Brihadaranyaka Upanishad · Chapter 5
Adhyaya 5
पञ्चमोऽध्यायः
The Khila Khanda — secret teachings.
38 verses
द्वया ह प्राजापत्या देवाश्वासुराश्व । ततः कानीयसा एव देवा ज्यायसा असुरास्तु एषु लोकेष्वस्पर्धन्त ते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामेति ॥1॥
ते ह वाचमूछुस्त्वं न उद्गायेति तथेति तेभ्यो वागुदगायत् । यो वाचि भोगस्तं देवेभ्य आगायद्यत् कल्याणं वदति तदात्मने ॥ ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं वदति स एव स पाप्मा ॥2॥
अथ ह प्राणमूछुस्त्वं न उद्गायेति तथेति तेभ्यः प्राण उदगायद्यः प्राणे भोगस्तं देवेभ्य आगायद्यत् कल्याणं जिघ्र्ति तदात्मने । ते विदुरनेन वै न उद्गात्राऽस्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स यः स पप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मा ॥3॥
अथ ह चक्षुरूचुस्त्वं न उद्गायेति तथेति तेभ्यश्चक्षुरुदगायन् । यश्वक्षुपि -----Page-----------------८६-- भोगस्तं देवेभ्य आगायद्यठत्कल्याणं पश्यति तदात्मने । ते विदुनेन वै न उ द्गात्राऽत्वेष्यन्तीति तममिद्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव स पाप्मा ॥4॥
अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति तथेति तेभ्वः श्रोत्रमुदगायद्यःठ श्रोत्रे भोगस्तं देवेम्य आगायद्यत्कल्याणँ शृणोति तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपँ शृणोति स एव स पाप्मा ॥5॥
अथ ह मन ऊचुस्त्वं न उद्गायेति तथेति तेभ्यो मन उदगायद्यो मनसि भोगस्तं देवेभ्य आगायद्यत् कत्याणँ संकल्पयति तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपँ मंकल्पयति स एव स पाप्मैवसु खल्वेता देवताः पाप्मभिरुपासृजत्नेठवमेनाः पाप्मनाऽविध्यन् ॥6॥
अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति तदभिद्रुत्य पाप्मनाविव्यत्सन्स यथाऽश्मानमृत्वा लोष्टो विध्वँ सेतैवँहैव विध्वँठसमाना विष्वञ्चो विनेशुस्ततो देवा अभवन् परासुरा भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ॥7॥
ते होचुः क्व नु सोऽभूद्यो न इत्थमसक्तेत्ययमास्येऽन्तरिति सोऽयास्य आङ्गिरसोऽङ्गानाँ हि रसः ॥8॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते । ॐ३ खं ब्रह्म खं पुराणं वायुरं खमिति ह स्माऽऽह कौरव्यायणीपुत्रो । वेदोऽयम्ं ब्राह्मणा विदुर्वेदैनेन यद्वेदितव्यम्
oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate | pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate | oṃ3 khaṃ brahma khaṃ purāṇaṃ vāyuraṃ khamiti ha smā''ha kauravyāyaṇīputro | vedo'yamṃ brāhmaṇā vidurvedainena yadveditavyam
त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुरा उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति
trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryamūṣurdevā manuṣyā asurā uṣitvā brahmacaryaṃ devā ūcurbravītu no bhavāniti | tebhyo haitadakṣaramuvāca da iti vyajñāsiṣṭā3 iti | vyajñāsiṣmeti hocurdāmyateti na ātthetyomiti hovāca vyajñāsiṣṭeti
अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति
atha hainaṃ manuṣyā ūcurbravītu no bhavāniti | tebhyo haitadevākṣaramuvāca da iti vyajñāsiṣṭā3 iti | vyajñāsiṣmeti hocurdatteti na ātthetyomiti hovāca vyajñāsiṣṭeti
अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति । तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति । तदेतत्त्रयं शिक्षेद् दमं दानं दयामिति
atha hainamasurā ūcurbravītu no bhavāniti | tebhyo haitadevākṣaramuvāca da iti vyajñāsiṣṭā3 iti | vyajñāsiṣmeti hocurdayadhvamiti na ātthetyomiti hovāca vyajñāsiṣṭeti | tadetadevaiṣā daivī vāganuvadati stanayitnurda da da iti dāmyata datta dayadhvamiti | tadetattrayaṃ śikṣed damaṃ dānaṃ dayāmiti
एष प्रजापतिर्यद्धृदयमेतद्ब्रह्मैतत्सर्वम् । तदेतत्त्र्यक्षरं हृदयमिति । हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद । द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेद । यमित्येकमक्षरमेति स्वर्गं लोकं य एवं वेद
eṣa prajāpatiryaddhṛdayametadbrahmaitatsarvam | tadetattryakṣaraṃ hṛdayamiti | hṛ ityekamakṣaramabhiharantyasmai svāścānye ca ya evaṃ veda | da ityekamakṣaraṃ dadatyasmai svāścānye ca ya evaṃ veda | yamityekamakṣarameti svargaṃ lokaṃ ya evaṃ veda
तद्वै तदेतदेव तदास सत्यमेव । स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमांल्लोकाञ् जित इन्न्वसावसद् य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म
tadvai tadetadeva tadāsa satyameva | sa yo haitaṃ mahadyakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokāñ jita innvasāvasad ya evametanmahadyakṣaṃ prathamajaṃ veda satyaṃ brahmeti satyaṃ hyeva brahma
अप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त सत्यं ब्रह्म ब्रह्म प्रजापतिं प्रजापतिर्देवांस्ते देवाः सत्यमेवोपासते तदेतत्त्र्यक्षरं सत्यमिति । स इत्येकमक्षरं तीत्येकमक्षरं यमित्येकमक्षरम् । प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदेतदनृतमुभयतः सत्येन परिगृहीतं सत्यभूयमेव भवति । नैनंविद्वांसमनृतं हिनस्ति
apa evedamagra āsustā āpaḥ satyamasṛjanta satyaṃ brahma brahma prajāpatiṃ prajāpatirdevāṃste devāḥ satyamevopāsate tadetattryakṣaraṃ satyamiti | sa ityekamakṣaraṃ tītyekamakṣaraṃ yamityekamakṣaram | prathamottame akṣare satyaṃ madhyato'nṛtaṃ tadetadanṛtamubhayataḥ satyena parigṛhītaṃ satyabhūyameva bhavati | nainaṃvidvāṃsamanṛtaṃ hinasti
तद्यत्तत्सत्यमसौ स आदित्यो । य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषस्तावेतावन्योऽन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन् स यदोत्क्रमिष्यन्भवति शुद्धमेवैतन्मण्डलं पश्यति नैनमेते रश्मयः प्रत्यायन्ति
tadyattatsatyamasau sa ādityo | ya eṣa etasminmaṇḍale puruṣo yaścāyaṃ dakṣiṇe'kṣan puruṣastāvetāvanyo'nyasminpratiṣṭhitau raśmibhireṣo'sminpratiṣṭhitaḥ prāṇairayamamuṣmin sa yadotkramiṣyanbhavati śuddhamevaitanmaṇḍalaṃ paśyati nainamete raśmayaḥ pratyāyanti
य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहरिति । हन्ति पाप्मानं जहाति च य एवं वेद
ya eṣa etasminmaṇḍale puruṣastasya bhūriti śira ekaṃ śira ekametadakṣaraṃ bhuva iti bāhū dvau bāhū dve ete akṣare svariti pratiṣṭhā dve pratiṣṭhe dve ete akṣare | tasyopaniṣadahariti | hanti pāpmānaṃ jahāti ca ya evaṃ veda
योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य भूरिति शिरः एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहमिति । हन्ति पाप्मानं जहाति च य एवं वेद
yo'yaṃ dakṣiṇe'kṣanpuruṣastasya bhūriti śiraḥ ekaṃ śira ekametadakṣaraṃ bhuva iti bāhū dvau bāhū dve ete akṣare svariti pratiṣṭhā dve pratiṣṭhe dve ete akṣare | tasyopaniṣadahamiti | hanti pāpmānaṃ jahāti ca ya evaṃ veda
मनोमयोऽयं पुरुषो भाःसत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्य सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च
manomayo'yaṃ puruṣo bhāḥsatyastasminnantarhṛdaye yathā vrīhirvā yavo vā sa eṣa sarvasya sarvasyeśānaḥ sarvasyādhipatiḥ sarvamidaṃ praśāsti yadidaṃ kiñca
विद्युद् ब्रह्मेत्याहुर्विदानाद्विद्युद् विद्यत्येनं पाप्मनो य एवं वेद विद्युद्ब्रह्मेति । विद्युद्ध्येव ब्रह्म
vidyud brahmetyāhurvidānādvidyud vidyatyenaṃ pāpmano ya evaṃ veda vidyudbrahmeti | vidyuddhyeva brahma
वाचं धेनुमुपासीत । तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारस्तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पितरः । तस्याः प्राण ऋषभो मनो वत्सः
vācaṃ dhenumupāsīta | tasyāścatvāraḥ stanāḥ svāhākāro vaṣaṭkāro hantakāraḥ svadhākārastasyai dvau stanau devā upajīvanti svāhākāraṃ ca vaṣaṭkāraṃ ca hantakāraṃ manuṣyāḥ svadhākāraṃ pitaraḥ | tasyāḥ prāṇa ṛṣabho mano vatsaḥ
अयमाग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते । तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति । स यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति
ayamāgnirvaiśvānaro yo'yamantaḥ puruṣe yenedamannaṃ pacyate yadidamadyate | tasyaiṣa ghoṣo bhavati yametatkarṇāvapidhāya śṛṇoti | sa yadotkramiṣyanbhavati nainaṃ ghoṣaṃ śṛṇoti
यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते । स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथालम्बरस्य खं तेन स ऊर्ध्व आक्रमते । स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खं तेन स ऊर्ध्व आक्रमते । स लोकमागच्छत्यशोकमहिमं तस्मिन्वसति शाश्वतीः समाः
yadā vai puruṣo'smāllokātpraiti sa vāyumāgacchati tasmai sa tatra vijihīte yathā rathacakrasya khaṃ tena sa ūrdhva ākramate | sa ādityamāgacchati tasmai sa tatra vijihīte yathālambarasya khaṃ tena sa ūrdhva ākramate | sa candramasamāgacchati tasmai sa tatra vijihīte yathā dundubheḥ khaṃ tena sa ūrdhva ākramate | sa lokamāgacchatyaśokamahimaṃ tasminvasati śāśvatīḥ samāḥ
एतद्वै परमं तपो यद्व्याहितस्तप्यते परमं हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमरण्यं हरन्ति परमं हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति परमं हैव लोकं जयति य एवं वेद ॥ ११॥ इति एकादशं ब्राह्मणम् ॥ अथ द्वादशं ब्राह्मणम् ।
etadvai paramaṃ tapo yadvyāhitastapyate paramaṃ haiva lokaṃ jayati ya evaṃ vedaitadvai paramaṃ tapo yaṃ pretamaraṇyaṃ haranti paramaṃ haiva lokaṃ jayati ya evaṃ vedaitadvai paramaṃ tapo yaṃ pretamagnāvabhyādadhati paramaṃ haiva lokaṃ jayati ya evaṃ veda || 11|| iti ekādaśaṃ brāhmaṇam || atha dvādaśaṃ brāhmaṇam |
अन्नं ब्रह्मेत्येक आहुस्तन्न तथा पूयति वा अन्नमृते प्राणात् प्राणो ब्रह्मेत्येक आहुस्तन्न तथा शुष्यति वै प्राण ऋतेऽन्नाद् एते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतस्तद्ध स्माऽऽह प्रातृदः पितरं किं स्विदेवैवं विदुषे साधु कुर्यां किमेवास्मा असाधु कुर्यामिति । स ह स्माह पाणिना मा प्रातृद कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति । तस्मा उ हैतदुवाच वीत्यन्नं वै वि अन्ने हीमानि सर्वाणि भूतानि विष्टानि । रमिति प्राणो वै रं प्राणे हीमानि सर्वाणि भूतानि रमन्ते । सर्वाणि ह वा अस्मिन् भूतानि विशन्ति सर्वाणि भूतानि रमन्ते य एवं वेद ॥ १२॥ इति द्वादशं ब्राह्मणम् ॥ अथ त्रयोदशं ब्राह्मणम् । मन्त्र १
annaṃ brahmetyeka āhustanna tathā pūyati vā annamṛte prāṇāt prāṇo brahmetyeka āhustanna tathā śuṣyati vai prāṇa ṛte'nnād ete ha tveva devate ekadhābhūyaṃ bhūtvā paramatāṃ gacchatastaddha smā''ha prātṛdaḥ pitaraṃ kiṃ svidevaivaṃ viduṣe sādhu kuryāṃ kimevāsmā asādhu kuryāmiti | sa ha smāha pāṇinā mā prātṛda kastvenayorekadhābhūyaṃ bhūtvā paramatāṃ gacchatīti | tasmā u haitaduvāca vītyannaṃ vai vi anne hīmāni sarvāṇi bhūtāni viṣṭāni | ramiti prāṇo vai raṃ prāṇe hīmāni sarvāṇi bhūtāni ramante | sarvāṇi ha vā asmin bhūtāni viśanti sarvāṇi bhūtāni ramante ya evaṃ veda || 12|| iti dvādaśaṃ brāhmaṇam || atha trayodaśaṃ brāhmaṇam | mantra 1
उक्थं प्राणो वा उक्थं प्राणो हीदं सर्वमुत्थापयत्युद्धास्मा धस्मादुक्थविद्वीरस्तिष्ठत्युक्थस्य सायुज्यं सलोकतां जयति य एवं वेद
ukthaṃ prāṇo vā ukthaṃ prāṇo hīdaṃ sarvamutthāpayatyuddhāsmā dhasmādukthavidvīrastiṣṭhatyukthasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda
यजुः प्राणो वै यजुः प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते । युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय यजुषः सायुज्यं सलोकतां जयति य एवं वेद
yajuḥ prāṇo vai yajuḥ prāṇe hīmāni sarvāṇi bhūtāni yujyante | yujyante hāsmai sarvāṇi bhūtāni śraiṣṭhyāya yajuṣaḥ sāyujyaṃ salokatāṃ jayati ya evaṃ veda
साम प्राणो वै साम प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि । सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते साम्नः सायुज्यं सलोकतां जयति य एवं वेद
sāma prāṇo vai sāma prāṇe hīmāni sarvāṇi bhūtāni samyañci | samyañci hāsmai sarvāṇi bhūtāni śraiṣṭhyāya kalpante sāmnaḥ sāyujyaṃ salokatāṃ jayati ya evaṃ veda
क्षत्रं प्राणो वै क्षत्रं प्राणो हि वै क्षत्रं त्रायते हैनं प्राणः क्षणितोः । प्र क्षत्रमत्रमप्नोति क्षत्रस्य सायुज्यं सलोकतां जयति य एवं वेद
kṣatraṃ prāṇo vai kṣatraṃ prāṇo hi vai kṣatraṃ trāyate hainaṃ prāṇaḥ kṣaṇitoḥ | pra kṣatramatramapnoti kṣatrasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda
भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद
bhūmirantarikṣaṃ dyaurityaṣṭāvakṣarāṇyaṣṭākṣaraṃ ha vā ekaṃ gāyatryai padametadu haivāsyā etat sa yāvadeṣu triṣu lokeṣu tāvaddha jayati yo'syā etadevaṃ padaṃ veda
ऋचो यजूंषि सामानीत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतदु हैवास्या एतत् स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद
ṛco yajūṃṣi sāmānītyaṣṭāvakṣarāṇyaṣṭākṣaraṃ ha vā ekaṃ gāyatryai padam | etadu haivāsyā etat sa yāvatīyaṃ trayī vidyā tāvaddha jayati yo'syā etadevaṃ padaṃ veda
प्राणोऽपानो व्यान इत्यष्टावक्षराणि अष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति यद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृश इव ह्येष परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपत्येवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद
prāṇo'pāno vyāna ityaṣṭāvakṣarāṇi aṣṭākṣaraṃ ha vā ekaṃ gāyatryai padametadu haivāsyā etat sa yāvadidaṃ prāṇi tāvaddha jayati yo'syā etadevaṃ padaṃ veda athāsyā etadeva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati yadvai caturthaṃ tatturīyaṃ darśataṃ padamiti dadṛśa iva hyeṣa parorajā iti sarvamu hyevaiṣa raja uparyupari tapatyevaṃ haiva śriyā yaśasā tapati yo'syā etadevaṃ padaṃ veda
सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता तद्वै तत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं द्वौ विवदमानावेयातामहम् अदर्शं अहमश्रौषमिति य एव एवं ब्रूयादहम् अदर्शमिति तस्मा एव श्रद्दध्याम । तद्वै तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलं तत्प्राणे प्रतिष्ठितं तस्मादाहुर्बलं सत्यादोगीय इत्येवं वेषा गायत्र्यध्यात्मं प्रतिष्ठिता । सा हैषा गयांस्तत्रे प्राणा वै गयास्तत्प्राणांस्तत्रे तद्यद्गयांस्तत्रे तस्माद् गायत्री नाम । स यामेवामूं सावित्रीमन्वाहैषैव सा । स यस्मा अन्वाह तस्य प्राणांस्त्रायते
saiṣā gāyatryetasmiṃsturīye darśate pade parorajasi pratiṣṭhitā tadvai tatsatye pratiṣṭhitaṃ cakṣurvai satyaṃ cakṣurhi vai satyaṃ tasmādyadidānīṃ dvau vivadamānāveyātāmaham adarśaṃ ahamaśrauṣamiti ya eva evaṃ brūyādaham adarśamiti tasmā eva śraddadhyāma | tadvai tatsatyaṃ bale pratiṣṭhitaṃ prāṇo vai balaṃ tatprāṇe pratiṣṭhitaṃ tasmādāhurbalaṃ satyādogīya ityevaṃ veṣā gāyatryadhyātmaṃ pratiṣṭhitā | sā haiṣā gayāṃstatre prāṇā vai gayāstatprāṇāṃstatre tadyadgayāṃstatre tasmād gāyatrī nāma | sa yāmevāmūṃ sāvitrīmanvāhaiṣaiva sā | sa yasmā anvāha tasya prāṇāṃstrāyate
तां हैतामेके सावित्रीमनुष्टुभमन्वाहुर्वागनुष्टुब् एतद्वाचमनुब्रूम इति । न तथा कुर्याद् गायत्रीमेवानुब्रूयाद् । यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकं चन पदं प्रति
tāṃ haitāmeke sāvitrīmanuṣṭubhamanvāhurvāganuṣṭub etadvācamanubrūma iti | na tathā kuryād gāyatrīmevānubrūyād | yadi ha vā apyevaṃvidbahviva pratigṛhṇāti na haiva tadgāyatryā ekaṃ cana padaṃ prati
स य इमांस्त्रींल्लोकान्पूर्णान्प्रतिगृह्णीयात् सोऽस्या एतत्प्रथमं पदमाप्नुयाद् । अथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात् सोऽऽस्या एतद्द्वितीयं पदमाप्नुयादथ यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात् सोऽस्या एतत्तृतीयं पदमाप्नुयादथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति नैव केन चनाप्यं कुत उ एतावत्प्रतिगृह्णीयात्
sa ya imāṃstrīṃllokānpūrṇānpratigṛhṇīyāt so'syā etatprathamaṃ padamāpnuyād | atha yāvatīyaṃ trayī vidyā yastāvatpratigṛhṇīyāt so''syā etaddvitīyaṃ padamāpnuyādatha yāvadidaṃ prāṇi yastāvatpratigṛhṇīyāt so'syā etattṛtīyaṃ padamāpnuyādathāsyā etadeva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati naiva kena canāpyaṃ kuta u etāvatpratigṛhṇīyāt
तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परोरजसेऽसावदो मा प्रापदिति यं द्विष्यादसावस्मै कामो मा समृद्धीति वा न हैवास्मै स कामः समृद्ध्यते यस्मा एवमुपतिष्ठतेऽहमदः प्रापमिति वा
tasyā upasthānaṃ gāyatryasyekapadī dvipadī tripadī catuṣpadyapadasi na hi padyase | namaste turīyāya darśatāya padāya parorajase'sāvado mā prāpaditi yaṃ dviṣyādasāvasmai kāmo mā samṛddhīti vā na haivāsmai sa kāmaḥ samṛddhyate yasmā evamupatiṣṭhate'hamadaḥ prāpamiti vā
एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथा अथ कथं हस्ती भूतो वहसीति । मुखं ह्यस्याः सम्राण् न विदां चकारेति होवाच । तस्या अग्निरेव मुखं यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्सन्दहत्येवं हैवैवंविद् यद्यपि बह्विव पापं कुरुते सर्वमेव तत्सम्प्साय शुद्धः पूतोऽजरोऽमृतः सम्भवति
etaddha vai tajjanako vaideho buḍilamāśvatarāśvimuvāca yannu ho tadgāyatrīvidabrūthā atha kathaṃ hastī bhūto vahasīti | mukhaṃ hyasyāḥ samrāṇ na vidāṃ cakāreti hovāca | tasyā agnireva mukhaṃ yadi ha vā api bahvivāgnāvabhyādadhati sarvameva tatsandahatyevaṃ haivaivaṃvid yadyapi bahviva pāpaṃ kurute sarvameva tatsampsāya śuddhaḥ pūto'jaro'mṛtaḥ sambhavati
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्न् अपावृणु सत्यधर्माय दृष्टये । पूषन्न् एकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् । समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि । योऽसावसौ पुरुषः सोऽहमस्मि । वायुरनिलममृतमथेदं भस्मान्तं शरीरम् । ॐ३ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर । अग्ने नय सुपथा रायेऽस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम
hiraṇmayena pātreṇa satyasyāpihitaṃ mukham | tattvaṃ pūṣann apāvṛṇu satyadharmāya dṛṣṭaye | pūṣann ekarṣe yama sūrya prājāpatya vyūha raśmīn | samūha tejo yatte rūpaṃ kalyāṇatamaṃ tatte paśyāmi | yo'sāvasau puruṣaḥ so'hamasmi | vāyuranilamamṛtamathedaṃ bhasmāntaṃ śarīram | oṃ3 krato smara kṛtaṃ smara krato smara kṛtaṃ smara | agne naya supathā rāye'smān viśvāni deva vayunāni vidvān | yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṃ te nama uktiṃ vidhema