Yaksha Prashna · Chapter 1
Vana Parva 295 — The deer and the firewood-sticks
पञ्चनवत्यधिकद्विशततमोऽध्यायः
A brahmin's araṇi (fire-churning sticks) are carried off by a deer's antlers. The Pandavas pursue the deer through the forest, grow thirsty, and search for water. Nakula climbs a tree, spies a lake, and goes to fetch water for his brothers.
17 verses
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् | प्रतिलभ्य ततः कृष्णां किमकुर्वत पाण्डवाः
Meaning
{"speaker":"Janamejaya","subParva":"आरणेयपर्व"}
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् | विहाय काम्यकं राजा सह भ्रातृभिरच्युतः
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः | स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
अनुगुप्तफलाहाराः सर्व एव मिताशनाः | न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः | भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः | क्लेशमार्छन्त विपुलं सुखोदर्कं परन्तपाः
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
अजातशत्रुमासीनं भ्रातृभिः सहितं वने | आगम्य ब्राह्मणस्तूर्णं सन्तप्त इदमब्रवीत्
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
अरणीसहितं मह्यं समासक्तं वनस्पतौ | मृगस्य घर्षमाणस्य विषाणे समसज्जत
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
तदादाय गतो राजंस्त्वरमाणो महामृगः | आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् | अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
ब्राह्मणस्य वचः श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः | धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः | ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम्
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
कर्णिनालीकनाराचानुत्सृजन्तो महारथाः | नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात्
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
तेषां प्रयतमानानां नादृश्यत महामृगः | अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
शीतलच्छायमासाद्य न्यग्रोधं गहने वने | क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन्
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
तेषां समुपविष्टानां नकुलो दुःखितस्तदा | अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
नास्मिन्कुले जातु ममज्ज धर्मो; न चालस्यादर्थलोपो बभूव | अनुत्तराः सर्वभूतेषु भूयः; सम्प्राप्ताः स्मः संशयं केन राजन्
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}