kim ajñātaṃ tava svāmin manasā yan mayepsitam
- ViP 1.12.79Open verse →
तथापि तुभ्यं देवेश कथयिष्यामि यन् मया । प्रार्थ्यते दुर्विनीतेन हृदयेनातिदुर्लभम्
tathāpi tubhyaṃ deveśa kathayiṣyāmi yan mayā / prārthyate durvinītena hṛdayenātidurlabham
- ViP 1.12.80Open verse →
किं वा सर्वजगत्स्रष्टः प्रसन्ने त्वयि दुर्लभम् । त्वत्प्रसादफलं भुङ्क्ते त्रैलोक्यं मघवान् अपि
kiṃ vā sarvajagatsraṣṭaḥ prasanne tvayi durlabham / tvatprasādaphalaṃ bhuṅkte trailokyaṃ maghavān api
- ViP 1.12.81Open verse →
नैतद् राजासनं योग्यम् अजातस्य ममोदरात् । इति गर्वाद् अवोचन् मां सपत्नी मातुर् उच्चकैः
naitad rājāsanaṃ yogyam ajātasya mamodarāt / iti garvād avocan māṃ sapatnī mātur uccakaiḥ
- ViP 1.12.82Open verse →
आधारभूतं जगतः सर्वेषाम् उत्तमोत्तमम् । प्रार्थयामि प्रभो स्थानं त्वत्प्रसादाद् अतो ऽव्ययम्
ādhārabhūtaṃ jagataḥ sarveṣām uttamottamam / prārthayāmi prabho sthānaṃ tvatprasādād ato 'vyayam
- ViP 1.12.83Open verse →
§श्रीभगवान् उवाच: यत् त्वया प्रार्थितं स्थानम् एतत् प्राप्स्यति वै भवान् । त्वयाहं तोषितः पूर्वम् अन्यजन्मनि बालक
§śrībhagavān uvāca: yat tvayā prārthitaṃ sthānam etat prāpsyati vai bhavān / tvayāhaṃ toṣitaḥ pūrvam anyajanmani bālaka
- ViP 1.12.84Open verse →
त्वम् आसीर् ब्राह्मणः पूर्वं मय्य् एकाग्रमतिः सदा । मातापित्रोश् च शुश्रूषुर् निजधर्मानुपालकः
tvam āsīr brāhmaṇaḥ pūrvaṃ mayy ekāgramatiḥ sadā / mātāpitroś ca śuśrūṣur nijadharmānupālakaḥ
- ViP 1.12.85Open verse →
कालेन गच्छता मित्रं राजपुत्रस् तवाभवत् । यौवने ऽखिलभोगाढ्यो दर्शनीयोज्ज्वलाकृतिः
kālena gacchatā mitraṃ rājaputras tavābhavat / yauvane 'khilabhogāḍhyo darśanīyojjvalākṛtiḥ
- ViP 1.12.86Open verse →
तत्सङ्गात् तस्य ताम् ऋद्धिम् अवलोक्यातिदुर्लभाम् । भवेयं राजपुत्रो ऽहम् इति वाञ्छा त्वया कृता
tatsaṅgāt tasya tām ṛddhim avalokyātidurlabhām / bhaveyaṃ rājaputro 'ham iti vāñchā tvayā kṛtā
- ViP 1.12.87Open verse →
ततो यथाभिलषिता प्राप्ता ते राजपुत्रता । उत्तानपादस्य गृहे जातो ऽसि ध्रुव दुर्लभे
tato yathābhilaṣitā prāptā te rājaputratā / uttānapādasya gṛhe jāto 'si dhruva durlabhe
- ViP 1.12.89Open verse →
अन्येषां तद् वरं स्थानं कुले स्वायम्भुवस्य यत् ॥ विप्_ः१,१२।८८ ॥ तस्यैतद् अपरं बाल येनाहं परितोषितः । माम् आराध्य नरो मुक्तिम् अवाप्नोत्य् अविलम्बितम्
anyeṣāṃ tad varaṃ sthānaṃ kule svāyambhuvasya yat // ViP_ḥ1,12.88 // tasyaitad aparaṃ bāla yenāhaṃ paritoṣitaḥ / mām ārādhya naro muktim avāpnoty avilambitam
- ViP 1.12.90Open verse →
मय्य् अर्पितमना बाल किम् उ स्वर्गादिकं पदम् । त्रैलोक्याद् अधिके स्थाने सर्वताराग्रहाश्रयः । भविष्यति न संदेहो मत्प्रसादाद् भवान् ध्रुव
mayy arpitamanā bāla kim u svargādikaṃ padam / trailokyād adhike sthāne sarvatārāgrahāśrayaḥ / bhaviṣyati na saṃdeho matprasādād bhavān dhruva
- ViP 1.12.91Open verse →
सूर्यात् सोमात् तथा भौमात् सोमपुत्राद् बृहस्पतेः । सितार्कतनयादीनां सर्वर्क्षाणां तथा ध्रुव
sūryāt somāt tathā bhaumāt somaputrād bṛhaspateḥ / sitārkatanayādīnāṃ sarvarkṣāṇāṃ tathā dhruva
- ViP 1.12.92Open verse →
सप्तर्षीणाम् अशेषाणां ये च वैमानिकाः सुराः । सर्वेषाम् उपरि स्थानं तव दत्तं मया ध्रुव
saptarṣīṇām aśeṣāṇāṃ ye ca vaimānikāḥ surāḥ / sarveṣām upari sthānaṃ tava dattaṃ mayā dhruva
- ViP 1.12.93Open verse →
केचिच् चतुर्युगं यावत् केचिन् मन्वन्तरं सुराः । तिष्ठन्ति भवतो दत्ता मया वै कल्पसंस्थितिः
kecic caturyugaṃ yāvat kecin manvantaraṃ surāḥ / tiṣṭhanti bhavato dattā mayā vai kalpasaṃsthitiḥ
- ViP 1.12.94Open verse →
सुनीतिर् अपि ते माता त्वदासन्नातिनिर्मला । विमाने तारका भूत्वा तावत्कालं निवत्स्यति
sunītir api te mātā tvadāsannātinirmalā / vimāne tārakā bhūtvā tāvatkālaṃ nivatsyati
- ViP 1.12.95Open verse →
ये च त्वां मानवाः प्रातः सायं च सुसमाहिताः । कीर्तयिष्यन्ति तेषां च महत् पुण्यं भविष्यति
ye ca tvāṃ mānavāḥ prātaḥ sāyaṃ ca susamāhitāḥ / kīrtayiṣyanti teṣāṃ ca mahat puṇyaṃ bhaviṣyati
- ViP 1.12.96Open verse →
द्२ इन्स्।: wहिले द्४ इन्स्।: §पराशर उवाच: एवं पूर्वं जगन्नाथाद् देवदेवाज् जनार्दनात् । वरं प्राप्य ध्रुवं स्थानम् अध्यास्ते स महामतिः
D2 ins.: while D4 ins.: §parāśara uvāca: evaṃ pūrvaṃ jagannāthād devadevāj janārdanāt / varaṃ prāpya dhruvaṃ sthānam adhyāste sa mahāmatiḥ
- ViP 1.12.97Open verse →
ञ्१,त्३,म्०,एद्। वेङ्क्। इन्स्।: तस्याभिमानम् ऋद्धिं च महिमानं निरीक्ष्य च । देवासुराणाम् आचार्यः श्लोकम् अत्रोशना जगौ
Ñ1,T3,M0,ed. Veṅk. ins.: tasyābhimānam ṛddhiṃ ca mahimānaṃ nirīkṣya ca / devāsurāṇām ācāryaḥ ślokam atrośanā jagau
- ViP 1.12.98Open verse →
अहो ऽस्य तपसो वीर्यम् अहो ऽस्य तपसः फलम् । यद् एनं पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः
aho 'sya tapaso vīryam aho 'sya tapasaḥ phalam / yad enaṃ purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ
- ViP 1.12.99Open verse →
ध्रुवस्य जननी चेयं सुनीतिर् नाम सूनृता । अस्याश् च महिमानं कः शक्तो वर्णयितुं भुवि
dhruvasya jananī ceyaṃ sunītir nāma sūnṛtā / asyāś ca mahimānaṃ kaḥ śakto varṇayituṃ bhuvi
- ViP 1.12.100Open verse →
त्रैलोक्याश्रयतां प्राप्तं परं स्थानं स्थिरायति । स्थानं प्राप्ता परं कृत्वा या कुक्षिविवरे ध्रुवम्
trailokyāśrayatāṃ prāptaṃ paraṃ sthānaṃ sthirāyati / sthānaṃ prāptā paraṃ kṛtvā yā kukṣivivare dhruvam
- ViP 1.12.101Open verse →
यश् चैतत् कीर्तयेन् नित्यं ध्रुवस्यारोहणं दिवि । सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते
yaś caitat kīrtayen nityaṃ dhruvasyārohaṇaṃ divi / sarvapāpavinirmuktaḥ svargaloke mahīyate
- ViP 1.12.102Open verse →
स्थानभ्रंशं न चाप्नोति दिवि वा यदि वा भुवि । सर्वकल्याणसंयुक्तो दीर्घकालं च जीवति
sthānabhraṃśaṃ na cāpnoti divi vā yadi vā bhuvi / sarvakalyāṇasaṃyukto dīrghakālaṃ ca jīvati
- ViP 1.13.1Open verse →
______________________________________________________ §पराशर उवाच: ध्रुवाच् छिष्टिं च भव्यं च भव्याच् छंभुर् व्यजायत । शिष्टेर् आधत्त सुच्छाया पञ्च पुत्रान् अकल्मषान्
______________________________________________________ §parāśara uvāca: dhruvāc chiṣṭiṃ ca bhavyaṃ ca bhavyāc chaṃbhur vyajāyata / śiṣṭer ādhatta succhāyā pañca putrān akalmaṣān
- ViP 1.13.2Open verse →
रिपुं रिपुञ्जयं विप्रं वृकलं वृकतेजसम् । रिपोर् आधत्त बृहती चाक्षुषं सर्वतेजसम्
ripuṃ ripuñjayaṃ vipraṃ vṛkalaṃ vṛkatejasam / ripor ādhatta bṛhatī cākṣuṣaṃ sarvatejasam
- ViP 1.13.3Open verse →
अजीजनत् पुष्करिण्यां वारुण्यां चाक्षुषो मनुम् । प्रजापतेर् आत्मजायां वीरणस्य महात्मनः
ajījanat puṣkariṇyāṃ vāruṇyāṃ cākṣuṣo manum / prajāpater ātmajāyāṃ vīraṇasya mahātmanaḥ
- ViP 1.13.4Open verse →
मनोर् अजायन्त दश नड्वलायां महौजसः । कन्यायां तपतां श्रेष्ठ वैराजस्य प्रजापतेः
manor ajāyanta daśa naḍvalāyāṃ mahaujasaḥ / kanyāyāṃ tapatāṃ śreṣṭha vairājasya prajāpateḥ
- ViP 1.13.5Open verse →
कुरुः पुरुः शतद्युम्नस् तपस्वी सत्यवाञ् छुचिः । अग्निष्टुद् अतिरात्रश् च सुद्युम्नश् चेति ते नव । अभिमन्युश् च दशमो नड्वलायां महौजसः
kuruḥ puruḥ śatadyumnas tapasvī satyavāñ chuciḥ / agniṣṭud atirātraś ca sudyumnaś ceti te nava / abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ
- ViP 1.13.6Open verse →
कुरोर् अजनयत् पुत्रान् षड् आग्नेयी महाप्रभान् । अङ्गं सुमनसं ख्यातिं क्रतुम् अङ्गिरसं शिबिम्
kuror ajanayat putrān ṣaḍ āgneyī mahāprabhān / aṅgaṃ sumanasaṃ khyātiṃ kratum aṅgirasaṃ śibim
- ViP 1.13.7Open verse →
अङ्गात् सुनीथापत्यं वै वेनम् एकम् अजायत । प्रजार्थम् ऋषयस् तस्य ममन्थुर् दक्षिणं करम्
aṅgāt sunīthāpatyaṃ vai venam ekam ajāyata / prajārtham ṛṣayas tasya mamanthur dakṣiṇaṃ karam
- ViP 1.13.8Open verse →
वेनस्य पाणौ मथिते संबभूव महामुने । वैन्यो नाम महीपालो यः पृथुः परिकीर्त्यते
venasya pāṇau mathite saṃbabhūva mahāmune / vainyo nāma mahīpālo yaḥ pṛthuḥ parikīrtyate
- ViP 1.13.9Open verse →
येन दुग्धा मही पूर्वं प्रजानां हितकारणात्
yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt
- ViP 1.13.10Open verse →
§मैत्रेय उवाच: किमर्थं मथितः पाणिर् वेनस्य परमर्षिभिः । यत्र जज्ञे महावीर्यः स पृथुर् मुनिसत्तम
§maitreya uvāca: kimarthaṃ mathitaḥ pāṇir venasya paramarṣibhiḥ / yatra jajñe mahāvīryaḥ sa pṛthur munisattama
- ViP 1.13.11Open verse →
§पराशर उवाच: सुनीथा नाम या कन्या मृत्योः प्रथमजाभवत् । अङ्गस्य भार्या सा दत्ता तस्यां वेनो व्यजायत
§parāśara uvāca: sunīthā nāma yā kanyā mṛtyoḥ prathamajābhavat / aṅgasya bhāryā sā dattā tasyāṃ veno vyajāyata
- ViP 1.13.12Open verse →
स मातामहदोषेण तेन मृत्योः सुतात्मजः । निसर्गाद् एव मैत्रेय दुष्टभावो व्यजायत
sa mātāmahadoṣeṇa tena mṛtyoḥ sutātmajaḥ / nisargād eva maitreya duṣṭabhāvo vyajāyata
- ViP 1.13.13Open verse →
अभिषिक्तो यदा राज्ये स वेनः परमर्षिभिः । घोषयाम् आस स तदा पृथिव्यां पृथिवीपतिः
abhiṣikto yadā rājye sa venaḥ paramarṣibhiḥ / ghoṣayām āsa sa tadā pṛthivyāṃ pṛthivīpatiḥ
- ViP 1.13.14Open verse →
न यष्टव्यं न होतव्यं न दातव्यं कथंचन । भोक्ता यज्ञस्य कस् त्व् अन्यो ह्य् अहं यज्ञपतिः प्रभुः
na yaṣṭavyaṃ na hotavyaṃ na dātavyaṃ kathaṃcana / bhoktā yajñasya kas tv anyo hy ahaṃ yajñapatiḥ prabhuḥ
- ViP 1.13.15Open verse →
ततस् तम् ऋषयः पूर्वं संपूज्य पृथिवीपतिम् । ऊचुः सामकलं सम्यङ् मैत्रेय समुपस्थिताः
tatas tam ṛṣayaḥ pūrvaṃ saṃpūjya pṛthivīpatim / ūcuḥ sāmakalaṃ samyaṅ maitreya samupasthitāḥ
- ViP 1.13.16Open verse →
§ऋषय ऊचुः: भो भो राजञ् छृणुष्व त्वं यद् वदामस् तव प्रभो । राज्यदेहोपकाराय प्रजानां च हितं परम्
§ṛṣaya ūcuḥ: bho bho rājañ chṛṇuṣva tvaṃ yad vadāmas tava prabho / rājyadehopakārāya prajānāṃ ca hitaṃ param
- ViP 1.13.17Open verse →
दीर्घसत्रेण देवेशं सर्वयज्ञेश्वरं हरिम् । पूजयिष्याम भद्रं ते तत्रांशस् ते भविष्यति
dīrghasatreṇa deveśaṃ sarvayajñeśvaraṃ harim / pūjayiṣyāma bhadraṃ te tatrāṃśas te bhaviṣyati
- ViP 1.13.18Open verse →
यज्ञेन यज्ञपुरुषो विष्णुः संप्रीणितो नृप । अस्माभिर् भवतः कामान् सर्वान् एव प्रदास्यति
yajñena yajñapuruṣo viṣṇuḥ saṃprīṇito nṛpa / asmābhir bhavataḥ kāmān sarvān eva pradāsyati
- ViP 1.13.19Open verse →
यज्ञैर् यज्ञेश्वरो येषां राष्ट्रे संपूज्यते हरिः । तेषां सर्वेप्सितावाप्तिं ददाति नृप भूभृताम्
yajñair yajñeśvaro yeṣāṃ rāṣṭre saṃpūjyate hariḥ / teṣāṃ sarvepsitāvāptiṃ dadāti nṛpa bhūbhṛtām
- ViP 1.13.20Open verse →
§वेन उवाच: मत्तः को ऽभ्यधिको ऽन्यो ऽस्ति कश् चाराध्यो ममापरः । को ऽयं हरिर् इति ख्यातो यो वै यज्ञेश्वरो मतः
§vena uvāca: mattaḥ ko 'bhyadhiko 'nyo 'sti kaś cārādhyo mamāparaḥ / ko 'yaṃ harir iti khyāto yo vai yajñeśvaro mataḥ
- ViP 1.13.21Open verse →
ब्रह्मा जनार्दनः शंभुर् इन्द्रो वायुर् यमो रविः । हुतभुग् वरुणो धाता पूषा भूमिर् निशाकरः
brahmā janārdanaḥ śaṃbhur indro vāyur yamo raviḥ / hutabhug varuṇo dhātā pūṣā bhūmir niśākaraḥ
- ViP 1.13.22Open verse →
एते चान्ये च ये देवाः शापानुग्रहकारिणः । नृपस्यैते शरीरस्थाः सर्वदेवमयो नृपः
ete cānye ca ye devāḥ śāpānugrahakāriṇaḥ / nṛpasyaite śarīrasthāḥ sarvadevamayo nṛpaḥ
- ViP 1.13.23Open verse →
एतज् ज्ञात्वा मयाज्ञप्तं यद् यथा क्रियतां तथा । न दातव्यं न होतव्यं न यष्टव्यं च भो द्विजाः
etaj jñātvā mayājñaptaṃ yad yathā kriyatāṃ tathā / na dātavyaṃ na hotavyaṃ na yaṣṭavyaṃ ca bho dvijāḥ
- ViP 1.13.24Open verse →
भर्तृशुश्रूषणं धर्मो यथा स्त्रीणां परो मतः । ममाज्ञापालनं धर्मो भवतां च तथा द्विजाः
bhartṛśuśrūṣaṇaṃ dharmo yathā strīṇāṃ paro mataḥ / mamājñāpālanaṃ dharmo bhavatāṃ ca tathā dvijāḥ
- ViP 1.13.25Open verse →
§ऋषय ऊचुः: देह्य् अनुज्ञां महाराज मा धर्मो यातु संक्षयम् । हविषां परिणामो ऽयं यद् एतद् अखिलं जगत्
§ṛṣaya ūcuḥ: dehy anujñāṃ mahārāja mā dharmo yātu saṃkṣayam / haviṣāṃ pariṇāmo 'yaṃ yad etad akhilaṃ jagat
- ViP 1.13.26Open verse →
व्१,ब्२,द्८ इन्स्।: §पराशर उवाच: इति विज्ञाप्यमानो ऽपि स वेनः परमर्षिभिः । पापो ददाति नानुज्ञां तदा प्रोक्तः पुनः पुनः
V1,B2,D8 ins.: §parāśara uvāca: iti vijñāpyamāno 'pi sa venaḥ paramarṣibhiḥ / pāpo dadāti nānujñāṃ tadā proktaḥ punaḥ punaḥ
- ViP 1.13.27Open verse →
ततस् ते मुनयः सर्वे कोपामर्षसमन्विताः । हन्यतां हन्यतां पाप इत्य् ऊचुस् ते परस्परम्
tatas te munayaḥ sarve kopāmarṣasamanvitāḥ / hanyatāṃ hanyatāṃ pāpa ity ūcus te parasparam
- ViP 1.13.28Open verse →
यो यज्ञपुरुषं विष्णुम् अनादिनिधनं प्रभुम् । विनिन्दत्य् अधमाचारो न स योग्यो भुवः पतिः
yo yajñapuruṣaṃ viṣṇum anādinidhanaṃ prabhum / vinindaty adhamācāro na sa yogyo bhuvaḥ patiḥ
- ViP 1.13.29Open verse →
इत्य् उक्त्वा मन्त्रपूतैस् तैः कुशैर् मुनिगणा नृपम् । निजघ्नुर् निहतं पूर्वं भगवन्निन्दनादिना
ity uktvā mantrapūtais taiḥ kuśair munigaṇā nṛpam / nijaghnur nihataṃ pūrvaṃ bhagavannindanādinā
- ViP 1.13.30Open verse →
ततश् च मुनयो रेणुं ददृशुः सर्वतो द्विज । किम् एतद् इति चासन्नं पप्रच्छुस् ते जनं तदा
tataś ca munayo reṇuṃ dadṛśuḥ sarvato dvija / kim etad iti cāsannaṃ papracchus te janaṃ tadā
- ViP 1.13.31Open verse →
आख्यातं च जनैस् तेषां चौरीभूतैर् अराजके । राष्ट्रे तु लोकैर् आरब्धं परस्वादानम् आतुरैः
ākhyātaṃ ca janais teṣāṃ caurībhūtair arājake / rāṣṭre tu lokair ārabdhaṃ parasvādānam āturaiḥ
- ViP 1.13.32Open verse →
तेषाम् उदीर्णवेगानां चौराणां मुनिसत्तमाः । सुमहान् दृश्यते रेणुः परवित्तापहारिणाम्
teṣām udīrṇavegānāṃ caurāṇāṃ munisattamāḥ / sumahān dṛśyate reṇuḥ paravittāpahāriṇām
- ViP 1.13.33Open verse →
ततः संमन्त्र्य ते सर्वे मुनयस् तस्य भूभृतः । ममन्थुर् ऊरुं पुत्रार्थम् अनपत्यस्य यत्नतः
tataḥ saṃmantrya te sarve munayas tasya bhūbhṛtaḥ / mamanthur ūruṃ putrārtham anapatyasya yatnataḥ
- ViP 1.13.34Open verse →
मथ्यतश् च समुत्तस्थौ तस्योरोः पुरुषः किल । दग्धस्थूणाप्रतीकाशः खर्वटास्यो ऽतिह्रस्वकः
mathyataś ca samuttasthau tasyoroḥ puruṣaḥ kila / dagdhasthūṇāpratīkāśaḥ kharvaṭāsyo 'tihrasvakaḥ
- ViP 1.13.35Open verse →
किं करोमीति तान् सर्वान् विप्रान् आह त्वरान्वितः । निषीदेति तम् ऊचुस् ते निषादस् तेन सो ऽभवत्
kiṃ karomīti tān sarvān viprān āha tvarānvitaḥ / niṣīdeti tam ūcus te niṣādas tena so 'bhavat
- ViP 1.13.36Open verse →
ततस् तत्संभवा जाता विन्ध्यशैलनिवासिनः । निषादा मुनिशार्दूल पापकर्मोपलक्षणाः
tatas tatsaṃbhavā jātā vindhyaśailanivāsinaḥ / niṣādā muniśārdūla pāpakarmopalakṣaṇāḥ
- ViP 1.13.37Open verse →
तेन द्वारेण तत् पापं निष्क्रान्तं तस्य भूपतेः । निषादास् ते ततो जाता वेनकल्मषनाशनाः
tena dvāreṇa tat pāpaṃ niṣkrāntaṃ tasya bhūpateḥ / niṣādās te tato jātā venakalmaṣanāśanāḥ
- ViP 1.13.38Open verse →
ततो ऽस्य दक्षिणं हस्तं ममन्थुस् ते द्विजोत्तमाः
tato 'sya dakṣiṇaṃ hastaṃ mamanthus te dvijottamāḥ
- ViP 1.13.39Open verse →
मथ्यमाने च तत्राभूत् पृथुर् वैन्यः प्रतापवान् । दीप्यमानः स्ववपुषा साक्षाद् अग्निर् इव ज्वलन्
mathyamāne ca tatrābhūt pṛthur vainyaḥ pratāpavān / dīpyamānaḥ svavapuṣā sākṣād agnir iva jvalan
- ViP 1.13.40Open verse →
आद्यम् आजगवं नाम खात् पपात ततो धनुः । शराश् च दिव्या नभसः कवचं च पपात ह
ādyam ājagavaṃ nāma khāt papāta tato dhanuḥ / śarāś ca divyā nabhasaḥ kavacaṃ ca papāta ha
- ViP 1.13.41Open verse →
तस्मिञ् जाते तु भूतानि संप्रहृष्टानि सर्वशः
tasmiñ jāte tu bhūtāni saṃprahṛṣṭāni sarvaśaḥ
- ViP 1.13.42Open verse →
सत्पुत्रेण च जातेन वेनो ऽपि त्रिदिवं ययौ । पुन्नाम्नो नरकात् त्रातः स तेन सुमहात्मना
satputreṇa ca jātena veno 'pi tridivaṃ yayau / punnāmno narakāt trātaḥ sa tena sumahātmanā
- ViP 1.13.43Open verse →
तं समुद्राश् च नद्यश् च रत्नान्य् आदाय सर्वशः । तोयानि चाभिषेकार्थं सर्वाण्य् एवोपतस्थिरे
taṃ samudrāś ca nadyaś ca ratnāny ādāya sarvaśaḥ / toyāni cābhiṣekārthaṃ sarvāṇy evopatasthire
- ViP 1.13.44Open verse →
पितामहश् च भगवान् देवैर् आङ्गिरसैः सह । स्थावराणि च भूतानि जङ्गमानि च सर्वशः । समागम्य तदा वैन्यम् अभ्यषिञ्चन् नराधिपम्
pitāmahaś ca bhagavān devair āṅgirasaiḥ saha / sthāvarāṇi ca bhūtāni jaṅgamāni ca sarvaśaḥ / samāgamya tadā vainyam abhyaṣiñcan narādhipam
- ViP 1.13.45Open verse →
हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितामहः । विष्णोर् अंशं पृथुं मत्वा परितोषं परं ययौ
haste tu dakṣiṇe cakraṃ dṛṣṭvā tasya pitāmahaḥ / viṣṇor aṃśaṃ pṛthuṃ matvā paritoṣaṃ paraṃ yayau
- ViP 1.13.46Open verse →
विष्णुचिह्नं करे चक्रं सर्वेषां चक्रवर्तिनाम् । भवत्य् अव्याहतो यस्य प्रभावस् त्रिदशैर् अपि
viṣṇucihnaṃ kare cakraṃ sarveṣāṃ cakravartinām / bhavaty avyāhato yasya prabhāvas tridaśair api
- ViP 1.13.47Open verse →
महता राजराज्येन पृथुर् वैन्यः प्रतापवान् । सो ऽभिषिक्तो महातेजा विधिवद् धर्मकोविदैः
mahatā rājarājyena pṛthur vainyaḥ pratāpavān / so 'bhiṣikto mahātejā vidhivad dharmakovidaiḥ
- ViP 1.13.48Open verse →
पित्रापरञ्जितास् तस्य प्रजास् तेनानुरञ्जिताः । अनुरागात् ततस् तस्य नाम राजेत्य् अजायत
pitrāparañjitās tasya prajās tenānurañjitāḥ / anurāgāt tatas tasya nāma rājety ajāyata
- ViP 1.13.49Open verse →
आपस् तस्तम्भिरे चास्य समुद्रम् अभियास्यतः । पर्वताश् च ददुर् मार्गं ध्वजभङ्गश् च नाभवत्
āpas tastambhire cāsya samudram abhiyāsyataḥ / parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat
- ViP 1.13.50Open verse →
अकृष्टपच्या पृथिवी सिद्ध्यन्त्य् अन्नानि चिन्तया । सर्वकामदुघा गावः पुटके पुटके मधु
akṛṣṭapacyā pṛthivī siddhyanty annāni cintayā / sarvakāmadughā gāvaḥ puṭake puṭake madhu
- ViP 1.13.51Open verse →
तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे । सूतः सूत्यां समुत्पन्नः सौत्ये ऽहनि महामतिः
tasya vai jātamātrasya yajñe paitāmahe śubhe / sūtaḥ sūtyāṃ samutpannaḥ sautye 'hani mahāmatiḥ
- ViP 1.13.52Open verse →
द्७ इन्स्।: तस्मिन्न् एव महायज्ञो जज्ञे प्राज्ञो ऽथ मागधः । प्रोक्तौ तदा मुनिवरैस् ताव् उभौ सूतमागधौ
D7 ins.: tasminn eva mahāyajño jajñe prājño 'tha māgadhaḥ / proktau tadā munivarais tāv ubhau sūtamāgadhau
- ViP 1.13.53Open verse →
स्तूयताम् एष नृपतिः पृथुर् वैन्यः प्रतापवान् । कर्मैतद् अनुरूपं च पात्रं स्तोत्रस्य चाप्य् अयम्
stūyatām eṣa nṛpatiḥ pṛthur vainyaḥ pratāpavān / karmaitad anurūpaṃ ca pātraṃ stotrasya cāpy ayam
- ViP 1.13.54Open verse →
ततस् ताव् ऊचतुर् विप्रान् सर्वान् एव कृताञ्जली । अद्यजातस्य नो कर्म ज्ञायते ऽस्य महीपतेः
tatas tāv ūcatur viprān sarvān eva kṛtāñjalī / adyajātasya no karma jñāyate 'sya mahīpateḥ
- ViP 1.13.55Open verse →
गुणा न चास्य ज्ञायन्ते न चास्य प्रथितं यशः । स्तोत्रं किमाश्रयं त्व् अस्य कार्यम् अस्माभिर् उच्यताम्
guṇā na cāsya jñāyante na cāsya prathitaṃ yaśaḥ / stotraṃ kimāśrayaṃ tv asya kāryam asmābhir ucyatām
- ViP 1.13.56Open verse →
§ऋषय ऊचुः: करिष्यत्य् एष यत् कर्म चक्रवर्ती महाबलः । गुणा भविष्या ये चास्य तैर् अयं स्तूयतां नृपः
§ṛṣaya ūcuḥ: kariṣyaty eṣa yat karma cakravartī mahābalaḥ / guṇā bhaviṣyā ye cāsya tair ayaṃ stūyatāṃ nṛpaḥ
- ViP 1.13.57Open verse →
§पराशर उवाच: ततः स नृपतिस् तोषं तच् छ्रुत्वा परमं ययौ । सद्गुणैः श्लाघ्यताम् एति स्तव्याश् चाभ्यां गुणा मम
§parāśara uvāca: tataḥ sa nṛpatis toṣaṃ tac chrutvā paramaṃ yayau / sadguṇaiḥ ślāghyatām eti stavyāś cābhyāṃ guṇā mama
- ViP 1.13.58Open verse →
तस्माद् यद् अत्र स्तोत्रे मे गुणनिर्वर्णनं त्व् इमौ । करिष्येते करिष्यामि तद् एवाहं समाहितः
tasmād yad atra stotre me guṇanirvarṇanaṃ tv imau / kariṣyete kariṣyāmi tad evāhaṃ samāhitaḥ
- ViP 1.13.59Open verse →
यद् इमौ वर्जनीयं च किंचिद् अत्र वदिष्यतः । तद् अहं वर्जयिष्यामीत्य् एवं चक्रे मतिं नृपः
yad imau varjanīyaṃ ca kiṃcid atra vadiṣyataḥ / tad ahaṃ varjayiṣyāmīty evaṃ cakre matiṃ nṛpaḥ
- ViP 1.13.60Open verse →
अथ तौ चक्रतुः स्तोत्रं पृथोर् वैन्यस्य धीमतः । भविष्यैः कर्मभिः सम्यक् सुस्वरौ सूतमागधौ
atha tau cakratuḥ stotraṃ pṛthor vainyasya dhīmataḥ / bhaviṣyaiḥ karmabhiḥ samyak susvarau sūtamāgadhau
- ViP 1.13.61Open verse →
सत्यवाग् दानशीलो ऽयं सत्यसन्धो नरेश्वरः । ह्रीमान् मैत्रः क्षमाशीलो विक्रान्तो दुष्टशासनः
satyavāg dānaśīlo 'yaṃ satyasandho nareśvaraḥ / hrīmān maitraḥ kṣamāśīlo vikrānto duṣṭaśāsanaḥ
- ViP 1.13.62Open verse →
धर्मज्ञाश् च कृतज्ञाश् च दयावान् प्रियभाषकः । मान्यान् मानयिता यज्वा ब्रह्मण्यः साधुवत्सलः
dharmajñāś ca kṛtajñāś ca dayāvān priyabhāṣakaḥ / mānyān mānayitā yajvā brahmaṇyaḥ sādhuvatsalaḥ
- ViP 1.13.63Open verse →
समः शत्रौ च मित्रे च व्यवहारस्थितौ नृपः
samaḥ śatrau ca mitre ca vyavahārasthitau nṛpaḥ
- ViP 1.13.64Open verse →
सूतेनोक्तान् गुणान् इत्थं स तदा मागधेन च । चकार हृदि तादृक् च कर्मणा कृतवान् असौ
sūtenoktān guṇān itthaṃ sa tadā māgadhena ca / cakāra hṛdi tādṛk ca karmaṇā kṛtavān asau
- ViP 1.13.65Open verse →
ततः स पृथिवीपालः पालयन् वसुधाम् इमाम् । इयाज विविधैर् यज्ञैर् महद्भिर् भूरिदक्षिणैः
tataḥ sa pṛthivīpālaḥ pālayan vasudhām imām / iyāja vividhair yajñair mahadbhir bhūridakṣiṇaiḥ
- ViP 1.13.66Open verse →
तं प्रजाः पृथिवीनाथम् उपतस्थुः क्षुधार्दिताः । ओषधीषु प्रणष्टासु तस्मिन् काले ह्य् अराजके । तम् ऊचुस् तेन ताः पृष्टास् तत्रागमनकारणम्
taṃ prajāḥ pṛthivīnātham upatasthuḥ kṣudhārditāḥ / oṣadhīṣu praṇaṣṭāsu tasmin kāle hy arājake / tam ūcus tena tāḥ pṛṣṭās tatrāgamanakāraṇam
- ViP 1.13.67Open verse →
द्५ इन्स्।: §प्रजा ऊचुः: अराजके नृपश्रेष्ठ धरित्र्या सकलौषधीः । ग्रस्तास् ततः क्षयं यान्ति प्रजाः सर्वाः प्रजेश्वर
D5 ins.: §prajā ūcuḥ: arājake nṛpaśreṣṭha dharitryā sakalauṣadhīḥ / grastās tataḥ kṣayaṃ yānti prajāḥ sarvāḥ prajeśvara
- ViP 1.13.68Open verse →
त्वं नो वृत्तिप्रदो धात्रा प्रजापालो निरूपितः । देहि नः क्षुत्परीतानां प्रजानां जीवनौषधीः
tvaṃ no vṛttiprado dhātrā prajāpālo nirūpitaḥ / dehi naḥ kṣutparītānāṃ prajānāṃ jīvanauṣadhīḥ
- ViP 1.13.69Open verse →
§पराशर उवाच: ततो ऽथ नृपतिर् दिव्यम् आदायाजगवं धनुः । शरांश् च दिव्यान् कुपितः सो ऽन्वधावद् वसुंधराम्
§parāśara uvāca: tato 'tha nṛpatir divyam ādāyājagavaṃ dhanuḥ / śarāṃś ca divyān kupitaḥ so 'nvadhāvad vasuṃdharām
- ViP 1.13.70Open verse →
ततो ननाश त्वरिता गौर् भूत्वा तु वसुंधरा । सा लोकान् ब्रह्मलोकादीन् संत्रासाद् अगमन् मही
tato nanāśa tvaritā gaur bhūtvā tu vasuṃdharā / sā lokān brahmalokādīn saṃtrāsād agaman mahī
- ViP 1.13.71Open verse →
यत्र यत्र ययौ देवी सा तदा भूतधारिणी । तत्र तत्र तु सा वैन्यं ददृशे ऽभ्युद्यतायुधम्
yatra yatra yayau devī sā tadā bhūtadhāriṇī / tatra tatra tu sā vainyaṃ dadṛśe 'bhyudyatāyudham
- ViP 1.13.72Open verse →
ततस् तं प्राह वसुधा पृथुं पृथुपराक्रमम् । प्रवेपमाना तद्बाणपरित्राणपरायणा
tatas taṃ prāha vasudhā pṛthuṃ pṛthuparākramam / pravepamānā tadbāṇaparitrāṇaparāyaṇā
- ViP 1.13.73Open verse →
§पृथिव्य् उवाच: स्त्रीवधे त्वं महापापं किं नरेन्द्र न पश्यसि । येन मां हन्तुम् अत्यर्थं प्रकरोषि नृपोद्यमम्
§pṛthivy uvāca: strīvadhe tvaṃ mahāpāpaṃ kiṃ narendra na paśyasi / yena māṃ hantum atyarthaṃ prakaroṣi nṛpodyamam
- ViP 1.13.74Open verse →
§पृथुर् उवाच: एकस्मिन् यत्र निधनं प्रापिते दुष्टचारिणि । बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः
§pṛthur uvāca: ekasmin yatra nidhanaṃ prāpite duṣṭacāriṇi / bahūnāṃ bhavati kṣemaṃ tasya puṇyaprado vadhaḥ
- ViP 1.13.75Open verse →
§पृथिव्य् उवाच: प्रजानाम् उपकाराय यदि मां त्वं हनिष्यसि । आधारः कः प्रजानां ते नृपश्रेष्ठ भविष्यति
§pṛthivy uvāca: prajānām upakārāya yadi māṃ tvaṃ haniṣyasi / ādhāraḥ kaḥ prajānāṃ te nṛpaśreṣṭha bhaviṣyati
- ViP 1.13.76Open verse →
§पृथुर् उवाच: त्वां हत्वा वसुधे बाणैर् मच्छासनपराङ्मुखीम् । आत्मयोगबलेनेमा धारयिष्याम्य् अहं प्रजाः
§pṛthur uvāca: tvāṃ hatvā vasudhe bāṇair macchāsanaparāṅmukhīm / ātmayogabalenemā dhārayiṣyāmy ahaṃ prajāḥ
- ViP 1.13.77Open verse →
§पराशर उवाच: ततः प्रणम्य वसुधा तं भूयः प्राह पार्थिवम् । प्रवेपिताङ्गी परमं साध्वसं समुपागता
§parāśara uvāca: tataḥ praṇamya vasudhā taṃ bhūyaḥ prāha pārthivam / pravepitāṅgī paramaṃ sādhvasaṃ samupāgatā
- ViP 1.13.78Open verse →
§पृथिव्य् उवाच: उपायतः समारब्धाः सर्वे सिद्ध्यन्त्य् उपक्रमाः । तस्माद् वदाम्य् उपायं ते तं कुरुष्व यदीच्छसि
§pṛthivy uvāca: upāyataḥ samārabdhāḥ sarve siddhyanty upakramāḥ / tasmād vadāmy upāyaṃ te taṃ kuruṣva yadīcchasi
- ViP 1.13.79Open verse →
समस्ता या मया जीर्णा नरनाथ महौषधीः । यदीच्छसि प्रदास्यामि ताः क्षीरपरिणामिनीः
samastā yā mayā jīrṇā naranātha mahauṣadhīḥ / yadīcchasi pradāsyāmi tāḥ kṣīrapariṇāminīḥ
- ViP 1.13.80Open verse →
तस्मात् प्रजाहितार्थाय मम धर्मभृतां वर । तं तु वत्सं प्रयच्छ त्वं क्षरेयं येन वत्सला
tasmāt prajāhitārthāya mama dharmabhṛtāṃ vara / taṃ tu vatsaṃ prayaccha tvaṃ kṣareyaṃ yena vatsalā
- ViP 1.13.81Open verse →
समां च कुरु सर्वत्र येन क्षीरं समन्ततः । वरौषधीबीजभूतं वीर सर्वत्र भावये
samāṃ ca kuru sarvatra yena kṣīraṃ samantataḥ / varauṣadhībījabhūtaṃ vīra sarvatra bhāvaye
- ViP 1.13.82Open verse →
§पराशर उवाच: तत उत्सारयाम् आस शैलाञ् छतसहस्रशः । धनुष्कोट्या तदा वैन्यस् तेन शैला विवर्धिताः
§parāśara uvāca: tata utsārayām āsa śailāñ chatasahasraśaḥ / dhanuṣkoṭyā tadā vainyas tena śailā vivardhitāḥ
- ViP 1.13.83Open verse →
न हि पूर्वविसर्गे वै विषमे पृथिवीतले । प्रविभागः पुराणां वा ग्रामाणां वा तदाभवत्
na hi pūrvavisarge vai viṣame pṛthivītale / pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vā tadābhavat
- ViP 1.13.84Open verse →
न सस्यानि न गोरक्ष्यं न कृषिर् न वणिक्पथः । वैन्यात् प्रभृति मैत्रेय सर्वस्यैतस्य संभवः
na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ / vainyāt prabhṛti maitreya sarvasyaitasya saṃbhavaḥ
- ViP 1.13.85Open verse →
यत्र यत्र समं त्व् अस्या भूमेर् आसीन् नराधिपः । तत्र तत्र प्रजानां हि निवासं समरोचयत्
yatra yatra samaṃ tv asyā bhūmer āsīn narādhipaḥ / tatra tatra prajānāṃ hi nivāsaṃ samarocayat
- ViP 1.13.86Open verse →
आहारः फलमूलानि प्रजानाम् अभवत् तदा । कृच्छ्रेण महता सो ऽपि प्रणष्टास्व् ओषधीषु वै
āhāraḥ phalamūlāni prajānām abhavat tadā / kṛcchreṇa mahatā so 'pi praṇaṣṭāsv oṣadhīṣu vai
- ViP 1.13.87Open verse →
स कल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम् । स्वे पाणौ पृथिवीनाथो दुदोह पृथिवीं पृथुः । सस्यजातानि सर्वाणि प्रजानां हितकाम्यया
sa kalpayitvā vatsaṃ tu manuṃ svāyambhuvaṃ prabhum / sve pāṇau pṛthivīnātho dudoha pṛthivīṃ pṛthuḥ / sasyajātāni sarvāṇi prajānāṃ hitakāmyayā
- ViP 1.13.88Open verse →
तेनान्नेन प्रजास् तात वर्तन्ते ऽद्यापि नित्यशः
tenānnena prajās tāta vartante 'dyāpi nityaśaḥ
- ViP 1.13.89Open verse →
प्राणप्रदानात् स पृथुर् यस्माद् भूमेर् अभूत् पिता । ततस् तु पृथिवीसंज्ञाम् अवापाखिलधारिणी
prāṇapradānāt sa pṛthur yasmād bhūmer abhūt pitā / tatas tu pṛthivīsaṃjñām avāpākhiladhāriṇī
- ViP 1.13.90Open verse →
ततश् च देवैर् मुनिभिर् दैत्यै रक्षोभिर् अद्रिभिः । गन्धर्वैर् उरगैर् यक्षैः पितृभिस् तरुभिस् तथा
tataś ca devair munibhir daityai rakṣobhir adribhiḥ / gandharvair uragair yakṣaiḥ pitṛbhis tarubhis tathā
- ViP 1.13.91Open verse →
तत् तत् पात्रम् उपादाय तत् तद् दुग्धं मुने पयः । वत्सदोग्धृविशेषाश् च तेषां तद्योनयो ऽभवन्
tat tat pātram upādāya tat tad dugdhaṃ mune payaḥ / vatsadogdhṛviśeṣāś ca teṣāṃ tadyonayo 'bhavan
- ViP 1.13.92Open verse →
सैषा धात्री विधात्री च धारिणी पोषणी तथा । सर्वस्य जगतः पृथ्वी विष्णुपादतलोद्भवा
saiṣā dhātrī vidhātrī ca dhāriṇī poṣaṇī tathā / sarvasya jagataḥ pṛthvī viṣṇupādatalodbhavā
- ViP 1.13.93Open verse →
एवंप्रभावः स पृथुः पुत्रो वेनस्य वीर्यवान् । जज्ञे महीपतिः पूर्वं राजाभूज् जनरञ्जनात्
evaṃprabhāvaḥ sa pṛthuḥ putro venasya vīryavān / jajñe mahīpatiḥ pūrvaṃ rājābhūj janarañjanāt
- ViP 1.13.94Open verse →
य इदं जन्म वैन्यस्य पृथोः संकीर्तयेन् नरः । न तस्य दुष्कृतं किंचित् फलदायि प्रजायते
ya idaṃ janma vainyasya pṛthoḥ saṃkīrtayen naraḥ / na tasya duṣkṛtaṃ kiṃcit phaladāyi prajāyate
- ViP 1.13.95Open verse →
दुःस्वप्नोपशमं नॄणां शृण्वतां चैतद् उत्तमम् । पृथोर् जन्म प्रभावश् च करोति सततं नृणाम्
duḥsvapnopaśamaṃ nṝṇāṃ śṛṇvatāṃ caitad uttamam / pṛthor janma prabhāvaś ca karoti satataṃ nṛṇām
- ViP 1.14.1Open verse →
______________________________________________________ §पराशर उवाच: पृथोः पुत्रौ महावीर्यौ जज्ञाते ऽन्तर्धिवादिनौ । शिखण्डिनी हविर्धानम् अन्तर्धानाद् व्यजायत
______________________________________________________ §parāśara uvāca: pṛthoḥ putrau mahāvīryau jajñāte 'ntardhivādinau / śikhaṇḍinī havirdhānam antardhānād vyajāyata
- ViP 1.14.2Open verse →
हविर्धानात् षड् आग्नेयी धिषणाजनयत् सुतान् । प्राचीनबर्हिषं शुक्रं गयं कृष्णं वृजाजिनौ
havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān / prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vṛjājinau
- ViP 1.14.3Open verse →
प्राचीनबर्हिर् भगवान् महान् आसीत् प्रजापतिः । हविर्धानिर् महाराजो येन संवर्धिताः प्रजाः
prācīnabarhir bhagavān mahān āsīt prajāpatiḥ / havirdhānir mahārājo yena saṃvardhitāḥ prajāḥ
- ViP 1.14.4Open verse →
प्राचीनाग्राः कुशास् तस्य पृथिव्यां विश्रुता मुने । प्राचीनबर्हिर् अभवत् ख्यातो भुवि महाबलः
prācīnāgrāḥ kuśās tasya pṛthivyāṃ viśrutā mune / prācīnabarhir abhavat khyāto bhuvi mahābalaḥ
- ViP 1.14.5Open verse →
समुद्रतनयायां तु कृतदारो महीपतिः । महतस् तपसः पारे सवर्णायां महीपतेः
samudratanayāyāṃ tu kṛtadāro mahīpatiḥ / mahatas tapasaḥ pāre savarṇāyāṃ mahīpateḥ
- ViP 1.14.6Open verse →
सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः । सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः
savarṇādhatta sāmudrī daśa prācīnabarhiṣaḥ / sarve pracetaso nāma dhanurvedasya pāragāḥ
- ViP 1.14.7Open verse →
अपृथग्धर्मचरणास् ते ऽतप्यन्त महत् तपः । दश वर्षसहस्राणि समुद्रसलिलेशयाः
apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ / daśa varṣasahasrāṇi samudrasalileśayāḥ
- ViP 1.14.8Open verse →
§मैत्रेय उवाच: यदर्थं ते महात्मानस् तपस् तेपुर् महामुने । प्रचेतसः समुद्राम्भस्य् एतद् आख्यातुम् अर्हसि
§maitreya uvāca: yadarthaṃ te mahātmānas tapas tepur mahāmune / pracetasaḥ samudrāmbhasy etad ākhyātum arhasi
- ViP 1.14.9Open verse →
§पराशर उवाच: पित्रा प्रचेतसः प्रोक्ताः प्रजार्थम् अमितात्मना । प्रजापतिनियुक्तेन बहुमानपुरःसरम्
§parāśara uvāca: pitrā pracetasaḥ proktāḥ prajārtham amitātmanā / prajāpatiniyuktena bahumānapuraḥsaram
- ViP 1.14.10Open verse →
§प्राचीनबर्हिर् उवाच: ब्रह्मणा देवदेवेन समादिष्टो ऽस्म्य् अहं सुताः । प्रजाः संवर्धनीयास् ते मया चोक्तं तथेति तत्
§prācīnabarhir uvāca: brahmaṇā devadevena samādiṣṭo 'smy ahaṃ sutāḥ / prajāḥ saṃvardhanīyās te mayā coktaṃ tatheti tat
- ViP 1.14.11Open verse →
तन् मम प्रीतये पुत्राः प्रजावृद्धिम् अतन्द्रिताः । कुरुध्वं माननीया च सम्यग् आज्ञा प्रजापतेः
tan mama prītaye putrāḥ prajāvṛddhim atandritāḥ / kurudhvaṃ mānanīyā ca samyag ājñā prajāpateḥ
- ViP 1.14.12Open verse →
§पराशर उवाच: ततस् ते तत् पितुः श्रुत्वा वचनं नृपनन्दनाः । तथेत्य् उक्त्वा च तं भूयः पप्रच्छुः पितरं मुने
§parāśara uvāca: tatas te tat pituḥ śrutvā vacanaṃ nṛpanandanāḥ / tathety uktvā ca taṃ bhūyaḥ papracchuḥ pitaraṃ mune
- ViP 1.14.13Open verse →
§प्रचेतस ऊचुः: येन तात प्रजावृद्धौ समर्थाः कर्मणा वयम् । भवेम तत् समस्तं नः कर्म व्याख्यातुम् अर्हसि
§pracetasa ūcuḥ: yena tāta prajāvṛddhau samarthāḥ karmaṇā vayam / bhavema tat samastaṃ naḥ karma vyākhyātum arhasi
- ViP 1.14.14Open verse →
§पितोवाच: आराध्य वरदं विष्णुम् इष्टप्राप्तिम् असंशयम् । समेति नान्यथा मर्त्यः किम् अन्यत् कथयामि वः
§pitovāca: ārādhya varadaṃ viṣṇum iṣṭaprāptim asaṃśayam / sameti nānyathā martyaḥ kim anyat kathayāmi vaḥ
- ViP 1.14.15Open verse →
तस्मात् प्रजाविवृद्ध्यर्थं सर्वभूतप्रभुं हरिम् । आराधयत गोविन्दं यदि सिद्धिम् अभीप्सथ
tasmāt prajāvivṛddhyarthaṃ sarvabhūtaprabhuṃ harim / ārādhayata govindaṃ yadi siddhim abhīpsatha
- ViP 1.14.16Open verse →
धर्मम् अर्थं च कामं च मोक्षं चान्विच्छता सदा । आराधनीयो भगवान् अनादिः पुरुषोत्तमः
dharmam arthaṃ ca kāmaṃ ca mokṣaṃ cānvicchatā sadā / ārādhanīyo bhagavān anādiḥ puruṣottamaḥ
- ViP 1.14.17Open verse →
यस्मिन्न् आराधिते सर्गं चकारादौ प्रजापतिः । तम् आराध्याच्युतं वृद्धिः प्रजानां वो भविष्यति
yasminn ārādhite sargaṃ cakārādau prajāpatiḥ / tam ārādhyācyutaṃ vṛddhiḥ prajānāṃ vo bhaviṣyati
- ViP 1.14.18Open verse →
§पराशर उवाच: इत्य् एवम् उक्तास् ते पित्रा पुत्राः प्रचेतसो दश । मग्नाः पयोधिसलिले तपस् तेपुः समाहिताः
§parāśara uvāca: ity evam uktās te pitrā putrāḥ pracetaso daśa / magnāḥ payodhisalile tapas tepuḥ samāhitāḥ
- ViP 1.14.19Open verse →
दश वर्षसहस्राणि न्यस्तचित्ता जगत्पतौ । नारायणे मुनिश्रेष्ठ सर्वलोकपरायणे
daśa varṣasahasrāṇi nyastacittā jagatpatau / nārāyaṇe muniśreṣṭha sarvalokaparāyaṇe
- ViP 1.14.20Open verse →
तत्रैव ते स्थिता देवम् एकाग्रमनसो हरिम् । तुष्टुवुर् यः स्तुतः कामान् स्तोतुर् इष्टान् प्रयच्छति
tatraiva te sthitā devam ekāgramanaso harim / tuṣṭuvur yaḥ stutaḥ kāmān stotur iṣṭān prayacchati
- ViP 1.14.21Open verse →
§मैत्रेय उवाच: स्तवं प्रचेतसो विष्णोः समुद्राम्भसि संस्थिताः । चक्रुस् तं मे मुनिश्रेष्ठ सुपुण्यं वक्तुम् अर्हसि
§maitreya uvāca: stavaṃ pracetaso viṣṇoḥ samudrāmbhasi saṃsthitāḥ / cakrus taṃ me muniśreṣṭha supuṇyaṃ vaktum arhasi
- ViP 1.14.22Open verse →
§पराशर उवाच: शृणु मैत्रेय गोविन्दं यथापूर्वं प्रचेतसः । तुष्टुवुस् तन्मयीभूताः समुद्रसलिलेशयाः
§parāśara uvāca: śṛṇu maitreya govindaṃ yathāpūrvaṃ pracetasaḥ / tuṣṭuvus tanmayībhūtāḥ samudrasalileśayāḥ
- ViP 1.14.23Open verse →
§प्रचेतस ऊचुः: नताः स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती । तम् आद्यन्तम् अशेषस्य जगतः परमं प्रभुम्
§pracetasa ūcuḥ: natāḥ sma sarvavacasāṃ pratiṣṭhā yatra śāśvatī / tam ādyantam aśeṣasya jagataḥ paramaṃ prabhum
- ViP 1.14.24Open verse →
द्७ इन्स्।: ज्योतिर् आद्यम् अनौपम्यम् अण्व् अनन्तम् अपारवत् । योनिभूतम् अशेषस्य स्थावरस्य चरस्य च
D7 ins.: jyotir ādyam anaupamyam aṇv anantam apāravat / yonibhūtam aśeṣasya sthāvarasya carasya ca
- ViP 1.14.25Open verse →
यस्याहः प्रथमं रूपम् अरूपस्य ततो निशा । संध्या च परमेशस्य तस्मै कालात्मने नमः
yasyāhaḥ prathamaṃ rūpam arūpasya tato niśā / saṃdhyā ca parameśasya tasmai kālātmane namaḥ
- ViP 1.14.26Open verse →
भुज्यते ऽनुदिनं देवैः पितृभिश् च सुधात्मकः । जीवभूतः समस्तस्य तस्मै सोमात्मने नमः
bhujyate 'nudinaṃ devaiḥ pitṛbhiś ca sudhātmakaḥ / jīvabhūtaḥ samastasya tasmai somātmane namaḥ
- ViP 1.14.27Open verse →
यस् तमो हन्ति तीव्रात्मा स्वभाभिर् भासयन् नभः । घर्मशीताम्भसां योनिस् तस्मै सूर्यात्मने नमः
yas tamo hanti tīvrātmā svabhābhir bhāsayan nabhaḥ / gharmaśītāmbhasāṃ yonis tasmai sūryātmane namaḥ
- ViP 1.14.28Open verse →
काठिन्यवान् यो बिभर्ति जगद् एतद् अशेषतः । शब्दादिसंश्रयो व्यापी तस्मै भूम्यात्मने नमः
kāṭhinyavān yo bibharti jagad etad aśeṣataḥ / śabdādisaṃśrayo vyāpī tasmai bhūmyātmane namaḥ
- ViP 1.14.29Open verse →
यद् योनिभूतं जगतो बीजं यत् सर्वदेहिनाम् । तत् तोयरूपम् ईशस्य नमामो हरिमेधसः
yad yonibhūtaṃ jagato bījaṃ yat sarvadehinām / tat toyarūpam īśasya namāmo harimedhasaḥ
- ViP 1.14.30Open verse →
यो मुखं सर्वदेवानां हव्यभुक् कव्यभुक् तथा । पितॄणां च नमस् तस्मै विष्णवे पावकात्मने
yo mukhaṃ sarvadevānāṃ havyabhuk kavyabhuk tathā / pitṝṇāṃ ca namas tasmai viṣṇave pāvakātmane
- ViP 1.14.31Open verse →
पञ्चधावस्थितो देहे यश् चेष्टां कुरुते ऽनिशम् । आकाशयोनिर् भगवांस् तस्मै वाय्वात्मने नमः
pañcadhāvasthito dehe yaś ceṣṭāṃ kurute 'niśam / ākāśayonir bhagavāṃs tasmai vāyvātmane namaḥ
- ViP 1.14.32Open verse →
अवकाशम् अशेषाणां भूतानां यः प्रयच्छति । अनन्तमूर्तिमाञ् छुद्धस् तस्मै व्योमात्मने नमः
avakāśam aśeṣāṇāṃ bhūtānāṃ yaḥ prayacchati / anantamūrtimāñ chuddhas tasmai vyomātmane namaḥ
- ViP 1.14.33Open verse →
समस्तेन्द्रियवर्गस्य यः सदा स्थानम् उत्तमम् । तस्मै शब्दादिरूपाय नमः कृष्णाय वेधसे
samastendriyavargasya yaḥ sadā sthānam uttamam / tasmai śabdādirūpāya namaḥ kṛṣṇāya vedhase
- ViP 1.14.34Open verse →
गृह्णाति विषयान् नित्यम् इन्द्रियात्मा क्षराक्षरः । यस् तस्मै ज्ञानमूलाय नताः स्म हरिमेधसे
gṛhṇāti viṣayān nityam indriyātmā kṣarākṣaraḥ / yas tasmai jñānamūlāya natāḥ sma harimedhase
- ViP 1.14.35Open verse →
गृहीतान् इन्द्रियैर् अर्थान् आत्मने यः प्रयच्छति । अन्तःकरणभूताय तस्मै विश्वात्मने नमः
gṛhītān indriyair arthān ātmane yaḥ prayacchati / antaḥkaraṇabhūtāya tasmai viśvātmane namaḥ
- ViP 1.14.36Open verse →
यस्मिन्न् अनन्ते सकलं विश्वं यस्मात् तथोद्गतम् । लयस्थानं च यस् तस्मै नमः प्रकृतिधर्मिणे
yasminn anante sakalaṃ viśvaṃ yasmāt tathodgatam / layasthānaṃ ca yas tasmai namaḥ prakṛtidharmiṇe
- ViP 1.14.37Open verse →
शुद्धः संल्लक्ष्यते भ्रान्त्या गुणवान् इव यो ऽगुणः । तम् आत्मरूपिणं देवं नताः स्म पुरुषोत्तमम्
śuddhaḥ saṃllakṣyate bhrāntyā guṇavān iva yo 'guṇaḥ / tam ātmarūpiṇaṃ devaṃ natāḥ sma puruṣottamam
- ViP 1.14.38Open verse →
अविकारम् अजं शुद्धं निर्गुणं यन् निरञ्जनम् । नताः स्म तत् परं ब्रह्म विष्णोर् यत् परमं पदम्
avikāram ajaṃ śuddhaṃ nirguṇaṃ yan nirañjanam / natāḥ sma tat paraṃ brahma viṣṇor yat paramaṃ padam
- ViP 1.14.39Open verse →
अदीर्घह्रस्वम् अस्थूलम् अनण्व् अग्र्यम् अलोहितम् । अस्नेहच्छायम् अतनुम् असक्तम् असमीरणम्
adīrghahrasvam asthūlam anaṇv agryam alohitam / asnehacchāyam atanum asaktam asamīraṇam
- ViP 1.14.40Open verse →
अनाकाशम् असंस्पर्शम् अगन्धम् अरसं च यत् । अचक्षुःश्रोत्रम् अचलम् अवाक्पाणिम् अमानसम्
anākāśam asaṃsparśam agandham arasaṃ ca yat / acakṣuḥśrotram acalam avākpāṇim amānasam
- ViP 1.14.41Open verse →
अनामगोत्रम् असुखम् अतेजस्कम् अहेतुकम् । अभयं भ्रान्तिरहितम् अनिद्रम् अजरामरम्
anāmagotram asukham atejaskam ahetukam / abhayaṃ bhrāntirahitam anidram ajarāmaram
- ViP 1.14.42Open verse →
अरजो ऽशब्दम् अमृतम् अप्लुतं यद् असंवृतम् । पूर्वापरे न वै यस्मिंस् तद् विष्णोः परमं पदम्
arajo 'śabdam amṛtam aplutaṃ yad asaṃvṛtam / pūrvāpare na vai yasmiṃs tad viṣṇoḥ paramaṃ padam
- ViP 1.14.43Open verse →
परम् ईशित्वगुणवत् सर्वभूतम् असंश्रयम् । नताः स्म तत् पदं विष्णोर् जिह्वादृग्गोचरं न यत्
param īśitvaguṇavat sarvabhūtam asaṃśrayam / natāḥ sma tat padaṃ viṣṇor jihvādṛggocaraṃ na yat
- ViP 1.14.44Open verse →
§पराशर उवाच: एवं प्रचेतसो विष्णुं स्तुवन्तस् तत्समाधयः । दश वर्षसहस्राणि तपश् चेरुर् महार्णवे
§parāśara uvāca: evaṃ pracetaso viṣṇuṃ stuvantas tatsamādhayaḥ / daśa varṣasahasrāṇi tapaś cerur mahārṇave
- ViP 1.14.45Open verse →
ततः प्रसन्नो भगवांस् तेषाम् अन्तर्जले हरिः । ददौ दर्शनम् उन्निद्रनीलोत्पलदलच्छविः
tataḥ prasanno bhagavāṃs teṣām antarjale hariḥ / dadau darśanam unnidranīlotpaladalacchaviḥ
- ViP 1.14.46Open verse →
पतत्रिराजम् आरूढम् अवलोक्य प्रचेतसः । प्रणिपेतुः शिरोभिस् तं भक्तिभारावनामितैः
patatrirājam ārūḍham avalokya pracetasaḥ / praṇipetuḥ śirobhis taṃ bhaktibhārāvanāmitaiḥ
- ViP 1.14.47Open verse →
ततस् तान् आह भगवान् व्रियताम् ईप्सितो वरः । प्रसादसुमुखो ऽहं वो वरदः समुपस्थितः
tatas tān āha bhagavān vriyatām īpsito varaḥ / prasādasumukho 'haṃ vo varadaḥ samupasthitaḥ
- ViP 1.14.48Open verse →
ततस् तम् ऊचुर् वरदं प्रणिपत्य प्रचेतसः । यथा पित्रा समादिष्टं प्रजानां वृद्धिकारणम्
tatas tam ūcur varadaṃ praṇipatya pracetasaḥ / yathā pitrā samādiṣṭaṃ prajānāṃ vṛddhikāraṇam
- ViP 1.14.49Open verse →
स चापि देवस् तं दत्त्वा यथाभिलषितं वरम् । अन्तर्धानं जगामाशु ते च निश्चक्रमुर् जलात्
sa cāpi devas taṃ dattvā yathābhilaṣitaṃ varam / antardhānaṃ jagāmāśu te ca niścakramur jalāt
- ViP 1.15.1Open verse →
______________________________________________________ §पराशर उवाच: तपश् चरत्सु पृथिवीं प्रचेतःसु महीरुहाः । अरक्ष्यमाणाम् आवव्रुर् बभूवाथ प्रजाक्षयः
______________________________________________________ §parāśara uvāca: tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhāḥ / arakṣyamāṇām āvavrur babhūvātha prajākṣayaḥ
- ViP 1.15.2Open verse →
नाशकन् मारुतो वातुं वृतं खम् अभवद् द्रुमैः । दशवर्षसहस्राणि न शेकुश् चेष्टितुं प्रजाः
nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ / daśavarṣasahasrāṇi na śekuś ceṣṭituṃ prajāḥ
- ViP 1.15.3Open verse →
तान् दृष्ट्वा जलनिष्क्रान्ताः सर्वे क्रुद्धाः प्रचेतसः । मुखेभ्यो वायुम् अग्निं च ते ऽसृजञ् जातमन्यवः
tān dṛṣṭvā jalaniṣkrāntāḥ sarve kruddhāḥ pracetasaḥ / mukhebhyo vāyum agniṃ ca te 'sṛjañ jātamanyavaḥ
- ViP 1.15.4Open verse →
उन्मूलान् अथ तान् वृक्षान् कृत्वा वायुर् अशोषयत् । तान् अग्निर् अदहद् घोरस् तत्राभूद् द्रुमसंक्षयः
unmūlān atha tān vṛkṣān kṛtvā vāyur aśoṣayat / tān agnir adahad ghoras tatrābhūd drumasaṃkṣayaḥ
- ViP 1.15.5Open verse →
द्रुमक्षयम् अथो दृष्ट्वा किंचिच् छिष्टेषु शाखिषु । उपगम्याब्रवीद् एतान् राजा सोमः प्रजापतीन्
drumakṣayam atho dṛṣṭvā kiṃcic chiṣṭeṣu śākhiṣu / upagamyābravīd etān rājā somaḥ prajāpatīn
- ViP 1.15.6Open verse →
कोपं यच्छत राजानः शृणुध्वं च वचो मम । संधानं वः करिष्यामि सह क्षितिरुहैर् अहम्
kopaṃ yacchata rājānaḥ śṛṇudhvaṃ ca vaco mama / saṃdhānaṃ vaḥ kariṣyāmi saha kṣitiruhair aham
- ViP 1.15.7Open verse →
रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी । भविष्यं जानता पूर्वं मया गोभिर् विवर्धिता
ratnabhūtā ca kanyeyaṃ vārkṣeyī varavarṇinī / bhaviṣyaṃ jānatā pūrvaṃ mayā gobhir vivardhitā
- ViP 1.15.8Open verse →
मारिषा नाम नाम्नैषा वृक्षाणाम् इति निर्मिता । भार्या वो ऽस्तु महाभागा ध्रुवं वंशविवर्धिनी
māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā / bhāryā vo 'stu mahābhāgā dhruvaṃ vaṃśavivardhinī
- ViP 1.15.9Open verse →
युष्माकं तेजसो ऽर्धेन मम चार्धेन तेजसः । अस्याम् उत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः
yuṣmākaṃ tejaso 'rdhena mama cārdhena tejasaḥ / asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ
- ViP 1.15.10Open verse →
मम चांशेन संयुक्तो युष्मत्तेजोमयेन वै । अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति
mama cāṃśena saṃyukto yuṣmattejomayena vai / agnināgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati
- ViP 1.15.11Open verse →
कण्डुर् नाम मुनिः पूर्वम् आसीद् वेदविदां वरः । सुरम्ये गोमतीतीरे स तेपे परमं तपः
kaṇḍur nāma muniḥ pūrvam āsīd vedavidāṃ varaḥ / suramye gomatītīre sa tepe paramaṃ tapaḥ
- ViP 1.15.12Open verse →
तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः । प्रयुक्ता क्षोभयाम् आस तम् ऋषिं सा शुचिस्मिता
tatkṣobhāya surendreṇa pramlocākhyā varāpsarāḥ / prayuktā kṣobhayām āsa tam ṛṣiṃ sā śucismitā
- ViP 1.15.13Open verse →
क्षोभितः स तया सार्धं वर्षाणाम् अधिकं शतम् । अतिष्ठन् मन्दरद्रोण्यां विषयासक्तमानसः
kṣobhitaḥ sa tayā sārdhaṃ varṣāṇām adhikaṃ śatam / atiṣṭhan mandaradroṇyāṃ viṣayāsaktamānasaḥ
- ViP 1.15.14Open verse →
सा तं प्राह महाभाग गन्तुम् इच्छाम्य् अहं दिवम् । प्रसादसुमुखो ब्रह्मन्न् अनुज्ञां दातुम् अर्हसि
sā taṃ prāha mahābhāga gantum icchāmy ahaṃ divam / prasādasumukho brahmann anujñāṃ dātum arhasi
- ViP 1.15.15Open verse →
तयैवम् उक्तः स मुनिस् तस्याम् आसक्तमानसः । दिनानि कतिचिद् भद्रे स्थीयताम् इत्य् अभाषत
tayaivam uktaḥ sa munis tasyām āsaktamānasaḥ / dināni katicid bhadre sthīyatām ity abhāṣata
- ViP 1.15.16Open verse →
एवम् उक्ता ततस् तेन साग्रं वर्षशतं पुनः । बुभुजे विषयांस् तन्वी तेन सार्धं महात्मना
evam uktā tatas tena sāgraṃ varṣaśataṃ punaḥ / bubhuje viṣayāṃs tanvī tena sārdhaṃ mahātmanā
- ViP 1.15.17Open verse →
अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम् । उक्तस् तयेति स मुनिः स्थीयताम् इत्य् अभाषत
anujñāṃ dehi bhagavan vrajāmi tridaśālayam / uktas tayeti sa muniḥ sthīyatām ity abhāṣata
- ViP 1.15.18Open verse →
पुनर् गते वर्षशते साधिके सा शुभानना । यामीत्य् आह दिवं ब्रह्मन् प्रणयस्मितशोभनम्
punar gate varṣaśate sādhike sā śubhānanā / yāmīty āha divaṃ brahman praṇayasmitaśobhanam
- ViP 1.15.19Open verse →
उक्तस् तयैवं स मुनिर् उपगुह्यायतेक्षणाम् । प्राहास्यतां क्षणं सुभ्रु चिरकालं गमिष्यसि
uktas tayaivaṃ sa munir upaguhyāyatekṣaṇām / prāhāsyatāṃ kṣaṇaṃ subhru cirakālaṃ gamiṣyasi
- ViP 1.15.20Open verse →
तच्छापभीता सुश्रोणी सह तेनर्षिणा पुनः । शतद्वयं किंचिद् ऊनं वर्षाणाम् अन्वतिष्ठत
tacchāpabhītā suśroṇī saha tenarṣiṇā punaḥ / śatadvayaṃ kiṃcid ūnaṃ varṣāṇām anvatiṣṭhata
- ViP 1.15.21Open verse →
गमनाय महाभागो देवराजनिवेशनम् । प्रोक्तः प्रोक्तस् तया तन्व्या स्थीयताम् इत्य् अभाषत
gamanāya mahābhāgo devarājaniveśanam / proktaḥ proktas tayā tanvyā sthīyatām ity abhāṣata
- ViP 1.15.22Open verse →
द्७ इन्स्।: तं सा शापभयाद् भीता दाक्षिण्येन च दक्षिणा । प्रोक्ता प्रणयभङ्गार्तिवेदिनी न जहौ मुनिम्
D7 ins.: taṃ sā śāpabhayād bhītā dākṣiṇyena ca dakṣiṇā / proktā praṇayabhaṅgārtivedinī na jahau munim
- ViP 1.15.23Open verse →
तया च रमतस् तस्य परमर्षेर् अहर्निशम् । नवं नवम् अभूत् प्रेम मन्मथाविष्टचेतसः
tayā ca ramatas tasya paramarṣer aharniśam / navaṃ navam abhūt prema manmathāviṣṭacetasaḥ
- ViP 1.15.24Open verse →
एकदा तु त्वरायुक्तो निश्चक्रामोटजान् मुनिः । निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा
ekadā tu tvarāyukto niścakrāmoṭajān muniḥ / niṣkrāmantaṃ ca kutreti gamyate prāha sā śubhā
- ViP 1.15.25Open verse →
इत्य् उक्तः स तया प्राह परिवृत्तम् अहः शुभे । संध्योपास्तिं करिष्यामि क्रियालोपो ऽन्यथा भवेत्
ity uktaḥ sa tayā prāha parivṛttam ahaḥ śubhe / saṃdhyopāstiṃ kariṣyāmi kriyālopo 'nyathā bhavet
- ViP 1.15.26Open verse →
ततः प्रहस्य मुदिता तं सा प्राह महामुनिम् । किम् अद्य सर्वधर्मज्ञ परिवृत्तम् अहस् तव
tataḥ prahasya muditā taṃ sā prāha mahāmunim / kim adya sarvadharmajña parivṛttam ahas tava
- ViP 1.15.27Open verse →
बहूनां विप्र वर्षाणां परिणामम् अहस् तव । गतम् एतन् न कुरुते विस्मयं कस्य कथ्यताम्
bahūnāṃ vipra varṣāṇāṃ pariṇāmam ahas tava / gatam etan na kurute vismayaṃ kasya kathyatām
- ViP 1.15.28Open verse →
§मुनिर् उवाच: प्रातस् त्वम् आगता भद्रे नदीतीरम् इदं शुभम् । मया दृष्टा च तन्वङ्गि प्रविष्टा च ममाश्रमम्
§munir uvāca: prātas tvam āgatā bhadre nadītīram idaṃ śubham / mayā dṛṣṭā ca tanvaṅgi praviṣṭā ca mamāśramam
- ViP 1.15.29Open verse →
अफ़्तेर् २८, म्३ इन्स्।: इयं च वर्तते संध्या परिणामम् अहर् गतम् । अवहासः किमर्थो ऽयं सद्भावः कथ्यतां मम
After 28, M3 ins.: iyaṃ ca vartate saṃdhyā pariṇāmam ahar gatam / avahāsaḥ kimartho 'yaṃ sadbhāvaḥ kathyatāṃ mama
- ViP 1.15.30Open verse →
§प्रम्लोचोवाच: प्रत्यूषस्य् आगता ब्रह्मन् सत्यम् एतन् न तन् मृषा । किन्त्व् अद्य तस्य कालस्य गतान्य् अब्दशतानि ते
§pramlocovāca: pratyūṣasy āgatā brahman satyam etan na tan mṛṣā / kintv adya tasya kālasya gatāny abdaśatāni te
- ViP 1.15.31Open verse →
§सोम उवाच: ततः ससाध्वसो विप्रस् तां पप्रच्छायतेक्षणाम् । कथ्यतां भीरु कः कालस् त्वया मे रमतः सह
§soma uvāca: tataḥ sasādhvaso vipras tāṃ papracchāyatekṣaṇām / kathyatāṃ bhīru kaḥ kālas tvayā me ramataḥ saha
- ViP 1.15.32Open verse →
§प्रम्लोचोवाच: सप्तोत्तराण्य् अतीतानि नव वर्षशतानि ते । मासाश् च षट् तथैवान्यत् समतीतं दिनत्रयम्
§pramlocovāca: saptottarāṇy atītāni nava varṣaśatāni te / māsāś ca ṣaṭ tathaivānyat samatītaṃ dinatrayam
- ViP 1.15.33Open verse →
§ऋषिर् उवाच: सत्यं भीरु वदस्य् एतत् परिहासो ऽथ वा शुभे । दिनम् एकम् अहं मन्ये त्वया सार्धम् इहासितम्
§ṛṣir uvāca: satyaṃ bhīru vadasy etat parihāso 'tha vā śubhe / dinam ekam ahaṃ manye tvayā sārdham ihāsitam
- ViP 1.15.34Open verse →
§प्रम्लोचोवाच: वदिष्याम्य् अनृतं ब्रह्मन् कथम् अत्र तवान्तिके । विशेषेणाद्य भवता पृष्टा मार्गानुवर्तिना
§pramlocovāca: vadiṣyāmy anṛtaṃ brahman katham atra tavāntike / viśeṣeṇādya bhavatā pṛṣṭā mārgānuvartinā
- ViP 1.15.35Open verse →
§सोम उवाच: निशम्य तद् वचः तस्याः स मुनिर् नृपनन्दनाः । धिङ् मां धिङ् माम् अतीवेत्थं निनिन्दात्मानम् आत्मना
§soma uvāca: niśamya tad vacaḥ tasyāḥ sa munir nṛpanandanāḥ / dhiṅ māṃ dhiṅ mām atīvetthaṃ ninindātmānam ātmanā
- ViP 1.15.36Open verse →
§मुनिर् उवाच: तपांसि मम नष्टानि हतं ब्रह्मविदां धनम् । हृतो विवेकः केनापि योषिन् मोहाय निर्मिता
§munir uvāca: tapāṃsi mama naṣṭāni hataṃ brahmavidāṃ dhanam / hṛto vivekaḥ kenāpi yoṣin mohāya nirmitā
- ViP 1.15.37Open verse →
ऊर्मिषट्कातिगं ब्रह्म ज्ञेयम् आत्मजयेन मे । मतिर् एषा हृता येन धिक् तं कामं महाग्रहम्
ūrmiṣaṭkātigaṃ brahma jñeyam ātmajayena me / matir eṣā hṛtā yena dhik taṃ kāmaṃ mahāgraham
- ViP 1.15.38Open verse →
द्७ इन्स्।: व्रतानि वेदवेद्याप्तिकारणान्य् अखिलानि च । नरकग्राममार्गेण सङ्गेनापहृतानि मे
D7 ins.: vratāni vedavedyāptikāraṇāny akhilāni ca / narakagrāmamārgeṇa saṅgenāpahṛtāni me
- ViP 1.15.39Open verse →
विनिन्द्येत्थं स धर्मज्ञः स्वयम् आत्मानम् आत्मना । ताम् अप्सरसम् आसीनाम् इदं वचनम् अब्रवीत्
vinindyetthaṃ sa dharmajñaḥ svayam ātmānam ātmanā / tām apsarasam āsīnām idaṃ vacanam abravīt
- ViP 1.15.40Open verse →
गच्छ पापे यथा कामं यत् कार्यं तत् कृतं त्वया । देवराजस्य मत्क्षोभं कुर्वन्त्या भावचेष्टितैः
gaccha pāpe yathā kāmaṃ yat kāryaṃ tat kṛtaṃ tvayā / devarājasya matkṣobhaṃ kurvantyā bhāvaceṣṭitaiḥ
- ViP 1.15.41Open verse →
न त्वां करोम्य् अहं भस्म क्रोधतीव्रेण वह्निना । सतां सप्तपदं मैत्रम् उषितो ऽहं त्वया सह
na tvāṃ karomy ahaṃ bhasma krodhatīvreṇa vahninā / satāṃ saptapadaṃ maitram uṣito 'haṃ tvayā saha
- ViP 1.15.42Open verse →
अथ वा तव को दोषः किं वा कुप्याम्य् अहं तव । ममैव दोषो नितरां येनाहम् अजितेन्द्रियः
atha vā tava ko doṣaḥ kiṃ vā kupyāmy ahaṃ tava / mamaiva doṣo nitarāṃ yenāham ajitendriyaḥ
- ViP 1.15.43Open verse →
यया शक्रप्रियार्थिन्या कृतो मे तपसो व्ययः । त्वया धिक् त्वां महामोहमञ्जूषां सुजुगुप्सिताम्
yayā śakrapriyārthinyā kṛto me tapaso vyayaḥ / tvayā dhik tvāṃ mahāmohamañjūṣāṃ sujugupsitām
- ViP 1.15.44Open verse →
§सोम उवाच: यावद् इत्थं स विप्रर्षिस् तां ब्रवीति सुमध्यमाम् । तावद् गलत्स्वेदजला सा बभूवातिवेपथुः
§soma uvāca: yāvad itthaṃ sa viprarṣis tāṃ bravīti sumadhyamām / tāvad galatsvedajalā sā babhūvātivepathuḥ
- ViP 1.15.45Open verse →
प्रवेपमानां सततं खिन्नगात्रलतां सतीम् । गच्छ गच्छेति सक्रोधम् उवाच मुनिसत्तमः
pravepamānāṃ satataṃ khinnagātralatāṃ satīm / gaccha gaccheti sakrodham uvāca munisattamaḥ
- ViP 1.15.46Open verse →
सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात् । आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः
sā tu nirbhartsitā tena viniṣkramya tadāśramāt / ākāśagāminī svedaṃ mamārja tarupallavaiḥ
- ViP 1.15.47Open verse →
वृक्षाद् वृक्षं ययौ बाला तदग्रारुणपल्लवैः । निर्मार्जमाना गात्राणि गलत्स्वेदजलानि वै
vṛkṣād vṛkṣaṃ yayau bālā tadagrāruṇapallavaiḥ / nirmārjamānā gātrāṇi galatsvedajalāni vai
- ViP 1.15.48Open verse →
ऋषिणा यस् तदा गर्भस् तस्या देहे समाहितः । निर्जगाम सरोमाञ्चस्वेदरूपी तदङ्गतः
ṛṣiṇā yas tadā garbhas tasyā dehe samāhitaḥ / nirjagāma saromāñcasvedarūpī tadaṅgataḥ
- ViP 1.15.49Open verse →
तं वृक्षा जगृहुर् गर्भम् एकं चक्रे च मारुतः । मया चाप्यायितो गोभिः स तदा ववृधे शनैः
taṃ vṛkṣā jagṛhur garbham ekaṃ cakre ca mārutaḥ / mayā cāpyāyito gobhiḥ sa tadā vavṛdhe śanaiḥ
- ViP 1.15.50Open verse →
वृक्षाग्रगर्भसंभूता मारिषाख्या वरानना । तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशाम्यताम्
vṛkṣāgragarbhasaṃbhūtā māriṣākhyā varānanā / tāṃ pradāsyanti vo vṛkṣāḥ kopa eṣa praśāmyatām
- ViP 1.15.51Open verse →
कण्डोर् अपत्यम् एवं सा वृक्षेभ्यश् च समुद्गता । ममापत्यं तथा वायोः प्रम्लोचातनया च सा
kaṇḍor apatyam evaṃ sā vṛkṣebhyaś ca samudgatā / mamāpatyaṃ tathā vāyoḥ pramlocātanayā ca sā
- ViP 1.15.52Open verse →
स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमाः । पुरुषोत्तमाख्यम् अद्रीशं विष्णोर् आयतनं ययौ
sa cāpi bhagavān kaṇḍuḥ kṣīṇe tapasi sattamāḥ / puruṣottamākhyam adrīśaṃ viṣṇor āyatanaṃ yayau
- ViP 1.15.53Open verse →
तत्रैकाग्रमतिर् भूत्वा चकाराराधनं हरेः । ब्रह्मपारमयं कुर्वञ् जपम् एकाग्रमानसः । ऊर्ध्वबाहुर् महायोगी स्थित्वासौ भूपनन्दनाः
tatraikāgramatir bhūtvā cakārārādhanaṃ hareḥ / brahmapāramayaṃ kurvañ japam ekāgramānasaḥ / ūrdhvabāhur mahāyogī sthitvāsau bhūpanandanāḥ
- ViP 1.15.54Open verse →
§प्रचेतस ऊचुः: ब्रह्मपारं मुनेः श्रोतुम् इच्छामः परमं स्तवम् । जपता कण्डुना देवो येनाराध्यत केशवः
§pracetasa ūcuḥ: brahmapāraṃ muneḥ śrotum icchāmaḥ paramaṃ stavam / japatā kaṇḍunā devo yenārādhyata keśavaḥ
- ViP 1.15.55Open verse →
§सोम उवाच: पारं परं विष्णुर् अपारपारः परः परेभ्यः परमार्थरूपी । स ब्रह्मपारः परपारभूतः परः पराणाम् अपि पारपारः
§soma uvāca: pāraṃ paraṃ viṣṇur apārapāraḥ paraḥ parebhyaḥ paramārtharūpī / sa brahmapāraḥ parapārabhūtaḥ paraḥ parāṇām api pārapāraḥ
- ViP 1.15.56Open verse →
द्७ इन्स्।: स कारणं कारणतस् ततो ऽपि तस्यापि हेतुः परहेतुहेतुः । कार्येषु चैवं सह कर्मकर्तृ रूपैर् अशेषैर् अवतीह सर्वम्
D7 ins.: sa kāraṇaṃ kāraṇatas tato 'pi tasyāpi hetuḥ parahetuhetuḥ / kāryeṣu caivaṃ saha karmakartṛ rūpair aśeṣair avatīha sarvam
- ViP 1.15.57Open verse →
ब्रह्म प्रभुर् ब्रह्म स सर्वभूतो ब्रह्म प्रजानां पतिर् अच्युतो ऽसौ । ब्रह्माव्ययं नित्यम् अजं स विष्णुर् अपक्षयाद्यैर् अखिलैर् असङ्गि
brahma prabhur brahma sa sarvabhūto brahma prajānāṃ patir acyuto 'sau / brahmāvyayaṃ nityam ajaṃ sa viṣṇur apakṣayādyair akhilair asaṅgi
- ViP 1.15.58Open verse →
ब्रह्माक्षरम् अजं नित्यं यथासौ पुरुषोत्तमः । तथा रागादयो दोषाः प्रयान्तु प्रशमं मम
brahmākṣaram ajaṃ nityaṃ yathāsau puruṣottamaḥ / tathā rāgādayo doṣāḥ prayāntu praśamaṃ mama
- ViP 1.15.59Open verse →
§सोम उवाच: एतद् ब्रह्मपराख्यं वै संस्तवं परमं जपन् । अवाप परमां सिद्धिं स समाराध्य केशवम्
§soma uvāca: etad brahmaparākhyaṃ vai saṃstavaṃ paramaṃ japan / avāpa paramāṃ siddhiṃ sa samārādhya keśavam
- ViP 1.15.60Open verse →
ब्२,त्३,एद्। वेङ्क्। इन्स्।: wहिले त्३(सिच्) इन्स्।: इयं च मारिषा पूर्वम् आसीद् या तां ब्रवीमि वः । कार्यगौरवम् एतस्याः कथने फलदायि वः
B2,T3,ed. Veṅk. ins.: while T3(sic) ins.: iyaṃ ca māriṣā pūrvam āsīd yā tāṃ bravīmi vaḥ / kāryagauravam etasyāḥ kathane phaladāyi vaḥ
- ViP 1.15.61Open verse →
अपुत्रा प्राग् इयं विष्णुं मृते भर्तरि सत्तमाः । भूपपत्नी महाभागा तोषयाम् आस भक्तितः
aputrā prāg iyaṃ viṣṇuṃ mṛte bhartari sattamāḥ / bhūpapatnī mahābhāgā toṣayām āsa bhaktitaḥ
- ViP 1.15.62Open verse →
आराधितस् तया विष्णुः प्राह प्रत्यक्षतां गतः । वरं वृणीष्वेति शुभां सा च प्राहात्मवाञ्छितम्
ārādhitas tayā viṣṇuḥ prāha pratyakṣatāṃ gataḥ / varaṃ vṛṇīṣveti śubhāṃ sā ca prāhātmavāñchitam
- ViP 1.15.63Open verse →
भगवन् बालवैधव्याद् वृथाजन्माहम् ईदृशी । मन्दभाग्या समुद्भूता विफला च जगत्पते
bhagavan bālavaidhavyād vṛthājanmāham īdṛśī / mandabhāgyā samudbhūtā viphalā ca jagatpate
- ViP 1.15.64Open verse →
भवन्तु पतयः श्लाघ्या मम जन्मनि जन्मनि । त्वत्प्रसादात् तथा पुत्रः प्रजापतिसमो ऽस्तु मे
bhavantu patayaḥ ślāghyā mama janmani janmani / tvatprasādāt tathā putraḥ prajāpatisamo 'stu me
- ViP 1.15.65Open verse →
एद्। वेङ्क्। इन्स्।: रूपसंपत्समायुक्ता सर्वस्य प्रियदर्शना । अयोनिजा च जायेयं त्वत्प्रसादाद् अधोक्षज
ed. Veṅk. ins.: rūpasaṃpatsamāyuktā sarvasya priyadarśanā / ayonijā ca jāyeyaṃ tvatprasādād adhokṣaja
- ViP 1.15.66Open verse →
§सोम उवाच: तयैवम् उक्तो देवेशो हृषीकेश उवाच ताम् । प्रणामनम्राम् उत्थाप्य वरदः परमेश्वरः
§soma uvāca: tayaivam ukto deveśo hṛṣīkeśa uvāca tām / praṇāmanamrām utthāpya varadaḥ parameśvaraḥ
- ViP 1.15.67Open verse →
§देव उवाच: भविष्यन्ति महावीर्या एकस्मिन्न् एव जन्मनि । प्रख्यातोदारकर्माणो भवत्याः पतयो दश
§deva uvāca: bhaviṣyanti mahāvīryā ekasminn eva janmani / prakhyātodārakarmāṇo bhavatyāḥ patayo daśa
- ViP 1.15.68Open verse →
पुत्रं च सुमहात्मानम् अतिवीर्यपराक्रमम् । प्रजापतिगुणैर् युक्तं त्वम् अवाप्स्यसि शोभने
putraṃ ca sumahātmānam ativīryaparākramam / prajāpatiguṇair yuktaṃ tvam avāpsyasi śobhane
- ViP 1.15.69Open verse →
वंशानां तस्य कर्तृत्वं जगत्य् अस्मिन् भविष्यति । त्रैलोक्यम् अखिलं सूतिस् तस्य चापूरयिष्यति
vaṃśānāṃ tasya kartṛtvaṃ jagaty asmin bhaviṣyati / trailokyam akhilaṃ sūtis tasya cāpūrayiṣyati
- ViP 1.15.70Open verse →
त्वं चाप्य् अयोनिजा साध्वी रूपौदार्यगुणान्विता । मनःप्रीतिकरी नॄणां मत्प्रसादाद् भविष्यसि
tvaṃ cāpy ayonijā sādhvī rūpaudāryaguṇānvitā / manaḥprītikarī nṝṇāṃ matprasādād bhaviṣyasi
- ViP 1.15.71Open verse →
इत्य् उक्त्वान्तर्दधे देवस् तां विशालविलोचनाम् । सा चेयं मारिषा जाता युष्मत्पत्नी नृपात्मजाः
ity uktvāntardadhe devas tāṃ viśālavilocanām / sā ceyaṃ māriṣā jātā yuṣmatpatnī nṛpātmajāḥ
- ViP 1.15.72Open verse →
§पराशर उवाच: ततः सोमस्य वचनाज् जगृहुस् ते प्रचेतसः । संहृत्य कोपं वृक्षेभ्यः पत्नीधर्मेण मारिषाम्
§parāśara uvāca: tataḥ somasya vacanāj jagṛhus te pracetasaḥ / saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīdharmeṇa māriṣām
- ViP 1.15.73Open verse →
दशभ्यस् तु प्रचेतोभ्यो मारिषायां प्रजापतिः । जज्ञे दक्षो महाभागो यः पूर्वं ब्रह्मणो ऽभवत्
daśabhyas tu pracetobhyo māriṣāyāṃ prajāpatiḥ / jajñe dakṣo mahābhāgo yaḥ pūrvaṃ brahmaṇo 'bhavat
- ViP 1.15.74Open verse →
स तु दक्षो महाभागः सृष्ट्यर्थं सुमहामते । पुत्रान् उत्पादयाम् आस प्रजासृष्ट्यर्थम् आत्मनः
sa tu dakṣo mahābhāgaḥ sṛṣṭyarthaṃ sumahāmate / putrān utpādayām āsa prajāsṛṣṭyartham ātmanaḥ
- ViP 1.15.75Open verse →
अचरांश् च चरांश् चैव द्विपदो ऽथ चतुष्पदः । आदेशं ब्रह्मणः कुर्वन् सृष्ट्यर्थं समवस्थितः
acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ / ādeśaṃ brahmaṇaḥ kurvan sṛṣṭyarthaṃ samavasthitaḥ
- ViP 1.15.76Open verse →
स सृष्ट्वा मनसा दक्षः पञ्चाशद् असृजत् स्त्रियः । ददौ स दश धर्माय कश्यपाय त्रयोदश । कालस्य नयने युक्ताः सप्तविंशतिम् इन्दवे
sa sṛṣṭvā manasā dakṣaḥ pañcāśad asṛjat striyaḥ / dadau sa daśa dharmāya kaśyapāya trayodaśa / kālasya nayane yuktāḥ saptaviṃśatim indave
- ViP 1.15.77Open verse →
तासु देवास् तथा दैत्या नागा गावस् तथा खगाः । गन्धर्वाप्सरसश् चैव दानवाद्याश् च जज्ञिरे
tāsu devās tathā daityā nāgā gāvas tathā khagāḥ / gandharvāpsarasaś caiva dānavādyāś ca jajñire
- ViP 1.15.78Open verse →
ततः प्रभृति मैत्रेय प्रजा मैथुनसंभवाः । संकल्पाद् दर्शनात् स्पर्शात् पूर्वेषाम् अभवन् प्रजाः । तपोविशैषैर् इद्धानां तदात्यन्ततपस्विनाम्
tataḥ prabhṛti maitreya prajā maithunasaṃbhavāḥ / saṃkalpād darśanāt sparśāt pūrveṣām abhavan prajāḥ / tapoviśaiṣair iddhānāṃ tadātyantatapasvinām
- ViP 1.15.79Open verse →
§मैत्रेय उवाच: अङ्गुष्ठाद् दक्षिणाद् दक्षः पूर्वं जातः श्रुतो मया । कथं प्राचेतसो भूयः स संभूतो महामुने
§maitreya uvāca: aṅguṣṭhād dakṣiṇād dakṣaḥ pūrvaṃ jātaḥ śruto mayā / kathaṃ prācetaso bhūyaḥ sa saṃbhūto mahāmune
- ViP 1.15.80Open verse →
एष मे संशयो ब्रह्मन् सुमहान् हृदि वर्तते । यद् दौहित्रश् च सोमस्य पुनः श्वशुरतां गतः
eṣa me saṃśayo brahman sumahān hṛdi vartate / yad dauhitraś ca somasya punaḥ śvaśuratāṃ gataḥ
- ViP 1.15.81Open verse →
§पराशर उवाच: उत्पत्तिश् च निरोधश् च नित्यो भूतेषु सत्तम । ऋषयो ऽत्र न मुह्यन्ति ये चान्ये दिव्यचक्षुषः
§parāśara uvāca: utpattiś ca nirodhaś ca nityo bhūteṣu sattama / ṛṣayo 'tra na muhyanti ye cānye divyacakṣuṣaḥ
- ViP 1.15.82Open verse →
युगे युगे भवन्त्य् एते दक्षाद्या मुनिसत्तम । पुनश् चैव निरुद्ध्यन्ते विद्वांस् तत्र न मुह्यति
yuge yuge bhavanty ete dakṣādyā munisattama / punaś caiva niruddhyante vidvāṃs tatra na muhyati
- ViP 1.15.83Open verse →
कानिष्ठ्यं ज्यैष्ठ्यम् अप्य् एषां पूर्वं नाभूद् द्विजोत्तम । तप एव गरीयो ऽभूत् प्रभावश् चैव कारणम्
kāniṣṭhyaṃ jyaiṣṭhyam apy eṣāṃ pūrvaṃ nābhūd dvijottama / tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam
- ViP 1.15.84Open verse →
§मैत्रेय उवाच: देवानां दानवानां च गन्धर्वोरगरक्षसाम् । उत्पत्तिं विस्तरेणेह मम ब्रह्मन् प्रकीर्तय
§maitreya uvāca: devānāṃ dānavānāṃ ca gandharvoragarakṣasām / utpattiṃ vistareṇeha mama brahman prakīrtaya
- ViP 1.15.85Open verse →
§पराशर उवाच: प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा । यथा ससर्ज भूतानि तथा शृणु महामते
§parāśara uvāca: prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā / yathā sasarja bhūtāni tathā śṛṇu mahāmate
- ViP 1.15.86Open verse →
मनसा त्व् एव भूतानि पूर्वं दक्षो ऽसृजत् तदा । देवान् ऋषीन् सगन्धर्वान् असुरान् पन्नगांस् तथा
manasā tv eva bhūtāni pūrvaṃ dakṣo 'sṛjat tadā / devān ṛṣīn sagandharvān asurān pannagāṃs tathā
- ViP 1.15.87Open verse →
यदास्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः । ततः संचिन्त्य बहुशः सृष्टिहेतोः प्रजापतिः
yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ / tataḥ saṃcintya bahuśaḥ sṛṣṭihetoḥ prajāpatiḥ
- ViP 1.15.88Open verse →
मैथुनेनैव धर्मेण सिसृक्षुर् विविधाः प्रजाः । असिक्नीम् आवहत् कन्यां वीरणस्य प्रजापतेः । सुतां सुतपसा युक्तां महतीं लोकधारिणीम्
maithunenaiva dharmeṇa sisṛkṣur vividhāḥ prajāḥ / asiknīm āvahat kanyāṃ vīraṇasya prajāpateḥ / sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm
- ViP 1.15.89Open verse →
अथ पुत्रसहस्राणि वैरिण्यां पञ्च वीर्यवान् । असिक्न्यां जनयाम् आस सर्गहेतोः प्रजापतिः
atha putrasahasrāṇi vairiṇyāṃ pañca vīryavān / asiknyāṃ janayām āsa sargahetoḥ prajāpatiḥ
- ViP 1.15.90Open verse →
तान् दृष्ट्वा नारदो विप्र संविवर्द्धयिषून् प्रजाः । संगम्य प्रियसंवादो देवर्षिर् इदम् अब्रवीत्
tān dṛṣṭvā nārado vipra saṃvivarddhayiṣūn prajāḥ / saṃgamya priyasaṃvādo devarṣir idam abravīt
- ViP 1.15.91Open verse →
§नारद उवाच: हे हर्यश्वा महावीर्याः प्रजा यूयं करिष्यथ । ईदृशो लक्ष्यते यत्नो भवतां श्रूयताम् इदम्
§nārada uvāca: he haryaśvā mahāvīryāḥ prajā yūyaṃ kariṣyatha / īdṛśo lakṣyate yatno bhavatāṃ śrūyatām idam
- ViP 1.15.92Open verse →
बालिशा बत यूयं वै नास्या जानीत वै भुवः । अन्तर् ऊर्ध्वम् अधश् चैव कथं स्रक्ष्यथ वै प्रजाः
bāliśā bata yūyaṃ vai nāsyā jānīta vai bhuvaḥ / antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ
- ViP 1.15.93Open verse →
ऊर्ध्वं तिर्यग् अधश् चैव यदाप्रतिहता गतिः । तदा कस्माद् भुवो नान्तं सर्वे द्रक्ष्यथ बालिशाः
ūrdhvaṃ tiryag adhaś caiva yadāpratihatā gatiḥ / tadā kasmād bhuvo nāntaṃ sarve drakṣyatha bāliśāḥ
- ViP 1.15.94Open verse →
§पराशर उवाच: ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशम् । अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः
§parāśara uvāca: te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśam / adyāpi na nivartante samudrebhya ivāpagāḥ
- ViP 1.15.95Open verse →
हर्यश्वेष्व् अथ नष्टेषु दक्षः प्राचेतसः पुनः । वैरिण्याम् अथ पुत्राणां सहस्रम् असृजत् प्रभुः
haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ / vairiṇyām atha putrāṇāṃ sahasram asṛjat prabhuḥ
- ViP 1.15.96Open verse →
विवर्धयिषवस् ते तु शबलाश्वाः प्रजाः पुनः । पूर्वोक्तं वचनं ब्रह्मन् नारदेनैव चोदिताः
vivardhayiṣavas te tu śabalāśvāḥ prajāḥ punaḥ / pūrvoktaṃ vacanaṃ brahman nāradenaiva coditāḥ
- ViP 1.15.97Open verse →
अन्योन्यम् ऊचुस् ते सर्वे सम्यग् आह महामुनिः । भ्रातॄणां पदवी चैव गन्तव्या नात्र संशयः
anyonyam ūcus te sarve samyag āha mahāmuniḥ / bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ
- ViP 1.15.98Open verse →
ज्ञात्वा प्रमाणं पृथ्व्याश् च प्रजाः स्रक्ष्यामहे ततः
jñātvā pramāṇaṃ pṛthvyāś ca prajāḥ srakṣyāmahe tataḥ
- ViP 1.15.99Open verse →
ते ऽपि तेनैव मार्गेण प्रयाताः सर्वतो दिशम् । अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः
te 'pi tenaiva mārgeṇa prayātāḥ sarvato diśam / adyāpi na nivartante samudrebhya ivāpagāḥ
- ViP 1.15.100Open verse →
ततः प्रभृति वै भ्राता भ्रातुर् अन्वेषणे द्विज । प्रयातो नश्यति तथा तन् न कार्यं विजानता
tataḥ prabhṛti vai bhrātā bhrātur anveṣaṇe dvija / prayāto naśyati tathā tan na kāryaṃ vijānatā
- ViP 1.15.101Open verse →
तांश् चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः । क्रोधं चक्रे महाभागो नारदं स शशाप च
tāṃś cāpi naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ / krodhaṃ cakre mahābhāgo nāradaṃ sa śaśāpa ca
- ViP 1.15.102Open verse →
द्३ इन्स्।: सर्गकामस् ततो विद्वान् स मैत्रेय प्रजापतिः । षष्टिं दक्षो ऽसृजत् कन्या वैरिण्याम् इति नः श्रुतम्
D3 ins.: sargakāmas tato vidvān sa maitreya prajāpatiḥ / ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairiṇyām iti naḥ śrutam
- ViP 1.15.103Open verse →
ददौ स दश धर्माय कश्यपाय त्रयोदश । सप्तविंशति सोमाय चतस्रो ऽरिष्टनेमिने
dadau sa daśa dharmāya kaśyapāya trayodaśa / saptaviṃśati somāya catasro 'riṣṭanemine
- ViP 1.15.104Open verse →
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा । द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु
dve caiva bahuputrāya dve caivāṅgirase tathā / dve kṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu
- ViP 1.15.105Open verse →
अरुन्धती वसुर् जामिर् लम्बा भानुर् मरुत्वती । संकल्पा च मुहूर्ता च साध्या विश्वा च ता दश । धर्मपत्न्यो दश त्व् एतास् तास्व् अपत्यानि मे शृणु
arundhatī vasur jāmir lambā bhānur marutvatī / saṃkalpā ca muhūrtā ca sādhyā viśvā ca tā daśa / dharmapatnyo daśa tv etās tāsv apatyāni me śṛṇu
- ViP 1.15.106Open verse →
विश्वेदेवास् तु विश्वायाः साध्या साध्यान् व्यजायत । मरुत्वत्या मरुत्वन्तो वसोस् तु वसवः स्मृताः
viśvedevās tu viśvāyāḥ sādhyā sādhyān vyajāyata / marutvatyā marutvanto vasos tu vasavaḥ smṛtāḥ
- ViP 1.15.107Open verse →
भानोस् तु भानवस् तत्र मुहूर्ताया मुहूर्तजाः । लम्बायाश् चैव घोषो ऽथ नागवीथी तु जामिजा
bhānos tu bhānavas tatra muhūrtāyā muhūrtajāḥ / lambāyāś caiva ghoṣo 'tha nāgavīthī tu jāmijā
- ViP 1.15.108Open verse →
पृथिवीविषयं सर्वम् अरुन्धत्याम् अजायत । संकल्पायास् तु सर्वात्मा जज्ञे संकल्प एव च
pṛthivīviṣayaṃ sarvam arundhatyām ajāyata / saṃkalpāyās tu sarvātmā jajñe saṃkalpa eva ca
- ViP 1.15.109Open verse →
ये त्व् अनेकवसुप्राणा देवा ज्योतिःपुरोगमाः । वसवो ऽष्टौ समाख्यातास् तेषां वक्ष्यामि विस्तरम्
ye tv anekavasuprāṇā devā jyotiḥpurogamāḥ / vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram
- ViP 1.15.110Open verse →
आपो ध्रुवश् च सोमश् च धरश् चैवानिलो ऽनलः । प्रत्यूषश् च प्रभासश् च वसवो नामभिः स्मृताः
āpo dhruvaś ca somaś ca dharaś caivānilo 'nalaḥ / pratyūṣaś ca prabhāsaś ca vasavo nāmabhiḥ smṛtāḥ
- ViP 1.15.111Open verse →
आपस्य पुत्रो वैतण्डः श्रमः श्रान्तो ऽधुनिस् तथा । ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः
āpasya putro vaitaṇḍaḥ śramaḥ śrānto 'dhunis tathā / dhruvasya putro bhagavān kālo lokaprakālanaḥ
- ViP 1.15.112Open verse →
सोमस्य भगवान् वर्चा वर्चस्वी येन जायते
somasya bhagavān varcā varcasvī yena jāyate
- ViP 1.15.113Open verse →
धरस्य पुत्रो द्रविणो हुतहव्यवहस् तथा । मनोहरायां शिशिरः प्राणो ऽथ रवणस् तथा
dharasya putro draviṇo hutahavyavahas tathā / manoharāyāṃ śiśiraḥ prāṇo 'tha ravaṇas tathā
- ViP 1.15.114Open verse →
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः । अविज्ञातगतिश् चैव द्वौ पुत्राव् अनिलस्य तु
anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ / avijñātagatiś caiva dvau putrāv anilasya tu
- ViP 1.15.115Open verse →
अग्निपुत्रः कुमारस् तु शरस्तम्बे व्यजायत । तस्य शाखो विशाखश् च नैगमेयश् च पृष्ठजाः
agniputraḥ kumāras tu śarastambe vyajāyata / tasya śākho viśākhaś ca naigameyaś ca pṛṣṭhajāḥ
- ViP 1.15.116Open verse →
अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः
apatyaṃ kṛttikānāṃ tu kārttikeya iti smṛtaḥ
- ViP 1.15.117Open verse →
प्रत्यूषस्य विदुः पुत्रं ऋषिं नाम्ना तु देवलम् । द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ
pratyūṣasya viduḥ putraṃ ṛṣiṃ nāmnā tu devalam / dvau putrau devalasyāpi kṣamāvantau manīṣiṇau
- ViP 1.15.118Open verse →
बृहस्पतेस् तु भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत् कृत्स्नम् असक्ता विचरत्य् उत । प्रभासस्य तु भार्या सा वसूनाम् अष्टमस्य ह
bṛhaspates tu bhaginī varastrī brahmacāriṇī / yogasiddhā jagat kṛtsnam asaktā vicaraty uta / prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha
- ViP 1.15.119Open verse →
विश्वकर्मा महाभागस् तस्यां जज्ञे प्रजापतिः । कर्ता शिल्पसहस्राणां त्रिदशानां च वार्द्धकिः
viśvakarmā mahābhāgas tasyāṃ jajñe prajāpatiḥ / kartā śilpasahasrāṇāṃ tridaśānāṃ ca vārddhakiḥ
- ViP 1.15.120Open verse →
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः । यः सर्वेषां विमानानि देवतानां चकार ह । मनुष्याश् चोपजीवन्ति यस्य शिल्पं महात्मनः
bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ / yaḥ sarveṣāṃ vimānāni devatānāṃ cakāra ha / manuṣyāś copajīvanti yasya śilpaṃ mahātmanaḥ
- ViP 1.15.121Open verse →
द्१ इन्स्।: अजैकपाद् अहिर्बुध्न्यस् त्वष्टा रुद्रश् च बुद्धिमान् । त्वष्टुश् चाप्य् आत्मजः पुत्रो विश्वरूपो महातपाः
D1 ins.: ajaikapād ahirbudhnyas tvaṣṭā rudraś ca buddhimān / tvaṣṭuś cāpy ātmajaḥ putro viśvarūpo mahātapāḥ
- ViP 1.15.122Open verse →
हरश् च बहुरूपश् च त्र्यम्बकश् चापराजितः । वृषाकपिश् च शंभुश् च कपर्दी रैवतस् तथा
haraś ca bahurūpaś ca tryambakaś cāparājitaḥ / vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā
- ViP 1.15.123Open verse →
मृगव्याधश् च शर्वश् च कपाली च महामुने । एकादशैते कथिता रुद्रास् त्रिभुवनेश्वराः
mṛgavyādhaś ca śarvaś ca kapālī ca mahāmune / ekādaśaite kathitā rudrās tribhuvaneśvarāḥ
- ViP 1.15.124Open verse →
शतं त्व् एवं समाम्नातं रुद्राणाम् अमितौजसाम्
śataṃ tv evaṃ samāmnātaṃ rudrāṇām amitaujasām
- ViP 1.15.125Open verse →
द्३,४,त्,ग्२,३,म्०,३,४,एद्। वेङ्क्। इन्स्।: अदितिर् दितिर् दनुश् चैव अरिष्टा सुरसा स्वसा । सुरभिर् विनता चैव ताम्रा क्रोधवशा इरा । कद्रुर् मुनिश् च धर्मज्ञ तदपत्यानि मे शृणु
D3,4,T,G2,3,M0,3,4,ed. Veṅk. ins.: aditir ditir danuś caiva ariṣṭā surasā svasā / surabhir vinatā caiva tāmrā krodhavaśā irā / kadrur muniś ca dharmajña tadapatyāni me śṛṇu
- ViP 1.15.126Open verse →
पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन् सुरोत्तमाः । तुषिता नाम ते ऽन्योन्यम् ऊचुर् वैवस्वते ऽन्तरे
pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ / tuṣitā nāma te 'nyonyam ūcur vaivasvate 'ntare
- ViP 1.15.127Open verse →
उपस्थिते ऽतियशसश् चाक्षुषस्यान्तरे मनोः । समवायीकृताः सर्वे समागम्य परस्परम्
upasthite 'tiyaśasaś cākṣuṣasyāntare manoḥ / samavāyīkṛtāḥ sarve samāgamya parasparam
- ViP 1.15.128Open verse →
आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै । मन्वन्तरे प्रसूयामस् तन् नः श्रेयो भवेद् इति
āgacchata drutaṃ devā aditiṃ saṃpraviśya vai / manvantare prasūyāmas tan naḥ śreyo bhaved iti
- ViP 1.15.129Open verse →
त्२ इन्स्।: एवम् उक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः । मारीचात् कश्यपाज् जातास् ते ऽदित्या दक्षकन्यया
T2 ins.: evam uktvā tu te sarve cākṣuṣasyāntare manoḥ / mārīcāt kaśyapāj jātās te 'dityā dakṣakanyayā
- ViP 1.15.130Open verse →
तत्र विष्णुश् च शक्रश् च जज्ञाते पुनर् एव हि । अर्यमा चैव धाता च त्वष्टा पूषा तथैव च
tatra viṣṇuś ca śakraś ca jajñāte punar eva hi / aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca
- ViP 1.15.131Open verse →
विवस्वान् सविता चैव मित्रो वरुण एव च । अंशो भगश् चातितेजा आदित्या द्वादश स्मृताः
vivasvān savitā caiva mitro varuṇa eva ca / aṃśo bhagaś cātitejā ādityā dvādaśa smṛtāḥ
- ViP 1.15.132Open verse →
चाक्षुषस्यान्तरे पूर्वम् आसन् ये तुषिताः सुराः । वैवस्वते ऽन्तरे ते वै आदित्या द्वादश स्मृताः
cākṣuṣasyāntare pūrvam āsan ye tuṣitāḥ surāḥ / vaivasvate 'ntare te vai ādityā dvādaśa smṛtāḥ
- ViP 1.15.134Open verse →
सप्तविंशति याः प्रोक्ताः सोमपत्न्यो ऽथ सुव्रताः ॥ विप्_१,१५।१३३अब् ॥ अफ़्तेर् १३३अब् श्,ञ्१,द्१।२।७,द्५,एद्। वेङ्क्। इन्स्।; wहिले द्५ इन्स्। अफ़्तेर् १३३: सर्वा नक्षत्रयोगिन्यस् तन्नाम्नश् चैव ताः स्मृताः ॥ विप्_१,१५।१३३अब्*५१ ॥ त्३ इन्स्। अफ़्तेर् १३३अब्: तासाम् अपत्यान्य् अभवन् दीप्तान्य् अमिततेजसाम् ॥ विप्_१,१५।१३३च्द् ॥ अरिष्टनेमिपत्नीनाम् अपत्यानीह षोडश
saptaviṃśati yāḥ proktāḥ somapatnyo 'tha suvratāḥ // ViP_1,15.133ab // After 133ab Ś,Ñ1,D1.2.7,D5,ed. Veṅk. ins.; while D5 ins. after 133: sarvā nakṣatrayoginyas tannāmnaś caiva tāḥ smṛtāḥ // ViP_1,15.133ab*51 // T3 ins. after 133ab: tāsām apatyāny abhavan dīptāny amitatejasām // ViP_1,15.133cd // ariṣṭanemipatnīnām apatyānīha ṣoḍaśa
- ViP 1.15.135Open verse →
बहुपुत्रस्य विदुषश् चतस्रो विद्युतः स्मृताः
bahuputrasya viduṣaś catasro vidyutaḥ smṛtāḥ
- ViP 1.15.136Open verse →
प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः
pratyaṅgirasajāḥ śreṣṭhā ṛco brahmarṣisatkṛtāḥ
- ViP 1.15.137Open verse →
कृशाश्वस्य तु देवर्षेर् देवप्रहरणाः सुताः
kṛśāśvasya tu devarṣer devapraharaṇāḥ sutāḥ
- ViP 1.15.138Open verse →
एते युगसहस्रान्ते जायन्ते पुनर् एव हि । सर्वे देवगणास् तात त्रयस् त्रिंशत् तु छन्दजाः । तेषाम् अपीह सततं निरोधोत्पत्तिर् उच्यते
ete yugasahasrānte jāyante punar eva hi / sarve devagaṇās tāta trayas triṃśat tu chandajāḥ / teṣām apīha satataṃ nirodhotpattir ucyate
- ViP 1.15.139Open verse →
यथा सूर्यस्य मैत्रेय उदयास्तमनाव् इह । एवं देवनिकायास् ते संभवन्ति युगे युगे
yathā sūryasya maitreya udayāstamanāv iha / evaṃ devanikāyās te saṃbhavanti yuge yuge
- ViP 1.15.140Open verse →
दित्या पुत्रद्वयं जज्ञे कश्यपाद् इति नः श्रुतम् । हिरण्यकशिपुश् चैव हिरण्याक्षश् च दुर्जयः
dityā putradvayaṃ jajñe kaśyapād iti naḥ śrutam / hiraṇyakaśipuś caiva hiraṇyākṣaś ca durjayaḥ
- ViP 1.15.141Open verse →
सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः
siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ
- ViP 1.15.142Open verse →
हिरण्यकशिपोः पुत्राश् चत्वारः प्रथितौजसः । अनुह्लादश् च ह्लादश् च प्रह्लादश् चैव धर्मवान् । संह्लादश् च महावीर्या दैत्यवंशविवर्धनाः
hiraṇyakaśipoḥ putrāś catvāraḥ prathitaujasaḥ / anuhlādaś ca hlādaś ca prahlādaś caiva dharmavān / saṃhlādaś ca mahāvīryā daityavaṃśavivardhanāḥ
- ViP 1.15.143Open verse →
तेषां मध्ये महाभागः सर्वत्र समदृग् वशी । प्रह्लादः परमां भक्तिं य उवाह जनार्दने
teṣāṃ madhye mahābhāgaḥ sarvatra samadṛg vaśī / prahlādaḥ paramāṃ bhaktiṃ ya uvāha janārdane
- ViP 1.15.144Open verse →
द्७ इन्स्।: दैत्येन्द्रदीपितो वह्निः सर्वाङ्गोपचितो द्विज । न ददाह च यं पूर्वं वासुदेवे हृदि स्थिते
D7 ins.: daityendradīpito vahniḥ sarvāṅgopacito dvija / na dadāha ca yaṃ pūrvaṃ vāsudeve hṛdi sthite
- ViP 1.15.145Open verse →
महार्णवान्तःसलिले स्थितस्य चलतो मही । चचाल सकला यस्य पाशबद्धस्य धीमतः
mahārṇavāntaḥsalile sthitasya calato mahī / cacāla sakalā yasya pāśabaddhasya dhīmataḥ
- ViP 1.15.146Open verse →
न भिन्नं विविधैः शस्त्रैर् यस्य दैत्येन्द्रपातितैः । शरीरम् अद्रिकठिनं सर्वत्राच्युतचेतसः
na bhinnaṃ vividhaiḥ śastrair yasya daityendrapātitaiḥ / śarīram adrikaṭhinaṃ sarvatrācyutacetasaḥ
- ViP 1.15.147Open verse →
विषानलोज्ज्वलमुखा यस्य दैत्यप्रचोदिताः । नान्ताय सर्पपतयो बभूवुर् उरुतेजसः
viṣānalojjvalamukhā yasya daityapracoditāḥ / nāntāya sarpapatayo babhūvur urutejasaḥ
- ViP 1.15.148Open verse →
शैलैर् आक्रान्तदेहो ऽपि यः स्मरन् पुरुषोत्तमम् । तत्याज नात्मनः प्राणान् विष्णुस्मरणदंशितः
śailair ākrāntadeho 'pi yaḥ smaran puruṣottamam / tatyāja nātmanaḥ prāṇān viṣṇusmaraṇadaṃśitaḥ
- ViP 1.15.149Open verse →
पतन्तम् उच्चाद् अवनिर् यम् उपेत्य महामतिम् । दधार दैत्यपतिना क्षिप्तं स्वर्गनिवासिना
patantam uccād avanir yam upetya mahāmatim / dadhāra daityapatinā kṣiptaṃ svarganivāsinā
- ViP 1.15.150Open verse →
यस्य संशोषको वायुर् देहे दैत्येन्द्रयोजितः । अवाप संक्षयं सद्यश् चित्तस्थे मधुसूदने
yasya saṃśoṣako vāyur dehe daityendrayojitaḥ / avāpa saṃkṣayaṃ sadyaś cittasthe madhusūdane
- ViP 1.15.151Open verse →
विषाणभङ्गम् उन्मत्ता मदहानिं च दिग्गजाः । यस्य वक्षःस्थले प्राप्ता दैत्येन्द्रपरिणामिताः
viṣāṇabhaṅgam unmattā madahāniṃ ca diggajāḥ / yasya vakṣaḥsthale prāptā daityendrapariṇāmitāḥ
- ViP 1.15.152Open verse →
यस्य चोत्पादिता कृत्या दैत्यराजपुरोहितैः । बभूव नान्ताय पुरा गोविन्दासक्तचेतसः
yasya cotpāditā kṛtyā daityarājapurohitaiḥ / babhūva nāntāya purā govindāsaktacetasaḥ
- ViP 1.15.153Open verse →
शम्बरस्य च मायानां सहस्रम् अतिमायिनः । यस्मिन् प्रयुक्तं चक्रेण कृष्णस्य वितथीकृतम्
śambarasya ca māyānāṃ sahasram atimāyinaḥ / yasmin prayuktaṃ cakreṇa kṛṣṇasya vitathīkṛtam
- ViP 1.15.154Open verse →
दैत्येन्द्रसूदोपहृतं यश् च हालाहलं विषम् । जरयाम् आस मतिमान् अविकारम् अमत्सरी
daityendrasūdopahṛtaṃ yaś ca hālāhalaṃ viṣam / jarayām āsa matimān avikāram amatsarī
- ViP 1.15.155Open verse →
समचेता जगत्य् अस्मिन् यः सर्वेष्व् एव जन्तुषु । यथात्मनि तथान्यत्र परं मैत्रगुणान्वितः
samacetā jagaty asmin yaḥ sarveṣv eva jantuṣu / yathātmani tathānyatra paraṃ maitraguṇānvitaḥ
- ViP 1.15.156Open verse →
धर्मात्मा सत्यशौचादिगुणानाम् आकरः परः । उपमानम् अशेषाणां साधूनां यः सदाभवत्
dharmātmā satyaśaucādiguṇānām ākaraḥ paraḥ / upamānam aśeṣāṇāṃ sādhūnāṃ yaḥ sadābhavat
- ViP 1.16.1Open verse →
______________________________________________________ §मैत्रेय उवाच: कथितो भवता वंशो मानवानां महामुने । कारणं चास्य जगतो विष्णुर् एव सनातनः
______________________________________________________ §maitreya uvāca: kathito bhavatā vaṃśo mānavānāṃ mahāmune / kāraṇaṃ cāsya jagato viṣṇur eva sanātanaḥ
- ViP 1.16.2Open verse →
यत् त्व् एतद् भगवान् आह प्रह्लादं दैत्यसत्तमम् । ददाह नाग्निर् नास्त्रैश् च क्षुण्णस् तत्याज जीवितम्
yat tv etad bhagavān āha prahlādaṃ daityasattamam / dadāha nāgnir nāstraiś ca kṣuṇṇas tatyāja jīvitam
- ViP 1.16.3Open verse →
जगाम वसुधा क्षोभं यत्राब्धिसलिले स्थिते । बन्धबद्धो ऽपि चलति विक्षिप्ताङ्गैः समाहता
jagāma vasudhā kṣobhaṃ yatrābdhisalile sthite / bandhabaddho 'pi calati vikṣiptāṅgaiḥ samāhatā
- ViP 1.16.4Open verse →
शैलैर् आक्रान्तदेहो ऽपि न ममार च यः पुरा । त्वयैवातीव माहात्म्यं कथितं यस्य धीमतः
śailair ākrāntadeho 'pi na mamāra ca yaḥ purā / tvayaivātīva māhātmyaṃ kathitaṃ yasya dhīmataḥ
- ViP 1.16.5Open verse →
तस्य प्रभावम् अतुलं विष्णोर् भक्तिमतो मुने । श्रोतुम् इच्छामि यस्यैतच् चरितं त्व् अमितौजसः
tasya prabhāvam atulaṃ viṣṇor bhaktimato mune / śrotum icchāmi yasyaitac caritaṃ tv amitaujasaḥ
- ViP 1.16.6Open verse →
किंनिमित्तम् असौ शस्त्रैर् विक्षतो दितिजैर् मुने । किमर्थं चाब्धिसलिले निक्षिप्तो धर्मतत्परः
kiṃnimittam asau śastrair vikṣato ditijair mune / kimarthaṃ cābdhisalile nikṣipto dharmatatparaḥ
- ViP 1.16.7Open verse →
आक्रान्तः पर्वतैः कस्मात् कस्माद् दष्टो महोरगैः । क्षिप्तः किम् अद्रिशिखरात् किं वा पावकसंचये
ākrāntaḥ parvataiḥ kasmāt kasmād daṣṭo mahoragaiḥ / kṣiptaḥ kim adriśikharāt kiṃ vā pāvakasaṃcaye
- ViP 1.16.8Open verse →
दिग्दन्तिनां दन्तभूमिः स च कस्मान् निरूपितः । संशोषको ऽनिलश् चास्य प्रयुक्तः किं महासुरैः
digdantināṃ dantabhūmiḥ sa ca kasmān nirūpitaḥ / saṃśoṣako 'nilaś cāsya prayuktaḥ kiṃ mahāsuraiḥ
- ViP 1.16.9Open verse →
कृत्यां च दैत्यगुरवो युयुजुस् ते तु किं मुने । शम्बरश् चापि मायानां सहस्रं किं प्रयुक्तवान्
kṛtyāṃ ca daityaguravo yuyujus te tu kiṃ mune / śambaraś cāpi māyānāṃ sahasraṃ kiṃ prayuktavān
- ViP 1.16.10Open verse →
हालाहलं विषं घोरं दैत्यसूदैर् महात्मनः । कस्माद् दत्तं विनाशाय यज् जीर्णं तेन धीमता
hālāhalaṃ viṣaṃ ghoraṃ daityasūdair mahātmanaḥ / kasmād dattaṃ vināśāya yaj jīrṇaṃ tena dhīmatā
- ViP 1.16.11Open verse →
एतत् सर्वं महाभाग प्रह्लादस्य महात्मनः । चरितं श्रोतुम् इच्छामि महामाहात्म्यसूचकम्
etat sarvaṃ mahābhāga prahlādasya mahātmanaḥ / caritaṃ śrotum icchāmi mahāmāhātmyasūcakam
- ViP 1.16.12Open verse →
न हि कौतूहलं तत्र यद् दैत्यैर् न हतो हि सः । अनन्यमनसो विष्णौ कः समर्थो निपातने
na hi kautūhalaṃ tatra yad daityair na hato hi saḥ / ananyamanaso viṣṇau kaḥ samartho nipātane
- ViP 1.16.13Open verse →
तस्मिन् धर्मपरे नित्यं केशवाराधनोद्यते । स्ववंशप्रभवैर् दैत्यैः कर्तुं द्वेषो ऽतिदुष्करः
tasmin dharmapare nityaṃ keśavārādhanodyate / svavaṃśaprabhavair daityaiḥ kartuṃ dveṣo 'tiduṣkaraḥ
- ViP 1.16.14Open verse →
धर्मात्मनि महाभागे विष्णुभक्ते विमत्सरे । दैतेयैः प्रहृतं कस्मात् तन् ममाख्यातुम् अर्हसि
dharmātmani mahābhāge viṣṇubhakte vimatsare / daiteyaiḥ prahṛtaṃ kasmāt tan mamākhyātum arhasi
- ViP 1.16.15Open verse →
प्रहरन्ति महात्मानो विपक्षे चापि नेदृशे । गुणैः समन्विते साधौ किं पुनर् यः स्वपक्षजः
praharanti mahātmāno vipakṣe cāpi nedṛśe / guṇaiḥ samanvite sādhau kiṃ punar yaḥ svapakṣajaḥ
- ViP 1.16.16Open verse →
तद् एतत् कथ्यतां सर्वं विस्तरान् मुनिसत्तम । दैत्येश्वरस्य चरितं श्रोतुम् इच्छाम्य् अशेषतः
tad etat kathyatāṃ sarvaṃ vistarān munisattama / daityeśvarasya caritaṃ śrotum icchāmy aśeṣataḥ
- ViP 1.17.1Open verse →
______________________________________________________ §पराशर उवाच: मैत्रेय श्रूयतां सम्यक् चरितं तस्य धीमतः । प्रह्लादस्य सदोदारचरितस्य महात्मनः
______________________________________________________ §parāśara uvāca: maitreya śrūyatāṃ samyak caritaṃ tasya dhīmataḥ / prahlādasya sadodāracaritasya mahātmanaḥ
- ViP 1.17.2Open verse →
दितेः पुत्रो महावीर्यो हिरण्यकशिपुः पुरा । त्रैलोक्यं वशम् आनिन्ये ब्रह्मणो वरदर्पितः
diteḥ putro mahāvīryo hiraṇyakaśipuḥ purā / trailokyaṃ vaśam āninye brahmaṇo varadarpitaḥ
- ViP 1.17.3Open verse →
इन्द्रत्वम् अकरोद् दैत्यः स चासीत् सविता स्वयम् । वायुर् अग्निर् अपां नाथः सोमश् चासीन् महासुरः
indratvam akarod daityaḥ sa cāsīt savitā svayam / vāyur agnir apāṃ nāthaḥ somaś cāsīn mahāsuraḥ
- ViP 1.17.4Open verse →
धनानाम् अधिपः सो ऽभूत् स एवासीत् स्वयं यमः । यज्ञभागान् अशेषांस् तु स स्वयं बुभुजे ऽसुरः
dhanānām adhipaḥ so 'bhūt sa evāsīt svayaṃ yamaḥ / yajñabhāgān aśeṣāṃs tu sa svayaṃ bubhuje 'suraḥ
- ViP 1.17.5Open verse →
देवाः स्वर्गं परित्यज्य तत्त्रासान् मुनिसत्तम । विचेरुर् अवनौ सर्वे बिभ्राणा मानुषीं तनुम्
devāḥ svargaṃ parityajya tattrāsān munisattama / vicerur avanau sarve bibhrāṇā mānuṣīṃ tanum
- ViP 1.17.6Open verse →
जित्वा त्रिभुवनं सर्वं त्रैलोक्यैश्वर्यदर्पितः । उद्गीयमानो गन्धर्वैर् बुभुजे विषयान् प्रियान्
jitvā tribhuvanaṃ sarvaṃ trailokyaiśvaryadarpitaḥ / udgīyamāno gandharvair bubhuje viṣayān priyān
- ViP 1.17.7Open verse →
पानासक्तं महात्मानं हिरण्यकशिपुं तदा । उपासां चक्रिरे सर्वे सिद्धगन्धर्वपन्नगाः
pānāsaktaṃ mahātmānaṃ hiraṇyakaśipuṃ tadā / upāsāṃ cakrire sarve siddhagandharvapannagāḥ
- ViP 1.17.8Open verse →
अवादयञ् जगुश् चान्ये जयशब्दान् अथापरे । दैत्येश्वरस्य पुरतश् चक्रुः सिद्धा मुदान्विताः
avādayañ jaguś cānye jayaśabdān athāpare / daityeśvarasya purataś cakruḥ siddhā mudānvitāḥ
- ViP 1.17.9Open verse →
तत्र प्रनृत्ताप्सरसि स्फाटिकाभ्रमये ऽसुरः । पपौ पानं मुदा युक्तः प्रासादे सुमनोहरे
tatra pranṛttāpsarasi sphāṭikābhramaye 'suraḥ / papau pānaṃ mudā yuktaḥ prāsāde sumanohare
- ViP 1.17.10Open verse →
तस्य पुत्रो महाभागः प्रह्लादो नाम नामतः । पपाठ बालपाठ्यानि गुरुगेहं गतो ऽर्भकः
tasya putro mahābhāgaḥ prahlādo nāma nāmataḥ / papāṭha bālapāṭhyāni gurugehaṃ gato 'rbhakaḥ
- ViP 1.17.11Open verse →
एकदा तु स धर्मात्मा जगाम गुरुणा सह । पानासक्तस्य पुरतः पितुर् दैत्यपतेस् तदा
ekadā tu sa dharmātmā jagāma guruṇā saha / pānāsaktasya purataḥ pitur daityapates tadā
- ViP 1.17.12Open verse →
पादप्रणामावनतं तम् उत्थाप्य पिता सुतम् । हिरण्यकशिपुः प्राह प्रह्लादम् अमितौजसम्
pādapraṇāmāvanataṃ tam utthāpya pitā sutam / hiraṇyakaśipuḥ prāha prahlādam amitaujasam
- ViP 1.17.13Open verse →
§हिरण्यकशिपुर् उवाच: पठ्यतां भवता वत्स सारभूतं सुभाषितम् । कालेनैतावता यत् ते सदोद्युक्तेन शिक्षितम्
§hiraṇyakaśipur uvāca: paṭhyatāṃ bhavatā vatsa sārabhūtaṃ subhāṣitam / kālenaitāvatā yat te sadodyuktena śikṣitam
- ViP 1.17.14Open verse →
§प्रह्लाद उवाच: श्रूयतां तात वक्ष्यामि सारभूतं तवाज्ञया । समाहितमना भूत्वा यन् मे चेतस्य् अवस्थितम्
§prahlāda uvāca: śrūyatāṃ tāta vakṣyāmi sārabhūtaṃ tavājñayā / samāhitamanā bhūtvā yan me cetasy avasthitam
- ViP 1.17.15Open verse →
अनादिमध्यान्तम् अजम् अवृद्धिक्षयम् अच्युतम् । प्रणतो ऽस्म्य् अन्तसंतानं सर्वकारणकारणम्
anādimadhyāntam ajam avṛddhikṣayam acyutam / praṇato 'smy antasaṃtānaṃ sarvakāraṇakāraṇam
- ViP 1.17.16Open verse →
§पराशर उवाच: एतन् निशम्य दैत्येन्द्रः कोपसंरक्तलोचनः । विलोक्य तद्गुरुं प्राह स्फुरिताधरपल्लवः
§parāśara uvāca: etan niśamya daityendraḥ kopasaṃraktalocanaḥ / vilokya tadguruṃ prāha sphuritādharapallavaḥ
- ViP 1.17.17Open verse →
§हिरण्यकशिपुर् उवाच: ब्रह्मबन्धो किम् एतत् ते विपक्षस्तुतिसंहितम् । असारं ग्राहितो बालो माम् अवज्ञाय दुर्मते
§hiraṇyakaśipur uvāca: brahmabandho kim etat te vipakṣastutisaṃhitam / asāraṃ grāhito bālo mām avajñāya durmate
- ViP 1.17.18Open verse →
§गुरुर् उवाच: दैत्येश्वर न कोपस्य वशम् आगन्तुम् अर्हसि । ममोपदेशजनितं नायं वदति ते सुतः
§gurur uvāca: daityeśvara na kopasya vaśam āgantum arhasi / mamopadeśajanitaṃ nāyaṃ vadati te sutaḥ
- ViP 1.17.19Open verse →
§हिरण्यकशिपुर् उवाच: अनुशिष्टो ऽसि केनेदृग् वत्स प्रह्लाद कथ्यताम् । मयोपदिष्टं नेत्य् एष प्रब्रवीति गुरुस् तव
§hiraṇyakaśipur uvāca: anuśiṣṭo 'si kenedṛg vatsa prahlāda kathyatām / mayopadiṣṭaṃ nety eṣa prabravīti gurus tava
- ViP 1.17.20Open verse →
§प्रह्लाद उवाच: शास्ता विष्णुर् अशेषस्य जगतो यो हृदि स्थितः । तम् ऋते परमात्मानं तात कः केन शास्यते
§prahlāda uvāca: śāstā viṣṇur aśeṣasya jagato yo hṛdi sthitaḥ / tam ṛte paramātmānaṃ tāta kaḥ kena śāsyate
- ViP 1.17.21Open verse →
§हिरण्यकशिपुर् उवाच: को ऽयं विष्णुः सुदुर्बुद्धे यं ब्रवीषि पुनः पुनः । जगताम् ईश्वरस्येह पुरतः प्रसभं मम
§hiraṇyakaśipur uvāca: ko 'yaṃ viṣṇuḥ sudurbuddhe yaṃ bravīṣi punaḥ punaḥ / jagatām īśvarasyeha purataḥ prasabhaṃ mama
- ViP 1.17.22Open verse →
§प्रह्लाद उवाच: न शब्दगोचरं यस्य योगिध्येयं परं पदम् । यतो यश् च स्वयं विश्वं स विष्णुः परमेश्वरः
§prahlāda uvāca: na śabdagocaraṃ yasya yogidhyeyaṃ paraṃ padam / yato yaś ca svayaṃ viśvaṃ sa viṣṇuḥ parameśvaraḥ
- ViP 1.17.23Open verse →
§हिरण्यकशिपुर् उवाच: परमेश्वरसंज्ञो ऽज्ञ किम् अन्यो मय्य् अवस्थिते । तवास्ति मर्तुकामस् त्वं प्रब्रवीषि पुनः पुनः
§hiraṇyakaśipur uvāca: parameśvarasaṃjño 'jña kim anyo mayy avasthite / tavāsti martukāmas tvaṃ prabravīṣi punaḥ punaḥ
- ViP 1.17.24Open verse →
§प्रह्लाद उवाच: न केवलं तात मम प्रजानां स ब्रह्मभूतो भवतश् च विष्णुः । धाता विधाता परमेश्वरश् च प्रसीद कोपं कुरुषे किमर्थम्
§prahlāda uvāca: na kevalaṃ tāta mama prajānāṃ sa brahmabhūto bhavataś ca viṣṇuḥ / dhātā vidhātā parameśvaraś ca prasīda kopaṃ kuruṣe kimartham
- ViP 1.17.25Open verse →
§हिरण्यकशिपुर् उवाच: प्रविष्टः को ऽस्य हृदयं दुर्बुद्धेर् अतिपापकृत् । येनेदृशान्य् असाधूनि वदत्य् आविष्टमानसः
§hiraṇyakaśipur uvāca: praviṣṭaḥ ko 'sya hṛdayaṃ durbuddher atipāpakṛt / yenedṛśāny asādhūni vadaty āviṣṭamānasaḥ
- ViP 1.17.26Open verse →
§प्रह्लाद उवाच: न केवलं मद्धृदयं स विष्णुर् आक्रम्य लोकान् अखिलान् अवस्थितः । स मां त्वदादींश् च पितः समस्तान् समस्तचेष्टासु युनक्ति सर्वगः
§prahlāda uvāca: na kevalaṃ maddhṛdayaṃ sa viṣṇur ākramya lokān akhilān avasthitaḥ / sa māṃ tvadādīṃś ca pitaḥ samastān samastaceṣṭāsu yunakti sarvagaḥ
- ViP 1.17.27Open verse →
§हिरण्यकशिपुर् उवाच: निष्क्राम्यताम् अयं दुष्टः शास्यतां च गुरोर् गृहे । योजितो दुर्मतिः केन विपक्षवितथस्तुतौ
§hiraṇyakaśipur uvāca: niṣkrāmyatām ayaṃ duṣṭaḥ śāsyatāṃ ca guror gṛhe / yojito durmatiḥ kena vipakṣavitathastutau
- ViP 1.17.28Open verse →
§पराशर उवाच: इत्य् उक्ते स तदा दैत्यैर् नीतो गुरुगृहं पुनः । जग्राह विद्याम् अनिशं गुरुशुश्रूषणोद्यतः
§parāśara uvāca: ity ukte sa tadā daityair nīto gurugṛhaṃ punaḥ / jagrāha vidyām aniśaṃ guruśuśrūṣaṇodyataḥ
- ViP 1.17.29Open verse →
काले ऽतीते ऽतिमहति प्रह्लादम् असुरेश्वरः । समाहूयाब्रवीद् गाथा काचित् पुत्रक गीयताम्
kāle 'tīte 'timahati prahlādam asureśvaraḥ / samāhūyābravīd gāthā kācit putraka gīyatām
- ViP 1.17.30Open verse →
§प्रह्लाद उवाच: यतः प्रधानपुरुषौ यतश् चैतच् चराचरम् । कारणं सकलस्यास्य स नो विष्णुः प्रसीदतु
§prahlāda uvāca: yataḥ pradhānapuruṣau yataś caitac carācaram / kāraṇaṃ sakalasyāsya sa no viṣṇuḥ prasīdatu
- ViP 1.17.31Open verse →
§हिरण्यकशिपुर् उवाच: दुरात्मा वध्यताम् एष नानेनार्थो ऽस्ति जीवता । स्वपक्षहानिकर्तृत्वाद् यः कुलाङ्गारतां गतः
§hiraṇyakaśipur uvāca: durātmā vadhyatām eṣa nānenārtho 'sti jīvatā / svapakṣahānikartṛtvād yaḥ kulāṅgāratāṃ gataḥ
- ViP 1.17.32Open verse →
§पराशर उवाच: इत्य् आज्ञप्तास् ततस् तेन प्रगृहीतमहायुधाः । उद्यतास् तस्य नाशाय दैत्याः शतसहस्रशः
§parāśara uvāca: ity ājñaptās tatas tena pragṛhītamahāyudhāḥ / udyatās tasya nāśāya daityāḥ śatasahasraśaḥ
- ViP 1.17.33Open verse →
§प्रह्लाद उवाच: विष्णुः शस्त्रेषु युष्मासु मयि चासौ यथा स्थितः । दैतेयास् तेन सत्येन मा क्रामन्त्व् आयुधानि वः
§prahlāda uvāca: viṣṇuḥ śastreṣu yuṣmāsu mayi cāsau yathā sthitaḥ / daiteyās tena satyena mā krāmantv āyudhāni vaḥ
- ViP 1.17.34Open verse →
§पराशर उवाच: ततस् तैः शतशो दैत्यैः शस्त्रौघैर् आहतो ऽपि सन् । नावाप वेदनाम् अल्पाम् अभूच् चैव पुनर् नवः
§parāśara uvāca: tatas taiḥ śataśo daityaiḥ śastraughair āhato 'pi san / nāvāpa vedanām alpām abhūc caiva punar navaḥ
- ViP 1.17.35Open verse →
§हिरण्यकशिपुर् उवाच: दुर्बुद्धे विनिवर्तस्व वैरिपक्षस्तवाद् अतः । अभयं ते प्रयच्छामि मातिमूढमतिर् भव
§hiraṇyakaśipur uvāca: durbuddhe vinivartasva vairipakṣastavād ataḥ / abhayaṃ te prayacchāmi mātimūḍhamatir bhava
- ViP 1.17.36Open verse →
§प्रह्लाद उवाच: भयं भयानाम् अपहारिणि स्थिते मनस्य् अनन्ते मम कुत्र तिष्ठति ।* यस्मिन् स्मृते जन्मजरान्तकादि भयानि सर्वाण्य् अपयान्ति तात
§prahlāda uvāca: bhayaṃ bhayānām apahāriṇi sthite manasy anante mama kutra tiṣṭhati /* yasmin smṛte janmajarāntakādi bhayāni sarvāṇy apayānti tāta
- ViP 1.17.37Open verse →
* §हिरण्यकशिपुर् उवाच: भो भोः सर्पाः दुराचारम् एनम् अत्यन्तदुर्मतिम् । विषज्वालाविलैर् वक्त्रैः सद्यो नयत संक्षयम्
* §hiraṇyakaśipur uvāca: bho bhoḥ sarpāḥ durācāram enam atyantadurmatim / viṣajvālāvilair vaktraiḥ sadyo nayata saṃkṣayam
- ViP 1.17.38Open verse →
§पराशर उवाच: इत्य् उक्तास् तेन ते सर्पाः कुहकास् तक्षकादयः । अदंशन्त समस्तेषु गात्रेष्व् अतिविषोल्बणाः
§parāśara uvāca: ity uktās tena te sarpāḥ kuhakās takṣakādayaḥ / adaṃśanta samasteṣu gātreṣv ativiṣolbaṇāḥ
- ViP 1.17.39Open verse →
स त्व् आसक्तमतिः कृष्णे दंश्यमानो महोरगैः । न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसंस्थितः
sa tv āsaktamatiḥ kṛṣṇe daṃśyamāno mahoragaiḥ / na vivedātmano gātraṃ tatsmṛtyāhlādasaṃsthitaḥ
- ViP 1.17.40Open verse →
§सर्पा ऊचुः: दंष्ट्रा विशीर्णा मणयः स्फुटन्ति फणेषु तापो हृदयेषु कम्पः । नास्य त्वचः स्वल्पम् अपीह भिन्नं प्रशाधि दैत्येश्वर कर्म चान्यत्
§sarpā ūcuḥ: daṃṣṭrā viśīrṇā maṇayaḥ sphuṭanti phaṇeṣu tāpo hṛdayeṣu kampaḥ / nāsya tvacaḥ svalpam apīha bhinnaṃ praśādhi daityeśvara karma cānyat
- ViP 1.17.41Open verse →
§हिरण्यकशिपुर् उवाच: हे दिग्गजाः संकटदन्तमिश्रा घ्नतैनम् अस्मद्रिपुपक्षभिन्नम् । तज्जा विनाशाय भवन्ति तस्य यथारणेः प्रज्वलितो हुताशः
§hiraṇyakaśipur uvāca: he diggajāḥ saṃkaṭadantamiśrā ghnatainam asmadripupakṣabhinnam / tajjā vināśāya bhavanti tasya yathāraṇeḥ prajvalito hutāśaḥ
- ViP 1.17.42Open verse →
§पराशर उवाच: ततः स दिग्गजैर् बालो भूभृच्छिखरसंनिभैः । पातितो धरणीपृष्ठे विषाणैर् अप्य् अपीड्यत
§parāśara uvāca: tataḥ sa diggajair bālo bhūbhṛcchikharasaṃnibhaiḥ / pātito dharaṇīpṛṣṭhe viṣāṇair apy apīḍyata
- ViP 1.17.43Open verse →
स्मरतस् तस्य गोविन्दम् इभदन्ताः सहस्रशः । शीर्णा वक्षःस्थलं प्राप्य स प्राह पितरं ततः
smaratas tasya govindam ibhadantāḥ sahasraśaḥ / śīrṇā vakṣaḥsthalaṃ prāpya sa prāha pitaraṃ tataḥ
- ViP 1.17.44Open verse →
§प्रह्लाद उवाच: दन्ता गजानां कुलिशाग्रनिष्ठुराः शीर्णा यद् एते न बलं ममैतत् । महाविपत्पापविनाशनो ऽयं जनार्दनानुस्मरणानुभावः
§prahlāda uvāca: dantā gajānāṃ kuliśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat / mahāvipatpāpavināśano 'yaṃ janārdanānusmaraṇānubhāvaḥ
- ViP 1.17.45Open verse →
§हिरण्यकशिपुर् उवाच: ज्वाल्यताम् असुरा वह्निर् अपसर्पत दिग्गजाः । वायो समेधयाग्निं त्वं दह्यताम् एष पापकृत्
§hiraṇyakaśipur uvāca: jvālyatām asurā vahnir apasarpata diggajāḥ / vāyo samedhayāgniṃ tvaṃ dahyatām eṣa pāpakṛt
- ViP 1.17.46Open verse →
§पराशर उवाच: महाकाष्ठचयच्छन्नम् असुरेन्द्रसुतं ततः । प्रज्वाल्य दानवा वह्निं ददहुः स्वामिचोदिताः
§parāśara uvāca: mahākāṣṭhacayacchannam asurendrasutaṃ tataḥ / prajvālya dānavā vahniṃ dadahuḥ svāmicoditāḥ
- ViP 1.17.47Open verse →
§प्रह्लाद उवाच: तातैष वह्निः पवनेरितो ऽपि न मां दहत्य् अत्र समन्ततो ऽहम् । पश्यामि पद्मास्तरणास्तृतानि शीतानि सर्वाणि दिशां मुखानि
§prahlāda uvāca: tātaiṣa vahniḥ pavanerito 'pi na māṃ dahaty atra samantato 'ham / paśyāmi padmāstaraṇāstṛtāni śītāni sarvāṇi diśāṃ mukhāni
- ViP 1.17.48Open verse →
म्२।३ इन्स्।: त्रैलोक्यम् एतत् सचराचरं यद् विष्णुं विजिष्णुं प्रभविष्णुम् ईड्यं । §पराशर उवाच: अथ दैत्येश्वरं प्रोचुर् भार्गवस्यात्मजा द्विजाः । पुरोहिता महात्मानः साम्ना संस्तूय वाग्मिनः
M2.3 ins.: trailokyam etat sacarācaraṃ yad viṣṇuṃ vijiṣṇuṃ prabhaviṣṇum īḍyaṃ / §parāśara uvāca: atha daityeśvaraṃ procur bhārgavasyātmajā dvijāḥ / purohitā mahātmānaḥ sāmnā saṃstūya vāgminaḥ
- ViP 1.17.49Open verse →
§पुरोहिता ऊचुः: राजन् नियम्यतां कोपो बाले ऽत्र तनये निजे । कोपो देवनिकायेषु तत्र ते सफलो यतः
§purohitā ūcuḥ: rājan niyamyatāṃ kopo bāle 'tra tanaye nije / kopo devanikāyeṣu tatra te saphalo yataḥ
- ViP 1.17.50Open verse →
एद्। वेङ्क्। इन्स्।: तथा तथैनं बालं ते शासितारो वयं नृप । यथा विपक्षनाशाय विनीतस् ते भविष्यति
ed. Veṅk. ins.: tathā tathainaṃ bālaṃ te śāsitāro vayaṃ nṛpa / yathā vipakṣanāśāya vinītas te bhaviṣyati
- ViP 1.17.51Open verse →
बालत्वं सर्वदोषाणां दैत्यराजास्पदं यतः । ततो ऽत्र कोपम् अत्यर्थं योक्तुम् अर्हसि नार्भके
bālatvaṃ sarvadoṣāṇāṃ daityarājāspadaṃ yataḥ / tato 'tra kopam atyarthaṃ yoktum arhasi nārbhake
- ViP 1.17.52Open verse →
न त्यक्ष्यति हरेः पक्षम् अस्माकं वचनाद् यदि । ततः कृत्यां वधायास्य करिष्यामो ऽनिवर्तिनीम्
na tyakṣyati hareḥ pakṣam asmākaṃ vacanād yadi / tataḥ kṛtyāṃ vadhāyāsya kariṣyāmo 'nivartinīm
- ViP 1.17.53Open verse →
§पराशर उवाच: एवम् अभ्यर्थितस् तैस् तु दैत्यराजः पुरोहितैः । दैत्यैर् निष्क्रामयाम् आस पुत्रं पावकसंचयात्
§parāśara uvāca: evam abhyarthitas tais tu daityarājaḥ purohitaiḥ / daityair niṣkrāmayām āsa putraṃ pāvakasaṃcayāt
- ViP 1.17.54Open verse →
ततो गुरुगृहे बालः स वसन् बालदानवान् । अध्यापयाम् आस मुहुर् उपदेशान्तरे गुरोः
tato gurugṛhe bālaḥ sa vasan bāladānavān / adhyāpayām āsa muhur upadeśāntare guroḥ
- ViP 1.17.55Open verse →
§प्रह्लाद उवाच: श्रूयतां परमार्थो मे दैतेया दितिजात्मजाः । न चान्यथैतन् मन्तव्यं नात्र लोभादिकारणम्
§prahlāda uvāca: śrūyatāṃ paramārtho me daiteyā ditijātmajāḥ / na cānyathaitan mantavyaṃ nātra lobhādikāraṇam
- ViP 1.17.56Open verse →
जन्म बाल्यं ततः सर्वो जन्तुः प्राप्नोति यौवनम् । अव्याहतैव भवति ततो ऽनुदिवसं जरा
janma bālyaṃ tataḥ sarvo jantuḥ prāpnoti yauvanam / avyāhataiva bhavati tato 'nudivasaṃ jarā
- ViP 1.17.57Open verse →
ततश् च मृत्युम् अभ्येति जन्तुर् दैत्येश्वरात्मजाः । प्रत्यक्षं दृश्यते चैतद् अस्माकं भवतां तथा
tataś ca mṛtyum abhyeti jantur daityeśvarātmajāḥ / pratyakṣaṃ dṛśyate caitad asmākaṃ bhavatāṃ tathā
- ViP 1.17.58Open verse →
मृतस्य च पुनर् जन्म भवत्य् एतच् च नान्यथा । आगमो ऽयं तथा तच् च नोपादानं विनोद्भवः
mṛtasya ca punar janma bhavaty etac ca nānyathā / āgamo 'yaṃ tathā tac ca nopādānaṃ vinodbhavaḥ
- ViP 1.17.59Open verse →
गर्भवासादि यावत् तु पुनर्जन्मोपपादनम् । समस्तावस्थकं तावद् दुःखम् एवावगम्यताम्
garbhavāsādi yāvat tu punarjanmopapādanam / samastāvasthakaṃ tāvad duḥkham evāvagamyatām
- ViP 1.17.60Open verse →
क्षुत्तृष्णोपशमं तद्वच् शीताद्युपशमं सुखम् । मन्यते बालबुद्धित्वाद् दुःखम् एव हि तत् पुनः
kṣuttṛṣṇopaśamaṃ tadvac śītādyupaśamaṃ sukham / manyate bālabuddhitvād duḥkham eva hi tat punaḥ
- ViP 1.17.61Open verse →
अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम् । भ्रान्तिज्ञानवतां पुंसां प्रहारो ऽपि सुखायते
atyantastimitāṅgānāṃ vyāyāmena sukhaiṣiṇām / bhrāntijñānavatāṃ puṃsāṃ prahāro 'pi sukhāyate
- ViP 1.17.62Open verse →
क्व शरीरम् अशेषाणां श्लेष्मादीनां महाचयः । क्व चाङ्गशोभासौरभ्यकमनीयादयो गुणाः
kva śarīram aśeṣāṇāṃ śleṣmādīnāṃ mahācayaḥ / kva cāṅgaśobhāsaurabhyakamanīyādayo guṇāḥ
- ViP 1.17.63Open verse →
मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतौ । देहे चेत् प्रीतिमान् मूढो भविता नरके ऽपि सः
māṃsāsṛkpūyaviṇmūtrasnāyumajjāsthisaṃhatau / dehe cet prītimān mūḍho bhavitā narake 'pi saḥ
- ViP 1.17.64Open verse →
अग्नेः शीतेन तोयस्य तृषा भक्तस्य च क्षुधा । क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः
agneḥ śītena toyasya tṛṣā bhaktasya ca kṣudhā / kriyate sukhakartṛtvaṃ tadvilomasya cetaraiḥ
- ViP 1.17.65Open verse →
करोति हे दैत्यपुत्रा यावन्मात्रं परिग्रहम् । तावन्मात्रं स एवास्य दुःखं चेतसि यच्छति
karoti he daityaputrā yāvanmātraṃ parigraham / tāvanmātraṃ sa evāsya duḥkhaṃ cetasi yacchati
- ViP 1.17.66Open verse →
यावतः कुरुते जन्तुः संबन्धान् मनसः प्रियान् । तावन्तो ऽस्य निखन्यन्ते हृदये शोकशङ्कवः
yāvataḥ kurute jantuḥ saṃbandhān manasaḥ priyān / tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ
- ViP 1.17.67Open verse →
यद् यद् गृहे तन् मनसि यत्र तत्रावतिष्ठतः । नाशदाहापहरणं कुतस् तत्रैव तिष्ठति
yad yad gṛhe tan manasi yatra tatrāvatiṣṭhataḥ / nāśadāhāpaharaṇaṃ kutas tatraiva tiṣṭhati
- ViP 1.17.68Open verse →
जन्मन्य् अत्र महद् दुःखं म्रियमाणस्य चापि तत् । यातनासु यमस्योग्रं गर्भसंक्रमणेषु च
janmany atra mahad duḥkhaṃ mriyamāṇasya cāpi tat / yātanāsu yamasyograṃ garbhasaṃkramaṇeṣu ca
- ViP 1.17.69Open verse →
गर्भे च सुखलेशो ऽपि भवद्भिर् अनुमीयते । यदि तत् कथ्यताम् एवं सर्वं दुःखमयं जगत्
garbhe ca sukhaleśo 'pi bhavadbhir anumīyate / yadi tat kathyatām evaṃ sarvaṃ duḥkhamayaṃ jagat
- ViP 1.17.70Open verse →
तद् एतद् अतिदुःखानाम् आस्पदे ऽत्र भवार्णवे । भवतां कथ्यते सत्यं विष्णुर् एकः परायणः
tad etad atiduḥkhānām āspade 'tra bhavārṇave / bhavatāṃ kathyate satyaṃ viṣṇur ekaḥ parāyaṇaḥ
- ViP 1.17.71Open verse →
मा जानीत वयं बाला देही देहेषु शाश्वतः । जरायौवनजन्माद्या धर्मा देहस्य नात्मनः
mā jānīta vayaṃ bālā dehī deheṣu śāśvataḥ / jarāyauvanajanmādyā dharmā dehasya nātmanaḥ
- ViP 1.17.72Open verse →
बालो ऽहं तावद् इच्छातो यतिष्ये श्रेयसे युवा । युवाहं वार्द्धके प्राप्ते करिष्याम्य् आत्मनो हितम्
bālo 'haṃ tāvad icchāto yatiṣye śreyase yuvā / yuvāhaṃ vārddhake prāpte kariṣyāmy ātmano hitam
- ViP 1.17.73Open verse →
वृद्धो ऽहं मम कार्याणि समस्तानि न गोचरे । किं करिष्यामि मन्दात्मा समर्थेन न यत् कृतम्
vṛddho 'haṃ mama kāryāṇi samastāni na gocare / kiṃ kariṣyāmi mandātmā samarthena na yat kṛtam
- ViP 1.17.74Open verse →
एवं दुराशयाक्षिप्तमानसः पुरुषः सदा । श्रेयसो ऽभिमुखं याति न कदाचित् पिपासितः
evaṃ durāśayākṣiptamānasaḥ puruṣaḥ sadā / śreyaso 'bhimukhaṃ yāti na kadācit pipāsitaḥ
- ViP 1.17.75Open verse →
बाल्ये क्रीडनकासक्ता यौवने विषयोन्मुखाः । अज्ञानयन्त्य् अशक्त्या च वार्द्धकं समुपस्थितम्
bālye krīḍanakāsaktā yauvane viṣayonmukhāḥ / ajñānayanty aśaktyā ca vārddhakaṃ samupasthitam
- ViP 1.17.76Open verse →
तस्माद् बाल्ये विवेकात्मा यतेत श्रेयसे सदा । बाल्ययौवनवृद्धाद्यैर् देहभावैर् असंयुतः
tasmād bālye vivekātmā yateta śreyase sadā / bālyayauvanavṛddhādyair dehabhāvair asaṃyutaḥ
- ViP 1.17.77Open verse →
तद् एतद् वो मयाख्यातं यदि जानीत नानृतम् । तद् अस्मत्प्रीतये विष्णुः स्मर्यतां बन्धमुक्तिदः
tad etad vo mayākhyātaṃ yadi jānīta nānṛtam / tad asmatprītaye viṣṇuḥ smaryatāṃ bandhamuktidaḥ
- ViP 1.17.78Open verse →
आयासः स्मरणे को ऽस्य स्मृतो यच्छति शोभनम् । पापक्षयश् च भवति स्मरतां तम् अहर्निशम्
āyāsaḥ smaraṇe ko 'sya smṛto yacchati śobhanam / pāpakṣayaś ca bhavati smaratāṃ tam aharniśam
- ViP 1.17.79Open verse →
सर्वभूतस्थिते तस्मिन् मतिर् मैत्री दिवानिशम् । भवतां जायताम् एवं सर्वक्लेशान् प्रहास्यथ
sarvabhūtasthite tasmin matir maitrī divāniśam / bhavatāṃ jāyatām evaṃ sarvakleśān prahāsyatha
- ViP 1.17.80Open verse →
तापत्रयेणाभिहतं यद् एतद् अखिलं जगत् । तदा शोच्येषु भूतेषु द्वेषं प्राज्ञः करोति कः
tāpatrayeṇābhihataṃ yad etad akhilaṃ jagat / tadā śocyeṣu bhūteṣu dveṣaṃ prājñaḥ karoti kaḥ
- ViP 1.17.81Open verse →
अथ भद्राणि भूतानि हीनशक्तिर् अहं परम् । मुदं तथापि कुर्वीत हानिर् द्वेषफलं यतः
atha bhadrāṇi bhūtāni hīnaśaktir ahaṃ param / mudaṃ tathāpi kurvīta hānir dveṣaphalaṃ yataḥ
- ViP 1.17.82Open verse →
बद्धवैराणि भूतानि द्वेषं कुर्वन्ति चेत् ततः । शोच्यान्य् अहो ऽतिमोहेन व्याप्तानीति मनीषिणाम्
baddhavairāṇi bhūtāni dveṣaṃ kurvanti cet tataḥ / śocyāny aho 'timohena vyāptānīti manīṣiṇām
- ViP 1.17.83Open verse →
एते भिन्नदृशां दैत्या विकल्पाः कथिता मया । कृत्वाभ्युपगमं तत्र संक्षेपः श्रूयतां मम
ete bhinnadṛśāṃ daityā vikalpāḥ kathitā mayā / kṛtvābhyupagamaṃ tatra saṃkṣepaḥ śrūyatāṃ mama
- ViP 1.17.84Open verse →
विस्तारः सर्वभूतस्य विष्णोर् विश्वम् इदं जगत् । द्रष्टव्यम् आत्मवत् तस्माद् अभेदेन विचक्षणैः
vistāraḥ sarvabhūtasya viṣṇor viśvam idaṃ jagat / draṣṭavyam ātmavat tasmād abhedena vicakṣaṇaiḥ
- ViP 1.17.85Open verse →
समुत्सृज्यासुरं भावं तस्माद् यूयं यथा वयम् । तथा यत्नं करिष्यामो यथा प्राप्स्याम निर्वृतिम्
samutsṛjyāsuraṃ bhāvaṃ tasmād yūyaṃ yathā vayam / tathā yatnaṃ kariṣyāmo yathā prāpsyāma nirvṛtim
- ViP 1.17.86Open verse →
नैवाग्निना न चार्केण नेन्दुना न च वायुना । पर्जन्यवरुणाभ्यां वा न सिद्धैर् न च राक्षसैः
naivāgninā na cārkeṇa nendunā na ca vāyunā / parjanyavaruṇābhyāṃ vā na siddhair na ca rākṣasaiḥ
- ViP 1.17.87Open verse →
न यक्षैर् न च दैत्येन्द्रैर् नोरगैर् न च किंनरैः । न मनुष्यैर् न पशुभिर् दोषैर् नैवात्मसंभवैः
na yakṣair na ca daityendrair noragair na ca kiṃnaraiḥ / na manuṣyair na paśubhir doṣair naivātmasaṃbhavaiḥ
- ViP 1.17.88Open verse →
ज्वराक्षिरोगातीसारप्लीहगुल्मादिकैस् तथा । द्वेषेर्ष्यामत्सराद्यैर् वा रागलोभादिभिः क्षयम्
jvarākṣirogātīsāraplīhagulmādikais tathā / dveṣerṣyāmatsarādyair vā rāgalobhādibhiḥ kṣayam
- ViP 1.17.89Open verse →
न चान्यैर् नीयते कैश्चिन् नित्या यात्यन्तनिर्मला । ताम् आप्नोत्य् अमले न्यस्य केशवे हृदयं नरः
na cānyair nīyate kaiścin nityā yātyantanirmalā / tām āpnoty amale nyasya keśave hṛdayaṃ naraḥ
- ViP 1.17.90Open verse →
असारसंसारविवर्तनेषु मा यात तोषं प्रसभं ब्रवीमि । सर्वत्र दैत्याः समताम् उपेत समत्वम् आराधनम् अच्युतस्य
asārasaṃsāravivartaneṣu mā yāta toṣaṃ prasabhaṃ bravīmi / sarvatra daityāḥ samatām upeta samatvam ārādhanam acyutasya
- ViP 1.17.91Open verse →
तस्मिन् प्रसन्ने किम् इहास्त्य् अलभ्यं धर्मार्थकामैर् अलम् अल्पकास् ते । समाश्रिताद् ब्रह्मतरोर् अनन्तान् निःसंशयं प्राप्स्यथ वै महत् फलम्
tasmin prasanne kim ihāsty alabhyaṃ dharmārthakāmair alam alpakās te / samāśritād brahmataror anantān niḥsaṃśayaṃ prāpsyatha vai mahat phalam
- ViP 1.18.1Open verse →
______________________________________________________ §पराशर उवाच: तस्यैतां दानवाश् चेष्टां दृष्ट्वा दैत्यपतेर् भयात् । आचचक्षुः स चोवाच सूदान् आहूय सत्वरः
______________________________________________________ §parāśara uvāca: tasyaitāṃ dānavāś ceṣṭāṃ dṛṣṭvā daityapater bhayāt / ācacakṣuḥ sa covāca sūdān āhūya satvaraḥ
- ViP 1.18.2Open verse →
§हिरण्यकशिपुर् उवाच: हे सूदा मम पुत्रो ऽसाव् अन्येषाम् अपि दुर्मतिः । कुमार्गदेशिको दुष्टो हन्यताम् अविलम्बितम्
§hiraṇyakaśipur uvāca: he sūdā mama putro 'sāv anyeṣām api durmatiḥ / kumārgadeśiko duṣṭo hanyatām avilambitam
- ViP 1.18.3Open verse →
हालाहलं विषं तस्य सर्वभक्ष्येषु दीयताम् । अविज्ञातम् असौ पापो वध्यतां मा विचार्यताम्
hālāhalaṃ viṣaṃ tasya sarvabhakṣyeṣu dīyatām / avijñātam asau pāpo vadhyatāṃ mā vicāryatām
- ViP 1.18.4Open verse →
§पराशर उवाच: ते तथैव ततश् चक्रुः प्रह्लादाय महात्मने । विषदानं यथाज्ञप्तं पित्रा तस्य महात्मनः
§parāśara uvāca: te tathaiva tataś cakruḥ prahlādāya mahātmane / viṣadānaṃ yathājñaptaṃ pitrā tasya mahātmanaḥ
- ViP 1.18.5Open verse →
हालाहलं विषं घोरम् अनन्तोच्चारणेन सः । अभिमन्त्र्य सहान्नेन मैत्रेय बुभुजे तदा
hālāhalaṃ viṣaṃ ghoram anantoccāraṇena saḥ / abhimantrya sahānnena maitreya bubhuje tadā
- ViP 1.18.6Open verse →
अविकारं स तद् भुक्त्वा प्रह्लादः स्वस्थमानसः । अनन्तख्यातिनिर्वीर्यं जरयाम् आस दुर्विषम्
avikāraṃ sa tad bhuktvā prahlādaḥ svasthamānasaḥ / anantakhyātinirvīryaṃ jarayām āsa durviṣam
- ViP 1.18.7Open verse →
ततः सूदा भयत्रस्ता जीर्णं दृष्ट्वा महाविषम् । दैत्येश्वरम् उपागम्य प्रणिपत्येदम् अब्रुवन्
tataḥ sūdā bhayatrastā jīrṇaṃ dṛṣṭvā mahāviṣam / daityeśvaram upāgamya praṇipatyedam abruvan
- ViP 1.18.8Open verse →
§सूदा ऊचुः: दैत्यराज विषं दत्तम् अस्माभिर् अतिभीषणम् । जीर्णं तच् च सहान्नेन प्रह्लादेन सुतेन ते
§sūdā ūcuḥ: daityarāja viṣaṃ dattam asmābhir atibhīṣaṇam / jīrṇaṃ tac ca sahānnena prahlādena sutena te
- ViP 1.18.9Open verse →
§हिरण्यकशिपुर् उवाच: त्वर्यतां त्वर्यतां सद्यो हे हे दैत्यपुरोहिताः । कृत्यां तस्य विनाशाय उत्पादयत मा चिरम्
§hiraṇyakaśipur uvāca: tvaryatāṃ tvaryatāṃ sadyo he he daityapurohitāḥ / kṛtyāṃ tasya vināśāya utpādayata mā ciram
- ViP 1.18.10Open verse →
§पराशर उवाच: सकाशम् आगम्य ततः प्रह्लादस्य पुरोहिताः । सामपूर्वम् अथोचुस् ते प्रह्लादं विनयान्वितम्
§parāśara uvāca: sakāśam āgamya tataḥ prahlādasya purohitāḥ / sāmapūrvam athocus te prahlādaṃ vinayānvitam
- ViP 1.18.11Open verse →
§पुरोहिता ऊचुः: जातस् त्रैलोक्यविख्यात आयुष्मन् ब्रह्मणः कुले । दैत्यराजस्य तनयो हिरण्यकशिपोर् भवान्
§purohitā ūcuḥ: jātas trailokyavikhyāta āyuṣman brahmaṇaḥ kule / daityarājasya tanayo hiraṇyakaśipor bhavān
- ViP 1.18.12Open verse →
किं दैवैः किम् अनन्तेन किम् अन्येन तवाश्रयः । पिता समस्तलोकानां त्वं तथैव भविष्यसि
kiṃ daivaiḥ kim anantena kim anyena tavāśrayaḥ / pitā samastalokānāṃ tvaṃ tathaiva bhaviṣyasi
- ViP 1.18.13Open verse →
तस्मात् परित्यजैनां त्वं विपक्षस्तवसंहिताम् । वाच्यः पिता समस्तानां गुरूणां परमो गुरुः
tasmāt parityajaināṃ tvaṃ vipakṣastavasaṃhitām / vācyaḥ pitā samastānāṃ gurūṇāṃ paramo guruḥ
- ViP 1.18.14Open verse →
§प्रह्लाद उवाच: एवम् एतन् महाभागाः श्लाघ्यम् एतन् महाकुलम् । मरीचेः सकले ऽप्य् अस्मिन् त्रैलोक्ये नान्यथा वदेत्
§prahlāda uvāca: evam etan mahābhāgāḥ ślāghyam etan mahākulam / marīceḥ sakale 'py asmin trailokye nānyathā vadet
- ViP 1.18.15Open verse →
पिता च मम सर्वस्मिञ् जगत्य् उत्कृष्टचेष्टितः । एतद् अप्य् अवगच्छामि सत्यम् अत्रापि नानृतम्
pitā ca mama sarvasmiñ jagaty utkṛṣṭaceṣṭitaḥ / etad apy avagacchāmi satyam atrāpi nānṛtam
- ViP 1.18.16Open verse →
गुरूणाम् अपि सर्वेषां पिता परमको गुरुः । यद् उक्तं भ्रान्तिस् तत्रापि स्वल्पापि हि न विद्यते
gurūṇām api sarveṣāṃ pitā paramako guruḥ / yad uktaṃ bhrāntis tatrāpi svalpāpi hi na vidyate
- ViP 1.18.17Open verse →
पिता गुरुर् न संदेहः पूजनीयः प्रयत्नतः । तत्रापि नापराध्यामीत्य् एवं मनसि मे स्थितम्
pitā gurur na saṃdehaḥ pūjanīyaḥ prayatnataḥ / tatrāpi nāparādhyāmīty evaṃ manasi me sthitam
- ViP 1.18.18Open verse →
यत् त्व् एतत् किम् अनन्तेनेत्य् उक्तं युष्माभिर् ईदृशम् । को ब्रवीति यथायुक्तं किं तु नैतद् वचो ऽर्थवत्
yat tv etat kim anantenety uktaṃ yuṣmābhir īdṛśam / ko bravīti yathāyuktaṃ kiṃ tu naitad vaco 'rthavat
- ViP 1.18.19Open verse →
इत्य् उक्त्वा सो ऽभवन् मौनी तेषां गौरवयन्त्रितः । प्रहस्य च पुनः प्राह किम् अनन्तेन साध्व् इति
ity uktvā so 'bhavan maunī teṣāṃ gauravayantritaḥ / prahasya ca punaḥ prāha kim anantena sādhv iti
- ViP 1.18.20Open verse →
साधु भोः किम् अनन्तेन साधु भो गुरवो मम । श्रूयतां यद् अनन्तेन यदि खेदं न यास्यथ
sādhu bhoḥ kim anantena sādhu bho guravo mama / śrūyatāṃ yad anantena yadi khedaṃ na yāsyatha
- ViP 1.18.21Open verse →
धर्मार्थकाममोक्षाख्यः पुरुषार्थ उदाहृतः । चतुष्टयम् इदं यस्मात् तस्मात् किं किम् इदं वृथा
dharmārthakāmamokṣākhyaḥ puruṣārtha udāhṛtaḥ / catuṣṭayam idaṃ yasmāt tasmāt kiṃ kim idaṃ vṛthā
- ViP 1.18.22Open verse →
मरीचिमिश्रैर् दक्षेण तथैवान्यैर् अनन्ततः । धर्मः प्राप्तस् तथैवान्यैर् अर्थः कामस् तथापरैः
marīcimiśrair dakṣeṇa tathaivānyair anantataḥ / dharmaḥ prāptas tathaivānyair arthaḥ kāmas tathāparaiḥ
- ViP 1.18.23Open verse →
तत्तत्त्ववेदिनो भूत्वा ज्ञानध्यानसमाधिभिः । अवापुर् मुक्तिम् अपरे पुरुषा ध्वस्तबन्धनाः
tattattvavedino bhūtvā jñānadhyānasamādhibhiḥ / avāpur muktim apare puruṣā dhvastabandhanāḥ
- ViP 1.18.24Open verse →
संपदैश्वर्यमाहात्म्यज्ञानसंततिकर्मणाम् । विमुक्तेश् चैकतो लभ्यं मूलम् आराधनं हरेः
saṃpadaiśvaryamāhātmyajñānasaṃtatikarmaṇām / vimukteś caikato labhyaṃ mūlam ārādhanaṃ hareḥ
- ViP 1.18.25Open verse →
यतो धर्मार्थकामाख्यं विमुक्तिश् च फलं द्विजाः । तेनापि हि किम् इत्य् एवम् अनन्तेन किम् उच्यते
yato dharmārthakāmākhyaṃ vimuktiś ca phalaṃ dvijāḥ / tenāpi hi kim ity evam anantena kim ucyate
- ViP 1.18.26Open verse →
किं वात्र बहुनोक्तेन भवन्तो गुरवो मम । वदन्तु साधु वासाधु विवेको ऽस्माकम् अल्पकः
kiṃ vātra bahunoktena bhavanto guravo mama / vadantu sādhu vāsādhu viveko 'smākam alpakaḥ
- ViP 1.18.27Open verse →
द्३-५,त्,ग्,म्०,एद्। वेङ्क्। इन्स्। wहिले म्२।३ चोन्त्। अफ़्तेर् *५४: §पुरोहिता ऊचुः: दह्यमानस् त्वम् अस्माभिर् अग्निना बाल रक्षितः । भूयो न वक्ष्यसीत्य् एवं नैवं ज्ञातो ऽस्य् अबुद्धिमान्
D3-5,T,G,M0,ed. Veṅk. ins. while M2.3 cont. after *54: §purohitā ūcuḥ: dahyamānas tvam asmābhir agninā bāla rakṣitaḥ / bhūyo na vakṣyasīty evaṃ naivaṃ jñāto 'sy abuddhimān
- ViP 1.18.28Open verse →
यद्य् अस्मद्वचनान् मोहग्राहं न त्यक्ष्यते भवान् । ततः कृत्यां विनाशाय तव सृक्ष्याम दुर्मते
yady asmadvacanān mohagrāhaṃ na tyakṣyate bhavān / tataḥ kṛtyāṃ vināśāya tava sṛkṣyāma durmate
- ViP 1.18.29Open verse →
§प्रह्लाद उवाच: कः केन रक्ष्यते जन्तुर् जन्तुः कः केन हन्यते । हन्ति रक्षति चैवात्मा जगत् सर्वं चराचरम्
§prahlāda uvāca: kaḥ kena rakṣyate jantur jantuḥ kaḥ kena hanyate / hanti rakṣati caivātmā jagat sarvaṃ carācaram
- ViP 1.18.30Open verse →
त्३,म्०,एद्। वेङ्क्। इन्स्।: §पराशर उवाच: इत्य् उक्तास् तेन ते क्रुद्धा दैत्यराजपुरोहिताः । कृत्याम् उत्पादयाम् आसुर् ज्वालामालोज्ज्वलाननाम्
T3,M0,ed. Veṅk. ins.: §parāśara uvāca: ity uktās tena te kruddhā daityarājapurohitāḥ / kṛtyām utpādayām āsur jvālāmālojjvalānanām
- ViP 1.18.31Open verse →
अतिभीमा समागम्य पादन्यासक्षतक्षितिः । शूलेन सा सुसंक्रुद्धा तं जघानाथ वक्षसि
atibhīmā samāgamya pādanyāsakṣatakṣitiḥ / śūlena sā susaṃkruddhā taṃ jaghānātha vakṣasi
- ViP 1.18.32Open verse →
तत् तस्य हृदयं प्राप्य शूलं बालस्य दीप्तिमत् । जगाम खण्डितं भूमौ तत्रापि शतधाभवत्
tat tasya hṛdayaṃ prāpya śūlaṃ bālasya dīptimat / jagāma khaṇḍitaṃ bhūmau tatrāpi śatadhābhavat
- ViP 1.18.33Open verse →
यत्रानपायी भगवान् हृद्य् आस्ते हरिर् ईश्वरः । भङ्गो भवति वज्रस्य तत्र शूलस्य का कथा
yatrānapāyī bhagavān hṛdy āste harir īśvaraḥ / bhaṅgo bhavati vajrasya tatra śūlasya kā kathā
- ViP 1.18.34Open verse →
अपापे तत्र पापैश् च पातिता दैत्ययाजकैः । तान् एव सा जघानाशु कृत्या नाशं जगाम च
apāpe tatra pāpaiś ca pātitā daityayājakaiḥ / tān eva sā jaghānāśu kṛtyā nāśaṃ jagāma ca
- ViP 1.18.35Open verse →
कृत्यया दह्यमानांस् तान् विलोक्य स महामतिः । त्राहि कृष्णेत्य् अनन्तेति वदन्न् अभ्यवपद्यत
kṛtyayā dahyamānāṃs tān vilokya sa mahāmatiḥ / trāhi kṛṣṇety ananteti vadann abhyavapadyata
- ViP 1.18.36Open verse →
§प्रह्लाद उवाच: सर्वव्यापिञ् जगद्रूप जगत्स्रष्टर् जनार्दन । त्राहि विप्रान् इमान् अस्माद् दुःसहान् मन्त्रपावकात्
§prahlāda uvāca: sarvavyāpiñ jagadrūpa jagatsraṣṭar janārdana / trāhi viprān imān asmād duḥsahān mantrapāvakāt
- ViP 1.18.37Open verse →
यथा सर्वेषु भूतेषु सर्वव्यापी जगद्गुरुः । विष्णुर् एव तथा सर्वे जीवन्त्व् एते पुरोहिताः
yathā sarveṣu bhūteṣu sarvavyāpī jagadguruḥ / viṣṇur eva tathā sarve jīvantv ete purohitāḥ
- ViP 1.18.38Open verse →
यथा सर्वगतं विष्णुं मन्यमानो ऽनपायिनम् । चिन्तयाम्य् अरिपक्षे ऽपि जीवन्त्व् एते तथा द्विजाः
yathā sarvagataṃ viṣṇuṃ manyamāno 'napāyinam / cintayāmy aripakṣe 'pi jīvantv ete tathā dvijāḥ
- ViP 1.18.39Open verse →
ये हन्तुम् आगता दत्तं यैर् विषं यैर् हुताशनः । यैर् दिग्गजैर् अहं क्षुण्णो दष्टः सर्पैश् च यैर् अहम्
ye hantum āgatā dattaṃ yair viṣaṃ yair hutāśanaḥ / yair diggajair ahaṃ kṣuṇṇo daṣṭaḥ sarpaiś ca yair aham
- ViP 1.18.40Open verse →
तेष्व् अहं मित्रपक्षे च समः पापो ऽस्मि न क्वचित् । यथा तेनाद्य सत्येन जीवन्त्व् असुरयाजकाः
teṣv ahaṃ mitrapakṣe ca samaḥ pāpo 'smi na kvacit / yathā tenādya satyena jīvantv asurayājakāḥ
- ViP 1.18.41Open verse →
§पराशर उवाच: इत्य् उक्तास् तेन ते सर्वे संस्पृष्टाश् च निरामयाः । समुत्तस्थुर् द्विजा भूयस् तं चोचुः प्रश्रयान्वितम्
§parāśara uvāca: ity uktās tena te sarve saṃspṛṣṭāś ca nirāmayāḥ / samuttasthur dvijā bhūyas taṃ cocuḥ praśrayānvitam
- ViP 1.18.42Open verse →
§पुरोहिता ऊचुः: दीर्घायुर् अप्रतिहतो बलवीर्यसमन्वितः । पुत्रपौत्रधनैश्वर्यैर् युक्तो वत्स भवोत्तमः
§purohitā ūcuḥ: dīrghāyur apratihato balavīryasamanvitaḥ / putrapautradhanaiśvaryair yukto vatsa bhavottamaḥ
- ViP 1.18.43Open verse →
§पराशर उवाच: इत्य् उक्त्वा तं ततो गत्वा यथावृत्तं पुरोहिताः । दैत्यराजाय सकलम् आचचक्षुर् महामुने
§parāśara uvāca: ity uktvā taṃ tato gatvā yathāvṛttaṃ purohitāḥ / daityarājāya sakalam ācacakṣur mahāmune
- ViP 1.19.1Open verse →
______________________________________________________ §पराशर उवाच: हिरण्यकशिपुः श्रुत्वा तां कृत्यां वितथीकृताम् । आहूय पुत्रं पप्रच्छ प्रभावस्यास्य कारणम्
______________________________________________________ §parāśara uvāca: hiraṇyakaśipuḥ śrutvā tāṃ kṛtyāṃ vitathīkṛtām / āhūya putraṃ papraccha prabhāvasyāsya kāraṇam
- ViP 1.19.2Open verse →
§हिरण्यकशिपुर् उवाच: प्रह्लाद सुप्रभावो ऽसि किम् एतत् ते विचेष्टितम् । एतन् मन्त्रादिजनितम् उताहो सहजं तव
§hiraṇyakaśipur uvāca: prahlāda suprabhāvo 'si kim etat te viceṣṭitam / etan mantrādijanitam utāho sahajaṃ tava
- ViP 1.19.3Open verse →
§पराशर उवाच: एवं पृष्टस् तदा पित्रा प्रह्लादो ऽसुरबालकः । प्रणिपत्य पितुः पादाव् इदं वचनम् अब्रवीत्
§parāśara uvāca: evaṃ pṛṣṭas tadā pitrā prahlādo 'surabālakaḥ / praṇipatya pituḥ pādāv idaṃ vacanam abravīt
- ViP 1.19.4Open verse →
न मन्त्रादिकृतस् तात न च नैसर्गिको मम । प्रभाव एष सामान्यो यस्य यस्याच्युतो हृदि
na mantrādikṛtas tāta na ca naisargiko mama / prabhāva eṣa sāmānyo yasya yasyācyuto hṛdi
- ViP 1.19.5Open verse →
अन्येषां यो न पापानि चिन्तयत्य् आत्मनो यथा । तस्य पापागमस् तात हेत्वभावान् न विद्यते
anyeṣāṃ yo na pāpāni cintayaty ātmano yathā / tasya pāpāgamas tāta hetvabhāvān na vidyate
- ViP 1.19.6Open verse →
कर्मणा मनसा वाचा परपीडां करोति यः । तद् बीजं जन्म फलति प्रभूतं तस्य चाशुभम्
karmaṇā manasā vācā parapīḍāṃ karoti yaḥ / tad bījaṃ janma phalati prabhūtaṃ tasya cāśubham
- ViP 1.19.7Open verse →
सो ऽहं न पापम् इच्छामि न करोमि वदामि वा । चिन्तयन् सर्वभूतस्थम् आत्मन्य् अपि च केशवम्
so 'haṃ na pāpam icchāmi na karomi vadāmi vā / cintayan sarvabhūtastham ātmany api ca keśavam
- ViP 1.19.8Open verse →
शारीरं मानसं दुःखं दैवं भूतभवं तथा । सर्वत्र शुभचित्तस्य तस्य मे जायते कुतः
śārīraṃ mānasaṃ duḥkhaṃ daivaṃ bhūtabhavaṃ tathā / sarvatra śubhacittasya tasya me jāyate kutaḥ
- ViP 1.19.9Open verse →
एवं सर्वेषु भूतेषु भक्तिर् अव्यभिचारिणी । कर्तव्या पण्डितैर् ज्ञात्वा सर्वभूतमयं हरिम्
evaṃ sarveṣu bhūteṣu bhaktir avyabhicāriṇī / kartavyā paṇḍitair jñātvā sarvabhūtamayaṃ harim
- ViP 1.19.10Open verse →
§पराशर उवाच: इति श्रुत्वा स दैत्येन्द्रः प्रासादशिखरे स्थितः । क्रोधान्धकारितमुखः प्राह दैतेयकिंकरान्
§parāśara uvāca: iti śrutvā sa daityendraḥ prāsādaśikhare sthitaḥ / krodhāndhakāritamukhaḥ prāha daiteyakiṃkarān
- ViP 1.19.11Open verse →
दुरात्मा क्षिप्यताम् अस्मात् प्रासादाच् छतयोजनात् । गिरिपृष्ठे पतत्व् अस्मिञ् शिलाभिन्नाङ्गसंहतिः
durātmā kṣipyatām asmāt prāsādāc chatayojanāt / giripṛṣṭhe patatv asmiñ śilābhinnāṅgasaṃhatiḥ
- ViP 1.19.12Open verse →
ततस् तं चिक्षिपुः सर्वे बालं दैतेयकिंकराः । पपात सो ऽप्य् अधः क्षिप्तो हृदयेनोद्वहन् हरिम्
tatas taṃ cikṣipuḥ sarve bālaṃ daiteyakiṃkarāḥ / papāta so 'py adhaḥ kṣipto hṛdayenodvahan harim
- ViP 1.19.13Open verse →
पतमानं जगद्धात्री जगद्धातरि केशवे । भक्तियुक्तं दधारैनम् उपगम्य च मेदिनी
patamānaṃ jagaddhātrī jagaddhātari keśave / bhaktiyuktaṃ dadhārainam upagamya ca medinī
- ViP 1.19.14Open verse →
ततो विलोक्य तं स्वस्थम् अविशीर्णास्थिबन्धनम् । हिरण्यकशिपुः प्राह शम्बरं मायिनां वरम्
tato vilokya taṃ svastham aviśīrṇāsthibandhanam / hiraṇyakaśipuḥ prāha śambaraṃ māyināṃ varam
- ViP 1.19.15Open verse →
नास्माभिः शक्यते हन्तुम् अयं दुर्वृत्तबालकः । मायां वेत्ति भवांस् तस्मान् माययैनं निषूदय
nāsmābhiḥ śakyate hantum ayaṃ durvṛttabālakaḥ / māyāṃ vetti bhavāṃs tasmān māyayainaṃ niṣūdaya
- ViP 1.19.16Open verse →
§शम्बर उवाच: सूदयाम्य् एष दैत्येन्द्र पश्य मायाबलं मम । सहस्रम् अत्र मायानां पश्य कोटिशतं तथा
§śambara uvāca: sūdayāmy eṣa daityendra paśya māyābalaṃ mama / sahasram atra māyānāṃ paśya koṭiśataṃ tathā
- ViP 1.19.17Open verse →
§पराशर उवाच: ततः समसृजन् मायाः प्रह्लादे शम्बरो ऽसुरः । विनाशम् इच्छन् दुर्बुद्धिः सर्वत्र समदर्शिनि
§parāśara uvāca: tataḥ samasṛjan māyāḥ prahlāde śambaro 'suraḥ / vināśam icchan durbuddhiḥ sarvatra samadarśini
- ViP 1.19.18Open verse →
समाहितमना भूत्वा शम्बरे ऽपि विमत्सरः । मैत्रेय सो ऽपि प्रह्लादः सस्मार मधुसूदनम्
samāhitamanā bhūtvā śambare 'pi vimatsaraḥ / maitreya so 'pi prahlādaḥ sasmāra madhusūdanam
- ViP 1.19.19Open verse →
ततो भगवता तस्य रक्षार्थं चक्रम् उत्तमम् । आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम्
tato bhagavatā tasya rakṣārthaṃ cakram uttamam / ājagāma samājñaptaṃ jvālāmāli sudarśanam
- ViP 1.19.20Open verse →
तेन मायासहस्रं तच् शम्बरस्याशुगामिना । बालस्य रक्षता देहम् एकैकश्येन सूदितम्
tena māyāsahasraṃ tac śambarasyāśugāminā / bālasya rakṣatā deham ekaikaśyena sūditam
- ViP 1.19.21Open verse →
संशोषकं ततो वायुं दैत्येन्द्र इदम् अब्रवीत् । शीघ्रम् एष ममादेशाद् दुरात्मा नीयतां क्षयम्
saṃśoṣakaṃ tato vāyuṃ daityendra idam abravīt / śīghram eṣa mamādeśād durātmā nīyatāṃ kṣayam
- ViP 1.19.22Open verse →
तथेत्य् उक्त्वाथ सो ऽप्य् एनं विवेश पवनो लघुः । शीतो ऽतिरूक्षः शोषाय तद्देहस्यातिदुःसहः
tathety uktvātha so 'py enaṃ viveśa pavano laghuḥ / śīto 'tirūkṣaḥ śoṣāya taddehasyātiduḥsahaḥ
- ViP 1.19.23Open verse →
तेनाविष्टं तथात्मानं स बुद्ध्वा दैत्यबालकः । हृदयेन महात्मानं दधार धरणीधरम्
tenāviṣṭaṃ tathātmānaṃ sa buddhvā daityabālakaḥ / hṛdayena mahātmānaṃ dadhāra dharaṇīdharam
- ViP 1.19.24Open verse →
हृदयस्थस् ततस् तस्य तं वायुम् अतिशोषणम् । पपौ जनार्दनः क्रुद्धः स ययौ पवनः क्षयम्
hṛdayasthas tatas tasya taṃ vāyum atiśoṣaṇam / papau janārdanaḥ kruddhaḥ sa yayau pavanaḥ kṣayam
- ViP 1.19.25Open verse →
क्षीणासु सर्वमायासु पवने संक्षयं गते । जगाम सो ऽपि भवनं गुरोर् एव महामतिः
kṣīṇāsu sarvamāyāsu pavane saṃkṣayaṃ gate / jagāma so 'pi bhavanaṃ guror eva mahāmatiḥ
- ViP 1.19.26Open verse →
अहन्य् अहन्य् अथाचार्यो नीतिं राज्यफलप्रदाम् । ग्राहयाम् आस तं बालं राज्ञाम् उशनसा कृताम्
ahany ahany athācāryo nītiṃ rājyaphalapradām / grāhayām āsa taṃ bālaṃ rājñām uśanasā kṛtām
- ViP 1.19.27Open verse →
गृहीतनीतिशास्त्रं तं विनीतं स यदा गुरुः । मेने तदैनं तत्पित्रे कथयाम् आस शिक्षितम्
gṛhītanītiśāstraṃ taṃ vinītaṃ sa yadā guruḥ / mene tadainaṃ tatpitre kathayām āsa śikṣitam
- ViP 1.19.28Open verse →
§आचार्य उवाच: गृहीतनीतिशास्त्रस् ते पुत्रो दैत्यपते कृतः । प्रह्लादस् तत्त्वतो वेत्ति भार्गवेण यद् ईरितम्
§ācārya uvāca: gṛhītanītiśāstras te putro daityapate kṛtaḥ / prahlādas tattvato vetti bhārgaveṇa yad īritam
- ViP 1.19.29Open verse →
§हिरण्यकशिपुर् उवाच: मित्रेषु वर्तेत कथम् अरिवर्गेषु भूपतिः । प्रह्लाद त्रिषु कालेषु मध्यस्थेषु कथं चरेत्
§hiraṇyakaśipur uvāca: mitreṣu varteta katham arivargeṣu bhūpatiḥ / prahlāda triṣu kāleṣu madhyastheṣu kathaṃ caret
- ViP 1.19.30Open verse →
कथं मन्त्रिष्व् अमात्येषु बाह्येष्व् आभ्यन्तरेषु च । चारेषु पौरवर्गेषु शङ्कितेष्व् इतरेषु च
kathaṃ mantriṣv amātyeṣu bāhyeṣv ābhyantareṣu ca / cāreṣu pauravargeṣu śaṅkiteṣv itareṣu ca
- ViP 1.19.31Open verse →
कृत्याकृत्यविधानं च दुर्गाटविकसाधनम् । प्रह्लाद कथ्यतां सम्यक् तथा कण्टकशोधनम्
kṛtyākṛtyavidhānaṃ ca durgāṭavikasādhanam / prahlāda kathyatāṃ samyak tathā kaṇṭakaśodhanam
- ViP 1.19.32Open verse →
एतच् चान्यच् च सकलम् अधीतं भवता यथा । तथा मे कथ्यतां ज्ञातुं तवेच्छामि मनोगतम्
etac cānyac ca sakalam adhītaṃ bhavatā yathā / tathā me kathyatāṃ jñātuṃ tavecchāmi manogatam
- ViP 1.19.33Open verse →
§पराशर उवाच: प्रणिपत्य पितुः पादौ ततः प्रश्रयभूषणः । प्रह्लादः प्राह दैत्येन्द्रं कृताञ्जलिपुटः स्थितः
§parāśara uvāca: praṇipatya pituḥ pādau tataḥ praśrayabhūṣaṇaḥ / prahlādaḥ prāha daityendraṃ kṛtāñjalipuṭaḥ sthitaḥ
- ViP 1.19.34Open verse →
§प्रह्लाद उवाच: ममोपदिष्टं सकलं गुरुणा नात्र संशयः । गृहीतं च मया किन्तु न सद् एतन् मतं मम
§prahlāda uvāca: mamopadiṣṭaṃ sakalaṃ guruṇā nātra saṃśayaḥ / gṛhītaṃ ca mayā kintu na sad etan mataṃ mama
- ViP 1.19.35Open verse →
साम चोपप्रदानं च भेददण्डौ तथैव च । उपायाः कथिता ह्य् एते मित्रादीनां च साधने
sāma copapradānaṃ ca bhedadaṇḍau tathaiva ca / upāyāḥ kathitā hy ete mitrādīnāṃ ca sādhane
- ViP 1.19.36Open verse →
तान् एवाहं न पश्यामि मित्रादींस् तात मा क्रुधः । साध्याभावे महाबाहो साधनैः किं प्रयोजनम्
tān evāhaṃ na paśyāmi mitrādīṃs tāta mā krudhaḥ / sādhyābhāve mahābāho sādhanaiḥ kiṃ prayojanam
- ViP 1.19.37Open verse →
सर्वभूतात्मके तात जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथा कुतः
sarvabhūtātmake tāta jagannāthe jaganmaye / paramātmani govinde mitrāmitrakathā kutaḥ
- ViP 1.19.38Open verse →
त्वय्य् अस्ति भगवान् विष्णुर् मयि चान्यत्र चास्ति सः । यतस् ततो ऽयं मित्रं मे शत्रुश् चेति पृथक् कुतः
tvayy asti bhagavān viṣṇur mayi cānyatra cāsti saḥ / yatas tato 'yaṃ mitraṃ me śatruś ceti pṛthak kutaḥ
- ViP 1.19.39Open verse →
तद् एभिर् अलम् अत्यर्थं दुष्टारम्भोक्तिविस्तरैः । अविद्यान्तर्गतैर् यत्नः कर्तव्यस् तात शोभने
tad ebhir alam atyarthaṃ duṣṭārambhoktivistaraiḥ / avidyāntargatair yatnaḥ kartavyas tāta śobhane
- ViP 1.19.40Open verse →
विद्याबुद्धिर् अविद्यायाम् अज्ञानात् तात जायते । बालो ऽग्निं किं न खद्योतम् असुरेश्वर मन्यते
vidyābuddhir avidyāyām ajñānāt tāta jāyate / bālo 'gniṃ kiṃ na khadyotam asureśvara manyate
- ViP 1.19.41Open verse →
तत् कर्म यन् न बन्धाय सा विद्या या विमुक्तये । आयासायापरं कर्म विद्यान्या शिल्पनैपुणम्
tat karma yan na bandhāya sā vidyā yā vimuktaye / āyāsāyāparaṃ karma vidyānyā śilpanaipuṇam
- ViP 1.19.42Open verse →
तद् एतद् अवगम्याहम् असारं साध्यम् उत्तमम् । निशामय महाभाग प्रणिपत्य ब्रवीमि यत्
tad etad avagamyāham asāraṃ sādhyam uttamam / niśāmaya mahābhāga praṇipatya bravīmi yat
- ViP 1.19.43Open verse →
न चिन्तयति को राज्यं को धनं नाभिवाञ्छति । तथापि भाव्यम् एवैतद् उभयं प्राप्यते नरैः
na cintayati ko rājyaṃ ko dhanaṃ nābhivāñchati / tathāpi bhāvyam evaitad ubhayaṃ prāpyate naraiḥ
- ViP 1.19.44Open verse →
सर्व एव महाभाग महत्त्वं प्रति सोद्यमाः । तथापि पुंसां भाग्यानि नोद्यमा भूतिहेतवः
sarva eva mahābhāga mahattvaṃ prati sodyamāḥ / tathāpi puṃsāṃ bhāgyāni nodyamā bhūtihetavaḥ
- ViP 1.19.45Open verse →
जडानाम् अविवेकानाम् अशूराणाम् अपि प्रभो । भाग्यभोज्यानि राज्यानि सन्त्य् अनीतिमताम् अपि
jaḍānām avivekānām aśūrāṇām api prabho / bhāgyabhojyāni rājyāni santy anītimatām api
- ViP 1.19.46Open verse →
तस्माद् यतेत पुण्येषु य इच्छेन् महतीं श्रियम् । यतितव्यं समत्वे च निर्वाणम् अपि चेच्छता
tasmād yateta puṇyeṣu ya icchen mahatīṃ śriyam / yatitavyaṃ samatve ca nirvāṇam api cecchatā
- ViP 1.19.47Open verse →
देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः । रूपम् एतद् अनन्तस्य विष्णोर् भिन्नम् इव स्थितम्
devā manuṣyāḥ paśavaḥ pakṣivṛkṣasarīsṛpāḥ / rūpam etad anantasya viṣṇor bhinnam iva sthitam
- ViP 1.19.48Open verse →
एतद् विजानता सर्वं जगत् स्थावरजङ्गमम् । द्रष्टव्यम् आत्मवद् विष्णुर् यतो ऽयं विश्वरूपधृक्
etad vijānatā sarvaṃ jagat sthāvarajaṅgamam / draṣṭavyam ātmavad viṣṇur yato 'yaṃ viśvarūpadhṛk
- ViP 1.19.49Open verse →
एवं ज्ञाते स भगवान् अनादिः परमेश्वरः । प्रसीदत्य् अच्युतस् तस्मिन् प्रसन्ने क्लेशसंक्षयः
evaṃ jñāte sa bhagavān anādiḥ parameśvaraḥ / prasīdaty acyutas tasmin prasanne kleśasaṃkṣayaḥ
- ViP 1.19.50Open verse →
§पराशर उवाच: एतच् छ्रुत्वा तु कोपेन समुत्थाय वरासनात् । हिरण्यकशिपुः पुत्रं पदा वक्षस्य् अताडयत्
§parāśara uvāca: etac chrutvā tu kopena samutthāya varāsanāt / hiraṇyakaśipuḥ putraṃ padā vakṣasy atāḍayat
- ViP 1.19.51Open verse →
उवाच च स कोपेन सामर्षः प्रज्वलन्न् इव । निष्पिष्य पाणिना पाणिं हन्तुकामो जगद् यथा
uvāca ca sa kopena sāmarṣaḥ prajvalann iva / niṣpiṣya pāṇinā pāṇiṃ hantukāmo jagad yathā
- ViP 1.19.52Open verse →
§हिरण्यकशिपुर् उवाच: हे विप्रचित्ते हे राहो हे बलैष महार्णवे । नागपाशैर् दृढं बद्ध्वा क्षिप्यतां मा विलम्बथ
§hiraṇyakaśipur uvāca: he vipracitte he rāho he balaiṣa mahārṇave / nāgapāśair dṛḍhaṃ baddhvā kṣipyatāṃ mā vilambatha
- ViP 1.19.53Open verse →
अन्यथा सकला लोकास् तथा दैतेयदानवाः । अनुयास्यन्ति मूढस्य मतम् अस्य दुरात्मनः
anyathā sakalā lokās tathā daiteyadānavāḥ / anuyāsyanti mūḍhasya matam asya durātmanaḥ
- ViP 1.19.54Open verse →
बहुशो वारितो ऽस्माभिर् अयं पापस् तथाप्य् अरेः । स्तुतिं करोति दुष्टानां वध एवोपकारकः
bahuśo vārito 'smābhir ayaṃ pāpas tathāpy areḥ / stutiṃ karoti duṣṭānāṃ vadha evopakārakaḥ
- ViP 1.19.55Open verse →
§पराशर उवाच: ततस् ते सत्वरा दैत्या बद्ध्वा तं नागबन्धनैः । भर्तुर् आज्ञां पुरस्कृत्य चिक्षिपुः सलिलार्णवे
§parāśara uvāca: tatas te satvarā daityā baddhvā taṃ nāgabandhanaiḥ / bhartur ājñāṃ puraskṛtya cikṣipuḥ salilārṇave
- ViP 1.19.56Open verse →
ततश् चचाल चलता प्रह्लादेन महार्णवः । उद्वेलो ऽभूत् परं क्षोभम् उपेत्य च समन्ततः
tataś cacāla calatā prahlādena mahārṇavaḥ / udvelo 'bhūt paraṃ kṣobham upetya ca samantataḥ
- ViP 1.19.57Open verse →
भूर्लोकम् अखिलं दृष्ट्वा प्लाव्यमानं महाम्भसा । हिरण्यकशिपुर् दैत्यान् इदम् आह महामुने
bhūrlokam akhilaṃ dṛṣṭvā plāvyamānaṃ mahāmbhasā / hiraṇyakaśipur daityān idam āha mahāmune
- ViP 1.19.58Open verse →
§हिरण्यकशिपुर् उवाच: दैतेयाः सकलैः शैलैर् अत्रैव वरुणालये । निश्छिद्रैः सर्वतः सर्वैश् चीयताम् एष दुर्मतिः
§hiraṇyakaśipur uvāca: daiteyāḥ sakalaiḥ śailair atraiva varuṇālaye / niśchidraiḥ sarvataḥ sarvaiś cīyatām eṣa durmatiḥ
- ViP 1.19.59Open verse →
नाग्निर् दहति नैवायं शस्त्रैश् छिन्नो न चोरगैः । क्षयं नीतो न वातेन न विषेण न कृत्यया
nāgnir dahati naivāyaṃ śastraiś chinno na coragaiḥ / kṣayaṃ nīto na vātena na viṣeṇa na kṛtyayā
- ViP 1.19.60Open verse →
न मायाभिर् न चैवोच्चात् पातितो न च दिग्गजैः । बालो ऽतिदुष्टचित्तो ऽयं नानेनार्थो ऽस्ति जीवता
na māyābhir na caivoccāt pātito na ca diggajaiḥ / bālo 'tiduṣṭacitto 'yaṃ nānenārtho 'sti jīvatā
- ViP 1.19.61Open verse →
तद् एष तोयधाव् अत्र समाक्रान्तो महीधरैः । तिष्ठत्व् अब्दसहस्रान्तं प्राणान् हास्यति दुर्मतिः
tad eṣa toyadhāv atra samākrānto mahīdharaiḥ / tiṣṭhatv abdasahasrāntaṃ prāṇān hāsyati durmatiḥ
- ViP 1.19.62Open verse →
ततो दैत्या दानवाश् च पर्वतैस् तं महोदधौ । आक्रम्य चयनं चक्रुर् योजनानि सहस्रशः
tato daityā dānavāś ca parvatais taṃ mahodadhau / ākramya cayanaṃ cakrur yojanāni sahasraśaḥ
- ViP 1.19.63Open verse →
स चितः पर्वतैर् अन्तः समुद्रस्य महामतिः । तुष्टावाह्निकवेलायाम् एकाग्रमतिर् अच्युतम्
sa citaḥ parvatair antaḥ samudrasya mahāmatiḥ / tuṣṭāvāhnikavelāyām ekāgramatir acyutam
- ViP 1.19.64Open verse →
§प्रह्लाद उवाच: नमस् ते पुण्डरीकाक्ष नमस् ते पुरुषोत्तम । नमस् ते सर्वलोकात्मन् नमस् ते तिग्मचक्रिणे
§prahlāda uvāca: namas te puṇḍarīkākṣa namas te puruṣottama / namas te sarvalokātman namas te tigmacakriṇe
- ViP 1.19.65Open verse →
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः
namo brahmaṇyadevāya gobrāhmaṇahitāya ca / jagaddhitāya kṛṣṇāya govindāya namo namaḥ
- ViP 1.19.66Open verse →
ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः । रुद्ररूपाय कल्पान्ते नमस् तुभ्यं त्रिमूर्तये
brahmatve sṛjate viśvaṃ sthitau pālayate punaḥ / rudrarūpāya kalpānte namas tubhyaṃ trimūrtaye
- ViP 1.19.67Open verse →
देवा यक्षासुराः सिद्धा नागा गन्धर्वकिंनराः । पिशाचा राक्षसाश् चैव मनुष्याः पशवस् तथा
devā yakṣāsurāḥ siddhā nāgā gandharvakiṃnarāḥ / piśācā rākṣasāś caiva manuṣyāḥ paśavas tathā
- ViP 1.19.68Open verse →
पक्षिणः स्थावराश् चैव पिपीलिकसरीसृपाः । भूम्यापो ऽग्निर् नभो वायुः शब्दः स्पर्शस् तथा रसः
pakṣiṇaḥ sthāvarāś caiva pipīlikasarīsṛpāḥ / bhūmyāpo 'gnir nabho vāyuḥ śabdaḥ sparśas tathā rasaḥ
- ViP 1.19.69Open verse →
रूपं गन्धो मनो बुद्धिर् आत्मा कालस् तथा गुणाः । एतेषां परमार्थश् च सर्वम् एतत् त्वम् अच्युत
rūpaṃ gandho mano buddhir ātmā kālas tathā guṇāḥ / eteṣāṃ paramārthaś ca sarvam etat tvam acyuta
- ViP 1.19.70Open verse →
विद्याविद्ये भवान् सत्यम् असत्यं त्वं विषामृते । प्रवृत्तं च निवृत्तं च कर्म वेदोदितं भवान्
vidyāvidye bhavān satyam asatyaṃ tvaṃ viṣāmṛte / pravṛttaṃ ca nivṛttaṃ ca karma vedoditaṃ bhavān
- ViP 1.19.71Open verse →
समस्तकर्मभोक्ता च कर्मोपकरणानि च । त्वम् एव विष्णो सर्वाणि सर्वकर्मफलं च यत्
samastakarmabhoktā ca karmopakaraṇāni ca / tvam eva viṣṇo sarvāṇi sarvakarmaphalaṃ ca yat
- ViP 1.19.72Open verse →
मय्य् अन्यत्र तथाशेषभूतेषु भुवनेषु च । तवैव व्याप्तिर् ऐश्वर्यगुणसंसूचिकी प्रभो
mayy anyatra tathāśeṣabhūteṣu bhuvaneṣu ca / tavaiva vyāptir aiśvaryaguṇasaṃsūcikī prabho
- ViP 1.19.73Open verse →
त्वां योगिनश् चिन्तयन्ति त्वां यजन्ति च यज्विनः । हव्यकव्यभुग् एकस् त्वं पितृदेवस्वरूपधृक्
tvāṃ yoginaś cintayanti tvāṃ yajanti ca yajvinaḥ / havyakavyabhug ekas tvaṃ pitṛdevasvarūpadhṛk
- ViP 1.19.74Open verse →
रूपं महत् ते ऽच्युत यत्र विश्वं यतश् च सूक्ष्मं जगद् एतद् ईश । रूपाणि सूक्ष्माणि च भूतभेदास् तेष्व् अन्तर् आत्माख्यम् अतीव सूक्ष्मम्
rūpaṃ mahat te 'cyuta yatra viśvaṃ yataś ca sūkṣmaṃ jagad etad īśa / rūpāṇi sūkṣmāṇi ca bhūtabhedās teṣv antar ātmākhyam atīva sūkṣmam
- ViP 1.19.75Open verse →
तस्माच् च सूक्ष्मादिविशेषणानाम् अगोचरे यत् परमार्थरूपम् । किम् अप्य् अचिन्त्यं तव रूपम् अस्ति तस्मै नमस् ते पुरुषोत्तमाय
tasmāc ca sūkṣmādiviśeṣaṇānām agocare yat paramārtharūpam / kim apy acintyaṃ tava rūpam asti tasmai namas te puruṣottamāya
- ViP 1.19.76Open verse →
सर्वभूतेषु सर्वात्मन् या शक्तिर् अपरा तव । गुणाश्रया नमस् तस्यै शाश्वतायै सुरेश्वर
sarvabhūteṣu sarvātman yā śaktir aparā tava / guṇāśrayā namas tasyai śāśvatāyai sureśvara
- ViP 1.19.77Open verse →
यातीतगोचरा वाचां मनसां चाविशेषणा । ज्ञानिज्ञानपरिच्छेद्या तां वन्दे चेश्वरीं पराम्
yātītagocarā vācāṃ manasāṃ cāviśeṣaṇā / jñānijñānaparicchedyā tāṃ vande ceśvarīṃ parām
- ViP 1.19.78Open verse →
ॐ नमो वासुदेवाय तस्मै भगवते सदा । व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तो ऽखिलस्य यः
oṃ namo vāsudevāya tasmai bhagavate sadā / vyatiriktaṃ na yasyāsti vyatirikto 'khilasya yaḥ
- ViP 1.19.79Open verse →
नमस् तस्मै नमस् तस्मै नमस् तस्मै महात्मने । नामरूपं न यस्यैको यो ऽस्तित्वेनोपलभ्यते
namas tasmai namas tasmai namas tasmai mahātmane / nāmarūpaṃ na yasyaiko yo 'stitvenopalabhyate
- ViP 1.19.80Open verse →
यस्यावताररूपाणि समर्चन्ति दिवौकसः । अपश्यन्तः परं रूपं नमस् तस्मै महात्मने
yasyāvatārarūpāṇi samarcanti divaukasaḥ / apaśyantaḥ paraṃ rūpaṃ namas tasmai mahātmane
- ViP 1.19.81Open verse →
यो ऽन्तस् तिष्ठन्न् अशेषस्य पश्यतीशः शुभाशुभम् । तं सर्वसाक्षिणं विष्णुं नमस्ये परमेश्वरम्
yo 'ntas tiṣṭhann aśeṣasya paśyatīśaḥ śubhāśubham / taṃ sarvasākṣiṇaṃ viṣṇuṃ namasye parameśvaram
- ViP 1.19.82Open verse →
नमो ऽस्तु विष्णवे तस्मै यस्याभिन्नम् इदं जगत् । ध्येयः स जगताम् आद्यः स प्रसीदतु मे ऽव्ययः
namo 'stu viṣṇave tasmai yasyābhinnam idaṃ jagat / dhyeyaḥ sa jagatām ādyaḥ sa prasīdatu me 'vyayaḥ
- ViP 1.19.83Open verse →
यत्रोतम् एतत् प्रोतं च विश्वम् अक्षरसंज्ञके । आधारभूतः सर्वस्य स प्रसीदतु मे हरिः
yatrotam etat protaṃ ca viśvam akṣarasaṃjñake / ādhārabhūtaḥ sarvasya sa prasīdatu me hariḥ
- ViP 1.19.84Open verse →
ॐ नमो विष्णवे तस्मै नमस् तस्मै पुनः पुनः । यत्र सर्वं यतः सर्वं यः सर्वं सर्वतश् च यः
oṃ namo viṣṇave tasmai namas tasmai punaḥ punaḥ / yatra sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataś ca yaḥ
- ViP 1.19.85Open verse →
सर्वगत्वाद् अनन्तस्य स एवाहम् अवस्थितः । मत्तः सर्वम् अहं सर्वं मयि सर्वं सनातने
sarvagatvād anantasya sa evāham avasthitaḥ / mattaḥ sarvam ahaṃ sarvaṃ mayi sarvaṃ sanātane
- ViP 1.19.86Open verse →
अहम् एवाक्षयो नित्यः परमात्मात्मसंश्रयः । ब्रह्मसंज्ञो ऽहम् एवाग्रे तथान्ते च परः पुमान्
aham evākṣayo nityaḥ paramātmātmasaṃśrayaḥ / brahmasaṃjño 'ham evāgre tathānte ca paraḥ pumān
- ViP 1.20.1Open verse →
______________________________________________________ §पराशर उवाच: एवं संचिन्तयन् विष्णुम् अभेदेनात्मनो द्विज । तन्मयत्वम् अवापाग्र्यं मेने चात्मानम् अच्युतम्
______________________________________________________ §parāśara uvāca: evaṃ saṃcintayan viṣṇum abhedenātmano dvija / tanmayatvam avāpāgryaṃ mene cātmānam acyutam
- ViP 1.20.2Open verse →
विसस्मार तथात्मानं नान्यत् किंचिद् अजानत । अहम् एवाव्ययो ऽनन्तः परमात्मेत्य् अचिन्तयत्
visasmāra tathātmānaṃ nānyat kiṃcid ajānata / aham evāvyayo 'nantaḥ paramātmety acintayat
- ViP 1.20.3Open verse →
तस्य तद्भावनायोगात् क्षीणपापस्य वै क्रमात् । शुद्धे ऽन्तःकरणे विष्णुस् तस्थौ ज्ञानमयो ऽच्युतः
tasya tadbhāvanāyogāt kṣīṇapāpasya vai kramāt / śuddhe 'ntaḥkaraṇe viṣṇus tasthau jñānamayo 'cyutaḥ
- ViP 1.20.4Open verse →
योगप्रभावात् प्रह्लादे जाते विष्णुमये ऽसुरे । चलत्य् उरगबन्धैस् तैर् मैत्रेय त्रुटितं क्षणात्
yogaprabhāvāt prahlāde jāte viṣṇumaye 'sure / calaty uragabandhais tair maitreya truṭitaṃ kṣaṇāt
- ViP 1.20.5Open verse →
भ्रान्तग्राहगणः सोर्मिर् ययौ क्षोभं महार्णवः । चचाल च मही सर्वा सशैलवनकानना
bhrāntagrāhagaṇaḥ sormir yayau kṣobhaṃ mahārṇavaḥ / cacāla ca mahī sarvā saśailavanakānanā
- ViP 1.20.6Open verse →
स च तं शैलसंघातं दैत्यैर् न्यस्तम् अथोपरि । प्रक्षिप्य तस्मात् सलिलान् निश्चक्राम महामतिः
sa ca taṃ śailasaṃghātaṃ daityair nyastam athopari / prakṣipya tasmāt salilān niścakrāma mahāmatiḥ
- ViP 1.20.7Open verse →
दृष्ट्वा च स जगद् भूयो गगनाद्युपलक्षणम् । प्रह्लादो ऽस्मीति सस्मार पुनर् आत्मानम् आत्मना
dṛṣṭvā ca sa jagad bhūyo gaganādyupalakṣaṇam / prahlādo 'smīti sasmāra punar ātmānam ātmanā
- ViP 1.20.8Open verse →
तुष्टाव च पुनर् धीमान् अनादिं पुरुषोत्तमम् । एकाग्रमतिर् अव्यग्रो यतवाक्कायमानसः
tuṣṭāva ca punar dhīmān anādiṃ puruṣottamam / ekāgramatir avyagro yatavākkāyamānasaḥ
- ViP 1.20.9Open verse →
§प्रह्लाद उवाच: ॐ नमः परमार्थार्थ स्थूलसूक्ष्म क्षराक्षर । व्यक्ताव्यक्त कलातीत सकलेश निरञ्जन
§prahlāda uvāca: oṃ namaḥ paramārthārtha sthūlasūkṣma kṣarākṣara / vyaktāvyakta kalātīta sakaleśa nirañjana
- ViP 1.20.10Open verse →
गुणाञ्जन गुणाधार निर्गुणात्मन् गुणस्थित । मूर्तामूर्त महामूर्ते सूक्ष्ममूर्ते स्फुटास्फुट
guṇāñjana guṇādhāra nirguṇātman guṇasthita / mūrtāmūrta mahāmūrte sūkṣmamūrte sphuṭāsphuṭa
- ViP 1.20.11Open verse →
करालसौम्यरूपात्मन् विद्याविद्यामयाच्युत । सदसद्रूपसद्भाव सदसद्भावभावन
karālasaumyarūpātman vidyāvidyāmayācyuta / sadasadrūpasadbhāva sadasadbhāvabhāvana
- ViP 1.20.12Open verse →
नित्यानित्य प्रपञ्चात्मन् निष्प्रपञ्चामलाश्रय । एकानेक नमस् तुभ्यं वासुदेवादिकारण
nityānitya prapañcātman niṣprapañcāmalāśraya / ekāneka namas tubhyaṃ vāsudevādikāraṇa
- ViP 1.20.13Open verse →
यः स्थूलसूक्ष्मः प्रकटप्रकाशो यः सर्वभूतो न च सर्वभूतः । विश्वं यतश् चैतद् अविश्वहेतोर् नमो ऽस्तु तस्मै पुरुषोत्तमाय
yaḥ sthūlasūkṣmaḥ prakaṭaprakāśo yaḥ sarvabhūto na ca sarvabhūtaḥ / viśvaṃ yataś caitad aviśvahetor namo 'stu tasmai puruṣottamāya
- ViP 1.20.14Open verse →
§पराशर उवाच: तस्य तच्चेतसो देवः स्तुतिम् इत्थं प्रकुर्वतः । आविर्बभूव भगवान् पीताम्बरधरो हरिः
§parāśara uvāca: tasya taccetaso devaḥ stutim itthaṃ prakurvataḥ / āvirbabhūva bhagavān pītāmbaradharo hariḥ
- ViP 1.20.15Open verse →
ससंभ्रमस् तम् आलोक्य समुत्थायाकुलाक्षरम् । नमो ऽस्तु विष्णवैत्य् एतद् व्याजहारासकृद् द्विज
sasaṃbhramas tam ālokya samutthāyākulākṣaram / namo 'stu viṣṇavaity etad vyājahārāsakṛd dvija
- ViP 1.20.16Open verse →
§प्रह्लाद उवाच: देव प्रपन्नार्तिहर प्रसादं कुरु केशव । अवलोकनदानेन भूयो मां पावयाव्यय
§prahlāda uvāca: deva prapannārtihara prasādaṃ kuru keśava / avalokanadānena bhūyo māṃ pāvayāvyaya
- ViP 1.20.17Open verse →
§श्रीभगवान् उवाच: कुर्वतस् ते प्रसन्नो ऽहं भक्तिम् अव्यभिचारिणीम् । यथाभिलषितो मत्तः प्रह्लाद व्रियतां वरः
§śrībhagavān uvāca: kurvatas te prasanno 'haṃ bhaktim avyabhicāriṇīm / yathābhilaṣito mattaḥ prahlāda vriyatāṃ varaḥ
- ViP 1.20.18Open verse →
§प्रह्लाद उवाच: नाथ योनिसहस्रेषु येषु येषु व्रजाम्य् अहम् । तेषु तेष्व् अच्युता भक्तिर् अच्युतास्तु सदा त्वयि
§prahlāda uvāca: nātha yonisahasreṣu yeṣu yeṣu vrajāmy aham / teṣu teṣv acyutā bhaktir acyutāstu sadā tvayi
- ViP 1.20.19Open verse →
या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी । त्वाम् अनुस्मरतः सा मे हृदयान् मापसर्पतु
yā prītir avivekānāṃ viṣayeṣv anapāyinī / tvām anusmarataḥ sā me hṛdayān māpasarpatu
- ViP 1.20.20Open verse →
§श्रीभगवान् उवाच: मयि भक्तिस् तवास्त्य् एव भूयो ऽप्य् एवं भविष्यति । वरश् च मत्तः प्रह्लाद व्रियतां यस् तवेप्सितः
§śrībhagavān uvāca: mayi bhaktis tavāsty eva bhūyo 'py evaṃ bhaviṣyati / varaś ca mattaḥ prahlāda vriyatāṃ yas tavepsitaḥ
- ViP 1.20.21Open verse →
§प्रह्लाद उवाच: मयि द्वेषानुबन्धो ऽभूत् संस्तुताव् उद्यते तव । मत्पितुस् तत्कृतं पापं देव तस्य प्रणश्यतु
§prahlāda uvāca: mayi dveṣānubandho 'bhūt saṃstutāv udyate tava / matpitus tatkṛtaṃ pāpaṃ deva tasya praṇaśyatu
- ViP 1.20.22Open verse →
शस्त्राणि पातितान्य् अङ्गे क्षिप्तो यच् चाग्निसंहतौ । दंशितश् चोरगैर् दत्तं यद् विषं मम भोजने
śastrāṇi pātitāny aṅge kṣipto yac cāgnisaṃhatau / daṃśitaś coragair dattaṃ yad viṣaṃ mama bhojane
- ViP 1.20.23Open verse →
बद्ध्वा समुद्रे यत् क्षिप्तो यच् चितो ऽस्मि शिलोच्चयैः । अन्यानि चाप्य् असाधूनि यानि पित्रा कृतानि मे
baddhvā samudre yat kṣipto yac cito 'smi śiloccayaiḥ / anyāni cāpy asādhūni yāni pitrā kṛtāni me
- ViP 1.20.24Open verse →
त्वयि भक्तिमतो द्वेषाद् अघं तत्संभवं च यत् । त्वत्प्रसादात् प्रभो सद्यस् तेन मुच्येत मे पिता
tvayi bhaktimato dveṣād aghaṃ tatsaṃbhavaṃ ca yat / tvatprasādāt prabho sadyas tena mucyeta me pitā
- ViP 1.20.25Open verse →
§श्रीभगवान् उवाच: प्रह्लाद सर्वम् एतत् ते मत्प्रसादाद् भविष्यति । अन्यं च ते वरं दद्मि व्रियताम् असुरात्मज
§śrībhagavān uvāca: prahlāda sarvam etat te matprasādād bhaviṣyati / anyaṃ ca te varaṃ dadmi vriyatām asurātmaja
- ViP 1.20.26Open verse →
§प्रह्लाद उवाच: कृतकृत्यो ऽस्मि भगवन् वरेणानेन यत् त्वयि । भवित्री त्वत्प्रसादेन भक्तिर् अव्यभिचारिणी
§prahlāda uvāca: kṛtakṛtyo 'smi bhagavan vareṇānena yat tvayi / bhavitrī tvatprasādena bhaktir avyabhicāriṇī
- ViP 1.20.27Open verse →
धर्मार्थकामैः किं तस्य मुक्तिस् तस्य करे स्थिता । समस्तजगतां मूले यस्य भक्तिः स्थिरा त्वयि
dharmārthakāmaiḥ kiṃ tasya muktis tasya kare sthitā / samastajagatāṃ mūle yasya bhaktiḥ sthirā tvayi
- ViP 1.20.28Open verse →
§श्रीभगवान् उवाच: यथा ते निश्चलं चेतो मयि भक्तिसमन्वितम् । तथा त्वं मत्प्रसादेन निर्वाणं परम् आप्स्यसि
§śrībhagavān uvāca: yathā te niścalaṃ ceto mayi bhaktisamanvitam / tathā tvaṃ matprasādena nirvāṇaṃ param āpsyasi
- ViP 1.20.29Open verse →
§पराशर उवाच: इत्य् उक्त्वान्तर्दधे विष्णुस् तस्य मैत्रेय पश्यतः । स चापि पुनर् आगम्य ववन्दे चरणौ पितुः
§parāśara uvāca: ity uktvāntardadhe viṣṇus tasya maitreya paśyataḥ / sa cāpi punar āgamya vavande caraṇau pituḥ
- ViP 1.20.30Open verse →
तं पिता मूर्ध्न्य् उपाघ्राय परिष्वज्य च पीडितम् । जीवसीत्य् आह वत्सेति बाष्पार्द्रनयनो द्विज
taṃ pitā mūrdhny upāghrāya pariṣvajya ca pīḍitam / jīvasīty āha vatseti bāṣpārdranayano dvija
- ViP 1.20.31Open verse →
प्रीतिमांश् चाभवत् तस्मिन्न् अनुतापी महासुरः । गुरुपित्रोश् चकारैवं शुश्रूषां सो ऽपि धर्मवित्
prītimāṃś cābhavat tasminn anutāpī mahāsuraḥ / gurupitroś cakāraivaṃ śuśrūṣāṃ so 'pi dharmavit
- ViP 1.20.32Open verse →
पितर्य् उपरतिं नीते नरसिंहस्वरूपिणा । विष्णुना सो ऽपि दैत्यानां मैत्रेयाभूत् पतिस् ततः
pitary uparatiṃ nīte narasiṃhasvarūpiṇā / viṣṇunā so 'pi daityānāṃ maitreyābhūt patis tataḥ
- ViP 1.20.33Open verse →
तद्राज्यभूतिं संप्राप्य कर्मशुद्धिकरीं द्विज । पुत्रपौत्रांश् च सुबहून् अवाप्यैश्वर्यम् एव च
tadrājyabhūtiṃ saṃprāpya karmaśuddhikarīṃ dvija / putrapautrāṃś ca subahūn avāpyaiśvaryam eva ca
- ViP 1.20.34Open verse →
क्षीणाधिकारः स यदा पुण्यपापविवर्जितः । तदासौ भगवद्ध्यानात् परं निर्वाणम् आप्तवान्
kṣīṇādhikāraḥ sa yadā puṇyapāpavivarjitaḥ / tadāsau bhagavaddhyānāt paraṃ nirvāṇam āptavān
- ViP 1.20.35Open verse →
एवंप्रभावो दैत्यो ऽसौ मैत्रेयासीन् महामतिः । प्रह्लादो भगवद्भक्तो यं त्वं माम् अनुपृच्छसि
evaṃprabhāvo daityo 'sau maitreyāsīn mahāmatiḥ / prahlādo bhagavadbhakto yaṃ tvaṃ mām anupṛcchasi
- ViP 1.20.36Open verse →
यस् त्व् एतच् चरितं तस्य प्रह्लादस्य महात्मनः । शृणोति तस्य पापानि सद्यो गच्छन्ति संक्षयम्
yas tv etac caritaṃ tasya prahlādasya mahātmanaḥ / śṛṇoti tasya pāpāni sadyo gacchanti saṃkṣayam
- ViP 1.20.37Open verse →
अहोरात्रकृतं पापं प्रह्लादचरितं नरः । शृण्वन् पठंश् च मैत्रेय व्यपोहति न संशयः
ahorātrakṛtaṃ pāpaṃ prahlādacaritaṃ naraḥ / śṛṇvan paṭhaṃś ca maitreya vyapohati na saṃśayaḥ
- ViP 1.20.38Open verse →
पौर्णमास्याम् अमावास्याम् अष्टम्याम् अथ वा पठन् । द्वादश्यां वा तद् आप्नोति गोप्रदानफलं द्विज
paurṇamāsyām amāvāsyām aṣṭamyām atha vā paṭhan / dvādaśyāṃ vā tad āpnoti gopradānaphalaṃ dvija
- ViP 1.20.39Open verse →
प्रह्लादं सकलापत्सु यथा रक्षितवान् हरिः । तथा रक्षति यस् तस्य शृणोति चरितं सदा
prahlādaṃ sakalāpatsu yathā rakṣitavān hariḥ / tathā rakṣati yas tasya śṛṇoti caritaṃ sadā
- ViP 1.21.1Open verse →
द्७ इन्स्।: ______________________________________________________ §पराशर उवाच: संह्लादपुत्र आयुष्माञ् शिबिर् बाष्कल एव च । विरोचनस् तु प्राह्लादिर् बलिर् जज्ञे विरोचनात्
D7 ins.: ______________________________________________________ §parāśara uvāca: saṃhlādaputra āyuṣmāñ śibir bāṣkala eva ca / virocanas tu prāhlādir balir jajñe virocanāt
- ViP 1.21.2Open verse →
बलेः पुत्रशतं त्व् आसीद् बाणज्येष्ठं महामुने । हिरण्याक्षसुताश् चासन् सर्व एव महाबलाः
baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ mahāmune / hiraṇyākṣasutāś cāsan sarva eva mahābalāḥ
- ViP 1.21.3Open verse →
झर्झरः शकुनिश् चैव भूतसंतापनस् तथा । महानाभो महाबाहुः कालनाभस् तथापरः
jharjharaḥ śakuniś caiva bhūtasaṃtāpanas tathā / mahānābho mahābāhuḥ kālanābhas tathāparaḥ
- ViP 1.21.4Open verse →
अभवन् दनुपुत्राश् च द्विमूर्धा शंकरस् तथा । अयोमुखः शङ्कुशिराः कपिलः शम्बरस् तथा
abhavan danuputrāś ca dvimūrdhā śaṃkaras tathā / ayomukhaḥ śaṅkuśirāḥ kapilaḥ śambaras tathā
- ViP 1.21.5Open verse →
एकचक्रो महाबाहुस् तारकश् च महाबलः । स्वर्भानुर् वृषपर्वा च पुलोमा च महाबलः
ekacakro mahābāhus tārakaś ca mahābalaḥ / svarbhānur vṛṣaparvā ca pulomā ca mahābalaḥ
- ViP 1.21.6Open verse →
एते दनोः सुताः ख्याता विप्रचित्तिश् च वीर्यवान्
ete danoḥ sutāḥ khyātā vipracittiś ca vīryavān
- ViP 1.21.7Open verse →
स्वर्भानोस् तु प्रभा कन्या शर्मिष्ठा वार्षपर्वणी । उपदानवी हयशिराः प्रख्याता वरकन्यकाः
svarbhānos tu prabhā kanyā śarmiṣṭhā vārṣaparvaṇī / upadānavī hayaśirāḥ prakhyātā varakanyakāḥ
- ViP 1.21.8Open verse →
वैश्वानरसुते चोभे पुलोमा कालका तथा । उभे ते तु महाभागे मारीचेस् तु परिग्रहः
vaiśvānarasute cobhe pulomā kālakā tathā / ubhe te tu mahābhāge mārīces tu parigrahaḥ
- ViP 1.21.9Open verse →
ताभ्यां पुत्रसहस्राणि षष्टिर् दानवसत्तमाः । पौलोमाः कालकेयाश् च मारीचतनयाः स्मृताः
tābhyāṃ putrasahasrāṇi ṣaṣṭir dānavasattamāḥ / paulomāḥ kālakeyāś ca mārīcatanayāḥ smṛtāḥ
- ViP 1.21.10Open verse →
ततो ऽपरे महावीर्या दारुणास् त्व् अतिनिर्घृणाः । सिंहिकायाम् अथोत्पन्ना विप्रचित्तेः सुतास् तथा
tato 'pare mahāvīryā dāruṇās tv atinirghṛṇāḥ / siṃhikāyām athotpannā vipracitteḥ sutās tathā
- ViP 1.21.11Open verse →
त्र्यंशः शल्यश् च बलवान् नभश् चैव महाबलः । वातापिर् नमुचिश् चैव इल्वलः खसृमस् तथा
tryaṃśaḥ śalyaś ca balavān nabhaś caiva mahābalaḥ / vātāpir namuciś caiva ilvalaḥ khasṛmas tathā
- ViP 1.21.12Open verse →
अन्धको नरकश् चैव कालनाभस् तथैव च । स्वर्भानुश् च महावीर्यो वक्त्रयोधी महासुरः
andhako narakaś caiva kālanābhas tathaiva ca / svarbhānuś ca mahāvīryo vaktrayodhī mahāsuraḥ
- ViP 1.21.13Open verse →
एते वै दानवश्रेष्ठा दनुवंशविवर्धनाः । एतेषां पुत्रपौत्राश् च शतशो ऽथ सहस्रशः
ete vai dānavaśreṣṭhā danuvaṃśavivardhanāḥ / eteṣāṃ putrapautrāś ca śataśo 'tha sahasraśaḥ
- ViP 1.21.14Open verse →
प्रह्लादस्य तु दैत्यस्य निवातकवचाः कुले । समुत्पन्नाः सुमहता तपसा भावितात्मनः
prahlādasya tu daityasya nivātakavacāḥ kule / samutpannāḥ sumahatā tapasā bhāvitātmanaḥ
- ViP 1.21.15Open verse →
षट् सुताः सुमहासत्त्वास् ताम्रायाः परिकीर्तिताः । शुकी श्येनी च भासी च सुग्रीवी शुचिगृध्रिका
ṣaṭ sutāḥ sumahāsattvās tāmrāyāḥ parikīrtitāḥ / śukī śyenī ca bhāsī ca sugrīvī śucigṛdhrikā
- ViP 1.21.16Open verse →
शुकी शुकान् अजनयद् उलूकी प्रत्युलूककान् । श्येनी श्येनांस् तथा भासी भासान् गृद्ध्रांश् च गृद्ध्र्य् अपि
śukī śukān ajanayad ulūkī pratyulūkakān / śyenī śyenāṃs tathā bhāsī bhāsān gṛddhrāṃś ca gṛddhry api
- ViP 1.21.17Open verse →
शुच्य् औदकान् पक्षिगणान् सुग्रीवी तु व्यजायत । अश्वान् उष्ट्रान् गर्दभांश् च ताम्रावंशाः प्रकीर्तिताः
śucy audakān pakṣigaṇān sugrīvī tu vyajāyata / aśvān uṣṭrān gardabhāṃś ca tāmrāvaṃśāḥ prakīrtitāḥ
- ViP 1.21.18Open verse →
विनतायास् तु द्वौ पुत्रौ विख्यातौ गरुडारुणौ । सुपर्णः पततां श्रेष्ठो दारुणः पन्नगाशनः
vinatāyās tu dvau putrau vikhyātau garuḍāruṇau / suparṇaḥ patatāṃ śreṣṭho dāruṇaḥ pannagāśanaḥ
- ViP 1.21.19Open verse →
सुरसायाः सहस्रं तु सर्पाणाम् अमितौजसाम् । अनेकशिरसां ब्रह्मन् खेचराणां महात्मनाम्
surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām / anekaśirasāṃ brahman khecarāṇāṃ mahātmanām
- ViP 1.21.20Open verse →
काद्रवेयास् तु बलिनः सहस्रम् अमितौजसः । सुपर्णवशगा ब्रह्मञ् जज्ञिरे नैकमस्तकाः
kādraveyās tu balinaḥ sahasram amitaujasaḥ / suparṇavaśagā brahmañ jajñire naikamastakāḥ
- ViP 1.21.21Open verse →
तेषां प्रधानभूतास् ते शेषवासुकितक्षकाः । शङ्खश्वेतो महापद्मः कम्बलाश्वतराव् उभौ
teṣāṃ pradhānabhūtās te śeṣavāsukitakṣakāḥ / śaṅkhaśveto mahāpadmaḥ kambalāśvatarāv ubhau
- ViP 1.21.22Open verse →
एलापुत्रस् तथा नागः कर्कोटकधनंजयौ । एते चान्ये च बहवो दन्दशूका विषोल्बणाः
elāputras tathā nāgaḥ karkoṭakadhanaṃjayau / ete cānye ca bahavo dandaśūkā viṣolbaṇāḥ
- ViP 1.21.23Open verse →
गणं क्रोधवशं विद्धि ते च सर्वे च दंष्ट्रिणः । स्थलजाः पक्षिणो ऽब्जाश् च दारुणाः पिशिताशनाः
gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ / sthalajāḥ pakṣiṇo 'bjāś ca dāruṇāḥ piśitāśanāḥ
- ViP 1.21.24Open verse →
श्,द्१।७,एद्। वेङ्क्। इन्स्।: गास् तु वै जनयाम् आस सुरभिर् महिषीस् तथा । इरावृक्षलतावल्लीस् तृणजातीश् च सर्वशः
Ś,D1.7,ed. Veṅk. ins.: gās tu vai janayām āsa surabhir mahiṣīs tathā / irāvṛkṣalatāvallīs tṛṇajātīś ca sarvaśaḥ
- ViP 1.21.25Open verse →
खषा तु यक्षरक्षांसि मुनिर् अप्सरसस् तथा । अरिष्टा तु महासत्त्वान् गन्धर्वान् समजीजनत्
khaṣā tu yakṣarakṣāṃsi munir apsarasas tathā / ariṣṭā tu mahāsattvān gandharvān samajījanat
- ViP 1.21.26Open verse →
एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः । तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः
ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ / teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ
- ViP 1.21.27Open verse →
एष मन्वन्तरे सर्गो ब्रह्मन् स्वारोचिषे स्मृतः । वैवस्वते च महति वारुणे वितते क्रतौ
eṣa manvantare sargo brahman svārociṣe smṛtaḥ / vaivasvate ca mahati vāruṇe vitate kratau
- ViP 1.21.28Open verse →
जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते । पूर्वं यत्र तु सप्तर्षीन् उत्पन्नान् सप्त मानसान्
juhvānasya brahmaṇo vai prajāsarga ihocyate / pūrvaṃ yatra tu saptarṣīn utpannān sapta mānasān
- ViP 1.21.29Open verse →
पुत्रत्वे कल्पयाम् आस स्वयम् एव पितामहः । गन्धर्वभोगिदेवानां दानवानां च सत्तम
putratve kalpayām āsa svayam eva pitāmahaḥ / gandharvabhogidevānāṃ dānavānāṃ ca sattama
- ViP 1.21.30Open verse →
दितिर् विनष्टपुत्रा वै तोषयाम् आस कश्यपम् । तया चाराधितः सम्यक् कश्यपस् तपतां वरः
ditir vinaṣṭaputrā vai toṣayām āsa kaśyapam / tayā cārādhitaḥ samyak kaśyapas tapatāṃ varaḥ
- ViP 1.21.31Open verse →
वरेण छन्दयाम् आस सा च वव्रे ततो वरम् । पुत्रम् इन्द्रवधार्थाय समर्थम् अमितौजसम्
vareṇa chandayām āsa sā ca vavre tato varam / putram indravadhārthāya samartham amitaujasam
- ViP 1.21.32Open verse →
स च तस्यै वरं प्रादाद् भार्यायै मुनिसत्तमः । दत्त्वा च वरम् अव्यग्रः कश्यपस् ताम् उवाच ह
sa ca tasyai varaṃ prādād bhāryāyai munisattamaḥ / dattvā ca varam avyagraḥ kaśyapas tām uvāca ha
- ViP 1.21.34Open verse →
शक्रं पुत्रो निहन्ता ते यदि गर्भं शरच्छतम् ॥ विप्_१,२१।३३अब् ॥ द्७ इन्स्।: संध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि ॥ विप्_१,२१।३३अब्*६०:१ ॥ न स्थातव्यं न भोक्तव्यं वृक्षमूलेषु सर्वदा ॥ विप्_१,२१।३३अब्*६०:२ ॥ समाहितातिप्रयता शुचिनी धारयिष्यसि ॥ विप्_१,२१।३३च्द् ॥ इत्य् एवम् उक्त्वा तां देवीं स गतः कश्यपो मुनिः । दधार सा च तं गर्भं सम्यक् छौचसमन्विता
śakraṃ putro nihantā te yadi garbhaṃ śaracchatam // ViP_1,21.33ab // D7 ins.: saṃdhyāyāṃ naiva bhoktavyaṃ garbhiṇyā varavarṇini // ViP_1,21.33ab*60:1 // na sthātavyaṃ na bhoktavyaṃ vṛkṣamūleṣu sarvadā // ViP_1,21.33ab*60:2 // samāhitātiprayatā śucinī dhārayiṣyasi // ViP_1,21.33cd // ity evam uktvā tāṃ devīṃ sa gataḥ kaśyapo muniḥ / dadhāra sā ca taṃ garbhaṃ samyak chaucasamanvitā
- ViP 1.21.35Open verse →
गर्भम् आत्मवधार्थाय ज्ञात्वा तं मघवान् अपि । शुश्रूषुस् ताम् अथागच्छद् विनयाद् अमराधिपः
garbham ātmavadhārthāya jñātvā taṃ maghavān api / śuśrūṣus tām athāgacchad vinayād amarādhipaḥ
- ViP 1.21.36Open verse →
तस्याश् चैवान्तरप्रेप्सुर् अतिष्ठत् पाकशासनः । ऊने वर्षशते चास्या ददर्शान्तरम् आत्मवान्
tasyāś caivāntaraprepsur atiṣṭhat pākaśāsanaḥ / ūne varṣaśate cāsyā dadarśāntaram ātmavān
- ViP 1.21.37Open verse →
अकृत्वा पादयोः शौचं दितिः शयनम् आविशत् । निद्राम् आहारयाम् आस तस्याः कुक्षिं प्रविश्य सः
akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat / nidrām āhārayām āsa tasyāḥ kukṣiṃ praviśya saḥ
- ViP 1.21.38Open verse →
वज्रपाणिर् महागर्भं तं चिच्छेदाथ सप्तधा । स पाट्यमानो वज्रेण प्ररुरोदातिदारुणम्
vajrapāṇir mahāgarbhaṃ taṃ cicchedātha saptadhā / sa pāṭyamāno vajreṇa prarurodātidāruṇam
- ViP 1.21.39Open verse →
मा रोदीर् इति तं शक्रः पुनः पुनर् अभाषत । सो ऽभवत् सप्तधा गर्भस् तम् इन्द्रः कुपितः पुनः
mā rodīr iti taṃ śakraḥ punaḥ punar abhāṣata / so 'bhavat saptadhā garbhas tam indraḥ kupitaḥ punaḥ
- ViP 1.21.40Open verse →
एकैकं सप्तधा चक्रे वज्रेणारिविदारिणा । मरुतो नाम देवास् ते बभूवुर् अतिवेगिनः
ekaikaṃ saptadhā cakre vajreṇārividāriṇā / maruto nāma devās te babhūvur ativeginaḥ
- ViP 1.21.41Open verse →
यद् उक्तं वै मघवता तेनैव मरुतो ऽभवन् । देवा एकोनपञ्चाशत् सहाया वज्रपाणिनः
yad uktaṃ vai maghavatā tenaiva maruto 'bhavan / devā ekonapañcāśat sahāyā vajrapāṇinaḥ
- ViP 1.22.1Open verse →
______________________________________________________ §पराशर उवाच: यदाभिषिक्तः स पृथुः पूर्वं राज्ये महर्षिभिः । ततः क्रमेण राज्यानि ददौ लोकपितामहः
______________________________________________________ §parāśara uvāca: yadābhiṣiktaḥ sa pṛthuḥ pūrvaṃ rājye maharṣibhiḥ / tataḥ krameṇa rājyāni dadau lokapitāmahaḥ
- ViP 1.22.2Open verse →
नक्षत्रग्रहविप्राणां वीरुधां चाप्य् अशेषतः । सोमं राज्ये ऽदधद् ब्रह्मा यज्ञानां तपसाम् अपि
nakṣatragrahaviprāṇāṃ vīrudhāṃ cāpy aśeṣataḥ / somaṃ rājye 'dadhad brahmā yajñānāṃ tapasām api
- ViP 1.22.3Open verse →
राज्ञां वैश्रवणं राज्ये जलानां वरुणं तथा । आदित्यानां पतिं विष्णुं वसूनाम् अथ पावकम्
rājñāṃ vaiśravaṇaṃ rājye jalānāṃ varuṇaṃ tathā / ādityānāṃ patiṃ viṣṇuṃ vasūnām atha pāvakam
- ViP 1.22.4Open verse →
प्रजापतीनां दक्षं तु वासवं मरुताम् अपि । दैत्यानां दानवानां च प्रह्लादम् अधिपं ददौ
prajāpatīnāṃ dakṣaṃ tu vāsavaṃ marutām api / daityānāṃ dānavānāṃ ca prahlādam adhipaṃ dadau
- ViP 1.22.5Open verse →
द्७ इन्स्।: पितॄणां धर्मराजानं यमं राज्ये ऽभ्यषेचयत् । ऐरावतं गजेन्द्राणाम् अशेषाणां पतिं ददौ
D7 ins.: pitṝṇāṃ dharmarājānaṃ yamaṃ rājye 'bhyaṣecayat / airāvataṃ gajendrāṇām aśeṣāṇāṃ patiṃ dadau
- ViP 1.22.6Open verse →
पतत्रिणां च गरुडं देवानाम् अपि वासवम् । उच्चैःश्रवसम् अश्वानां वृषभं तु गवाम् अपि
patatriṇāṃ ca garuḍaṃ devānām api vāsavam / uccaiḥśravasam aśvānāṃ vṛṣabhaṃ tu gavām api
- ViP 1.22.8Open verse →
अफ़्तेर् ६, द्३,त्२।३,म्०,ग्३, एद्। इन्स्।; wहिले ग्३ इन्स्। ल्।१ ओफ़् *६३ अन्द् थे मर्ग्। चोन्त्।: शेषं तु नागराजानं मृगाणां सिंहम् ईश्वरम् ॥ विप्_१,२२।७अब् ॥ फ़ोर् ७अब्, द्४,ग्१।२ सुब्स्त्। wहिले ग्३ इन्स्। ल्१ अफ़्तेर् ६ अन्द् ल्२ बेफ़ोरे ७च्द्, म्० इन्स्। ल्२ ओन्ल्य् अफ़्तेर् ७अब्, म्३।४ सुब्स्त्। ल्१ ओन्ल्य् फ़ोर् ७अब्: मृगाणाम् अपि सर्वेषां राज्ये सिंहं ददौ विभुः ॥ विप्_१,२२।७अब्*६३:१ ॥ क्रव्यादानां दंष्ट्रिणां च मृगाणां व्याघ्रम् ईश्वरम् ॥ विप्_१,२२।७अब्*६३:२ ॥ वनस्पतीनां राजानं प्लक्षम् एवाभ्यषेचयत् ॥ विप्_१,२२।७च्द् ॥ त्१,म्०,एद्। वेङ्क्। इन्स्। अफ़्तेर् ७: एवं विभज्य राज्यानि दिशां पालान् अनन्तरम् । प्रजापतिपतिर् ब्रह्मा स्थापयाम् आस सर्वतः
After 6, D3,T2.3,M0,G3, ed. ins.; while G3 ins. l.1 of *63 and the marg. cont.: śeṣaṃ tu nāgarājānaṃ mṛgāṇāṃ siṃham īśvaram // ViP_1,22.7ab // For 7ab, D4,G1.2 subst. while G3 ins. l1 after 6 and l2 before 7cd, M0 ins. l2 only after 7ab, M3.4 subst. l1 only for 7ab: mṛgāṇām api sarveṣāṃ rājye siṃhaṃ dadau vibhuḥ // ViP_1,22.7ab*63:1 // kravyādānāṃ daṃṣṭriṇāṃ ca mṛgāṇāṃ vyāghram īśvaram // ViP_1,22.7ab*63:2 // vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat // ViP_1,22.7cd // T1,M0,ed. Veṅk. ins. after 7: evaṃ vibhajya rājyāni diśāṃ pālān anantaram / prajāpatipatir brahmā sthāpayām āsa sarvataḥ
- ViP 1.22.9Open verse →
पूर्वस्यां दिशि राजानं वैराजस्य प्रजापतेः । दिशापालं सुधन्वानं राजानं सो ऽभ्यषेचयत्
pūrvasyāṃ diśi rājānaṃ vairājasya prajāpateḥ / diśāpālaṃ sudhanvānaṃ rājānaṃ so 'bhyaṣecayat
- ViP 1.22.10Open verse →
दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः । पुत्रं शङ्खपदं नाम राजानं सो ऽभ्यषेचयत्
dakṣiṇasyāṃ diśi tathā kardamasya prajāpateḥ / putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat
- ViP 1.22.11Open verse →
पश्चिमस्यां दिशि तथा रजसः पुत्रम् अच्युतम् । केतुमन्तं महात्मानं राजानम् अभिषिक्तवान्
paścimasyāṃ diśi tathā rajasaḥ putram acyutam / ketumantaṃ mahātmānaṃ rājānam abhiṣiktavān
- ViP 1.22.12Open verse →
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः । उदीच्यां दिशि दुर्धर्षं राजानं सो ऽभ्यषेचयत्
tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ / udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat
- ViP 1.22.13Open verse →
तैर् इयं पृथिवी सर्वा सप्तद्वीपा सकानना । यथाप्रदेशम् अद्यापि धर्मतः परिपाल्यते
tair iyaṃ pṛthivī sarvā saptadvīpā sakānanā / yathāpradeśam adyāpi dharmataḥ paripālyate
- ViP 1.22.14Open verse →
एते सर्वे प्रवृत्तस्य स्थितौ विष्णोर् महात्मनः । विभूतिभूता राजानो ये चान्ये मुनिसत्तम
ete sarve pravṛttasya sthitau viṣṇor mahātmanaḥ / vibhūtibhūtā rājāno ye cānye munisattama
- ViP 1.22.15Open verse →
ये भविष्यन्ति ये भूताः सर्वभूतेश्वरा द्विज । ते सर्वे सर्वभूतस्य विष्णोर् अंशा द्विजोत्तम
ye bhaviṣyanti ye bhūtāḥ sarvabhūteśvarā dvija / te sarve sarvabhūtasya viṣṇor aṃśā dvijottama
- ViP 1.22.16Open verse →
ये तु देवाधिपतयो ये च दैत्याधिपास् तथा । दानवानां च ये नाथा ये नाथाः पिशिताशिनाम्
ye tu devādhipatayo ye ca daityādhipās tathā / dānavānāṃ ca ye nāthā ye nāthāḥ piśitāśinām
- ViP 1.22.17Open verse →
पशूनां ये च पतयः पतयो ये च पक्षिणाम् । मनुष्याणां च सर्पाणां नागानां चाधिपास् तु ये
paśūnāṃ ye ca patayaḥ patayo ye ca pakṣiṇām / manuṣyāṇāṃ ca sarpāṇāṃ nāgānāṃ cādhipās tu ye
- ViP 1.22.18Open verse →
वृक्षाणां पर्वतानां च ग्रहाणां चापि ये ऽधिपाः । अतीता वर्तमानाश् च ये भविष्यन्ति चापरे । ते सर्वे सर्वभूतस्य विष्णोर् अंशसमुद्भवाः
vṛkṣāṇāṃ parvatānāṃ ca grahāṇāṃ cāpi ye 'dhipāḥ / atītā vartamānāś ca ye bhaviṣyanti cāpare / te sarve sarvabhūtasya viṣṇor aṃśasamudbhavāḥ
- ViP 1.22.19Open verse →
न हि पालनसामर्थ्यम् ऋते सर्वेश्वरं हरिम् । स्थितौ स्थितं महाप्राज्ञ भवत्य् अन्यस्य कस्यचित्
na hi pālanasāmarthyam ṛte sarveśvaraṃ harim / sthitau sthitaṃ mahāprājña bhavaty anyasya kasyacit
- ViP 1.22.20Open verse →
सृजत्य् एष जगत् सृष्टौ स्थितौ पाति सनातनः । हन्ति चैवान्तकत्वे च रजःसत्त्वादिसंश्रयः
sṛjaty eṣa jagat sṛṣṭau sthitau pāti sanātanaḥ / hanti caivāntakatve ca rajaḥsattvādisaṃśrayaḥ
- ViP 1.22.21Open verse →
चतुर्विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ । प्रलयं च करोत्य् अन्ते चतुर्भेदो जनार्दनः
caturvibhāgaḥ saṃsṛṣṭau caturdhā saṃsthitaḥ sthitau / pralayaṃ ca karoty ante caturbhedo janārdanaḥ
- ViP 1.22.22Open verse →
एकेनांशेन ब्रह्मासौ भवत्य् अव्यक्तमूर्तिमान् । मरीचिमिश्राः पतयः प्रजानाम् अन्यभागतः
ekenāṃśena brahmāsau bhavaty avyaktamūrtimān / marīcimiśrāḥ patayaḥ prajānām anyabhāgataḥ
- ViP 1.22.23Open verse →
कालस् तृतीयस् तस्यांशः सर्वभूतानि चापरः । इत्थं चतुर्धा संसृष्टौ वर्तते ऽसौ रजोगुणः
kālas tṛtīyas tasyāṃśaḥ sarvabhūtāni cāparaḥ / itthaṃ caturdhā saṃsṛṣṭau vartate 'sau rajoguṇaḥ
- ViP 1.22.24Open verse →
एकांशेनास्थितो विष्णुः करोति परिपालनम् । मन्वादिरूपी चान्येन कालरूपो ऽपरेण च
ekāṃśenāsthito viṣṇuḥ karoti paripālanam / manvādirūpī cānyena kālarūpo 'pareṇa ca
- ViP 1.22.25Open verse →
सर्वभूतेषु चान्येन संस्थितः कुरुते स्थितिम् । सत्त्वं गुणं समाश्रित्य जगतः पुरुषोत्तमः
sarvabhūteṣu cānyena saṃsthitaḥ kurute sthitim / sattvaṃ guṇaṃ samāśritya jagataḥ puruṣottamaḥ
- ViP 1.22.26Open verse →
आश्रित्य तमसो वृत्तिम् अन्तकाले तथा प्रभुः । रुद्रस्वरूपी भगवान् एकांशेन भवत्य् अजः
āśritya tamaso vṛttim antakāle tathā prabhuḥ / rudrasvarūpī bhagavān ekāṃśena bhavaty ajaḥ
- ViP 1.22.27Open verse →
अग्न्यन्तकादिरूपेण भागेनान्येन वर्तते । कालस्वरूपो भागो ऽन्यः सर्वभूतानि चापरः
agnyantakādirūpeṇa bhāgenānyena vartate / kālasvarūpo bhāgo 'nyaḥ sarvabhūtāni cāparaḥ
- ViP 1.22.28Open verse →
विनाशं कुर्वतस् तस्य चतुर्धैवं महात्मनः । विभागकल्पना ब्रह्मन् कथ्यते सार्वकालिकी
vināśaṃ kurvatas tasya caturdhaivaṃ mahātmanaḥ / vibhāgakalpanā brahman kathyate sārvakālikī
- ViP 1.22.29Open verse →
ब्रह्मा दक्षादयः कालस् तथैवाखिलजन्तवः । विभूतयो हरेर् एता जगतः सृष्टिहेतवः
brahmā dakṣādayaḥ kālas tathaivākhilajantavaḥ / vibhūtayo harer etā jagataḥ sṛṣṭihetavaḥ
- ViP 1.22.30Open verse →
विष्णुर् मन्वादयः कालः सर्वभूतानि च द्विज । स्थितेर् निमित्तभूतस्य विष्णोर् एता विभूतयः
viṣṇur manvādayaḥ kālaḥ sarvabhūtāni ca dvija / sthiter nimittabhūtasya viṣṇor etā vibhūtayaḥ
- ViP 1.22.31Open verse →
रुद्रः कालो ऽन्तकाद्याश् च समस्ताश् चैव जन्तवः । चतुर्धा प्रलयायैता जनार्दनविभूतयः
rudraḥ kālo 'ntakādyāś ca samastāś caiva jantavaḥ / caturdhā pralayāyaitā janārdanavibhūtayaḥ
- ViP 1.22.32Open verse →
जगदादौ तथा मध्ये सृष्टिर् आप्रलयाद् द्विज । धात्रा मरीचिमिश्रैश् च क्रियते जन्तुभिस् तथा
jagadādau tathā madhye sṛṣṭir āpralayād dvija / dhātrā marīcimiśraiś ca kriyate jantubhis tathā
- ViP 1.22.33Open verse →
ब्रह्मा सृजत्य् आदिकाले मरीचिप्रमुखास् ततः । उत्पादयन्त्य् अपत्यानि जन्तवश् च प्रतिक्षणम्
brahmā sṛjaty ādikāle marīcipramukhās tataḥ / utpādayanty apatyāni jantavaś ca pratikṣaṇam
- ViP 1.22.34Open verse →
कालेन न विना ब्रह्मा सृष्टिनिष्पादको द्विज । न प्रजापतयः सर्वे न चैवाखिलजन्तवः
kālena na vinā brahmā sṛṣṭiniṣpādako dvija / na prajāpatayaḥ sarve na caivākhilajantavaḥ
- ViP 1.22.35Open verse →
एवम् एव विभागो ऽयं स्थिताव् अप्य् उपदिश्यते । चतुर्धा देवदेवस्य मैत्रेय प्रलये तथा
evam eva vibhāgo 'yaṃ sthitāv apy upadiśyate / caturdhā devadevasya maitreya pralaye tathā
- ViP 1.22.36Open verse →
यत् किंचित् सृज्यते येन सत्त्वजातेन वै द्विज । तस्य सृज्यस्य संभूतौ तत् सर्वं वै हरेस् तनुः
yat kiṃcit sṛjyate yena sattvajātena vai dvija / tasya sṛjyasya saṃbhūtau tat sarvaṃ vai hares tanuḥ
- ViP 1.22.37Open verse →
हन्ति यावत् क्वचित् किंचित् भूतं स्थावरजङ्गमम् । जनार्दनस्य तद् रौद्रं मैत्रेयान्तकरं वपुः
hanti yāvat kvacit kiṃcit bhūtaṃ sthāvarajaṅgamam / janārdanasya tad raudraṃ maitreyāntakaraṃ vapuḥ
- ViP 1.22.38Open verse →
एवम् एव जगत्स्रष्टा जगत्पाता तथा जगत् । जगद्भक्षयिता देवः समस्तस्य जनार्दनः
evam eva jagatsraṣṭā jagatpātā tathā jagat / jagadbhakṣayitā devaḥ samastasya janārdanaḥ
- ViP 1.22.39Open verse →
सर्गस्थित्यन्तकालेषु त्रिधैवं संप्रवर्तते । गुणप्रवृत्त्या परमं पदं तस्यागुणं महत्
sargasthityantakāleṣu tridhaivaṃ saṃpravartate / guṇapravṛttyā paramaṃ padaṃ tasyāguṇaṃ mahat
- ViP 1.22.40Open verse →
तच् च ज्ञानमयं व्यापि स्वसंवेद्यम् अनौपमम् । चतुष्प्रकारं तद् अपि स्वरूपं परमात्मनः
tac ca jñānamayaṃ vyāpi svasaṃvedyam anaupamam / catuṣprakāraṃ tad api svarūpaṃ paramātmanaḥ
- ViP 1.22.41Open verse →
§मैत्रेय उवाच: चतुष्प्रकारतां तस्य ब्रह्मभूतस्य वै मुने । त्वाम् आचक्ष्व यथान्यायं यद् उक्तं परमं पदम्
§maitreya uvāca: catuṣprakāratāṃ tasya brahmabhūtasya vai mune / tvām ācakṣva yathānyāyaṃ yad uktaṃ paramaṃ padam
- ViP 1.22.42Open verse →
§पराशर उवाच: मैत्रेय कारणं प्रोक्तं साधनं सर्ववस्तुषु । साध्यं च वस्त्व् अभिमतं यत् साधयितुम् आत्मनः
§parāśara uvāca: maitreya kāraṇaṃ proktaṃ sādhanaṃ sarvavastuṣu / sādhyaṃ ca vastv abhimataṃ yat sādhayitum ātmanaḥ
- ViP 1.22.43Open verse →
योगिनो मुक्तिकामस्य प्राणायामादि साधनम् । साध्यं च परमं ब्रह्म पुनर् नावर्तते यतः
yogino muktikāmasya prāṇāyāmādi sādhanam / sādhyaṃ ca paramaṃ brahma punar nāvartate yataḥ
- ViP 1.22.44Open verse →
साधनालम्बनं ज्ञानं मुक्तये योगिनां हि यत् । स भेदः प्रथमस् तस्य ज्ञानभूतस्य वै मुने
sādhanālambanaṃ jñānaṃ muktaye yogināṃ hi yat / sa bhedaḥ prathamas tasya jñānabhūtasya vai mune
- ViP 1.22.45Open verse →
युञ्जतः क्लेशमुक्त्यर्थं साध्यं यद् ब्रह्मयोगिनः । तदालम्बनविज्ञानं द्वितीयो ऽंशो महामुने
yuñjataḥ kleśamuktyarthaṃ sādhyaṃ yad brahmayoginaḥ / tadālambanavijñānaṃ dvitīyo 'ṃśo mahāmune
- ViP 1.22.46Open verse →
उभयोस् त्व् अविभागेन साध्यसाधनयोर् हि यत् । विज्ञानम् अद्वैतमयं तद्भागो ऽन्यो मयोदितः
ubhayos tv avibhāgena sādhyasādhanayor hi yat / vijñānam advaitamayaṃ tadbhāgo 'nyo mayoditaḥ
- ViP 1.22.47Open verse →
ज्ञानत्रयस्य चैतस्य विशेषो यो महामुने । तन् निराकरणद्वारदर्शितात्मस्वरूपवत्
jñānatrayasya caitasya viśeṣo yo mahāmune / tan nirākaraṇadvāradarśitātmasvarūpavat
- ViP 1.22.48Open verse →
निर्व्यापारम् अनाख्येयं व्याप्तिमात्रम् अनौपमम् । आत्मसंबोधविषयं सत्तामात्रम् अलक्षणम्
nirvyāpāram anākhyeyaṃ vyāptimātram anaupamam / ātmasaṃbodhaviṣayaṃ sattāmātram alakṣaṇam
- ViP 1.22.49Open verse →
प्रशान्तम् अभयं शुद्धं दुर्विभाव्यम् असंश्रयम् । विष्णोर् ज्ञानमयस्योक्तं तज् ज्ञानं परमं पदम्
praśāntam abhayaṃ śuddhaṃ durvibhāvyam asaṃśrayam / viṣṇor jñānamayasyoktaṃ taj jñānaṃ paramaṃ padam
- ViP 1.22.50Open verse →
तत्राज्ञाननिरोधेन योगिनो यान्ति ये लयम् । संसारकर्षणोप्तौ ते यान्ति निर्बीजतां द्विज
tatrājñānanirodhena yogino yānti ye layam / saṃsārakarṣaṇoptau te yānti nirbījatāṃ dvija
- ViP 1.22.51Open verse →
एवंप्रकारम् अमलं नित्यं व्यापकम् अक्षयम् । समस्तहेयरहितं विष्ण्वाख्यं परमं पदम्
evaṃprakāram amalaṃ nityaṃ vyāpakam akṣayam / samastaheyarahitaṃ viṣṇvākhyaṃ paramaṃ padam
- ViP 1.22.52Open verse →
तद् ब्रह्म परमं योगी यतो नावर्तते पुनः । अपुण्यपुण्योपरमे क्षीणक्लेशो ऽतिनिर्मलः
tad brahma paramaṃ yogī yato nāvartate punaḥ / apuṇyapuṇyoparame kṣīṇakleśo 'tinirmalaḥ
- ViP 1.22.53Open verse →
द्वे रूपे ब्रह्मणस् तस्य मूर्तं चामूर्तम् एव च । क्षराक्षरस्वरूपे ते सर्वभूतेषु च स्थिते
dve rūpe brahmaṇas tasya mūrtaṃ cāmūrtam eva ca / kṣarākṣarasvarūpe te sarvabhūteṣu ca sthite
- ViP 1.22.54Open verse →
अक्षरं तत् परं ब्रह्म क्षरं सर्वम् इदं जगत् । एकदेशस्थितस्येन्दोर् ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस् तथैतद् अखिलं जगत्
akṣaraṃ tat paraṃ brahma kṣaraṃ sarvam idaṃ jagat / ekadeśasthitasyendor jyotsnā vistāriṇī yathā / parasya brahmaṇaḥ śaktis tathaitad akhilaṃ jagat
- ViP 1.22.55Open verse →
तत्राप्य् आसन्नदूरत्वाद् बहुत्वस्वल्पतामयः । ज्योत्स्नाभेदो ऽस्ति तच्छक्तेस् तद्वन् मैत्रेय विद्यते
tatrāpy āsannadūratvād bahutvasvalpatāmayaḥ / jyotsnābhedo 'sti tacchaktes tadvan maitreya vidyate
- ViP 1.22.56Open verse →
ब्रह्मविष्णुशिवा ब्रह्मन् प्रधाना ब्रह्मशक्तयः । ततश् च देवा मैत्रेय न्यूना दक्षादयस् ततः
brahmaviṣṇuśivā brahman pradhānā brahmaśaktayaḥ / tataś ca devā maitreya nyūnā dakṣādayas tataḥ
- ViP 1.22.57Open verse →
ततो मनुष्याः पशवो मृगपक्षिसरीसृपाः । न्यूना न्यूनतराश् चैव वृक्षगुल्मादयस् ततः
tato manuṣyāḥ paśavo mṛgapakṣisarīsṛpāḥ / nyūnā nyūnatarāś caiva vṛkṣagulmādayas tataḥ
- ViP 1.22.58Open verse →
तद् एतद् अक्षयं नित्यं जगन् मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवत्
tad etad akṣayaṃ nityaṃ jagan munivarākhilam / āvirbhāvatirobhāvajanmanāśavikalpavat
- ViP 1.22.59Open verse →
सर्वशक्तिमयो विष्णुः स्वरूपं ब्रह्मणो ऽपरम् । मूर्तं यद् योगिभिः पूर्वं योगारम्भेषु चिन्त्यते
sarvaśaktimayo viṣṇuḥ svarūpaṃ brahmaṇo 'param / mūrtaṃ yad yogibhiḥ pūrvaṃ yogārambheṣu cintyate
- ViP 1.22.60Open verse →
सालम्बनो महायोगः सबीजो यत्र संस्थितः । मनस्य् अव्याहते सम्यग् युञ्जतां जायते मुने
sālambano mahāyogaḥ sabījo yatra saṃsthitaḥ / manasy avyāhate samyag yuñjatāṃ jāyate mune
- ViP 1.22.61Open verse →
स परः सर्वशक्तीनां ब्रह्मणः समनन्तरः । मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः
sa paraḥ sarvaśaktīnāṃ brahmaṇaḥ samanantaraḥ / mūrtaṃ brahma mahābhāga sarvabrahmamayo hariḥ
- ViP 1.22.62Open verse →
तत्र सर्वम् इदं प्रोतम् ओतं चैवाखिलं जगत् । ततो जगज् जगत् तस्मिन् स जगच् चाखिलं मुने
tatra sarvam idaṃ protam otaṃ caivākhilaṃ jagat / tato jagaj jagat tasmin sa jagac cākhilaṃ mune
- ViP 1.22.63Open verse →
क्षराक्षरमयो विष्णुर् बिभर्त्य् अखिलम् ईश्वरः । पुरुषाव्याकृतमयं भूषणास्त्रस्वरूपवत्
kṣarākṣaramayo viṣṇur bibharty akhilam īśvaraḥ / puruṣāvyākṛtamayaṃ bhūṣaṇāstrasvarūpavat
- ViP 1.22.64Open verse →
§मैत्रेय उवाच: भूषणास्त्रस्वरूपस्थं यद् एतद् अखिलं जगत् । बिभर्ति भगवान् विष्णुस् तन् ममाख्यातुम् अर्हसि
§maitreya uvāca: bhūṣaṇāstrasvarūpasthaṃ yad etad akhilaṃ jagat / bibharti bhagavān viṣṇus tan mamākhyātum arhasi
- ViP 1.22.65Open verse →
§पराशर उवाच: नमस् कृत्वाप्रमेयाय विष्णवे प्रभविष्णवे । कथयामि यथाख्यातं वसिष्ठेन ममाभवत्
§parāśara uvāca: namas kṛtvāprameyāya viṣṇave prabhaviṣṇave / kathayāmi yathākhyātaṃ vasiṣṭhena mamābhavat
- ViP 1.22.66Open verse →
आत्मानम् अस्य जगतो निर्लेपम् अगुणामलम् । बिभर्ति कौस्तुभमणिस्वरूपं भगवान् हरिः
ātmānam asya jagato nirlepam aguṇāmalam / bibharti kaustubhamaṇisvarūpaṃ bhagavān hariḥ
- ViP 1.22.67Open verse →
द्७ इन्स्।: श्रीवत्ससंस्थानधरम् अनन्ते च समाश्रितम् । प्रधानं बुद्धिर् अप्य् आस्ते गदारूपेण माधवे
D7 ins.: śrīvatsasaṃsthānadharam anante ca samāśritam / pradhānaṃ buddhir apy āste gadārūpeṇa mādhave
- ViP 1.22.68Open verse →
भूतादिम् इन्द्रियादिं च द्विधाहंकारम् ईश्वरः । बिभर्ति शङ्खरूपेण शार्ङ्गरूपेण च स्थितम्
bhūtādim indriyādiṃ ca dvidhāhaṃkāram īśvaraḥ / bibharti śaṅkharūpeṇa śārṅgarūpeṇa ca sthitam
- ViP 1.22.69Open verse →
चलत्स्वरूपम् अत्यन्तं जवेनान्तरितानिलम् । चक्रस्वरूपं च मनो धत्ते विष्णुकरे स्थितम्
calatsvarūpam atyantaṃ javenāntaritānilam / cakrasvarūpaṃ ca mano dhatte viṣṇukare sthitam
- ViP 1.22.70Open verse →
पञ्चरूपा तु या माला वैजयन्ती गदाभृतः । सा भूतहेतुसंघाता भूतमाला च वै द्विज
pañcarūpā tu yā mālā vaijayantī gadābhṛtaḥ / sā bhūtahetusaṃghātā bhūtamālā ca vai dvija
- ViP 1.22.71Open verse →
यानीन्द्रियाण्य् अशेषाणि बुद्धिकर्मात्मकानि वै । शररूपाण्य् अशेषाणि तानि धत्ते जनार्दनः
yānīndriyāṇy aśeṣāṇi buddhikarmātmakāni vai / śararūpāṇy aśeṣāṇi tāni dhatte janārdanaḥ
- ViP 1.22.72Open verse →
बिभर्ति यच् चासिरत्नम् अच्युतो ऽत्यन्तनिर्मलम् । विद्यामयं तु तज् ज्ञानम् अविद्याचर्मसंस्थितम्
bibharti yac cāsiratnam acyuto 'tyantanirmalam / vidyāmayaṃ tu taj jñānam avidyācarmasaṃsthitam
- ViP 1.22.73Open verse →
इत्थं पुमान् प्रधानं च बुद्ध्यहंकारम् एव च । भूतानि च हृषीकेशे मनः सर्वेन्द्रियाणि च । विद्याविद्ये च मैत्रेय सर्वम् एतत् समाश्रितम्
itthaṃ pumān pradhānaṃ ca buddhyahaṃkāram eva ca / bhūtāni ca hṛṣīkeśe manaḥ sarvendriyāṇi ca / vidyāvidye ca maitreya sarvam etat samāśritam
- ViP 1.22.74Open verse →
अस्त्रभूषणसंस्थानस्वरूपं रूपवर्जितः । बिभर्ति मायारूपो ऽसौ श्रेयसे प्राणिनां हरिः
astrabhūṣaṇasaṃsthānasvarūpaṃ rūpavarjitaḥ / bibharti māyārūpo 'sau śreyase prāṇināṃ hariḥ
- ViP 1.22.75Open verse →
सविकारं प्रधानं च पुमांसं चाखिलं जगत् । बिभर्ति पुण्डरीकाक्षस् तद् एवं परमेश्वरः
savikāraṃ pradhānaṃ ca pumāṃsaṃ cākhilaṃ jagat / bibharti puṇḍarīkākṣas tad evaṃ parameśvaraḥ
- ViP 1.22.76Open verse →
या विद्या या तथाविद्या यत् सद् यच् चासद् अव्यये । तत् सर्वं सर्वभूतेशे मैत्रेय मधुसूदने
yā vidyā yā tathāvidyā yat sad yac cāsad avyaye / tat sarvaṃ sarvabhūteśe maitreya madhusūdane
- ViP 1.22.77Open verse →
कलाकाष्ठानिमेषादिदिनर्त्वयनहायनैः । कालस्वरूपो भगवान् अपारो हरिर् अव्ययः
kalākāṣṭhānimeṣādidinartvayanahāyanaiḥ / kālasvarūpo bhagavān apāro harir avyayaḥ
- ViP 1.22.78Open verse →
भूर्लोको ऽथ भुवर्लोकः स्वर्लोको मुनिसत्तम । महर् जनस् तपः सत्यं सप्तलोकान् इमान् विभुः
bhūrloko 'tha bhuvarlokaḥ svarloko munisattama / mahar janas tapaḥ satyaṃ saptalokān imān vibhuḥ
- ViP 1.22.79Open verse →
लोकात्ममूर्तिः सर्वेषां पूर्वेषाम् अपि पूर्वजः । आधारः सर्वविद्यानां स्वयम् एव हरिः स्थितः
lokātmamūrtiḥ sarveṣāṃ pūrveṣām api pūrvajaḥ / ādhāraḥ sarvavidyānāṃ svayam eva hariḥ sthitaḥ
- ViP 1.22.80Open verse →
देवमानुषपश्वादिस्वरूपैर् बहुभिर् विभुः । स्थितः सर्वेश्वरो ऽनन्तो भूतमूर्तिर् अमूर्तिमान्
devamānuṣapaśvādisvarūpair bahubhir vibhuḥ / sthitaḥ sarveśvaro 'nanto bhūtamūrtir amūrtimān
- ViP 1.22.81Open verse →
ऋचो यजूंषि सामानि तथैवाथर्वणानि च । इतिहासोपवेदाश् च वेदान्तेषु तथोक्तयः
ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca / itihāsopavedāś ca vedānteṣu tathoktayaḥ
- ViP 1.22.82Open verse →
वेदाङ्गानि समस्तानि मन्वादिगदितानि च । शास्त्राण्य् अशेषाण्य् आख्यानान्य् अनुवाकाश् च ये क्वचित्
vedāṅgāni samastāni manvādigaditāni ca / śāstrāṇy aśeṣāṇy ākhyānāny anuvākāś ca ye kvacit
- ViP 1.22.83Open verse →
काव्यालापाश् च ये केचिद् गीतकान्य् अखिलानि च । शब्दमूर्तिधरस्यैतद् वपुर् विष्णोर् महात्मनः
kāvyālāpāś ca ye kecid gītakāny akhilāni ca / śabdamūrtidharasyaitad vapur viṣṇor mahātmanaḥ
- ViP 1.22.84Open verse →
यानि मूर्तान्य् अमूर्तानि यान्य् अत्रान्यत्र वा क्वचित् । सन्ति वै वस्तुजातानि तानि सर्वाणि तद्वपुः
yāni mūrtāny amūrtāni yāny atrānyatra vā kvacit / santi vai vastujātāni tāni sarvāṇi tadvapuḥ
- ViP 1.22.85Open verse →
अहं हरिः सर्वम् इदं जनार्दनो नान्यत् ततः कारणकार्यजातम् । ईदृङ् मनो यस्य न तस्य भूयो भवोद्भवा द्वन्द्वगदा भवन्ति
ahaṃ hariḥ sarvam idaṃ janārdano nānyat tataḥ kāraṇakāryajātam / īdṛṅ mano yasya na tasya bhūyo bhavodbhavā dvandvagadā bhavanti
- ViP 1.22.86Open verse →
इत्य् एष ते ऽंशः प्रथमः पुराणस्यास्य वै द्विज । यथावत् कथितो यस्मिञ् श्रुते पापैर् विमुच्यते
ity eṣa te 'ṃśaḥ prathamaḥ purāṇasyāsya vai dvija / yathāvat kathito yasmiñ śrute pāpair vimucyate
- ViP 1.22.87Open verse →
कार्त्तिक्यां पुष्करस्नाने द्वादशाब्दे तु यत् फलम् । तद् अस्य श्रवणे सर्वं मैत्रेयाप्नोति मानवः
kārttikyāṃ puṣkarasnāne dvādaśābde tu yat phalam / tad asya śravaṇe sarvaṃ maitreyāpnoti mānavaḥ
- ViP 1.22.88Open verse →
देवर्षिपितृगन्धर्वयक्षादीनां च संभवम् । भवन्ति शृण्वतः पुंसो देवाद्या वरदा मुने
devarṣipitṛgandharvayakṣādīnāṃ ca saṃbhavam / bhavanti śṛṇvataḥ puṃso devādyā varadā mune
- ViP 1.1.0*1Open verse →
विप्_न्,न्न्।न्न् = नुम्बेर् ओफ़् अंश,अध्याय।वेर्से विप्_न्,न्न्।न्न्*न्न्(:न्न्) = नुम्बेर् ओफ़् प्रेचेदिन्ग् अंश,अध्याय।वेर्से*इन्सेर्तिओन्(:लिने [ओप्तिओनल् फ़ोर् इन्सेर्तिओन्स् ओफ़् मोरे थन् ओने लिने]) विप्_न्,न्न्।न्न्@न्:न्न् = नुम्बेर् ओफ़् प्रेचेदिन्ग् अंश,अध्याय।वेर्से@अप्पेन्दिx:लिने । = दण्ड इन् मेत्रिच् पर्त्स् । = दण्ड इन् प्रोसे पर्त्स् §॥। = इन्तेर्लोचुतोर्स् xxx = मिस्सिन्ग्।इल्लेगिब्ले छरच्तेर् त्हिस् ग्रेतिल् तेXत् फ़िले इस् फ़ोर् रेफ़ेरेन्चे पुर्पोसेस् ओन्ल्य्! चोप्य्रिग्ह्त् अन्द् तेर्म्स् ओफ़् उस्अगे अस् फ़ोर् सोउर्चे फ़िले। तेxत् चोन्वेर्तेद् तो उनिचोदे (उत्फ़्-८)। (थिस् फ़िले इस् तो बे उसेद् wइथ् अ उत्फ़्-८ फ़ोन्त् अन्द् योउर् ब्रोwसेर्ऽस् विएW चोन्फ़िगुरतिओन् सेत् तो उत्फ़्-८।) देस्च्रिप्तिओन्:मुल्तिब्य्ते सेक़ुएन्चे: लोन्ग् अ आ लोन्ग् अ आ लोन्ग् इ ई लोन्ग् इ ई लोन्ग् उ ऊ लोन्ग् उ ऊ वोचलिच् र् ऋ वोचलिच् र् ऋ लोन्ग् वोचलिच् र् ॠ वोचलिच् ल् ऌ वोचलिच् ल् ऌ लोन्ग् वोचलिच् ल् ॡ वेलर् न् ङ् वेलर् न् ङ् पलतल् न् ञ् पलतल् न् ञ् रेत्रोफ़्लेx त् ट् रेत्रोफ़्लेx त् ट् रेत्रोफ़्लेx द् ड् रेत्रोफ़्लेx द् ड् रेत्रोफ़्लेx न् ण् रेत्रोफ़्लेx न् ण् पलतल् स् श् पलतल् स् श् रेत्रोफ़्लेx स् ष् रेत्रोफ़्लेx स् ष् अनुस्वर ं विसर्ग ः लोन्ग् ए ē लोन्ग् ओ ō ल् उन्देर्बर् ऴ् र् उन्देर्बर् ऱ् न् उन्देर्बर् ऩ् क् उन्देर्बर् ḵ त् उन्देर्बर् ṯ उन्लेस्स् इन्दिचतेद् ओथेर्wइसे, अच्चेन्त्स् हवे बेएन् द्रोप्पेद् इन् ओर्देर् तो फ़चिलितते wओर्द् सेअर्छ्। फ़ोर् अ चोम्प्रेहेन्सिवे लिस्त् ओफ़् ग्रेतिल् एन्चोदिन्ग्स् अन्द् फ़ोर्मत्स् सेए: ह्त्त्प्:॥ग्रेतिल्।सुब्।उनि-गोएत्तिन्गेन्।दे।ग्रेतिल्।ग्रेत्दिअच्।प्द्फ़् अन्द् ह्त्त्प्:॥ग्रेतिल्।सुब्।उनि-गोएत्तिन्गेन्।दे।ग्रेतिल्।ग्रेत्दिअस्।प्द्फ़् फ़ोर् फ़ुर्थेर् इन्फ़ोर्मतिओन् सेए: ह्त्त्प्:॥ग्रेतिल्।सुब्।उनि-गोएत्तिन्गेन्।दे।ग्रेतिल्।ह्त्म् ॐ नमो भगवते वासुदेवाय । ॐ श्रीगणेशाय नमः ॐ नमो नारायणाय ॐ । ॐ नमो कृष्णाय । ॐ नमो भगवते वासुदेवाय । नमो गणपतये । ॐ श्रीकृष्णः । जितं ते पुण्डरीकाक्ष नमस् ते विश्वभावन । नमस् ते ऽस्तु हृषीकेश महापुरुष पूर्वज
ViP_n,nn.nn = number of aṃśa,adhyāya.verse ViP_n,nn.nn*nn(:nn) = number of PRECEDING aṃśa,adhyāya.verse*insertion(:line [optional for insertions of more than one line]) ViP_n,nn.nn@n:nn = number of PRECEDING aṃśa,adhyāya.verse@appendix:line / = daṇḍa in metric parts | = daṇḍa in prose parts §... = interlocutors xxx = missing/illegible character THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.) description:multibyte sequence: long a ā long A Ā long i ī long I Ī long u ū long U Ū vocalic r ṛ vocalic R Ṛ long vocalic r ṝ vocalic l ḷ vocalic L Ḷ long vocalic l ḹ velar n ṅ velar N Ṅ palatal n ñ palatal N Ñ retroflex t ṭ retroflex T Ṭ retroflex d ḍ retroflex D Ḍ retroflex n ṇ retroflex N Ṇ palatal s ś palatal S Ś retroflex s ṣ retroflex S Ṣ anusvara ṃ visarga ḥ long e ē long o ō l underbar ḻ r underbar ṟ n underbar ṉ k underbar ḵ t underbar ṯ Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm oṃ namo bhagavate vāsudevāya | oṃ śrīgaṇeśāya namaḥ oṃ namo nārāyaṇāya oṃ | oṃ namo kṛṣṇāya | oṃ namo bhagavate vāsudevāya | namo gaṇapataye | oṃ śrīkṛṣṇaḥ | jitaṃ te puṇḍarīkākṣa namas te viśvabhāvana / namas te 'stu hṛṣīkeśa mahāpuruṣa pūrvaja
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *1 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.0*2Open verse →
सदक्षरं ब्रह्म य ईश्वरः पुमान् गुणोर्मिसृष्टिस्थितिकालसंलयः । प्रधानबुद्ध्यादिजगत्प्रपञ्चसूः स नो ऽस्तु विष्णुर् मतिभूतिमुक्तिदः
sadakṣaraṃ brahma ya īśvaraḥ pumān guṇormisṛṣṭisthitikālasaṃlayaḥ / pradhānabuddhyādijagatprapañcasūḥ sa no 'stu viṣṇur matibhūtimuktidaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *2 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.0*3Open verse →
प्रणम्य विष्णुं विश्वेशं ब्रह्मादीन् प्रणिपत्य च । गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसंमितम्
praṇamya viṣṇuṃ viśveśaṃ brahmādīn praṇipatya ca / guruṃ praṇamya vakṣyāmi purāṇaṃ vedasaṃmitam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *3 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.0*4Open verse →
इतिहासपुराणज्ञं वेदवेदाङ्गपारगम् । धर्मशास्त्रादितत्त्वज्ञं वसिष्ठतनयात्मजम्
itihāsapurāṇajñaṃ vedavedāṅgapāragam / dharmaśāstrāditattvajñaṃ vasiṣṭhatanayātmajam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *4 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.0*5Open verse →
स्वस्ति श्रीगुरुगणेशभारतीस्वरूपिणे श्रीनारायणाय नमः । समस्तचेतोभिमतार्थसिद्धये गणैः सुराणाम् अपि संस्तुतौ यः । अशेषविघ्नेन्धनजातवेदसं नमामि तं शुद्धधियं गणाधिपम्
svasti śrīgurugaṇeśabhāratīsvarūpiṇe śrīnārāyaṇāya namaḥ | samastacetobhimatārthasiddhaye gaṇaiḥ surāṇām api saṃstutau yaḥ / aśeṣavighnendhanajātavedasaṃ namāmi taṃ śuddhadhiyaṃ gaṇādhipam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *5 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.0*6Open verse →
पद्मासनं पद्मसमाननं च पद्मस्य योनिश् चतुराननं च । षडङ्गवेदैश् च विभूषिताङ्गं पितामहं तं प्रणतो ऽस्मि नित्यम्
padmāsanaṃ padmasamānanaṃ ca padmasya yoniś caturānanaṃ ca / ṣaḍaṅgavedaiś ca vibhūṣitāṅgaṃ pitāmahaṃ taṃ praṇato 'smi nityam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *6 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.0*7Open verse →
॥॥ ॥॥ ॥॥ ।तात्मने [लचुन] । इतिहासपुराणानाम् आदिकर्त्रे नमो नमः
.... .... .... .tātmane [lacuna] / itihāsapurāṇānām ādikartre namo namaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *7 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.0*8Open verse →
कृत्वा तन् नरसिंहरूपम् अतुलं लोकत्रयव्यापि यद् व्यालं विस्फुटचारुकेसरसटासंघातरम्याकृतिः । वक्षो वज्रशिलासमूहकठिनं विस्तारि देवद्विषो भिन्नं येन नखैर् मुदेस् तु भगवान् देवः स वः केशवः
kṛtvā tan narasiṃharūpam atulaṃ lokatrayavyāpi yad vyālaṃ visphuṭacārukesarasaṭāsaṃghātaramyākṛtiḥ / vakṣo vajraśilāsamūhakaṭhinaṃ vistāri devadviṣo bhinnaṃ yena nakhair mudes tu bhagavān devaḥ sa vaḥ keśavaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *8 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.0*9Open verse →
ॐ नमो भगवते वासुदेवाय श्रीगणेशसरस्वतीभ्यां नमः । जयति कमलोदरवपुः कम[ल]मुखः कमलगर्भसंभूतः ।* सुरनमितचरणकमलः कमलासनसंस्थितो ब्रह्मा
oṃ namo bhagavate vāsudevāya śrīgaṇeśasarasvatībhyāṃ namaḥ | jayati kamalodaravapuḥ kama[la]mukhaḥ kamalagarbhasaṃbhūtaḥ /* suranamitacaraṇakamalaḥ kamalāsanasaṃsthito brahmā
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *9 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.0*10Open verse →
* जयति जलभारगर्भितनिलाम्बुदनीलवपुः ।* मन्दरगिरिपरिवर्तनविषमशिलालाञ्छनो विभुः
* jayati jalabhāragarbhitanilāmbudanīlavapuḥ /* mandaragiriparivartanaviṣamaśilālāñchano vibhuḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *10 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.0*11Open verse →
* जयति शशिखण्डमण्डितविकटजटामुकुटसंकटललाटम् ।* स्फुटदशनकिरणविकसितमुखकमलचतुष्टयं शंभोः
* jayati śaśikhaṇḍamaṇḍitavikaṭajaṭāmukuṭasaṃkaṭalalāṭam /* sphuṭadaśanakiraṇavikasitamukhakamalacatuṣṭayaṃ śaṃbhoḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *11 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.0*12Open verse →
* श्रीगणेशाय नमः ॐ नमो भगवते श्रीवासुदेवाय । ॐ । ॐ नमो भगवते वासुदेवाय श्रीगणेशसरस्वतीभ्यां नमः । ॐ । शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
* śrīgaṇeśāya namaḥ oṃ namo bhagavate śrīvāsudevāya | oṃ | oṃ namo bhagavate vāsudevāya śrīgaṇeśasarasvatībhyāṃ namaḥ | oṃ | śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam / prasannavadanaṃ dhyāyet sarvavighnopaśāntaye
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *12 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.0*13Open verse →
अगजाननपद्मार्कं गजाननम् अहर्निशम् । अनेकदन्तं भक्तानाम् एकदन्तम् उपास्महे
agajānanapadmārkaṃ gajānanam aharniśam / anekadantaṃ bhaktānām ekadantam upāsmahe
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *13 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.0*14Open verse →
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासन । य ब्रह्माच्युतशंकरप्रभृतिभिर् देवैः सदा पूजिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा
yā kundendutuṣārahāradhavalā yā śubhravastrāvṛtā yā vīṇāvaradaṇḍamaṇḍitakarā yā śvetapadmāsana / ya brahmācyutaśaṃkaraprabhṛtibhir devaiḥ sadā pūjitā sā māṃ pātu sarasvatī bhagavatī niḥśeṣajāḍyāpahā
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *14 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.0*15Open verse →
ॐ । यस्माद् इदं जगद् अजायत यत्र तिष्ठत्य् अन्ते समस्तम् इदं अस्तम् उपैति यत्र ।* तस्मै नमः सदसदादिविकल्पशून्य चैतन्यमात्रवपुषे पुरुषोत्तमाय
oṃ | yasmād idaṃ jagad ajāyata yatra tiṣṭhaty ante samastam idaṃ astam upaiti yatra /* tasmai namaḥ sadasadādivikalpaśūnya caitanyamātravapuṣe puruṣottamāya
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *15 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.0*16Open verse →
* तत्त्वेन यश् च दधदीश्वरतत्स्वभाव भोगापवर्गतदुपायगतीर् उदारः ।* संदर्शयन् निरमिमीत पुराणरत्नं तस्मै नमो मुनिवराय पराशराय
* tattvena yaś ca dadhadīśvaratatsvabhāva bhogāpavargatadupāyagatīr udāraḥ /* saṃdarśayan niramimīta purāṇaratnaṃ tasmai namo munivarāya parāśarāya
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *16 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.0*17Open verse →
* अंशैः षड्भिः समाकीणम् अङ्गैर् वेदम् इवापरम् । पुराणं वैष्णवं चक्रे यस् तम् वन्दे पराशरम्
* aṃśaiḥ ṣaḍbhiḥ samākīṇam aṅgair vedam ivāparam / purāṇaṃ vaiṣṇavaṃ cakre yas tam vande parāśaram
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *17 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.0*18Open verse →
ॐ श्रीविष्णवे नमः । श्रीमहागणपतये नमः । अविघ्नम् अस्तु । पङ्केरुहाक्षाय भवौषधाय भक्तार्तिनाशाय परात् पराय । तार्क्ष्याधिरूढाय सुखप्रदाय अक्ष्मीवराहाय नमः परस्मै
oṃ śrīviṣṇave namaḥ | śrīmahāgaṇapataye namaḥ | avighnam astu | paṅkeruhākṣāya bhavauṣadhāya bhaktārtināśāya parāt parāya / tārkṣyādhirūḍhāya sukhapradāya akṣmīvarāhāya namaḥ parasmai
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *18 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.0*19Open verse →
हरिः ॐ विष्णुपुराणं संपुतं आरम्भं शुभम् अस्तु अविघ्नम् अस्तु श्रीश्रियै न्मः [नमः] श्रीहयग्रीवाय न्मः [नमः] श्रीरामचन्द्राय परस्मै ब्रह्मणे न्मः [नमः] हरिः ॐ अविघ्नम् अस्तु । श्रीगणेशाय नमः अविघ्नेन परिसमाप्तिर् अस्तु । यस्यासीत् प्रपितामहो गुणनिधेर् देवः पुराणो जगत् सृष्टा यस्य पितामहो मतिमतां श्रेष्ठो वसिष्ठः पिता । शक्तिर् यस्य जगद्धिताय भगवान् व्यासो हरिः पुत्रतां यातो यस्य पराशरं तम् अतुलम् वन्दामहे निर्मलम्
hariḥ oṃ viṣṇupurāṇaṃ saṃputaṃ ārambhaṃ śubham astu avighnam astu śrīśriyai nmaḥ [namaḥ] śrīhayagrīvāya nmaḥ [namaḥ] śrīrāmacandrāya parasmai brahmaṇe nmaḥ [namaḥ] hariḥ oṃ avighnam astu | śrīgaṇeśāya namaḥ avighnena parisamāptir astu | yasyāsīt prapitāmaho guṇanidher devaḥ purāṇo jagat sṛṣṭā yasya pitāmaho matimatāṃ śreṣṭho vasiṣṭhaḥ pitā / śaktir yasya jagaddhitāya bhagavān vyāso hariḥ putratāṃ yāto yasya parāśaraṃ tam atulam vandāmahe nirmalam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *19 before ViP 1.1.0 (Pathak Critical Edition apparatus).
- ViP 1.1.31*20Open verse →
म्० इन्स्।: मित्रापुत्रवचो निशम्य सकलं स्मृत्वात्मनस् तद् वरम् सत्रं चैव निवारितं स सुमहाभागो ऽभवत् तारणम् । कृत्वा वैष्णवम् उत्तमं मुनिवरं मैत्रेयम् अध्यापयत् तत्त्वार्थप्रतिपादनं प्रवदतां सर्वार्थदं शृण्वताम्
M0 ins.: mitrāputravaco niśamya sakalaṃ smṛtvātmanas tad varam satraṃ caiva nivāritaṃ sa sumahābhāgo 'bhavat tāraṇam / kṛtvā vaiṣṇavam uttamaṃ munivaraṃ maitreyam adhyāpayat tattvārthapratipādanaṃ pravadatāṃ sarvārthadaṃ śṛṇvatām
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *20 before ViP 1.1.31 (Pathak Critical Edition apparatus).
- ViP 1.2.27*21Open verse →
श्२,ञ्१,व्१,ब्,द्२,४-८,ग्२,म्२ सुब्स्त्।: कालस्वरूपरूपं तद् विष्णोर् मैत्रेय वर्तते
Ś2,Ñ1,V1,B,D2,4-8,G2,M2 subst.: kālasvarūparūpaṃ tad viṣṇor maitreya vartate
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *21 before ViP 1.2.27 (Pathak Critical Edition apparatus).
- ViP 1.3.20*22:1Open verse →
द्७ इन्स्।: द्विचत्वारिंशता युक्त शतेनाप्य् अधिकास् तथा
D7 ins.: dvicatvāriṃśatā yukta śatenāpy adhikās tathā
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *22 line 1 before ViP 1.3.20 (Pathak Critical Edition apparatus).
- ViP 1.3.20*22:2Open verse →
दिव्याह्नः पञ्चसाहस्रमासा दश दिनाष्टकम्
divyāhnaḥ pañcasāhasramāsā daśa dināṣṭakam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *22 line 2 before ViP 1.3.20 (Pathak Critical Edition apparatus).
- ViP 1.3.20*22:3Open verse →
चतुर् यामा मुहूर्तौ द्वाव् अष्टाव् अपि कलास् तथा
catur yāmā muhūrtau dvāv aṣṭāv api kalās tathā
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *22 line 3 before ViP 1.3.20 (Pathak Critical Edition apparatus).
- ViP 1.3.20*22:4Open verse →
काष्टा सप्तदश द्वौ च निमेषौ तदनन्तरम्
kāṣṭā saptadaśa dvau ca nimeṣau tadanantaram
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *22 line 4 before ViP 1.3.20 (Pathak Critical Edition apparatus).
- ViP 1.3.20*22:5Open verse →
दैवस्यैकनिमेषस्य सप्तमो भाग इष्यते
daivasyaikanimeṣasya saptamo bhāga iṣyate
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *22 line 5 before ViP 1.3.20 (Pathak Critical Edition apparatus).
- ViP 1.3.20*22:6Open verse →
मानुषाब्दास् तु लक्ष्याणि तथाष्टादश तत्परम्
mānuṣābdās tu lakṣyāṇi tathāṣṭādaśa tatparam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *22 line 6 before ViP 1.3.20 (Pathak Critical Edition apparatus).
- ViP 1.3.20*22:7Open verse →
सहस्रम् अष्टाविंशत्या युताश् चाब्दा चतुःशती
sahasram aṣṭāviṃśatyā yutāś cābdā catuḥśatī
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *22 line 7 before ViP 1.3.20 (Pathak Critical Edition apparatus).
- ViP 1.3.20*22:8Open verse →
चतुर्विंशेद् अहोरात्रे युता मासाश् च षट् तथा
caturviṃśed ahorātre yutā māsāś ca ṣaṭ tathā
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *22 line 8 before ViP 1.3.20 (Pathak Critical Edition apparatus).
- ViP 1.3.20*22:9Open verse →
नाड्यो द्वादश तावत्यः कलाश् च तदनन्तरम्
nāḍyo dvādaśa tāvatyaḥ kalāś ca tadanantaram
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *22 line 9 before ViP 1.3.20 (Pathak Critical Edition apparatus).
- ViP 1.4.23*23Open verse →
द्४ इन्स्।: तथैव मायया सर्वं त्वत्तो ऽहम् इव दृश्यते
D4 ins.: tathaiva māyayā sarvaṃ tvatto 'ham iva dṛśyate
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *23 before ViP 1.4.23 (Pathak Critical Edition apparatus).
- ViP 1.4.28*24Open verse →
द्५ इन्स्।: नारायणस्यापि तनुर् विशन्ति ॥।
D5 ins.: nārāyaṇasyāpi tanur viśanti ...
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *24 before ViP 1.4.28 (Pathak Critical Edition apparatus).
- ViP 1.5.18*25:1Open verse →
द्२ इन्स्।: पञ्चमो ऽनुग्रहः सर्गः स चतुर्धा व्यवस्थितः
D2 ins.: pañcamo 'nugrahaḥ sargaḥ sa caturdhā vyavasthitaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *25 line 1 before ViP 1.5.18 (Pathak Critical Edition apparatus).
- ViP 1.5.18*25:2Open verse →
विपर्ययेण चाशक्त्या सिद्ध्या तुष्ट्या तथैव च
viparyayeṇa cāśaktyā siddhyā tuṣṭyā tathaiva ca
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *25 line 2 before ViP 1.5.18 (Pathak Critical Edition apparatus).
- ViP 1.5.18*25:3Open verse →
निवृत्तं वर्तमानं च सर्वे जानन्ति वै पुनः
nivṛttaṃ vartamānaṃ ca sarve jānanti vai punaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *25 line 3 before ViP 1.5.18 (Pathak Critical Edition apparatus).
- ViP 1.5.18*25:4Open verse →
भूतादिकानां भूतानां षष्ठः सर्गः स उच्यते
bhūtādikānāṃ bhūtānāṃ ṣaṣṭhaḥ sargaḥ sa ucyate
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *25 line 4 before ViP 1.5.18 (Pathak Critical Edition apparatus).
- ViP 1.5.18*25:5Open verse →
ते परिग्राहिणः सर्गे संविभागनताः सदा
te parigrāhiṇaḥ sarge saṃvibhāganatāḥ sadā
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *25 line 5 before ViP 1.5.18 (Pathak Critical Edition apparatus).
- ViP 1.5.18*25:6Open verse →
क्रोधनाश् चाप्य् अशीलाश् च ज्ञेया भूतादिकास् तु ते
krodhanāś cāpy aśīlāś ca jñeyā bhūtādikās tu te
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *25 line 6 before ViP 1.5.18 (Pathak Critical Edition apparatus).
- ViP 1.7.6*26:1Open verse →
ब्२,द्३,४,त्,ग्२,३,म्०,एद्। वेङ्क्। इन्स्।: ख्यातिं भूतिं च संभूतिं क्षमां प्रीतिं तथैव च
B2,D3,4,T,G2,3,M0,ed. Veṅk. ins.: khyātiṃ bhūtiṃ ca saṃbhūtiṃ kṣamāṃ prītiṃ tathaiva ca
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *26 line 1 before ViP 1.7.6 (Pathak Critical Edition apparatus).
- ViP 1.7.6*26:2Open verse →
सन्नतिं च तथैवोर्जाम् अनसूयां तथैव च
sannatiṃ ca tathaivorjām anasūyāṃ tathaiva ca
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *26 line 2 before ViP 1.7.6 (Pathak Critical Edition apparatus).
- ViP 1.7.6*26:3Open verse →
प्रसूतिं च ततः सृष्ट्वा ददौ तेषां महात्मनाम्
prasūtiṃ ca tataḥ sṛṣṭvā dadau teṣāṃ mahātmanām
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *26 line 3 before ViP 1.7.6 (Pathak Critical Edition apparatus).
- ViP 1.7.6*26:4Open verse →
पत्न्यो भवध्वम् इत्य् उक्त्वा तेषाम् एव तु दत्तवान्
patnyo bhavadhvam ity uktvā teṣām eva tu dattavān
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *26 line 4 before ViP 1.7.6 (Pathak Critical Edition apparatus).
- ViP 1.8.12*27Open verse →
द्३,५,ग्३,म्०,एद्। वेङ्क्। इन्स्।: उपयेमे दुहितरं दक्षस्यैव प्रजापतेः
D3,5,G3,M0,ed. Veṅk. ins.: upayeme duhitaraṃ dakṣasyaiva prajāpateḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *27 before ViP 1.8.12 (Pathak Critical Edition apparatus).
- ViP 1.9.110*28:1Open verse →
द्६ इन्स्।: देवदेवे गते तस्मिन् वासुदेवेश्वरं हरिम्
D6 ins.: devadeve gate tasmin vāsudeveśvaraṃ harim
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *28 line 1 before ViP 1.9.110 (Pathak Critical Edition apparatus).
- ViP 1.9.110*28:2Open verse →
तुष्टुवुः पुण्डरीकाक्षम् अन्तर्धानगतं हरिम्
tuṣṭuvuḥ puṇḍarīkākṣam antardhānagataṃ harim
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *28 line 2 before ViP 1.9.110 (Pathak Critical Edition apparatus).
- ViP 1.9.114*29:1Open verse →
द्७ इन्स्।: दुर्वासशापपातेन पुनर् मा भूद् इयं हरे
D7 ins.: durvāsaśāpapātena punar mā bhūd iyaṃ hare
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *29 line 1 before ViP 1.9.114 (Pathak Critical Edition apparatus).
- ViP 1.9.114*29:2Open verse →
तथ्येति चाभिप्रायेणस् तुष्टाव श्रियमानतः
tathyeti cābhiprāyeṇas tuṣṭāva śriyamānataḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *29 line 2 before ViP 1.9.114 (Pathak Critical Edition apparatus).
- ViP 1.9.115*30:1Open verse →
ब्२,द्३,५,त्१,२,ग्३,म्०,एद्। वेङ्क्। इन्स्।: पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम्
B2,D3,5,T1,2,G3,M0,ed. Veṅk. ins.: padmālayāṃ padmakarāṃ padmapatranibhekṣaṇām
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *30 line 1 before ViP 1.9.115 (Pathak Critical Edition apparatus).
- ViP 1.9.115*30:2Open verse →
वन्दे पद्ममुखां देवीं पद्मनाभप्रियाम् अहम्
vande padmamukhāṃ devīṃ padmanābhapriyām aham
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *30 line 2 before ViP 1.9.115 (Pathak Critical Edition apparatus).
- ViP 1.11.17*31Open verse →
म्०,एद्। वेङ्क्। इन्स्।: तत् त्वया नात्र कर्तव्यं दुःखं तद्वाक्यसंभवम्
M0,ed. Veṅk. ins.: tat tvayā nātra kartavyaṃ duḥkhaṃ tadvākyasaṃbhavam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *31 before ViP 1.11.17 (Pathak Critical Edition apparatus).
- ViP 1.11.48*32:1Open verse →
ग्२,३ इन्स्।: कृष्णाराधनम् एवैकं पुंसः सर्वफलप्रदम्
G2,3 ins.: kṛṣṇārādhanam evaikaṃ puṃsaḥ sarvaphalapradam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *32 line 1 before ViP 1.11.48 (Pathak Critical Edition apparatus).
- ViP 1.11.48*32:2Open verse →
सर्वैर् अप्य् एवम् एवोक्तं तद् उपायम् अबृहत् सते
sarvair apy evam evoktaṃ tad upāyam abṛhat sate
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *32 line 2 before ViP 1.11.48 (Pathak Critical Edition apparatus).
- ViP 1.12.95*33:1Open verse →
द्२ इन्स्।: ॥॥ ॥॥ ॥।तर्दधे हरिः
D2 ins.: .... .... ...tardadhe hariḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *33 line 1 before ViP 1.12.95 (Pathak Critical Edition apparatus).
- ViP 1.12.95*33:2Open verse →
ध्रुवो ऽपि तं नमस्कृत्य जगाम स्वपितुर् गृहम्
dhruvo 'pi taṃ namaskṛtya jagāma svapitur gṛham
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *33 line 2 before ViP 1.12.95 (Pathak Critical Edition apparatus).
- ViP 1.12.95*33:3Open verse →
आकर्ण्यात्मजम् आयान्तं संपरेतं यथागतम्
ākarṇyātmajam āyāntaṃ saṃparetaṃ yathāgatam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *33 line 3 before ViP 1.12.95 (Pathak Critical Edition apparatus).
- ViP 1.12.95*33:4Open verse →
राजानं श्रद्दधे चन्द्र स चन्द्रस्य सुतो मम
rājānaṃ śraddadhe candra sa candrasya suto mama
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *33 line 4 before ViP 1.12.95 (Pathak Critical Edition apparatus).
- ViP 1.12.95*33:5Open verse →
सत्यं देवर्षिणा उक्तम् आकर्ण्य मुदितो भवत्
satyaṃ devarṣiṇā uktam ākarṇya mudito bhavat
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *33 line 5 before ViP 1.12.95 (Pathak Critical Edition apparatus).
- ViP 1.12.95*33:6Open verse →
वार्ता हर्तुर् अपि प्रीत्यां हीनप्राद्रान् महाधनम्
vārtā hartur api prītyāṃ hīnaprādrān mahādhanam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *33 line 6 before ViP 1.12.95 (Pathak Critical Edition apparatus).
- ViP 1.12.95*33:7Open verse →
शङ्खतूर्यनिनादेन ब्रह्मघोषेण भूयसा
śaṅkhatūryaninādena brahmaghoṣeṇa bhūyasā
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *33 line 7 before ViP 1.12.95 (Pathak Critical Edition apparatus).
- ViP 1.12.95*33:8Open verse →
निश्चक्राम पुरा तूर्णं सदश्वरथम् आस्थितः
niścakrāma purā tūrṇaṃ sadaśvaratham āsthitaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *33 line 8 before ViP 1.12.95 (Pathak Critical Edition apparatus).
- ViP 1.12.95*33:9Open verse →
तं दृष्ट्वा पवनाभ्यासे आयान्तं तरसा रथात्
taṃ dṛṣṭvā pavanābhyāse āyāntaṃ tarasā rathāt
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *33 line 9 before ViP 1.12.95 (Pathak Critical Edition apparatus).
- ViP 1.12.95*34Open verse →
अवरुह्य नृपxx दोर्भ्यां x परिरेभिरे ॥ विप्_१,१२।९५*३३:१० ॥ अथाभिनन्दितः सर्वैर् बन्धुवर्गैर् द्विजोत्तम ॥ विप्_१,१२।९५*३३:११ ॥ तेनाभिवादिताः सर्वे प्रविवेशुः सहर्चिx ॥ विप्_१,१२।९५*३३:१२ ॥ wहिले द्४ इन्स्।: इत्य् उक्त्वा भगवान् ईशः तत्रैवान्तरधीयत
avaruhya nṛpaxx dorbhyāṃ x parirebhire // ViP_1,12.95*33:10 // athābhinanditaḥ sarvair bandhuvargair dvijottama // ViP_1,12.95*33:11 // tenābhivāditāḥ sarve praviveśuḥ saharcix // ViP_1,12.95*33:12 // while D4 ins.: ity uktvā bhagavān īśaḥ tatraivāntaradhīyata
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *34 before ViP 1.12.95 (Pathak Critical Edition apparatus).
- ViP 1.12.96*35:1Open verse →
ञ्१,त्३,म्०,एद्। वेङ्क्। इन्स्।: स्वयं शुश्रूषणाद् धर्म्यान् मातापित्रोश् च वै तथा
Ñ1,T3,M0,ed. Veṅk. ins.: svayaṃ śuśrūṣaṇād dharmyān mātāpitroś ca vai tathā
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *35 line 1 before ViP 1.12.96 (Pathak Critical Edition apparatus).
- ViP 1.12.96*35:2Open verse →
द्वादशाक्षरमाहात्म्यात् तपसश् च प्रभावतः
dvādaśākṣaramāhātmyāt tapasaś ca prabhāvataḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *35 line 2 before ViP 1.12.96 (Pathak Critical Edition apparatus).
- ViP 1.13.25*36Open verse →
व्१,ब्२,द्८ इन्स्।: धर्मे च संक्षयं याते क्षीयते चाखिलं जगत्
V1,B2,D8 ins.: dharme ca saṃkṣayaṃ yāte kṣīyate cākhilaṃ jagat
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *36 before ViP 1.13.25 (Pathak Critical Edition apparatus).
- ViP 1.13.51*37Open verse →
द्७ इन्स्।: पृथुर् एवाभवत् तस्मात् ततः पृथुर् अजायत
D7 ins.: pṛthur evābhavat tasmāt tataḥ pṛthur ajāyata
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *37 before ViP 1.13.51 (Pathak Critical Edition apparatus).
- ViP 1.13.66*38Open verse →
द्५ इन्स्।: प्रजापतिगुणं शूरं पृथुं सत्यपराक्रमम्
D5 ins.: prajāpatiguṇaṃ śūraṃ pṛthuṃ satyaparākramam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *38 before ViP 1.13.66 (Pathak Critical Edition apparatus).
- ViP 1.14.23*39:1Open verse →
द्७ इन्स्।: जगद्बीजतया नत्वा चरुरूपविभागतः
D7 ins.: jagadbījatayā natvā carurūpavibhāgataḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *39 line 1 before ViP 1.14.23 (Pathak Critical Edition apparatus).
- ViP 1.14.23*39:2Open verse →
शुद्धरूपप्रणामेत तुष्टो विष्णुः प्रचेतसाम्
śuddharūpapraṇāmeta tuṣṭo viṣṇuḥ pracetasām
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *39 line 2 before ViP 1.14.23 (Pathak Critical Edition apparatus).
- ViP 1.15.21*40:1Open verse →
द्७ इन्स्।: ययौ रवं भयं प्रेम सद्भावं पूर्वनायके
D7 ins.: yayau ravaṃ bhayaṃ prema sadbhāvaṃ pūrvanāyake
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *40 line 1 before ViP 1.15.21 (Pathak Critical Edition apparatus).
- ViP 1.15.21*40:2Open verse →
न मुञ्चत्य् अन्यसक्तापि सा ज्ञेया दक्षिणा बुधैः
na muñcaty anyasaktāpi sā jñeyā dakṣiṇā budhaiḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *40 line 2 before ViP 1.15.21 (Pathak Critical Edition apparatus).
- ViP 1.15.28*41Open verse →
अफ़्तेर् २८, म्३ इन्स्।: क्षणे क्षणे मयासूत्र प्रxxद्धा ननूत्तमे
After 28, M3 ins.: kṣaṇe kṣaṇe mayāsūtra praxxddhā nanūttame
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *41 before ViP 1.15.28 (Pathak Critical Edition apparatus).
- ViP 1.15.37*42Open verse →
द्७ इन्स्।: क्षुड्तृxशोकमोहौ च जरामृत्यू षडूर्मयः
D7 ins.: kṣuḍtṛxśokamohau ca jarāmṛtyū ṣaḍūrmayaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *42 before ViP 1.15.37 (Pathak Critical Edition apparatus).
- ViP 1.15.55*43:1Open verse →
द्७ इन्स्।: संकीर्त्य त्वं त्रिश्लोक्या x प्रार्थना च चतुर्थतः
D7 ins.: saṃkīrtya tvaṃ triślokyā x prārthanā ca caturthataḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *43 line 1 before ViP 1.15.55 (Pathak Critical Edition apparatus).
- ViP 1.15.55*43:2Open verse →
ब्रह्मपारस्तवेनैवं कण्डोस् तुष्टो ऽचिराद् धरिः
brahmapārastavenaivaṃ kaṇḍos tuṣṭo 'cirād dhariḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *43 line 2 before ViP 1.15.55 (Pathak Critical Edition apparatus).
- ViP 1.15.59*44:1Open verse →
ब्२,त्३,एद्। वेङ्क्। इन्स्।: इमं स्तवं यः पठति शृणुयाद् वापि नित्यशः
B2,T3,ed. Veṅk. ins.: imaṃ stavaṃ yaḥ paṭhati śṛṇuyād vāpi nityaśaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *44 line 1 before ViP 1.15.59 (Pathak Critical Edition apparatus).
- ViP 1.15.59*44:2Open verse →
स कामदोषैर् अखिलैर् मुक्तः प्राप्नोति वाञ्छितम्
sa kāmadoṣair akhilair muktaḥ prāpnoti vāñchitam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *44 line 2 before ViP 1.15.59 (Pathak Critical Edition apparatus).
- ViP 1.15.59*45:1Open verse →
wहिले त्३(सिच्) इन्स्।: यः इमं स्तवं पठते शृणुयाद् अपि नित्यशः
while T3(sic) ins.: yaḥ imaṃ stavaṃ paṭhate śṛṇuyād api nityaśaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *45 line 1 before ViP 1.15.59 (Pathak Critical Edition apparatus).
- ViP 1.15.59*45:2Open verse →
स कामदोषैर् अखिलैर् विमुक्तो भवति ध्रुवम्
sa kāmadoṣair akhilair vimukto bhavati dhruvam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *45 line 2 before ViP 1.15.59 (Pathak Critical Edition apparatus).
- ViP 1.15.64*46:1Open verse →
एद्। वेङ्क्। इन्स्।: कुलं शीलं वयः सत्यं दाक्षिण्यं क्षिप्रकारिता
ed. Veṅk. ins.: kulaṃ śīlaṃ vayaḥ satyaṃ dākṣiṇyaṃ kṣiprakāritā
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *46 line 1 before ViP 1.15.64 (Pathak Critical Edition apparatus).
- ViP 1.15.64*46:2Open verse →
अविसंवादिता सत्त्वं वृद्धसेवा कृतज्ञता
avisaṃvāditā sattvaṃ vṛddhasevā kṛtajñatā
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *46 line 2 before ViP 1.15.64 (Pathak Critical Edition apparatus).
- ViP 1.15.101*47:1Open verse →
द्३ इन्स्।: हर्यश्वेष्व् अथ नष्टेषु दक्षः क्रुद्दो शपं द्विजः
D3 ins.: haryaśveṣv atha naṣṭeṣu dakṣaḥ kruddo śapaṃ dvijaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *47 line 1 before ViP 1.15.101 (Pathak Critical Edition apparatus).
- ViP 1.15.101*47:2Open verse →
नारदा नाशम् एहेति गर्भवासं वसेति च
nāradā nāśam eheti garbhavāsaṃ vaseti ca
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *47 line 2 before ViP 1.15.101 (Pathak Critical Edition apparatus).
- ViP 1.15.101*47:3Open verse →
ततो दक्षसुतां प्रादात् प्रियां वै परमे दिने
tato dakṣasutāṃ prādāt priyāṃ vai parame dine
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *47 line 3 before ViP 1.15.101 (Pathak Critical Edition apparatus).
- ViP 1.15.101*47:4Open verse →
तस्मात् स नारदो जज्ञे भूयः शापबलाद् ऋषीन्
tasmāt sa nārado jajñe bhūyaḥ śāpabalād ṛṣīn
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *47 line 4 before ViP 1.15.101 (Pathak Critical Edition apparatus).
- ViP 1.15.120*48Open verse →
द्१ इन्स्।: तस्य पुत्राश् च चत्वारो तेषां नामानि मे शृणु
D1 ins.: tasya putrāś ca catvāro teṣāṃ nāmāni me śṛṇu
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *48 before ViP 1.15.120 (Pathak Critical Edition apparatus).
- ViP 1.15.124*49Open verse →
द्३,४,त्,ग्२,३,म्०,३,४,एद्। वेङ्क्। इन्स्।: काश्यपस्य तु भार्या यास् तासां नामानि मे शृणु
D3,4,T,G2,3,M0,3,4,ed. Veṅk. ins.: kāśyapasya tu bhāryā yās tāsāṃ nāmāni me śṛṇu
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *49 before ViP 1.15.124 (Pathak Critical Edition apparatus).
- ViP 1.15.128*50Open verse →
त्२ इन्स्।: एव स्वामिन् स पिता चैव मित्रावरुण एव च
T2 ins.: eva svāmin sa pitā caiva mitrāvaruṇa eva ca
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *50 before ViP 1.15.128 (Pathak Critical Edition apparatus).
- ViP 1.15.133*52Open verse →
सप्तविंशति याः प्रोक्ताः सोमपत्न्यो ऽथ सुव्रताः ॥ विप्_१,१५।१३३अब् ॥ अफ़्तेर् १३३अब् श्,ञ्१,द्१।२।७,द्५,एद्। वेङ्क्। इन्स्।; wहिले द्५ इन्स्। अफ़्तेर् १३३: सर्वा नक्षत्रयोगिन्यस् तन्नाम्नश् चैव ताः स्मृताः ॥ विप्_१,१५।१३३अब्*५१ ॥ त्३ इन्स्। अफ़्तेर् १३३अब्: दक्षशापाद् या सपत्याः तासु यक्षगृहार्थिते
saptaviṃśati yāḥ proktāḥ somapatnyo 'tha suvratāḥ // ViP_1,15.133ab // After 133ab Ś,Ñ1,D1.2.7,D5,ed. Veṅk. ins.; while D5 ins. after 133: sarvā nakṣatrayoginyas tannāmnaś caiva tāḥ smṛtāḥ // ViP_1,15.133ab*51 // T3 ins. after 133ab: dakṣaśāpād yā sapatyāḥ tāsu yakṣagṛhārthite
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *52 before ViP 1.15.133 (Pathak Critical Edition apparatus).
- ViP 1.15.143*53:1Open verse →
द्७ इन्स्।: प्रह्लादवन् नृसिंहैकभक्तिभावाय देहिनाम्
D7 ins.: prahlādavan nṛsiṃhaikabhaktibhāvāya dehinām
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *53 line 1 before ViP 1.15.143 (Pathak Critical Edition apparatus).
- ViP 1.15.143*53:2Open verse →
आवहच् छ्रवणौत्सुक्यं तत्प्रभावम् असूचयत्
āvahac chravaṇautsukyaṃ tatprabhāvam asūcayat
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *53 line 2 before ViP 1.15.143 (Pathak Critical Edition apparatus).
- ViP 1.17.47*54Open verse →
म्२।३ इन्स्।: त्रैलोक्यम् एतत् सचराचरं यद् विष्णुं विजिष्णुं प्रभविष्णुम् ईड्यं । अलं करिष्णुं त्व् असहिष्णुम् इत्थं स्थाणुं सदा स्तौमि सदा सदैव
M2.3 ins.: trailokyam etat sacarācaraṃ yad viṣṇuṃ vijiṣṇuṃ prabhaviṣṇum īḍyaṃ / alaṃ kariṣṇuṃ tv asahiṣṇum itthaṃ sthāṇuṃ sadā staumi sadā sadaiva
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *54 before ViP 1.17.47 (Pathak Critical Edition apparatus).
- ViP 1.17.49*55Open verse →
एद्। वेङ्क्। इन्स्।: ततः पुरोहितैर् उक्तो हिरण्यकशिपुः स्वकैः
ed. Veṅk. ins.: tataḥ purohitair ukto hiraṇyakaśipuḥ svakaiḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *55 before ViP 1.17.49 (Pathak Critical Edition apparatus).
- ViP 1.18.26*56:1Open verse →
द्३-५,त्,ग्,म्०,एद्। वेङ्क्। इन्स्। wहिले म्२।३ चोन्त्। अफ़्तेर् *५४: बहुनात्र किम् उक्तेन स एव जगतः पतिः
D3-5,T,G,M0,ed. Veṅk. ins. while M2.3 cont. after *54: bahunātra kim uktena sa eva jagataḥ patiḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *56 line 1 before ViP 1.18.26 (Pathak Critical Edition apparatus).
- ViP 1.18.26*56:2Open verse →
स कर्ता च विकर्ता च संहर्ता च हृदि स्थितः
sa kartā ca vikartā ca saṃhartā ca hṛdi sthitaḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *56 line 2 before ViP 1.18.26 (Pathak Critical Edition apparatus).
- ViP 1.18.26*56:3Open verse →
स भोक्ता भोज्यम् अप्य् एवं स एव जगदीश्वरः
sa bhoktā bhojyam apy evaṃ sa eva jagadīśvaraḥ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *56 line 3 before ViP 1.18.26 (Pathak Critical Edition apparatus).
- ViP 1.18.26*56:4Open verse →
भवद्भिर् एतत् क्षन्तव्यं बाल्याद् उक्तं तु यन् मया
bhavadbhir etat kṣantavyaṃ bālyād uktaṃ tu yan mayā
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *56 line 4 before ViP 1.18.26 (Pathak Critical Edition apparatus).
- ViP 1.18.29*57:1Open verse →
त्३,म्०,एद्। वेङ्क्। इन्स्।: कर्मणा जायते सर्वं कर्मैव गतिसाधनम्
T3,M0,ed. Veṅk. ins.: karmaṇā jāyate sarvaṃ karmaiva gatisādhanam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *57 line 1 before ViP 1.18.29 (Pathak Critical Edition apparatus).
- ViP 1.18.29*57:2Open verse →
तस्मात् सर्वप्रयत्नेन साधु कर्म समाचरेत्
tasmāt sarvaprayatnena sādhu karma samācaret
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *57 line 2 before ViP 1.18.29 (Pathak Critical Edition apparatus).
- ViP 1.20.39*58:1Open verse →
द्७ इन्स्।: करुणं चरणानम्रे चारुणं प्रणतद्रुहि
D7 ins.: karuṇaṃ caraṇānamre cāruṇaṃ praṇatadruhi
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *58 line 1 before ViP 1.20.39 (Pathak Critical Edition apparatus).
- ViP 1.20.39*58:2Open verse →
प्रह्लादवरदं वन्दे नृसिंहघृणिभीषणं
prahlādavaradaṃ vande nṛsiṃhaghṛṇibhīṣaṇaṃ
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *58 line 2 before ViP 1.20.39 (Pathak Critical Edition apparatus).
- ViP 1.21.23*59Open verse →
श्,द्१।७,एद्। वेङ्क्। इन्स्।: क्रोधात् तु जनयाम् आस पिशाचांश् च महाबलान्
Ś,D1.7,ed. Veṅk. ins.: krodhāt tu janayām āsa piśācāṃś ca mahābalān
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *59 before ViP 1.21.23 (Pathak Critical Edition apparatus).
- ViP 1.22.4*61Open verse →
द्७ इन्स्।: मरुतां दितिपुत्राणां वासवम् अधिपं ददौ
D7 ins.: marutāṃ ditiputrāṇāṃ vāsavam adhipaṃ dadau
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *61 before ViP 1.22.4 (Pathak Critical Edition apparatus).
- ViP 1.22.6*62Open verse →
अफ़्तेर् ६, द्३,त्२।३,म्०,ग्३, एद्। इन्स्।; wहिले ग्३ इन्स्। ल्।१ ओफ़् *६३ अन्द् थे मर्ग्। चोन्त्।: हिमालयं स्थावरणां मुनीनां कपिलं मुनिम्
After 6, D3,T2.3,M0,G3, ed. ins.; while G3 ins. l.1 of *63 and the marg. cont.: himālayaṃ sthāvaraṇāṃ munīnāṃ kapilaṃ munim
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *62 before ViP 1.22.6 (Pathak Critical Edition apparatus).
- ViP 1.22.7*64Open verse →
शेषं तु नागराजानं मृगाणां सिंहम् ईश्वरम् ॥ विप्_१,२२।७अब् ॥ फ़ोर् ७अब्, द्४,ग्१।२ सुब्स्त्। wहिले ग्३ इन्स्। ल्१ अफ़्तेर् ६ अन्द् ल्२ बेफ़ोरे ७च्द्, म्० इन्स्। ल्२ ओन्ल्य् अफ़्तेर् ७अब्, म्३।४ सुब्स्त्। ल्१ ओन्ल्य् फ़ोर् ७अब्: मृगाणाम् अपि सर्वेषां राज्ये सिंहं ददौ विभुः ॥ विप्_१,२२।७अब्*६३:१ ॥ क्रव्यादानां दंष्ट्रिणां च मृगाणां व्याघ्रम् ईश्वरम् ॥ विप्_१,२२।७अब्*६३:२ ॥ वनस्पतीनां राजानं प्लक्षम् एवाभ्यषेचयत् ॥ विप्_१,२२।७च्द् ॥ त्१,म्०,एद्। वेङ्क्। इन्स्। अफ़्तेर् ७: एवं विभज्य जातीनां प्राधान्येनाकरोत् प्रभून्
śeṣaṃ tu nāgarājānaṃ mṛgāṇāṃ siṃham īśvaram // ViP_1,22.7ab // For 7ab, D4,G1.2 subst. while G3 ins. l1 after 6 and l2 before 7cd, M0 ins. l2 only after 7ab, M3.4 subst. l1 only for 7ab: mṛgāṇām api sarveṣāṃ rājye siṃhaṃ dadau vibhuḥ // ViP_1,22.7ab*63:1 // kravyādānāṃ daṃṣṭriṇāṃ ca mṛgāṇāṃ vyāghram īśvaram // ViP_1,22.7ab*63:2 // vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat // ViP_1,22.7cd // T1,M0,ed. Veṅk. ins. after 7: evaṃ vibhajya jātīnāṃ prādhānyenākarot prabhūn
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *64 before ViP 1.22.7 (Pathak Critical Edition apparatus).
- ViP 1.22.66*65Open verse →
द्७ इन्स्।: अस्य जगत आत्मानं पुरुषं शुद्धं क्षत्रज्ञम्
D7 ins.: asya jagata ātmānaṃ puruṣaṃ śuddhaṃ kṣatrajñam
Meaning · English — Pathak Critical Edition apparatus
Manuscript insertion *65 before ViP 1.22.66 (Pathak Critical Edition apparatus).