Sant Seva ParishadSant Seva ParishadSSP · sant seva
← Verse view|📖 Yaksha Prashna · Ch 1
Ch 2 »

Yaksha Prashna · अध्याय 1

Vana Parva 295 — The deer and the firewood-sticks

पञ्चनवत्यधिकद्विशततमोऽध्यायः

A brahmin's araṇi (fire-churning sticks) are carried off by a deer's antlers. The Pandavas pursue the deer through the forest, grow thirsty, and search for water. Nakula climbs a tree, spies a lake, and goes to fetch water for his brothers.

  1. एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् | प्रतिलभ्य ततः कृष्णां किमकुर्वत पाण्डवाः

    Meaning

    {"speaker":"Janamejaya","subParva":"आरणेयपर्व"}

  2. एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् | विहाय काम्यकं राजा सह भ्रातृभिरच्युतः

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  3. पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः | स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  4. अनुगुप्तफलाहाराः सर्व एव मिताशनाः | न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  5. वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः | भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  6. ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः | क्लेशमार्छन्त विपुलं सुखोदर्कं परन्तपाः

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  7. अजातशत्रुमासीनं भ्रातृभिः सहितं वने | आगम्य ब्राह्मणस्तूर्णं सन्तप्त इदमब्रवीत्

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  8. अरणीसहितं मह्यं समासक्तं वनस्पतौ | मृगस्य घर्षमाणस्य विषाणे समसज्जत

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  9. तदादाय गतो राजंस्त्वरमाणो महामृगः | आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  10. तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् | अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  11. ब्राह्मणस्य वचः श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः | धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  12. सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः | ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम्

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  13. कर्णिनालीकनाराचानुत्सृजन्तो महारथाः | नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात्

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  14. तेषां प्रयतमानानां नादृश्यत महामृगः | अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  15. शीतलच्छायमासाद्य न्यग्रोधं गहने वने | क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन्

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  16. तेषां समुपविष्टानां नकुलो दुःखितस्तदा | अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  17. नास्मिन्कुले जातु ममज्ज धर्मो; न चालस्यादर्थलोपो बभूव | अनुत्तराः सर्वभूतेषु भूयः; सम्प्राप्ताः स्मः संशयं केन राजन्

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}