Yaksha Prashna · Chapter 2
Vana Parva 296 — The four brothers fall at the lake
षण्णवत्यधिकद्विशततमोऽध्यायः
Nakula, then Sahadeva, then Arjuna, then Bhima — each in turn — reaches the lake, ignores the yaksha's warning to answer questions before drinking, drinks anyway, and falls dead. Yudhishthira, alarmed by their absence, sets out himself.
43 verses
नापदामस्ति मर्यादा न निमित्तं न कारणम् | धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः
Meaning
{"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}
प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा | न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम्
Meaning
{"speaker":"Bhima","subParva":"आरणेयपर्व"}
वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः | अतितीक्ष्णा मया क्षान्तास्तेन प्राप्ताः स्म संशयम्
Meaning
{"speaker":"Arjuna","subParva":"आरणेयपर्व"}
शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत | स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम्
Meaning
{"speaker":"Sahadeva","subParva":"आरणेयपर्व"}
ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् | आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् | इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम् | अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् | सारसानां च निर्ह्रादमत्रोदकमसंशयम्
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः | गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् | प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् | पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः | प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः | अपिबच्छीतलं तोयं पीत्वा च निपपात ह
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः | अब्रवीद्भ्रातरं वीरं सहदेवमरिंदमम्
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
भ्राता चिरायते तात सहदेव तवाग्रजः | तं चैवानय सोदर्यं पानीयं च त्वमानय
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत | ददर्श च हतं भूमौ भ्रातरं नकुलं तदा
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
भ्रातृशोकाभिसन्तप्तस्तृषया च प्रपीडितः | अभिदुद्राव पानीयं ततो वागभ्यभाषत
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः | प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः | अपिबच्छीतलं तोयं पीत्वा च निपपात ह
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
तौ चैवानय भद्रं ते पानीयं च त्वमानय
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः | आमुक्तखड्गो मेधावी तत्सरः प्रत्यपद्यत
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
यतः पुरुषशार्दूलौ पानीयहरणे गतौ | तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः | धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम्
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
नापश्यत्तत्र किञ्चित्स भूतं तस्मिन्महावने | सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे | किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिपत्स्यसे | ततः पास्यसि पानीयं हरिष्यसि च भारत
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय | यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः | ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन्
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ | अनेकैरिषुसङ्घातैरन्तरिक्षं ववर्ष ह
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब | अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि
Meaning
{"speaker":"Yaksha","subParva":"आरणेयपर्व"}
स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः | अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः | नकुलः सहदेवश्च बीभत्सुश्चापराजितः
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत | तांश्चैवानय भद्रं ते पानीयं च त्वमानय
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
भीमसेनस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत | यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
पास्यामि तावत्पानीयमिति पार्थो वृकोदरः | ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः | प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च
Meaning
{"speaker":"Yaksha","subParva":"आरणेयपर्व"}
एवमुक्तस्ततो भीमो यक्षेणामिततेजसा | अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः | समुत्थाय महाबाहुर्दह्यमानेन चेतसा
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
अपेतजननिर्घोषं प्रविवेश महावनम् | रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम्
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
नीलभास्वरवर्णैश्च पादपैरुपशोभितम् | भ्रमरैरुपगीतं च पक्षिभिश्च महायशाः
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् | ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}