Brihadaranyaka Upanishad · Chapter 6
Adhyaya 6
षष्ठोऽध्यायः
The five fires meditation again, and the lineage of teachers.
112 verses
अथ वँशः । पौतिमाषीपुत्रं कात्यायनीपुत्रात् कात्यायनीपुत्रो गौतमीपु-त्राद्गौतमीपुत्रो भारद्वाजीपुत्राद्भारद्वाजीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्र औप-स्वस्तीपुत्रादौपस्वस्तीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्रः कात्यायनीपुत्रात्कात्याय-नीपुत्रः कौशिकीपुत्रात्कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्राच्च वैयाघ्र-पदीपुत्रः काण्वीपुत्राच्च कापीपुत्राच्च कापीपुत्रः ॥1॥
आत्रेयीपुत्रादात्रे-यीपुत्रो गौतमीपुत्राद्गौतमीपुत्रो भारद्वाजीपुत्राद्भारद्वाजीपुत्रः पाराशरीपुत्रा -----Page------------------१३४-- त्पाराशरीपुत्रो वात्सीपुत्राद्वात्सीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्रो वार्कारुणी-पुत्राद्वार्कारुणीपुत्रो वार्कारुणीपुत्राद्वार्कारुणीपुत्र आर्तभागीपुत्रादार्तभागीपुत्रःशौङ्गीपुत्राच्छौङ्गीपुत्रः सांकृतीपुत्रात्सांकृतीपुत्र आलम्बायनीपुत्रादालम्बायनी-पुत्र आलम्बीपुत्रादालम्बीपुत्रो जायन्तीपुत्राज्जायन्तीपुत्रो माण्डूकायनीपुत्रा-न्माण्डूकायनीपुत्रो माण्डूकीपुत्रान्माण्डूकीपुत्रः शाण्डिलोपुत्राच्छाण्डिली-पुत्रो राथीतरीपुत्राद्राथीतरीपुत्रो भालुकीपुत्राद्भालुकीपुत्रः क्रौञ्चिकीपु-त्राठभ्यां क्रौञ्चिकीपुत्रो वैदभृतीपुत्राद्वैदभृतीपुत्रः कार्शकेयीपुत्रात्कार्शकेयीपुत्रःप्राचीनयोगीपुत्रात्प्राचीनयोगीपुत्रः सांजीवीपुत्रात्सांजीवीपुत्रः प्राश्नीपुत्रा-दासुरिवासिनः प्राश्नीपुत्र आसुरायणादासुरायण आसुरेरासुरिः ॥2॥
याज्ञवल्क्याद्याज्ञवल्क्य उद्दालकादुद्दालकोऽरुणादरुण उपवेशेरुपवेशिः कुश्रेःकुश्रिर्वाजश्रवसो वाजश्रवा जिह्वावतो बाध्योगाज्जिह्वावान्बाध्योगोऽसि-ताद्वार्षगणादसितो वार्षगणो हरितात्कश्यपाद्धरितः कश्यपः शिल्पात्क-श्यपाच्छिल्पः कश्यपः कश्यपान्नैध्रुवेः कश्यपो नैध्रुविर्वाचो वागम्भिण्याअम्भिण्यादित्यादादित्यानीमानि शुक्लानि यजूँषिठ वाजसनेयेन याज्ञव-ल्क्येनाख्यायन्ते ॥3॥
समानमा सांजीवीपुत्रात्सांजीवीपुत्रो माण्डू-कायनेर्माण्डूकायनिर्माण्डव्यान्माण्डव्यः कौत्सात्कौत्सो माहित्थेर्माहित्थिर्वाम-कक्षायणाद्वामकक्षायणः शाण्डिल्याच्छाण्डिल्यो वात्स्याद्वात्स्यः कुश्रेः कुश्रिर्य-ज्ञवचसो राजस्तम्बायनाद्यज्ञवचा राजस्तम्बायनस्तुरात्कावषेयात्तुरः कावषेयःप्रजापतेः प्रजापतिर्ब्रह्मणो ब्रह्म स्वयंभु ब्रह्मणे नमः ॥4॥
॥5॥
इति षष्ठोऽध्यायः ॥6॥
साचेदस्मै न दद्यात्काममेनामवक्रीणीयात् सा चेदस्मै नैव दद्यात्काममेनां यष्ट्यावा पाणिना वोपहत्यातिक्रामेदिन्द्रियेण ते यशसा यश आदद इत्ययशा एवभवति ॥7॥
सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आदधामीति-----Page-----------------१३२--यशस्विनावेव भवतः ॥8॥
स यामिच्छेत्कामयेत मेति तस्यामर्थं निष्ठायमुखेन मुखँ संधायोपस्थमस्या अभिमृश्य जपेदङ्गादङ्गात्संभवसि हृदयादधि-जायसे । स त्वमङ्गकषायोऽसि दिग्धविद्धामिव मादयेमाममूं मयीति ॥9॥
॥ इति बृहदारण्यकोपनिषत्समाप्ता ॥10॥
अथ यामिच्छेद्दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखँ संधायापान्याभि-प्राण्यादिन्द्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव भवति ॥11॥
अथयस्य जायायै जारः स्यात्तं चेद्द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमँशरबर्हिस्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाऽक्ता जुहुयान्ममसमिद्धेऽहौषीः प्राणापानौ त आददेऽसाविति मम समिद्धेऽहौषीः पुत्रपशूँस्तआददेऽसाविति मम समिद्धेऽहौषीरिष्टासुकृते त आददेऽसाविति मम समि-द्धेऽहौषीराशापराकाशौ त आददेऽसाविति स वा एष निरिन्द्रियो विसुकृ-तोऽस्माल्लोकात्प्रैति यमेवंविद्ब्राह्मणाः शपति तस्मादेवंविच्छ्रोत्रियस्य दारेणनोपहासमिच्छेदुत ह्येवंवित्परो भवति ॥12॥
अथ यस्य जायामार्तवं वि-न्देत्ञ्यठहं कँसेन पिबेदहतवासा नैनां वृषलो न वृषल्युपहन्याञ्निठराव्रान्तआप्लुत्य व्रीहीनवघातयेत् ॥13॥
स य इच्छेत्पुत्रो मे शुक्लो जायेत वेदम-नुब्रुवीत सर्वमायुरियादिति क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामी-श्वरौ जनयितवै ॥14॥
अथ य इच्छेत्पुत्रो मे कपिलः पिङ्गलो जायेत द्वौवेदावनुब्रुवीत सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नी-यातामीश्वरौ जनयितवै ॥15॥
अथ य इच्छेत्पुत्रो मे श्यामो लोहिताक्षोजायेत त्रीन्वेदाननुब्रुवीत सर्वमायुरियादित्युदौदनं पाचयित्वा सर्पिष्मन्त-मश्नीयातामीश्वरौ जनयितवै ॥16॥
अथ य इच्छेद्दुहिता मे पण्डिता जायेतसर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयि-तवै ॥17॥
अथ य इच्छेत्पुत्रो मे पण्डितो विगीतः समितिंगमः शुश्रूषितांवाचं भाषिता जायेत सर्वान्वेदाननुब्रुवीत सर्वमायुरियादिति माँसौदनंपाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवा औक्षेण वार्षभेण वा ॥18॥
अथाभिप्रातरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्य-ग्नये स्वाहाऽनुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति हुत्वोद्धृत्यप्राश्नाति प्राश्येतरस्याः प्रयच्छति प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनांत्रिरभ्युक्षत्युत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्यां सं जायां पत्या सहेति ॥19॥
अथैनामभिपद्यतेऽमोऽहमस्मि सा त्वँ सा त्वमस्यमोऽहं सामाहमस्मि ॠक्त्वं-----Page-----------------१३३--द्यौरहं पृथिवी त्वं तावेहि सँरभावहै सह रेतो दधावहै पुँसे पुत्राय वित्तयैति ॥20॥
अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इतितस्यामर्थं निष्ठाय मुखेन मुखँ संधाय त्रिरेनामनुलोमामनुमार्ष्टि विष्णुर्योनिंकल्पयतु त्वष्टा रूपाणि पिँशतु । आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ।गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके । गर्भं ते अश्विनौ देवावाधत्तां पुष्क-रस्रजौ ॥21॥
हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ । तं ते गर्भं हवामहेदशमे मासि सूतये । यथाऽग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण गर्भिणी । वायुर्दिशांयथा गर्भ एवं गर्भं दधामि तेऽसाविति ॥22॥
सोष्यन्तीमद्भिरभ्युक्षतियथा वायुः पुष्करिणीँ समिङ्गयति सर्वतः । एवा ते गर्भ एजतु सहावैतुजरायुणा । इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः । तमिन्द्र निर्जहि गर्भेणसावराँ सहेति ॥23॥
जातेऽग्निमुपसमाधायाङ्क आधाय कँसे पृषदाज्य्सँं!नीय पृषदाज्यस्योपघातं जुहोत्यस्मिन्सहस्रं पुष्यासमेधमानः स्वे गृहे ।अत्योपसंद्यां मा च्छैत्सीत् प्रजया च पशुभिश्च स्वाहा । मयि प्राणाँस्त्वयिमनसा जुहोमि स्वाहा । यत्कर्मणाऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्वि-ष्टकृद्विद्वान्स्विष्टँ सुहुतं करोतु नः स्वाहेति ॥24॥
अथास्य दक्षिणं कर्णम-भिनिधाय वाग्वागिति त्रिरथ दधि मधु घृतँ संनीयानन्तर्हितेन जातरूपेणप्राशयति । भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः सर्वं त्वयिदधामीति ॥25॥
अथास्य नाम करोति वेदोऽसीति तदस्य तद्गुह्यमेव नामभवति ॥26॥
अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो योमयोभूर्यो रत्नधा वसुविद्यः सुदत्रः । येन विश्वा पुष्यसि वार्याणि सरस्वतितमिह धातवे करिति ॥27॥
अथास्य मातरमभिमन्त्रयते । इलोऽसि मैत्राव-रुणी वीरे वीरमजीजनत् । सा त्वं वीरवती भव याऽस्मान् वीरवतोऽकरदितितं वा एतमाहुरतिपिता बताभूरतिपितामहो बताभूः परमां बत काष्ठां प्राप-च्छ्रिया यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥28॥
यद्वै तन्नस्पृशति स्पृशन्वै तन्न स्पृशति नहि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यतेऽविनाशि-त्वान्न तु तद्द्विऽतीयमस्ति ततोऽन्यद्विभक्तं यत्स्पृशेत् ॥29॥
यद्वै तन्न विजा-नाति विजानन्वै तन्न विजानाति न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते-ऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ॥30॥
वत्र वान्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेदन्योऽन्यद्रसयेदन्योऽन्य-द्वदेदन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वीतान्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात् ॥।३१॥ सलिल एको द्रष्टाऽद्वैतो भवत्येष ब्रह्मलोकः सम्राडिति हैनमनुश-शास याज्ञवल्क्य एषास्य पस्मा गतिरेषास्य परमा संपदेषोऽस्य परमो लोकएषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ॥32॥
स यो मनुष्याणाँ राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्य-कैर्भोगैः संपन्नतमः स मनुष्याणां परम आनन्दोऽथये शतं मनुष्याणामानन्दाःस एकः पितॄणां जितलोकानामानन्दोऽथ ये शतं पितॄणां जितलोकानामा-नन्दाः स एको गन्धर्वलोक आनन्दोऽथ ये शतं गन्धर्वलोक आनन्दाः स एकःकर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसंपद्यन्तेऽथ ये शतं कर्मदेवाना-मानन्दाः स एक आजानदेवानामानन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतोऽथयोऽवृजिनोऽकामहतोऽथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोकआनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतोऽथैष एत परम आनन्द एष ब्रह्म-----Page------------------११७--लोकः सम्राडिति होवाच याज्ञवल्क्यः सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वंविमोक्षायैव ब्रूहीत्यत्र ह याज्ञवल्क्यो बिभयांचकार मेधावी राजा सर्वेभ्योमाऽन्तेभ्य उदरौत्सीदिति ॥33॥
स वा एष एतस्मिन्स्वप्नान्ते रत्वा चरित्वादृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥34॥
तद्यथाऽनः सुसमाहितमुत्सर्जद्यायादेवमेवायँ शारीर आत्मा प्राज्ञेनात्मना-न्वारूढमुत्सर्जन्याति यत्रैतदूर्ध्वोच्छ्वासी भवति ॥35॥
स यत्रायमणिमानंन्येति जरया वोपतपता वाणिमानं निगच्छति तद्यथाम्रं वौदुम्बरं वा पिप्पलंवा बन्धनात्प्रमुच्यत एवमेवायं पुरुष एम्योऽङ्गेभ्यः संप्रमुच्य पुनः प्रतिन्यायंप्रतियोन्याद्रवति प्राणायैव ॥36॥
तद्यथा राजानमायान्तमुग्राः प्रत्येनसःसूतग्रामण्योऽन्नैः पानैरावसथैः प्रतिकल्पन्तेऽयमायात्वयमागच्छतीत्येवँ हैवं-विदँ सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्मायातीदमागच्छतीति ॥37॥
तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽभिसमायन्त्येव-मेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्रैतदूर्ध्वोच्छ्वासीभवति ॥38॥
ॐ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति । प्राणो वै ज्येष्ठश्च श्रेष्ठश्च । ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्यपि च येषां बुभूषति य एवं वेद
oṃ yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavati | prāṇo vai jyeṣṭhaśca śreṣṭhaśca | jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavatyapi ca yeṣāṃ bubhūṣati ya evaṃ veda
यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति । वाग्वै वसिष्ठा । वसिष्ठः स्वानां भवत्यपि च येषां बुभूषति , य एवं वेद
yo ha vai vasiṣṭhāṃ veda vasiṣṭhaḥ svānāṃ bhavati | vāgvai vasiṣṭhā | vasiṣṭhaḥ svānāṃ bhavatyapi ca yeṣāṃ bubhūṣati , ya evaṃ veda
यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे । चक्षुर्वै प्रतिष्ठा चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति । प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे य एवं वेद
yo ha vai pratiṣṭhāṃ veda pratitiṣṭhati same pratitiṣṭhati durge | cakṣurvai pratiṣṭhā cakṣuṣā hi same ca durge ca pratitiṣṭhati | pratitiṣṭhati same pratitiṣṭhati durge ya evaṃ veda
यो ह वै सम्पदं वेद सं हास्मै पद्यते यं कामं कामयते । श्रोत्रं वै सम्पच्छ्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः । सं हास्मै पद्यते यं कामं कामयते य एवं वेद
yo ha vai sampadaṃ veda saṃ hāsmai padyate yaṃ kāmaṃ kāmayate | śrotraṃ vai sampacchrotre hīme sarve vedā abhisampannāḥ | saṃ hāsmai padyate yaṃ kāmaṃ kāmayate ya evaṃ veda
यो ह वा आयतनं वेदाऽऽयतनं स्वानां भवति आयतनं जनानाम् । मनो वा आयतनमायतनं स्वानां भवत्यायतनं जनानां य एवं वेद
yo ha vā āyatanaṃ vedā''yatanaṃ svānāṃ bhavati āyatanaṃ janānām | mano vā āyatanamāyatanaṃ svānāṃ bhavatyāyatanaṃ janānāṃ ya evaṃ veda
यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभी रेतो वै प्रजातिः । प्रजायते ह प्रजया पशुभिर्य एवं वेद
yo ha vai prajātiṃ veda prajāyate ha prajayā paśubhī reto vai prajātiḥ | prajāyate ha prajayā paśubhirya evaṃ veda
ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुस्तद्धोचुः को नो वसिष्ठ इति । तद्धोवाच यस्मिन्व उत्क्रान्त इदं शरीरं पापीयो मन्यते स वो वसिष्ठ इति
te heme prāṇā ahaṃśreyase vivadamānā brahma jagmustaddhocuḥ ko no vasiṣṭha iti | taddhovāca yasminva utkrānta idaṃ śarīraṃ pāpīyo manyate sa vo vasiṣṭha iti
वाग्घोच्चक्राम । सा संवत्सरं प्रोष्या।आ।आगत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुर्यथाऽकला अवदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह वाक्
vāgghoccakrāma | sā saṃvatsaraṃ proṣyā|ā|āgatyovāca kathamaśakata madṛte jīvitumiti | te hocuryathā'kalā avadanto vācā prāṇantaḥ prāṇena paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivamajīviṣmeti | praviveśa ha vāk
चक्षुर्होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुर्यथान्धा अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह चक्षुः
cakṣurhoccakrāma | tatsaṃvatsaraṃ proṣyā''gatyovāca kathamaśakata madṛte jīvitumiti | te hocuryathāndhā apaśyantaścakṣuṣā prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivamajīviṣmeti | praviveśa ha cakṣuḥ
श्रोत्रं होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुर्यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह श्रोत्रम्
śrotraṃ hoccakrāma | tatsaṃvatsaraṃ proṣyā''gatyovāca kathamaśakata madṛte jīvitumiti | te hocuryathā badhirā aśṛṇvantaḥ śrotreṇa prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā vidvāṃso manasā prajāyamānā retasaivamajīviṣmeti | praviveśa ha śrotram
मनो होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुर्यथा मुग्धा अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह मनः
mano hoccakrāma | tatsaṃvatsaraṃ proṣyā''gatyovāca kathamaśakata madṛte jīvitumiti | te hocuryathā mugdhā avidvāṃso manasā prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa prajāyamānā retasaivamajīviṣmeti | praviveśa ha manaḥ
रेतो होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुर्यथा क्लीबा अप्रजायमाना रेतसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसैवमजीविष्मेति । प्रविवेश ह रेतः
reto hoccakrāma | tatsaṃvatsaraṃ proṣyā''gatyovāca kathamaśakata madṛte jīvitumiti | te hocuryathā klībā aprajāyamānā retasā prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasaivamajīviṣmeti | praviveśa ha retaḥ
अथ ह प्राण उत्क्रमिष्यन् यथा महासुहयः सैन्धवः पड्वीशशङ्कून्संवृहेदेवं हैवेमान्प्राणान्संववर्ह । ते होचुर्मा भगव उत्क्रमीर्न वै शक्ष्यामस्त्वदृते जीवितुमिति । तस्यो मे बलिं कुरुतेति तथेति
atha ha prāṇa utkramiṣyan yathā mahāsuhayaḥ saindhavaḥ paḍvīśaśaṅkūnsaṃvṛhedevaṃ haivemānprāṇānsaṃvavarha | te hocurmā bhagava utkramīrna vai śakṣyāmastvadṛte jīvitumiti | tasyo me baliṃ kuruteti tatheti
सा ह वागुवाच यद्वा अहं वसिष्ठाऽस्मि त्वं तद्वसिष्ठोऽसीति । यद् वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुर्यद्वा अहं सम्पदस्मि त्वं तत् सम्पदसीति श्रोत्रम् । यद् वा अहमायतनमस्मि त्वं तदायतनमसीति मनो यद्वा अहं प्रजातिरस्मि त्वं तत् प्रजातिरसीति रेतस्तस्यो मे किमन्नं किं वास इति । यदिदं किञ्चाऽऽश्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमापो वास इति । न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवमेतदनस्यान्नं वेद । तद् विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाऽऽचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते
sā ha vāguvāca yadvā ahaṃ vasiṣṭhā'smi tvaṃ tadvasiṣṭho'sīti | yad vā ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭho'sīti cakṣuryadvā ahaṃ sampadasmi tvaṃ tat sampadasīti śrotram | yad vā ahamāyatanamasmi tvaṃ tadāyatanamasīti mano yadvā ahaṃ prajātirasmi tvaṃ tat prajātirasīti retastasyo me kimannaṃ kiṃ vāsa iti | yadidaṃ kiñcā''śvabhya ā kṛmibhya ā kīṭapataṅgebhyastatte'nnamāpo vāsa iti | na ha vā asyānannaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītaṃ ya evametadanasyānnaṃ veda | tad vidvāṃsaḥ śrotriyā aśiṣyanta ācāmantyaśitvā''cāmantyetameva tadanamanagnaṃ kurvanto manyante
श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम । स आजगाम जैवलिं प्रवाहणं परिचारयमाणम् । तमुदीक्ष्याभ्युवाद कुमारा३ इति । स भोः ३ इति प्रतिशुश्राव अनुशिष्टोऽन्वसि पित्रेत्योमिति होवाच
śvetaketurha vā āruṇeyaḥ pañcālānāṃ pariṣadamājagāma | sa ājagāma jaivaliṃ pravāhaṇaṃ paricārayamāṇam | tamudīkṣyābhyuvāda kumārā3 iti | sa bhoḥ 3 iti pratiśuśrāva anuśiṣṭo'nvasi pitretyomiti hovāca
वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति । नेति होवाच । वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति । नेति हैवोवाच । वेत्थो यथाऽसौ लोक एवं बहुभिः पुनःपुनः प्रयद्भिर्न सम्पूर्यता३ इति नेति हैवोवाच । वेत्थो यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति । नेति हैवोवाच । वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वाऽपि हि न ऋषेर्वचः श्रुतं द्वे सृती अशृणवं पितृणामहं देवानामुत मर्त्यानां ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति । नाहमत एकं चन वेदेति होवाच
vettha yathemāḥ prajāḥ prayatyo vipratipadyantā3 iti | neti hovāca | vettho yathemaṃ lokaṃ punarāpadyantā3 iti | neti haivovāca | vettho yathā'sau loka evaṃ bahubhiḥ punaḥpunaḥ prayadbhirna sampūryatā3 iti neti haivovāca | vettho yatithyāmāhutyāṃ hutāyāmāpaḥ puruṣavāco bhūtvā samutthāya vadantī3 iti | neti haivovāca | vettho devayānasya vā pathaḥ pratipadaṃ pitṛyāṇasya vā yatkṛtvā devayānaṃ vā panthānaṃ pratipadyante pitṛyāṇaṃ vā'pi hi na ṛṣervacaḥ śrutaṃ dve sṛtī aśṛṇavaṃ pitṛṇāmahaṃ devānāmuta martyānāṃ tābhyāmidaṃ viśvamejatsameti yadantarā pitaraṃ mātaraṃ ceti | nāhamata ekaṃ cana vedeti hovāca
अथैनं वसत्योपमन्त्रयां चक्रेऽनादृत्य वसतिं कुमारः प्रदुद्राव । स आजगाम पितरं तं होवाचेति वाव किल नो भवान्पुराऽनुशिष्टानवोच इति । कथं, सुमेध इति । पञ्च मा प्रश्नान्राजन्यबन्धुरप्राक्षीत् ततो नैकञ्चन वेदेति । कतमे त इति इम इति ह प्रतीकान्युदाजहार
athainaṃ vasatyopamantrayāṃ cakre'nādṛtya vasatiṃ kumāraḥ pradudrāva | sa ājagāma pitaraṃ taṃ hovāceti vāva kila no bhavānpurā'nuśiṣṭānavoca iti | kathaṃ, sumedha iti | pañca mā praśnānrājanyabandhuraprākṣīt tato naikañcana vedeti | katame ta iti ima iti ha pratīkānyudājahāra
स होवाच तथा नस्त्वं तात जानीथा यथा यदहं किञ्च वेद सर्वमहं तत्तुभमवोचम् । प्रेहि तु तत्र प्रतीत्य ब्रह्मचर्यं वत्स्याव इति । भवानेव गच्छत्विति । स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास । तस्मा आसनमाहृत्योदकमहारयां चकाराथ हास्मा अर्घ्यं चकार । तं होवाच वरं भगवते गौतमाय दद्म इति
sa hovāca tathā nastvaṃ tāta jānīthā yathā yadahaṃ kiñca veda sarvamahaṃ tattubhamavocam | prehi tu tatra pratītya brahmacaryaṃ vatsyāva iti | bhavāneva gacchatviti | sa ājagāma gautamo yatra pravāhaṇasya jaivalerāsa | tasmā āsanamāhṛtyodakamahārayāṃ cakārātha hāsmā arghyaṃ cakāra | taṃ hovāca varaṃ bhagavate gautamāya dadma iti
स होवाच प्रतिज्ञातो म एष वरो यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति
sa hovāca pratijñāto ma eṣa varo yāṃ tu kumārasyānte vācamabhāṣathāstāṃ me brūhīti
स होवाच दैवेषु वै गौतम तद्वरेषु मानुषाणां ब्रूहीति
sa hovāca daiveṣu vai gautama tadvareṣu mānuṣāṇāṃ brūhīti
स होवाच विज्ञायते हास्ति हिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानस्य मा नो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति । स वै गौतम तीर्थेनेच्छासा इत्युपैम्यहं भवन्तमिति वाचा ह स्मैव पूर्व उपयन्ति । स होपायनकीर्त्योवास
sa hovāca vijñāyate hāsti hiraṇyasyāpāttaṃ goaśvānāṃ dāsīnāṃ pravārāṇāṃ paridhānasya mā no bhavānbahoranantasyāparyantasyābhyavadānyo bhūditi | sa vai gautama tīrthenecchāsā ityupaimyahaṃ bhavantamiti vācā ha smaiva pūrva upayanti | sa hopāyanakīrtyovāsa
स होवाच तथा नस्त्वं गौतम माऽपराधास्तव च पितामहा यथेयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मण उवास तां त्वहं तुभ्यं वक्ष्यामि को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति
sa hovāca tathā nastvaṃ gautama mā'parādhāstava ca pitāmahā yatheyaṃ vidyetaḥ pūrvaṃ na kasmiṃścana brāhmaṇa uvāsa tāṃ tvahaṃ tubhyaṃ vakṣyāmi ko hi tvaivaṃ bruvantamarhati pratyākhyātumiti
असौ वै लोकोऽग्निर्गौतम । तस्याऽऽदित्य एव समिद् रश्मयो धूमो ऽहरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुत्यै सोमो राजा सम्भवति
asau vai loko'gnirgautama | tasyā''ditya eva samid raśmayo dhūmo 'hararcirdiśo'ṅgārā avāntaradiśo visphuliṅgāstasminnetasminnagnau devāḥ śraddhāṃ juhvati tasyā āhutyai somo rājā sambhavati
पर्जन्यो वा अग्निर्गौतम । तस्य संवत्सर एव समिदभ्राणि धूमो विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुत्यै वृष्टिः सम्भवति
parjanyo vā agnirgautama | tasya saṃvatsara eva samidabhrāṇi dhūmo vidyudarciraśaniraṅgārā hrādunayo visphuliṅgāstasminnetasminnagnau devāḥ somaṃ rājānaṃ juhvati tasyā āhutyai vṛṣṭiḥ sambhavati
अयं वै लोकोऽग्निर्गौतम । तस्य पृथिव्येव समिद् अग्निर्धूमो रात्रिरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति तस्या आहुत्या अन्नं सम्भवति
ayaṃ vai loko'gnirgautama | tasya pṛthivyeva samid agnirdhūmo rātrirarciścandramā aṅgārā nakṣatrāṇi viṣphuliṅgāstasminnetasminnagnau devā vṛṣṭiṃ juhvati tasyā āhutyā annaṃ sambhavati
पुरुषो वा अग्निर्गौतम । तस्य व्यात्तमेव समित् प्राणो धूमो वागर्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुत्यै रेतः सम्भवति
puruṣo vā agnirgautama | tasya vyāttameva samit prāṇo dhūmo vāgarciścakṣuraṅgārāḥ śrotraṃ visphuliṅgāstasminnetasminnagnau devā annaṃ juhvati tasyā āhutyai retaḥ sambhavati
योषा वा आग्निर्गौतम । तस्या उपस्थ एव समिल्लोमानि धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुत्यै पुरुषः सम्भवति । स जीवति यावज्जीवत्यथ यदा म्रियते । १३॥ मन्त्र १४
yoṣā vā āgnirgautama | tasyā upastha eva samillomāni dhūmo yonirarciryadantaḥ karoti te'ṅgārā abhinandā visphuliṅgāstasminnetasminnagnau devā reto juhvati tasyā āhutyai puruṣaḥ sambhavati | sa jīvati yāvajjīvatyatha yadā mriyate | 13|| mantra 14
अथैनमग्नये हरन्ति । तस्याग्निरेवाग्निर्भवति समित्समिद् धूमो धूमोऽर्चिरर्चिरङ्गारा अङ्गारा विस्फुलिङ्गा विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति तस्या आहुत्यै पुरुषो भास्वरवर्णः सम्भवति
athainamagnaye haranti | tasyāgnirevāgnirbhavati samitsamid dhūmo dhūmo'rcirarciraṅgārā aṅgārā visphuliṅgā visphuliṅgāstasminnetasminnagnau devāḥ puruṣaṃ juhvati tasyā āhutyai puruṣo bhāsvaravarṇaḥ sambhavati
ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिरभिसम्भवन्त्यर्चिषोऽहोऽह्न आपूर्यमाणपक्षं आपूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं तान्वैद्युतान्पुरुषो मानस एत्य ब्रह्मलोकान् गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति । तेषां न पुनरावृत्तिः । मन्त्र १६
te ya evametadvidurye cāmī araṇye śraddhāṃ satyamupāsate te'rcirabhisambhavantyarciṣo'ho'hna āpūryamāṇapakṣaṃ āpūryamāṇapakṣādyānṣaṇmāsānudaṅṅāditya eti māsebhyo devalokaṃ devalokādādityamādityādvaidyutaṃ tānvaidyutānpuruṣo mānasa etya brahmalokān gamayati te teṣu brahmalokeṣu parāḥ parāvato vasanti | teṣāṃ na punarāvṛttiḥ | mantra 16
अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूममभिसम्भवन्ति धूमाद्रात्रिं, रात्रेरपक्षीयमाणपक्षं अपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणादित्य एति मासेभ्यः पितृलोकं पितृलोकाच्चन्द्रं ते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र देवा यथा सोमं राजानमाप्यायस्व अपक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ति । तेषां यदा तत्पर्यवैत्यथेममेवाऽऽकाशमभिनिष्पद्यन्ते आकाशाद्वायुं वायोर्वृष्टिं वृष्टेः पृथिवीं ते पृथिवीं प्राप्यान्नं भवन्ति ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते ते लोकान्प्रत्युथायिनस्त एवमेवानुपरिवर्तन्तेऽथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम्
atha ye yajñena dānena tapasā lokāñjayanti te dhūmamabhisambhavanti dhūmādrātriṃ, rātrerapakṣīyamāṇapakṣaṃ apakṣīyamāṇapakṣādyānṣaṇmāsāndakṣiṇāditya eti māsebhyaḥ pitṛlokaṃ pitṛlokāccandraṃ te candraṃ prāpyānnaṃ bhavanti tāṃstatra devā yathā somaṃ rājānamāpyāyasva apakṣīyasvetyevamenāṃstatra bhakṣayanti | teṣāṃ yadā tatparyavaityathemamevā''kāśamabhiniṣpadyante ākāśādvāyuṃ vāyorvṛṣṭiṃ vṛṣṭeḥ pṛthivīṃ te pṛthivīṃ prāpyānnaṃ bhavanti te punaḥ puruṣāgnau hūyante tato yoṣāgnau jāyante te lokānpratyuthāyinasta evamevānuparivartante'tha ya etau panthānau na viduste kīṭāḥ pataṅgā yadidaṃ dandaśūkam
स यः कामयते महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति सम्भृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्याऽऽवृताऽऽज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं सन्नीय जुहोति । यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु स्वाहा । या तिरश्ची निपद्यतेऽहं विधरणी इति तां त्वा घृतस्य धारया यजे संराधनीमहं । स्वाहा
sa yaḥ kāmayate mahatprāpnuyāmityudagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāhamupasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti sambhṛtya parisamuhya parilipyāgnimupasamādhāya paristīryā''vṛtā''jyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ sannīya juhoti | yāvanto devāstvayi jātavedastiryañco ghnanti puruṣasya kāmān tebhyo'haṃ bhāgadheyaṃ juhomi te mā tṛptāḥ sarvaiḥ kāmaistarpayantu svāhā | yā tiraścī nipadyate'haṃ vidharaṇī iti tāṃ tvā ghṛtasya dhārayā yaje saṃrādhanīmahaṃ | svāhā
ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । चक्षुषे स्वाहा सम्पदे स्वाहेति अग्नौ हुत्वा मन्थे संस्रवमवनयति । श्रोत्राय स्वाहाऽऽयतनाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । रेतसे स्वाहेति अग्नौ हुत्वा मन्थे संस्रवमवनयति
jyeṣṭhāya svāhā śreṣṭhāya svāhetyagnau hutvā manthe saṃsravamavanayati | prāṇāya svāhā vasiṣṭhāyai svāhetyagnau hutvā manthe saṃsravamavanayati | vāce svāhā pratiṣṭhāyai svāhetyagnau hutvā manthe saṃsravamavanayati | cakṣuṣe svāhā sampade svāheti agnau hutvā manthe saṃsravamavanayati | śrotrāya svāhā''yatanāya svāhetyagnau hutvā manthe saṃsravamavanayati | manase svāhā prajātyai svāhetyagnau hutvā manthe saṃsravamavanayati | retase svāheti agnau hutvā manthe saṃsravamavanayati
अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । भूः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । भूर्भुवः स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । क्षत्राय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । भूताय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति
agnaye svāhetyagnau hutvā manthe saṃsravamavanayati | somāya svāhetyagnau hutvā manthe saṃsravamavanayati | bhūḥ svāhetyagnau hutvā manthe saṃsravamavanayati | bhuvaḥ svāhetyagnau hutvā manthe saṃsravamavanayati | svaḥ svāhetyagnau hutvā manthe saṃsravamavanayati | bhūrbhuvaḥ svaḥ svāhetyagnau hutvā manthe saṃsravamavanayati | brahmaṇe svāhetyagnau hutvā manthe saṃsravamavanayati | kṣatrāya svāhetyagnau hutvā manthe saṃsravamavanayati | bhūtāya svāhetyagnau hutvā manthe saṃsravamavanayati | bhaviṣyate svāhetyagnau hutvā manthe saṃsravamavanayati | viśvāya svāhetyagnau hutvā manthe saṃsravamavanayati | sarvāya svāhetyagnau hutvā manthe saṃsravamavanayati | prajāpataye svāhetyagnau hutvā manthe saṃsravamavanayati
अथैनमभिमृशति भ्रमदसि ज्वलदसि पूर्णमसि प्रस्तब्धमस्येकसभमसि हिङ्कृतमसि हिङ्क्रियमाणमस्युद्गीथमस्युद्गीयमानमसि श्रावितमसि प्रत्याश्रावितमस्यर्द्रे सन्दीप्तमसि विभूरसि प्रभूरस्यन्नमसि ज्योतिरसि निधनमसि संवर्गोऽसीति
athainamabhimṛśati bhramadasi jvaladasi pūrṇamasi prastabdhamasyekasabhamasi hiṅkṛtamasi hiṅkriyamāṇamasyudgīthamasyudgīyamānamasi śrāvitamasi pratyāśrāvitamasyardre sandīptamasi vibhūrasi prabhūrasyannamasi jyotirasi nidhanamasi saṃvargo'sīti
अथैनमुद्यच्छत्यमंस्यामं हि ते महि । स हि राजेशानोऽधिपतिः स मां राजेशनोऽधिपतिं करोत्विति
athainamudyacchatyamaṃsyāmaṃ hi te mahi | sa hi rājeśāno'dhipatiḥ sa māṃ rājeśano'dhipatiṃ karotviti
अथैनमाचामति तत्सवितुर्वरेण्यम् । मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । भूः स्वाहा । भर्गो देवस्य धीमहि मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । मधु द्यौरस्तु नः पिता । भुवः स्वाहा । धियो यो नः प्रचोदयात् । मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः । स्वः स्वाहेति । सर्वां च सावित्रीमन्वाह सर्वाश्च मधुमतीरहमेवेदं सर्वं भूयासम् । भूर्भुवः स्वः स्वाहेत्यन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्षिराः संविशति । प्रातरादित्यमुपतिष्ठते दिशामेकपुण्डरीकमसि अहं मनुष्याणामेकपुण्डरीकं भूयासमिति । यथेतमेत्य जघनेनाग्निमासीनो वंशं जपति
athainamācāmati tatsaviturvareṇyam | madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ | mādhvīrnaḥ santvoṣadhīḥ | bhūḥ svāhā | bhargo devasya dhīmahi madhu naktamutoṣaso madhumatpārthivaṃ rajaḥ | madhu dyaurastu naḥ pitā | bhuvaḥ svāhā | dhiyo yo naḥ pracodayāt | madhumānno vanaspatirmadhumāṃ astu sūryaḥ | mādhvīrgāvo bhavantu naḥ | svaḥ svāheti | sarvāṃ ca sāvitrīmanvāha sarvāśca madhumatīrahamevedaṃ sarvaṃ bhūyāsam | bhūrbhuvaḥ svaḥ svāhetyantata ācamya pāṇī prakṣālya jaghanenāgniṃ prākṣirāḥ saṃviśati | prātarādityamupatiṣṭhate diśāmekapuṇḍarīkamasi ahaṃ manuṣyāṇāmekapuṇḍarīkaṃ bhūyāsamiti | yathetametya jaghanenāgnimāsīno vaṃśaṃ japati
तं हैतमूद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज् शुष्के स्थाणौ निषिञ्चेत् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति
taṃ haitamūddālaka āruṇirvājasaneyāya yājñavalkyāyāntevāsina uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcej śuṣke sthāṇau niṣiñcet jāyerañchākhāḥ praroheyuḥ palāśānīti
एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज् स्थाणौ निषिञ्चेत् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति
etamu haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcej sthāṇau niṣiñcet jāyerañchākhāḥ praroheyuḥ palāśānīti
एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति
etamu haiva madhukaḥ paiṅgyaścūlāya bhāgavittaye'ntevāsina uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcej jāyerañchākhāḥ praroheyuḥ palāśānīti
एतमु हैव चूलो भागवित्तिर्जानकय आयस्थूणायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज् यसेनम् शुष्के स्थाणौ निषिञ्चेत् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति
etamu haiva cūlo bhāgavittirjānakaya āyasthūṇāyāntevāsina uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcej yasenam śuṣke sthāṇau niṣiñcet jāyerañchākhāḥ praroheyuḥ palāśānīti
एतमु हैव जानकिरयस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति
etamu haiva jānakirayasthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcej jāyerañchākhāḥ praroheyuḥ palāśānīti
एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति । तमेतं नापुत्राय वाऽनन्तेवासिने वा ब्रूयात्
etamu haiva satyakāmo jābālo'ntevāsibhya uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcej jāyerañchākhāḥ praroheyuḥ palāśānīti | tametaṃ nāputrāya vā'nantevāsine vā brūyāt
चतुरौदुम्बरो भवत्यौदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ । दश ग्राम्याणि धान्यानि भवन्ति व्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च तान्पिष्टान्दधनि मधुनि घृत उपसिञ्चत्याज्यस्य जुहोति
caturaudumbaro bhavatyaudumbaraḥ sruva audumbaraścamasa audumbara idhma audumbaryā upamanthanyau | daśa grāmyāṇi dhānyāni bhavanti vrīhiyavāstilamāṣā aṇupriyaṅgavo godhūmāśca masūrāśca khalvāśca khalakulāśca tānpiṣṭāndadhani madhuni ghṛta upasiñcatyājyasya juhoti
एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतः
eṣāṃ vai bhūtānāṃ pṛthivī rasaḥ pṛthivyā āpo'pāmoṣadhaya oṣadhīnāṃ puṣpāṇi puṣpāṇāṃ phalāni phalānāṃ puruṣaḥ puruṣasya retaḥ
स ह प्रजापतिरीक्षांचक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियं ससृजे । तां सृष्ट्वाऽध उपास्त तस्मात्स्त्रियमध उपासीत स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत् तेनैनामभ्यसृजत्
sa ha prajāpatirīkṣāṃcakre hantāsmai pratiṣṭhāṃ kalpayānīti sa striyaṃ sasṛje | tāṃ sṛṣṭvā'dha upāsta tasmātstriyamadha upāsīta sa etaṃ prāñcaṃ grāvāṇamātmana eva samudapārayat tenaināmabhyasṛjat
तस्या वेदिरुपस्थो लोमानि बर्हिश्चर्माधिषवणे समिद्धो मध्यतस्तौ मुष्कौ । स यावान्ह वै वाजपेयेन यजमानस्य लोको भवति तावानस्य लोको भवति य एवं विद्वानधोपहासं चरत्यासां स्त्रीणां सुकृतं वृङ्क्तेऽथ य इदमविद्वानधोपहासं चरत्याऽस्य स्त्रियः सुकृतं वृञ्जते
tasyā vedirupastho lomāni barhiścarmādhiṣavaṇe samiddho madhyatastau muṣkau | sa yāvānha vai vājapeyena yajamānasya loko bhavati tāvānasya loko bhavati ya evaṃ vidvānadhopahāsaṃ caratyāsāṃ strīṇāṃ sukṛtaṃ vṛṅkte'tha ya idamavidvānadhopahāsaṃ caratyā'sya striyaḥ sukṛtaṃ vṛñjate
एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराहैतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आहैतद्ध स्म वै तद्विद्वान् कुमारहारित आह एतद् ध स्म वै तद् विद्वान् कुमारहारितसाह बहवो मर्या ब्राह्मणायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति य इदमविद्वांसोऽधोपहासं चरन्तीति । बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति
etaddha sma vai tadvidvānuddālaka āruṇirāhaitaddha sma vai tadvidvānnāko maudgalya āhaitaddha sma vai tadvidvān kumārahārita āha etad dha sma vai tad vidvān kumārahāritasāha bahavo maryā brāhmaṇāyanā nirindriyā visukṛto'smāllokātprayanti ya idamavidvāṃso'dhopahāsaṃ carantīti | bahu vā idaṃ suptasya vā jāgrato vā retaḥ skandati
तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद् यदोषधीरप्यसरद् यदपः । इदमहं तद्रेत आददे पुनर्मामैत्विन्द्रियं पुनस्तेजः पुनर्भगः । पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्तामित्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात्
tadabhimṛśedanu vā mantrayeta yanme'dya retaḥ pṛthivīmaskāntsīd yadoṣadhīrapyasarad yadapaḥ | idamahaṃ tadreta ādade punarmāmaitvindriyaṃ punastejaḥ punarbhagaḥ | punaragnirdhiṣṇyā yathāsthānaṃ kalpantāmityanāmikāṅguṣṭhābhyāmādāyāntareṇa stanau vā bhruvau vā nimṛjyāt
अथ यद्युदक आत्मानं पश्येत् तदभिमन्त्रयेत मयि तेज इन्द्रियं यशो द्रविणं सुकृतमिति । श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासास्तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत
atha yadyudaka ātmānaṃ paśyet tadabhimantrayeta mayi teja indriyaṃ yaśo draviṇaṃ sukṛtamiti | śrīrha vā eṣā strīṇāṃ yanmalodvāsāstasmānmalodvāsasaṃ yaśasvinīmabhikramyopamantrayeta
सा चेदस्मै न दद्यात् काममेनामवक्रिणीयात् सा चेदस्मै नैव दद्यात् काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेदिन्द्रियेण ते यशसा यश आदद इत्ययशा एव भवति
sā cedasmai na dadyāt kāmamenāmavakriṇīyāt sā cedasmai naiva dadyāt kāmamenāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmedindriyeṇa te yaśasā yaśa ādada ityayaśā eva bhavati
सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आदधामीति यशस्विनावेव भवतः
sā cedasmai dadyādindriyeṇa te yaśasā yaśa ādadhāmīti yaśasvināveva bhavataḥ
स यामिच्छेत् कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायोपस्थमस्या अभिमृश्य जपेदङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । स त्वमङ्गकषायोऽसि दिग्धविद्धमिव मादयेमाममूं मयीति
sa yāmicchet kāmayeta meti tasyāmarthaṃ niṣṭhāya mukhena mukhaṃ sandhāyopasthamasyā abhimṛśya japedaṅgādaṅgātsambhavasi hṛdayādadhijāyase | sa tvamaṅgakaṣāyo'si digdhaviddhamiva mādayemāmamūṃ mayīti
अथ यामिच्छेन् न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायाभिप्राण्यापान्यादिन्द्रियेण ते रेतसा रेत आदद इत्यरेता एव भवति
atha yāmicchen na garbhaṃ dadhīteti tasyāmarthaṃ niṣṭhāya mukhena mukhaṃ sandhāyābhiprāṇyāpānyādindriyeṇa te retasā reta ādada ityaretā eva bhavati
अथ यामिच्छेद् दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायापान्याभिप्राण्यादिन्द्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव भवति
atha yāmicched dadhīteti tasyāmarthaṃ niṣṭhāya mukhena mukhaṃ sandhāyāpānyābhiprāṇyādindriyeṇa te retasā reta ādadhāmīti garbhiṇyeva bhavati
अथ यस्य जायायै जारः स्यात् तं चेद् द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमं शरबर्हिस्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाऽक्ता जुहुयान् मम समिद्धेऽहौषीः प्राणापानौ त आददेऽसाविति । मम समिद्धेऽहौषीः पुत्रपशूंस्त आददे ऽसाविति । मम समिद्धेऽहौषीरिष्टासुकृते त आददेऽसाविति । मम समिद्धेऽहौषीराशापराकाशौ त आददेऽसाविति । स वा एष निरिन्द्रियो विसुकृतोऽस्माल्लोकात्प्रैति यमेवंविद्ब्राह्मणः शपति । तस्मादेवंवित्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवंवित्परो भवति
atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyādāmapātre'gnimupasamādhāya pratilomaṃ śarabarhistīrtvā tasminnetāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣā'ktā juhuyān mama samiddhe'hauṣīḥ prāṇāpānau ta ādade'sāviti | mama samiddhe'hauṣīḥ putrapaśūṃsta ādade 'sāviti | mama samiddhe'hauṣīriṣṭāsukṛte ta ādade'sāviti | mama samiddhe'hauṣīrāśāparākāśau ta ādade'sāviti | sa vā eṣa nirindriyo visukṛto'smāllokātpraiti yamevaṃvidbrāhmaṇaḥ śapati | tasmādevaṃvitchrotriyasya dāreṇa nopahāsamiccheduta hyevaṃvitparo bhavati
अथ यस्य जायामार्तवं विन्देत् त्र्यहं कंसे न पिबेदहतवासा नैनां वृषलो न वृषल्युपहन्यात् अपहन्यात् त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत्
atha yasya jāyāmārtavaṃ vindet tryahaṃ kaṃse na pibedahatavāsā naināṃ vṛṣalo na vṛṣalyupahanyāt apahanyāt trirātrānta āplutya vrīhīnavaghātayet
स य इच्छेत् पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै
sa ya icchet putro me śuklo jāyeta vedamanubruvīta sarvamāyuriyāditi kṣīraudanaṃ pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavai
अथ य इच्छेत् पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ वेदावनुब्रुवीत सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै
atha ya icchet putro me kapilaḥ piṅgalo jāyeta dvau vedāvanubruvīta sarvamāyuriyāditi dadhyodanaṃ pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavai
अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन्वेदाननुब्रुवीत सर्वमायुरियादित्युदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै
atha ya icchet putro me śyāmo lohitākṣo jāyeta trīnvedānanubruvīta sarvamāyuriyādityudaudanaṃ pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavai
अथ य इच्छेद् दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै
atha ya icched duhitā me paṇḍitā jāyeta sarvamāyuriyāditi tilaudanaṃ pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavai
अथ य इच्छेत् पुत्रो मे पण्डितो विगीतः समितिङ्गमः शुश्रूषितां वाचं भाषिता जायेत सर्वान्वेदाननुब्रुवीत सर्वमायुरियादिति मांसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै । औक्षेण वाऽऽर्षभेण वा
atha ya icchet putro me paṇḍito vigītaḥ samitiṅgamaḥ śuśrūṣitāṃ vācaṃ bhāṣitā jāyeta sarvānvedānanubruvīta sarvamāyuriyāditi māṃsaudanaṃ pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavai | aukṣeṇa vā''rṣabheṇa vā
अथाभिप्रातरेव स्थालीपाकावृताऽऽज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहाऽनुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति हुत्वोद्धृत्य प्राश्नाति । प्राश्येतरस्याः प्रयच्छति । प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिरभ्युक्षत्युत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्यां सं जायां पत्या सहेति
athābhiprātareva sthālīpākāvṛtā''jyaṃ ceṣṭitvā sthālīpākasyopaghātaṃ juhotyagnaye svāhā'numataye svāhā devāya savitre satyaprasavāya svāheti hutvoddhṛtya prāśnāti | prāśyetarasyāḥ prayacchati | prakṣālya pāṇī udapātraṃ pūrayitvā tenaināṃ trirabhyukṣatyuttiṣṭhāto viśvāvaso'nyāmiccha prapūrvyāṃ saṃ jāyāṃ patyā saheti
अथैनामभिपद्यतेऽमोऽहमस्मि सा त्वं सा त्वमस्यमोऽहं सामाहमस्मि ऋक्त्वं द्यौरहं पृथिवी त्वम् । तावेहि संरभावहै सह रेतो दधावहै पुंसे पुत्राय वित्तय इति
athaināmabhipadyate'mo'hamasmi sā tvaṃ sā tvamasyamo'haṃ sāmāhamasmi ṛktvaṃ dyaurahaṃ pṛthivī tvam | tāvehi saṃrabhāvahai saha reto dadhāvahai puṃse putrāya vittaya iti
अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति । तस्यामर्थं निष्ठाय मुखेन मुखं सन्धाय त्रिरेनामनुलोमामनुमार्ष्टि विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते । गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके । गर्भं ते आश्विनौ देवावाधत्तां पुष्करस्रजौ
athāsyā ūrū vihāpayati vijihīthāṃ dyāvāpṛthivī iti | tasyāmarthaṃ niṣṭhāya mukhena mukhaṃ sandhāya trirenāmanulomāmanumārṣṭi viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu āsiñcatu prajāpatirdhātā garbhaṃ dadhātu te | garbhaṃ dhehi sinīvāli garbhaṃ dhehi pṛthuṣṭuke | garbhaṃ te āśvinau devāvādhattāṃ puṣkarasrajau
हिरण्मयी अरणी याभ्यां निर्मन्थतामाश्विनौ तं ते गर्भं हवामहे दशमे मासि सूतये । यथाऽग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण गर्भिणी वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति
hiraṇmayī araṇī yābhyāṃ nirmanthatāmāśvinau taṃ te garbhaṃ havāmahe daśame māsi sūtaye | yathā'gnigarbhā pṛthivī yathā dyaurindreṇa garbhiṇī vāyurdiśāṃ yathā garbha evaṃ garbhaṃ dadhāmi te'sāviti
सोष्यन्तीमद्भिरभ्युक्षति यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः । एवा ते गर्भ एजतु सहावैतु जरायुणा । इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः । तमीन्द्र निर्जहि गर्भेण सावरां सहेति
soṣyantīmadbhirabhyukṣati yathā vāyuḥ puṣkariṇīṃ samiṅgayati sarvataḥ | evā te garbha ejatu sahāvaitu jarāyuṇā | indrasyāyaṃ vrajaḥ kṛtaḥ sārgalaḥ sapariśrayaḥ | tamīndra nirjahi garbheṇa sāvarāṃ saheti
जातेऽग्निमुपसमाधायाङ्क आधाय कंसे पृषदाज्यं सन्नीय पृषदाज्यस्योपघातं जुहोत्यस्मिन्सहस्रं पुष्यासमेधमानः स्वे गृहे । अस्योपसन्द्यां मा च्छैत्सीत् प्रजया च पशुभिश्च स्वाहा । मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा । यत् कर्मणाऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान् स्विष्टं सुहुतं करोतु नः स्वाहेति
jāte'gnimupasamādhāyāṅka ādhāya kaṃse pṛṣadājyaṃ sannīya pṛṣadājyasyopaghātaṃ juhotyasminsahasraṃ puṣyāsamedhamānaḥ sve gṛhe | asyopasandyāṃ mā cchaitsīt prajayā ca paśubhiśca svāhā | mayi prāṇāṃstvayi manasā juhomi svāhā | yat karmaṇā'tyarīricaṃ yadvā nyūnamihākaram | agniṣṭatsviṣṭakṛdvidvān sviṣṭaṃ suhutaṃ karotu naḥ svāheti
अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिरथ दधि मधु घृतं सन्नीयानन्तर्हितेन जातरूपेण प्राशयति । भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः सर्वं त्वयि दधामीति
athāsya dakṣiṇaṃ karṇamabhinidhāya vāgvāgiti triratha dadhi madhu ghṛtaṃ sannīyānantarhitena jātarūpeṇa prāśayati | bhūste dadhāmi bhuvaste dadhāmi svaste dadhāmi bhūrbhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti
अथास्य नाम करोति वेदोऽसीति । तदस्यैतद्गुह्यमेव नाम भवति
athāsya nāma karoti vedo'sīti | tadasyaitadguhyameva nāma bhavati
अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रो येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति
athainaṃ mātre pradāya stanaṃ prayacchati yaste stanaḥ śaśayo yo mayobhūryo ratnadhā vasuvidyaḥ sudatro yena viśvā puṣyasi vāryāṇi sarasvati tamiha dhātave kariti
अथास्य मातरमभिमन्त्रयते । इलाऽसि मैत्रावरुणी वीरे वीरमजीजनत् । सा त्वं वीरवती भव याऽस्मान्वीरवतोऽकरदिति । तं वा एतमाहुरतिपिता बताभूरतिपितामहो बताभूः । परमां बत काष्ठां प्रापयच्छ्रिया यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मणस्य पुत्रो जायत इति
athāsya mātaramabhimantrayate | ilā'si maitrāvaruṇī vīre vīramajījanat | sā tvaṃ vīravatī bhava yā'smānvīravato'karaditi | taṃ vā etamāhuratipitā batābhūratipitāmaho batābhūḥ | paramāṃ bata kāṣṭhāṃ prāpayacchriyā yaśasā brahmavarcasena ya evaṃvido brāhmaṇasya putro jāyata iti
अथ वंशः । पौतिमाषीपुत्रः कात्यायनीपुत्रात् कात्यायनीपुत्रो गौतमीपुत्राद् गौतमीपुत्रो भारद्वाजीपुत्राद् भारद्वाजीपुत्रः पाराशरीपुत्रात् पाराशरीपुत्र औपस्वस्तीपुत्रादौपस्वस्तीपुत्रः पाराशरीपुत्रात् पाराशरीपुत्रः कात्यायनीपुत्रात् कात्यायनीपुत्रः कौशिकीपुत्रात् कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्राच्च वैयाघ्रपदीपुत्रः काण्वीपुत्राच्च कापीपुत्राच्च कापीपुत्रः
atha vaṃśaḥ | pautimāṣīputraḥ kātyāyanīputrāt kātyāyanīputro gautamīputrād gautamīputro bhāradvājīputrād bhāradvājīputraḥ pārāśarīputrāt pārāśarīputra aupasvastīputrādaupasvastīputraḥ pārāśarīputrāt pārāśarīputraḥ kātyāyanīputrāt kātyāyanīputraḥ kauśikīputrāt kauśikīputra ālambīputrācca vaiyāghrapadīputrācca vaiyāghrapadīputraḥ kāṇvīputrācca kāpīputrācca kāpīputraḥ
आत्रेयीपुत्रादात्रेयीपुत्रो गौतमीपुत्राद् गौतमीपुत्रो भारद्वाजीपुत्राद् भारद्वाजीपुत्रः पाराशरीपुत्रात् पाराशरीपुत्रो वात्सीपुत्राद् वात्सीपुत्रः पाराशरीपुत्रात् पाराशरीपुत्रो वार्कारुणीपुत्राद् वार्कारुणीपुत्रो वार्कारुणीपुत्राद् वार्कारुणीपुत्र आर्तभागीपुत्रादार्तभागीपुत्रः शौङ्गीपुत्राच्चौङ्गीपुत्रः साङ्कृतीपुत्रात् साङ्कृतीपुत्र आलम्बायनीपुत्रादालम्बायनीपुत्र आलम्बीपुत्रादालम्बीपुत्रो जायन्तीपुत्राज् जायन्तीपुत्रो माण्डूकायनीपुत्रान् माण्डूकायनीपुत्रो माण्डूकीपुत्रान् माण्डूकीपुत्रः शाण्डिलीपुत्राच्छाण्डिलीपुत्रो राथीतरीपुत्राद् राथीतरीपुत्रो भालुकीपुत्राद् भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्यां क्रौञ्चिकीपुत्रौ वैदभृतीपुत्राद् वैदभृतीपुत्रः कार्शकेयीपुत्रात् कार्शकेयीपुत्रः प्राचीनयोगीपुत्रात् प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात् साञ्जीवीपुत्रः प्राश्नीपुत्रादासुरिवासिनः प्राश्नीपुत्र आसुरायणादासुरायण आसुरेरासुरिः
ātreyīputrādātreyīputro gautamīputrād gautamīputro bhāradvājīputrād bhāradvājīputraḥ pārāśarīputrāt pārāśarīputro vātsīputrād vātsīputraḥ pārāśarīputrāt pārāśarīputro vārkāruṇīputrād vārkāruṇīputro vārkāruṇīputrād vārkāruṇīputra ārtabhāgīputrādārtabhāgīputraḥ śauṅgīputrāccauṅgīputraḥ sāṅkṛtīputrāt sāṅkṛtīputra ālambāyanīputrādālambāyanīputra ālambīputrādālambīputro jāyantīputrāj jāyantīputro māṇḍūkāyanīputrān māṇḍūkāyanīputro māṇḍūkīputrān māṇḍūkīputraḥ śāṇḍilīputrācchāṇḍilīputro rāthītarīputrād rāthītarīputro bhālukīputrād bhālukīputraḥ krauñcikīputrābhyāṃ krauñcikīputrau vaidabhṛtīputrād vaidabhṛtīputraḥ kārśakeyīputrāt kārśakeyīputraḥ prācīnayogīputrāt prācīnayogīputraḥ sāñjīvīputrāt sāñjīvīputraḥ prāśnīputrādāsurivāsinaḥ prāśnīputra āsurāyaṇādāsurāyaṇa āsurerāsuriḥ
याज्ञवल्क्याद् याज्ञवल्क्य ऊद्दालकादूद्दालकोऽरुणादरुण उपवेशेरुपवेशिः कुश्रेः कुश्रिर्वाजश्रवसो वाजश्रवा जीह्वावतो बाध्योगाज् जीह्वावान्बाध्योगोऽसिताद्वार्षगणादसितो वार्षगणो हरितात्कश्यपाद्द् हरितः कश्यपः शिल्पात्कश्यपाच्छिल्पः कश्यपः कश्यपान्नैध्रुवेः कश्यपो नैध्रुविर्वाचो वागम्भिण्याः अम्भिण्यादित्यादादित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाऽऽख्ययन्ते
yājñavalkyād yājñavalkya ūddālakādūddālako'ruṇādaruṇa upaveśerupaveśiḥ kuśreḥ kuśrirvājaśravaso vājaśravā jīhvāvato bādhyogāj jīhvāvānbādhyogo'sitādvārṣagaṇādasito vārṣagaṇo haritātkaśyapādd haritaḥ kaśyapaḥ śilpātkaśyapācchilpaḥ kaśyapaḥ kaśyapānnaidhruveḥ kaśyapo naidhruvirvāco vāgambhiṇyāḥ ambhiṇyādityādādityānīmāni śuklāni yajūṃṣi vājasaneyena yājñavalkyenā''khyayante
समानमा साञ्जीवीपुत्रात् सञ्जिवीपुत्रो माण्डूकायनेर्माण्डूकायनिर्माण्डव्यान् माण्डव्यः कौत्सात् कौत्सो माहित्थेर्माहित्थिर्वामकक्षायणाद् वामकक्षायणः शाण्डिल्याच्छाण्डिल्यो वात्स्याद् वात्स्यः कुश्रेः कुश्रिर्यज्ञवचसो राजस्तम्बायनाद् यज्ञवचा राजस्तम्बायनस्तुरात्कावषेयात् तुरः कावषेयः प्रजापतेः प्रजापतिर्ब्रह्मणो ब्रह्म स्वयम्भु । ब्रह्मणे नमः
samānamā sāñjīvīputrāt sañjivīputro māṇḍūkāyanermāṇḍūkāyanirmāṇḍavyān māṇḍavyaḥ kautsāt kautso māhitthermāhitthirvāmakakṣāyaṇād vāmakakṣāyaṇaḥ śāṇḍilyācchāṇḍilyo vātsyād vātsyaḥ kuśreḥ kuśriryajñavacaso rājastambāyanād yajñavacā rājastambāyanasturātkāvaṣeyāt turaḥ kāvaṣeyaḥ prajāpateḥ prajāpatirbrahmaṇo brahma svayambhu | brahmaṇe namaḥ