Brihadaranyaka Upanishad · Chapter 3
Adhyaya 3
तृतीयोऽध्यायः
Yajnavalkya defeats the assembled sages in debate.
97 verses
नैवेह किंचनाग्र आसीन्मृत्युनैवेदमावृतमासीत् । अशनाययाऽशनाया हि मृत्युस्तन्मनोऽकुरुतात्मन्वी स्यामिति । सोऽर्चन्नचरत्तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति तदवार्कस्यार्कत्वं कँ ह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद ॥1॥
आपो वा अर्कस्तद्यदपाँ शर आसीत्तत्समहन्यत ॥ सा पृथिव्यभवत्तस्यामश्राम्यत्तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः ॥2॥
स त्रे धात्मानं व्यक्य्रुतादित्यं तृतीयं वायुं तृतीयँ स एष प्रानास्त्रे धा विहितः । तस्य प्राची दिकिशरोऽसौ चासौ चेर्मौ । अथास्य प्रतीचि दिक्पुच्छमसौ चासौ च सवध्यौ दक्षिणा चोदीची च पार्श्वे द्यौ पृष्ठमन्तरिक्षमुदरमियमुरः स -----Page-----------------८५-- एषोऽप्सु प्रातिष्ठितो यत्र क्क चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥3॥
सोऽकामयत द्वितीयो म आत्मा जायेतेति स मनसा वाचं मिथुनँ समभवर्दशनाया मृत्युस्तद्यद्रेत आसीत्स संवत्सरोऽभवत् । न ह पुरा ततः संवत्सर आस तमेतावन्तं कालमबिभः । यावान्संवत्सरस्तमेतावतः कालस्य परस्तादसृजत तं जतमभिव्याददात्स भाणकरोत्सैव वागभवत् ॥4॥
स ऐक्षत यदि वा इममभिमँ स्ये कनीयोऽन्नं करिष्य इति स तया वाचा तेनात्मनेदँ सर्वमसृजत यदिदं किंचर्चो यजूँ षि सामानि च्छन्दाँ सि यज्ञानप्रजाः पशून् । स यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्वँ सर्वस्यै त स्याता भवति सर्वमस्यान्नं भवति य एवमेतददिते रदितित्वं वेद ॥5॥
सोऽकमयत भूयसा यज्ञेन भूयो यजेयेति । सोऽश्राम्यत्स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् । प्राणा वै यशो वीर्यं तत्प्राणेषूत्क्रान्तेषु शरीरँ श्वयितुमध्रियत तस्य शरीर एव मन आसीत् ॥6॥
सोऽकमयत मेध्यं म इदँ स्यादात्मन्व्यनेन स्यामिति । ततोऽश्वः समभवद्यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमे ध्यस्याश्वमेधत्वम् । एष ह वा अश्वमेधं वेद य एनमेवं वेद । तमनवरुध्यैवामन्यत । तँ संवत्सरस्य परस्तादात्मन आलभत । पशून्देवताभ्यः प्रत्यौहत् । तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्त ॥एष ह वा अश्वमेधो य एष तपति तस्य संवत्सर आत्माऽयमग्निरर्कस्तस्येमे लोका आत्मानस्तावेतावर्काश्वमेधौ । सो पुनरेकैव देवता भवति मृत्युरेवाप पुनर्मृत्युं जयति नैनं मृत्युराप्नोति मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति ॥7॥
ॐ जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुस्तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव कः स्विदेषां ब्राह्मणानामनूचानतम इति । स ह गवां सहस्रमवरुरोध दशदश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः
oṃ janako ha vaideho bahudakṣiṇena yajñeneje | tatra ha kurupañcālānāṃ brāhmaṇā abhisametā babhūvustasya ha janakasya vaidehasya vijijñāsā babhūva kaḥ svideṣāṃ brāhmaṇānāmanūcānatama iti | sa ha gavāṃ sahasramavarurodha daśadaśa pādā ekaikasyāḥ śṛṅgayorābaddhā babhūvuḥ
तान्होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति । ते ह ब्राह्मणा न दधृषुरथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाचैताः सौम्योदज सामश्रवा३ इति । ता होदाचकार । ते ह ब्राह्मणाश्चुक्रुधुः कथं नु नो ब्रह्मिष्ठो ब्रुवीतेत्यथ ह जनकस्य वैदेहस्य होताऽश्वलो बभूव । स हैनं पप्रच्छ त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति । स होवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्म इति । तं ह तत एव प्रष्टुं दध्रे होताऽश्वलः
tānhovāca brāhmaṇā bhagavanto yo vo brahmiṣṭhaḥ sa etā gā udajatāmiti | te ha brāhmaṇā na dadhṛṣuratha ha yājñavalkyaḥ svameva brahmacāriṇamuvācaitāḥ saumyodaja sāmaśravā3 iti | tā hodācakāra | te ha brāhmaṇāścukrudhuḥ kathaṃ nu no brahmiṣṭho bruvītetyatha ha janakasya vaidehasya hotā'śvalo babhūva | sa hainaṃ papraccha tvaṃ nu khalu no yājñavalkya brahmiṣṭho'sī3 iti | sa hovāca namo vayaṃ brahmiṣṭhāya kurmo gokāmā eva vayaṃ sma iti | taṃ ha tata eva praṣṭuṃ dadhre hotā'śvalaḥ
याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्युनाऽऽप्तं, सर्वं मृत्युनाऽभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यत इति । होत्रर्त्विजाऽइना वाचा वाग्वै यज्ञस्य होता । तद्येयं वाक् सोऽयमग्निः स होता सा मुक्तिः साऽतिमुक्तिः
yājñavalkyeti hovāca yadidaṃ sarvaṃ mṛtyunā''ptaṃ, sarvaṃ mṛtyunā'bhipannaṃ kena yajamāno mṛtyorāptimatimucyata iti | hotrartvijā'inā vācā vāgvai yajñasya hotā | tadyeyaṃ vāk so'yamagniḥ sa hotā sā muktiḥ sā'timuktiḥ
याज्ञवल्क्येति होवाच यदिदं सर्वमहोरात्राभ्यामाप्तं, सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इत्यध्वर्युणर्त्विजा चक्षुषाऽऽदित्येन चक्षुर्वै यज्ञस्याध्वर्युस्तद्यदिदं चक्षुः सोऽसावादित्यः सोऽध्वर्युः सा मुक्तिः साऽतिमुक्तिः
yājñavalkyeti hovāca yadidaṃ sarvamahorātrābhyāmāptaṃ, sarvamahorātrābhyāmabhipannaṃ kena yajamāno'horātrayorāptimatimucyata ityadhvaryuṇartvijā cakṣuṣā''dityena cakṣurvai yajñasyādhvaryustadyadidaṃ cakṣuḥ so'sāvādityaḥ so'dhvaryuḥ sā muktiḥ sā'timuktiḥ
याज्ञवल्क्येति होवाच यदिदं सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तं, सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नं केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इत्युद्गात्रर्त्विजा वायुना प्राणेन प्राणो वै यज्ञस्योद्गाता । तद्योऽयं प्राणः स वायुः स उद्गाता सा मुक्तिः साऽतिमुक्तिः
yājñavalkyeti hovāca yadidaṃ sarvaṃ pūrvapakṣāparapakṣābhyāmāptaṃ, sarvaṃ pūrvapakṣāparapakṣābhyāmabhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayorāptimatimucyata ityudgātrartvijā vāyunā prāṇena prāṇo vai yajñasyodgātā | tadyo'yaṃ prāṇaḥ sa vāyuḥ sa udgātā sā muktiḥ sā'timuktiḥ
याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव केनाऽऽक्रमेन यजमानः स्वर्गं लोकमाक्रमत इति ब्रह्मणर्त्विजा मनसा चन्द्रेण मनो वै यज्ञस्य ब्रह्मा । तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा सा मुक्तिः सातिमुक्तिरित्यतिमोक्षा अथ सम्पदः
yājñavalkyeti hovāca yadidamantarikṣamanārambaṇamiva kenā''kramena yajamānaḥ svargaṃ lokamākramata iti brahmaṇartvijā manasā candreṇa mano vai yajñasya brahmā | tadyadidaṃ manaḥ so'sau candraḥ sa brahmā sā muktiḥ sātimuktirityatimokṣā atha sampadaḥ
याज्ञवल्क्येति होवाच कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे करिष्यतीति । तिसृभिरिति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव तृतीया । किं ताभिर्जयतीति । यत् किञ्चेदं प्राणभृदिति
yājñavalkyeti hovāca katibhirayamadyargbhirhotāsminyajñe kariṣyatīti | tisṛbhiriti | katamāstāstisra iti | puronuvākyā ca yājyā ca śasyaiva tṛtīyā | kiṃ tābhirjayatīti | yat kiñcedaṃ prāṇabhṛditi
याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति । तिस्र इति । कतमास्तास्तिस्र इति । या हुता उज्ज्वलन्ति या हुता अतिनेदन्ते या हुता अधिशेरते । किं ताभिर्जयतीति । या हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जयति दीप्यत इव हि देवलोको । या हुता अतिनेदन्ते पितृलोकमेव ताभिर्जयत्यतीव हि पितृलोको । या हुता अधिशेरते मनुष्यलोकमेव ताभिर्जयत्यध इव हि मनुष्यलोकः
yājñavalkyeti hovāca katyayamadyādhvaryurasminyajña āhutīrhoṣyatīti | tisra iti | katamāstāstisra iti | yā hutā ujjvalanti yā hutā atinedante yā hutā adhiśerate | kiṃ tābhirjayatīti | yā hutā ujjvalanti devalokameva tābhirjayati dīpyata iva hi devaloko | yā hutā atinedante pitṛlokameva tābhirjayatyatīva hi pitṛloko | yā hutā adhiśerate manuṣyalokameva tābhirjayatyadha iva hi manuṣyalokaḥ
याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायतीत्येकयेति । कतमा सैकेति । मन एवेत्यनन्तं वै मनो ंअन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति
yājñavalkyeti hovāca katibhirayamadya brahmā yajñaṃ dakṣiṇato devatābhirgopāyatītyekayeti | katamā saiketi | mana evetyanantaṃ vai mano ṃantā viśve devā anantameva sa tena lokaṃ jayati
याज्ञवल्क्येति होवाच कत्ययमद्योद्गाताऽस्मिन्यज्ञे स्तोत्रियाः स्तोष्यतीति । तिस्र इति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव तृतीया कतमास्ता या अध्यात्ममिति । प्राण एव पुरोनुवाक्याऽपानो याज्या व्यानः शस्या । किं ताभिर्जयतीति । पृथिवीलोकमेव पुरोनुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया ततो ह होताऽश्वल उपरराम
yājñavalkyeti hovāca katyayamadyodgātā'sminyajñe stotriyāḥ stoṣyatīti | tisra iti | katamāstāstisra iti | puronuvākyā ca yājyā ca śasyaiva tṛtīyā katamāstā yā adhyātmamiti | prāṇa eva puronuvākyā'pāno yājyā vyānaḥ śasyā | kiṃ tābhirjayatīti | pṛthivīlokameva puronuvākyayā jayatyantarikṣalokaṃ yājyayā dyulokaṃ śasyayā tato ha hotā'śvala upararāma
अथ हैनं जारत्कारव आर्तभागः पप्रच्छ । याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इत्यष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति
atha hainaṃ jāratkārava ārtabhāgaḥ papraccha | yājñavalkyeti hovāca kati grahāḥ katyatigrahā ityaṣṭau grahā aṣṭāvatigrahā iti ye te'ṣṭau grahā aṣṭāvatigrahāḥ katame ta iti
प्राणो वै ग्रहः । सोऽपानेनातिग्राहेण गृहीतोऽपानेन हि गन्धाञ्जिघ्रति
prāṇo vai grahaḥ | so'pānenātigrāheṇa gṛhīto'pānena hi gandhāñjighrati
वाग्वै ग्रहः । स नाम्नातिग्राहेण गृहीतो वाचा हि नामान्यभिवदति
vāgvai grahaḥ | sa nāmnātigrāheṇa gṛhīto vācā hi nāmānyabhivadati
जिह्वा वै ग्रहः । स रसेनातिग्राहेण गृहीतो जिह्वया हि रसान्विजानाति
jihvā vai grahaḥ | sa rasenātigrāheṇa gṛhīto jihvayā hi rasānvijānāti
चक्षुर्वै ग्रहः । स रूपेणातिग्राहेण गृहीतश्चक्षुषा हि रूपाणि पश्यति
cakṣurvai grahaḥ | sa rūpeṇātigrāheṇa gṛhītaścakṣuṣā hi rūpāṇi paśyati
श्रोत्रं वै ग्रहः । स शब्देनातिग्राहेण गृहीतः श्रोत्रेण हि शब्दाञ्शृणोति । मन्त्र ७
śrotraṃ vai grahaḥ | sa śabdenātigrāheṇa gṛhītaḥ śrotreṇa hi śabdāñśṛṇoti | mantra 7
मनो वै ग्रहः । स कामेनातिग्राहेण गृहीतो मनसा हि कामान्कामयते
mano vai grahaḥ | sa kāmenātigrāheṇa gṛhīto manasā hi kāmānkāmayate
हस्तौ वै ग्रहः । स कर्मणाऽतिग्राहेण गृहीतो हस्ताभ्यां हि कर्म करोति
hastau vai grahaḥ | sa karmaṇā'tigrāheṇa gṛhīto hastābhyāṃ hi karma karoti
याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमित्यग्निर्वै मृत्युः सोऽपामन्नमप पुनर्मृत्युं जयति
yājñavalkyeti hovāca yadidaṃ sarvaṃ mṛtyorannaṃ kā svitsā devatā yasyā mṛtyurannamityagnirvai mṛtyuḥ so'pāmannamapa punarmṛtyuṃ jayati
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्यहो३ नेति नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स उच्छ्वयत्याध्मायति आध्मातो मृतः शेते
yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyata udasmātprāṇāḥ krāmantyaho3 neti neti hovāca yājñavalkyo'traiva samavanīyante sa ucchvayatyādhmāyati ādhmāto mṛtaḥ śete
याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्यहर सौम्य हस्तं आर्तभागेति होवाऽऽचावामेवैतस्य वेदिष्यावो न नावेतत्सजन इति । तौ होत्क्रम्य मन्त्रयां चक्राते तौ ह यदूचतुः कर्म हैव तदूचतुरथ ह यत्प्रशंसतुः कर्म हैव तत् प्रशंसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति । ततो ह जारत्कारव आर्तभाग उपरराम
yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāgapyeti vātaṃ prāṇaścakṣurādityaṃ manaścandraṃ diśaḥ śrotraṃ pṛthivīṃ śarīramākāśamātmauṣadhīrlomāni vanaspatīnkeśā apsu lohitaṃ ca retaśca nidhīyate kvāyaṃ tadā puruṣo bhavatītyahara saumya hastaṃ ārtabhāgeti hovā''cāvāmevaitasya vediṣyāvo na nāvetatsajana iti | tau hotkramya mantrayāṃ cakrāte tau ha yadūcatuḥ karma haiva tadūcaturatha ha yatpraśaṃsatuḥ karma haiva tat praśaṃsatuḥ puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpeneti | tato ha jāratkārava ārtabhāga upararāma
अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ । याज्ञवल्क्येति होवाच मद्रेषु चरकाः पर्यव्रजाम ते पतञ्चलस्य काप्यस्य गृहानैम । तस्याऽऽसीद् दुहिता गन्धर्वगृहीता तमपृच्छाम कोऽसीति । सोऽब्रवीत् सुधन्वाऽऽङ्गिरस इति । तं यदा लोकानामन्तानपृच्छामाथैतदथैनमब्रूम क्व पारिक्षिता अभवन्निति क्व पारिक्षिता अभवन् स त्वा पृच्छामि याज्ञवल्क्य क्व पारिक्षिता अभवन्निति
atha hainaṃ bhujyurlāhyāyaniḥ papraccha | yājñavalkyeti hovāca madreṣu carakāḥ paryavrajāma te patañcalasya kāpyasya gṛhānaima | tasyā''sīd duhitā gandharvagṛhītā tamapṛcchāma ko'sīti | so'bravīt sudhanvā''ṅgirasa iti | taṃ yadā lokānāmantānapṛcchāmāthaitadathainamabrūma kva pārikṣitā abhavanniti kva pārikṣitā abhavan sa tvā pṛcchāmi yājñavalkya kva pārikṣitā abhavanniti
स होवाचोवाच वै सोऽगच्छन्वै ते तद् यत्राश्वमेधयाजिनो गच्छन्तीति । क्व न्वश्वमेधयाजिनो गच्छन्तीति । द्वात्रिंशतं वै देवरथाह्न्यान्ययं लोकस्तं समन्तं पृथिवी द्विस्तावत्पर्येति तां समन्तं पृथिवी द्विस्तावत्समुद्रः पर्येति । तद्यावती क्षुरस्य धारा यावद्वा मक्षिकायाः पत्रं तावानन्तरेणाऽऽकाशस्तान् इन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत् तान् वायुरात्मनि धित्वा तत्रागमयद्यत्र अश्वमेधयाजिनोऽभवन्नित्येवमिव वै स वायुमेव प्रशशंस तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेद । ततो ह भुज्युर्लाह्यायनिरुपरराम
sa hovācovāca vai so'gacchanvai te tad yatrāśvamedhayājino gacchantīti | kva nvaśvamedhayājino gacchantīti | dvātriṃśataṃ vai devarathāhnyānyayaṃ lokastaṃ samantaṃ pṛthivī dvistāvatparyeti tāṃ samantaṃ pṛthivī dvistāvatsamudraḥ paryeti | tadyāvatī kṣurasya dhārā yāvadvā makṣikāyāḥ patraṃ tāvānantareṇā''kāśastān indraḥ suparṇo bhūtvā vāyave prāyacchat tān vāyurātmani dhitvā tatrāgamayadyatra aśvamedhayājino'bhavannityevamiva vai sa vāyumeva praśaśaṃsa tasmādvāyureva vyaṣṭirvāyuḥ samaṣṭirapa punarmṛtyuṃ jayati ya evaṃ veda | tato ha bhujyurlāhyāyanirupararāma
अथ हैनमूषस्तश्चाक्रायणः पप्रच्छ । याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो । यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा सर्वान्तरो यो व्यानेन व्यानिति स त आत्मा सर्वान्तरो य उदानेनोदानिति स त आत्मा सर्वान्तर एष त आत्मा सर्वान्तरः
atha hainamūṣastaścākrāyaṇaḥ papraccha | yājñavalkyeti hovāca yatsākṣādaparokṣādbrahma ya ātmā sarvāntarastaṃ me vyācakṣvetyeṣa ta ātmā sarvāntaraḥ | katamo yājñavalkya sarvāntaro | yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaro yo'pānenāpāniti sa ta ātmā sarvāntaro yo vyānena vyāniti sa ta ātmā sarvāntaro ya udānenodāniti sa ta ātmā sarvāntara eṣa ta ātmā sarvāntaraḥ
स होवाचोषस्तश्चाक्रायणः यथा विब्रूयादसौ गौरसावश्व इत्येवमेवैतद्व्यपदिष्टं भवति । यदेव साक्षादपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो । न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेः श्रोतारं शृणुया न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजानीया एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तं ततो होषस्तस्चाक्रायण उपरराम
sa hovācoṣastaścākrāyaṇaḥ yathā vibrūyādasau gaurasāvaśva ityevamevaitadvyapadiṣṭaṃ bhavati | yadeva sākṣādaparokṣād brahma ya ātmā sarvāntaraḥ taṃ me vyācakṣveti | eṣa ta ātmā sarvāntaraḥ | katamo yājñavalkya sarvāntaro | na dṛṣṭerdraṣṭāraṃ paśyerna śruteḥ śrotāraṃ śṛṇuyā na matermantāraṃ manvīthā na vijñātervijñātāraṃ vijānīyā eṣa ta ātmā sarvāntaro'to'nyadārtaṃ tato hoṣastascākrāyaṇa upararāma
अथ हैनं कहोलः कौषीतकेयः पप्रच्छ पप्रच्छ याज्ञवल्क्येति होवाच यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो । योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येत्येतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति । या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतस्तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः । स ब्राह्मणः केन स्याद् येन स्यात् तेनेदृश एवातोऽन्यदार्तम् । य एवं वेद एवातोऽन्यदार्तम् । ततो ह कहोलः कौषीतकेय उपरराम
atha hainaṃ kaholaḥ kauṣītakeyaḥ papraccha papraccha yājñavalkyeti hovāca yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastaṃ me vyācakṣvetyeṣa ta ātmā sarvāntaraḥ | katamo yājñavalkya sarvāntaro | yo'śanāyāpipāse śokaṃ mohaṃ jarāṃ mṛtyumatyetyetaṃ vai tamātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ caranti | yā hyeva putraiṣaṇā sā vittaiṣaṇā yā vittaiṣaṇā sā lokaiṣaṇobhe hyete eṣaṇe eva bhavatastasmādbrāhmaṇaḥ pāṇḍityaṃ nirvidya bālyena tiṣṭhāset | bālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniramaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇaḥ | sa brāhmaṇaḥ kena syād yena syāt tenedṛśa evāto'nyadārtam | ya evaṃ veda evāto'nyadārtam | tato ha kaholaḥ kauṣītakeya upararāma
अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच यदिदं सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति । वायौ गार्गीति । कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति । कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च प्रोताश्चेति । गन्धर्वलोकेषु गार्गीति । कस्मिन्नु गन्धर्वलोका ओताश्च प्रोताश्चेत्यादित्यलोकेषु गार्गीति । कस्मिन् नु खल्वादित्यलोका ओताश्च प्रोताश्चेति । चन्द्रलोकेषु गार्गीति । कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति । नक्षत्रलोकेषु गार्गीति । कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति । देवलोकेषु गार्गीति । कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेति इन्द्रलोकेषु गार्गीति । कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति । प्रजापतिलोकेषु गार्गीति । कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति । ब्रह्मलोकेषु गार्गीति । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति । स होवाच गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपप्तदनतिप्रश्न्यां वै देवतामतिपृच्छसि । गार्गि माऽतिप्राक्षीरिति । ततो ह गार्गी वाचक्नव्युपरराम
atha hainaṃ gārgī vācaknavī papraccha yājñavalkyeti hovāca yadidaṃ sarvamapsvotaṃ ca protaṃ ca kasminnu khalvāpa otāśca protāśceti | vāyau gārgīti | kasminnu khalu vāyurotaśca protaścetyantarikṣalokeṣu gārgīti | kasminnu khalvantarikṣalokā otāśca protāśceti | gandharvalokeṣu gārgīti | kasminnu gandharvalokā otāśca protāścetyādityalokeṣu gārgīti | kasmin nu khalvādityalokā otāśca protāśceti | candralokeṣu gārgīti | kasminnu khalu candralokā otāśca protāśceti | nakṣatralokeṣu gārgīti | kasminnu khalu nakṣatralokā otāśca protāśceti | devalokeṣu gārgīti | kasminnu khalu devalokā otāśca protāśceti indralokeṣu gārgīti | kasminnu khalvindralokā otāśca protāśceti | prajāpatilokeṣu gārgīti | kasminnu khalu prajāpatilokā otāśca protāśceti | brahmalokeṣu gārgīti | kasminnu khalu brahmalokā otāśca protāśceti | sa hovāca gārgi mātiprākṣīrmā te mūrdhā vyapaptadanatipraśnyāṃ vai devatāmatipṛcchasi | gārgi mā'tiprākṣīriti | tato ha gārgī vācaknavyupararāma
अथ हैनमूद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु यज्ञमधीयानास्तस्याऽऽसीद्भार्या गन्धर्वगृहीता । तमपृच्छाम कोऽसीति । सोऽब्रवीत् कबन्ध आथर्वण इति । सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तत्सूत्रं येनायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्तीति । सोऽब्रवीत्पतञ्चलः काप्यो नाहं तद् भगवन् वेदेति । सोऽब्रवीत् पतञ्चलं काप्यं याज्ञिकांश्चः वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयतीति । सोऽब्रवीत् पतञ्चलः काप्यो नाहं तं भगवन् वेदेति । सोऽब्रवीत् पतञ्चलं काप्यं याज्ञिकांश्च यो वै तत् काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित् स लोकवित् स देववित् स वेदवित् स भूतवित् स आत्मवित् स सर्वविदिति तेभ्योऽब्रवीत् तदहं वेद । तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यतीति । वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमिति । यो वा इदं कश्चिद्ब्रूयात् वेद वेदेति । यथा वेत्थ तथा ब्रूहीति
atha hainamūddālaka āruṇiḥ papraccha yājñavalkyeti hovāca madreṣvavasāma patañcalasya kāpyasya gṛheṣu yajñamadhīyānāstasyā''sīdbhāryā gandharvagṛhītā | tamapṛcchāma ko'sīti | so'bravīt kabandha ātharvaṇa iti | so'bravītpatañcalaṃ kāpyaṃ yājñikāṃśca vettha nu tvaṃ kāpya tatsūtraṃ yenāyaṃ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni sandṛbdhāni bhavantīti | so'bravītpatañcalaḥ kāpyo nāhaṃ tad bhagavan vedeti | so'bravīt patañcalaṃ kāpyaṃ yājñikāṃścaḥ vettha nu tvaṃ kāpya tamantaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāni yo'ntaro yamayatīti | so'bravīt patañcalaḥ kāpyo nāhaṃ taṃ bhagavan vedeti | so'bravīt patañcalaṃ kāpyaṃ yājñikāṃśca yo vai tat kāpya sūtraṃ vidyāttaṃ cāntaryāmiṇamiti sa brahmavit sa lokavit sa devavit sa vedavit sa bhūtavit sa ātmavit sa sarvaviditi tebhyo'bravīt tadahaṃ veda | taccettvaṃ yājñavalkya sūtramavidvāṃstaṃ cāntaryāmiṇaṃ brahmagavīrudajase mūrdhā te vipatiṣyatīti | veda vā ahaṃ gautama tatsūtraṃ taṃ cāntaryāmiṇamiti | yo vā idaṃ kaścidbrūyāt veda vedeti | yathā vettha tathā brūhīti
स होवाच वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति । तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्रंसिषतास्याङ्गानीति वायुना हि गौतम सूत्रेण संदृब्धानि भवन्तीत्येवमेवैतद् याज्ञवल्क्यान्तर्यामिणं ब्रूहीति
sa hovāca vāyurvai gautama tatsūtraṃ vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni sandṛbdhāni bhavanti | tasmādvai gautama puruṣaṃ pretamāhurvyasraṃsiṣatāsyāṅgānīti vāyunā hi gautama sūtreṇa saṃdṛbdhāni bhavantītyevamevaitad yājñavalkyāntaryāmiṇaṃ brūhīti
यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः
yaḥ pṛthivyāṃ tiṣṭhanpṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīmantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ
योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यमापो न विदुः यस्यापः शरीरं योऽपोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः
yo'psu tiṣṭhannadbhyo'ntaro yamāpo na viduḥ yasyāpaḥ śarīraṃ yo'po'ntaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ
योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः
yo'gnau tiṣṭhannagnerantaro yamagnirna veda yasyāgniḥ śarīraṃ yo'gnimantaro yamayati eṣa ta ātmāntaryāmyamṛtaḥ
योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षं न वेद यस्यान्तरिक्षं शरीरं योऽन्तरिक्षमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः
yo'ntarikṣe tiṣṭhannantarikṣādantaro yamantarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo'ntarikṣamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ
यो वायौ तिष्ठन्वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो वायुमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः
yo vāyau tiṣṭhanvāyorantaro yaṃ vāyurna veda yasya vāyuḥ śarīraṃ yo vāyumantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ
यो दिवि तिष्ठन्दिवोऽन्तरो यं द्यौर्न वेद यस्य द्यौः शरीरं यो दिवमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः
yo divi tiṣṭhandivo'ntaro yaṃ dyaurna veda yasya dyauḥ śarīraṃ yo divamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ
य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्याऽऽदित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः
ya āditye tiṣṭhannādityādantaro yamādityo na veda yasyā''dityaḥ śarīraṃ ya ādityamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ
यो दिक्षु तिष्ठन्दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं यो दिशोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः
yo dikṣu tiṣṭhandigbhyo'ntaro yaṃ diśo na viduryasya diśaḥ śarīraṃ yo diśo'ntaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ
यश्चन्द्रतारके तिष्ठंचन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारकं शरीरं यश्चन्द्रतारकमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः
yaścandratārake tiṣṭhaṃcandratārakādantaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaścandratārakamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ
य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याऽऽकाशः शरीरं य आकाशमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः
ya ākāśe tiṣṭhannākāśādantaro yamākāśo na veda yasyā''kāśaḥ śarīraṃ ya ākāśamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ
यस्तमसि तिष्ठंस्तमसोऽन्तरो यं तमो न वेद यस्य तमः शरीरं यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः
yastamasi tiṣṭhaṃstamaso'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yastamo'ntaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ
यस्तेजसि तिष्ठंस्तेजसोऽन्तरो यं तेजो न वेद यस्य तेजः शरीरं यस्तेजोऽन्तरो यमयत्य्स एष त आत्माऽन्तर्याम्यमृत इत्यधिदैवतं अथाधिभूतम्
yastejasi tiṣṭhaṃstejaso'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ yastejo'ntaro yamayatysa eṣa ta ātmā'ntaryāmyamṛta ityadhidaivataṃ athādhibhūtam
यः सर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भुतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृत इत्यधिभूतमथाध्यात्मम्
yaḥ sarveṣu bhūteṣu tiṣṭhansarvebhyo bhūtebhyo'ntaro yaṃ sarvāṇi bhūtāni na viduryasya sarvāṇi bhutāni śarīraṃ yaḥ sarvāṇi bhūtānyantaro yamayatyeṣa ta ātmā'ntaryāmyamṛta ityadhibhūtamathādhyātmam
यः प्राणे तिष्ठन्प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः
yaḥ prāṇe tiṣṭhanprāṇādantaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ
यो वाचि तिष्ठन्वाचोऽन्तरो यं वाङ्न वेद यस्य वाक् शरीरं यो वाचमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः
yo vāci tiṣṭhanvāco'ntaro yaṃ vāṅna veda yasya vāk śarīraṃ yo vācamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ
यश्चक्षुषि तिष्ठंश्चक्षुषोऽन्तरो यं चक्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः
yaścakṣuṣi tiṣṭhaṃścakṣuṣo'ntaro yaṃ cakṣurna veda yasya cakṣuḥ śarīraṃ yaścakṣurantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ
यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो यं श्रोत्रं न वेद यस्य श्रोत्रं शरीरं यः श्रोत्रमन्तरो यमयत्य्स एष त आत्माऽन्तर्याम्यमृतः
yaḥ śrotre tiṣṭhañchrotrādantaro yaṃ śrotraṃ na veda yasya śrotraṃ śarīraṃ yaḥ śrotramantaro yamayatysa eṣa ta ātmā'ntaryāmyamṛtaḥ
यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः
yo manasi tiṣṭhanmanaso'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano'ntaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ
यस्त्वचि तिष्ठंस्त्वचोऽन्तरो यं त्वङ्न वेद यस्य त्वक् शरीरं यस्त्वचमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः
yastvaci tiṣṭhaṃstvaco'ntaro yaṃ tvaṅna veda yasya tvak śarīraṃ yastvacamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ
यो विज्ञाने तिष्ठन्विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः
yo vijñāne tiṣṭhanvijñānādantaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīraṃ yo vijñānamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ
यो रेतसि तिष्ठन् रेतसोऽन्तरो यं रेतो न वेद यस्य रेतः शरीरं यो रेतोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतोऽदृष्टो द्रष्टाऽश्रुतः श्रोताऽमतो मन्ताऽविज्ञतो विज्ञाता । नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञातैष त आत्माऽन्तर्याम्यमृतोऽतोऽन्यदार्तं ततो होद्दालक आरुणिरुपरराम
yo retasi tiṣṭhan retaso'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto'ntaro yamayatyeṣa ta ātmā'ntaryāmyamṛto'dṛṣṭo draṣṭā'śrutaḥ śrotā'mato mantā'vijñato vijñātā | nānyo'to'sti draṣṭā nānyo'to'sti śrotā nānyo'to'sti mantā nānyo'to'sti vijñātaiṣa ta ātmā'ntaryāmyamṛto'to'nyadārtaṃ tato hoddālaka āruṇirupararāma
अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति । पृच्छ गार्गीति
atha ha vācaknavyuvāca brāhmaṇā bhagavanto hantāhamimaṃ dvau praśnau prakṣyāmi tau cenme vakṣyati na vai jātu yuṣmākamimaṃ kaścidbrahmodyaṃ jeteti | pṛccha gārgīti
सा होवाचाहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् । तौ मे ब्रूहीति । पृच्छ गार्गीति
sā hovācāhaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanuradhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhedevamevāhaṃ tvā dvābhyāṃ praśnābhyāmupodasthām | tau me brūhīti | pṛccha gārgīti
सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति
sā hovāca yadūrdhvaṃ yājñavalkya divo yadavākpṛthivyā yadantarā dyāvāpṛthivī ime yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakṣate kasmiṃstadotaṃ ca protaṃ ceti
स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतं च प्रोतं चेति
sa hovāca yadūrdhvaṃ gārgi divo yadavākpṛthivyā yadantarā dyāvāpṛthivī ime yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakṣata ākāśe tadotaṃ ca protaṃ ceti
सा होवाच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचोऽपरस्मै धारयस्वेति । पृच्छ गार्गीति
sā hovāca namaste'stu yājñavalkya yo ma etaṃ vyavoco'parasmai dhārayasveti | pṛccha gārgīti
सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक् पृथिव्याः यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते आचक्षते कस्मिंस्तदोतं च प्रोतं चेति
sā hovāca yadūrdhvaṃ yājñavalkya divo yadavāk pṛthivyāḥ yadantarā dyāvāpṛthivī ime yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakṣate ācakṣate kasmiṃstadotaṃ ca protaṃ ceti
स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति । कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति
sa hovāca yadūrdhvaṃ gārgi divo yadavākpṛthivyā yadantarā dyāvāpṛthivī ime yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakṣata ākāśa eva tadotaṃ ca protaṃ ceti | kasminnu khalvākāśa otaśca protaśceti
स होवाचैतद्वै तदक्षरऽ गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमो- ऽवाय्वनाकाशमसङ्गं अचक्षुष्कमश्रोत्रमवाग् अमनोऽतेजस्कमप्राणममुखममात्रं अनन्तरमबाह्यं न तदश्नाति किं चन न तदश्नाति कश्चन
sa hovācaitadvai tadakṣara' gārgi brāhmaṇā abhivadantyasthūlamanaṇvahrasvamadīrghamalohitamasnehamacchāyamatamo- 'vāyvanākāśamasaṅgaṃ acakṣuṣkamaśrotramavāg amano'tejaskamaprāṇamamukhamamātraṃ anantaramabāhyaṃ na tadaśnāti kiṃ cana na tadaśnāti kaścana
एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्त्येतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमन्वेतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः
etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhata etasya vā akṣarasya praśāsane gārgi dyāvāpṛthivyau vidhṛte tiṣṭhata etasya vā akṣarasya praśāsane gārgi nimeṣā muhūrtā ahorātrāṇyardhamāsā māsā ṛtavaḥ saṃvatsarā iti vidhṛtāstiṣṭhantyetasya vā akṣarasya praśāsane gārgi prācyo'nyā nadyaḥ syandante śvetebhyaḥ parvatebhyaḥ pratīcyo'nyā yāṃ yāṃ ca diśamanvetasya vā akṣarasya praśāsane gārgi dadato manuṣyāḥ praśaṃsanti yajamānaṃ devā darvīṃ pitaro'nvāyattāḥ
यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति लोको भवति यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपणोऽथ य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात्प्रैति स ब्राह्मणः
yo vā etadakṣaraṃ gārgyaviditvā'smiṃlloke juhoti yajate tapastapyate bahūni varṣasahasrāṇyantavadevāsya tadbhavati loko bhavati yo vā etadakṣaraṃ gārgyaviditvā'smāllokātpraiti sa kṛpaṇo'tha ya etadakṣaraṃ gārgi viditvā'smāllokātpraiti sa brāhmaṇaḥ
तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टृश्रुतं श्रोत्त्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्त्रेतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति
tadvā etadakṣaraṃ gārgyadṛṣṭaṃ draṣṭṛśrutaṃ śrottramataṃ mantravijñātaṃ vijñātṛ nānyadato'sti draṣṭṛ nānyadato'sti śrotṛ nānyadato'sti mantṛ nānyadato'sti vijñāttretasminnu khalvakṣare gārgyākāśa otaśca protaśceti
सा होवाच ब्राह्मणा भगवन्तस्तदेव बहु मन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वं न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ततो ह वाचक्नव्युपरराम
sā hovāca brāhmaṇā bhagavantastadeva bahu manyedhvaṃ yadasmānnamaskāreṇa mucyedhvaṃ na vai jātu yuṣmākamimaṃ kaścidbrahmodyaṃ jeteti tato ha vācaknavyupararāma
अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति । स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति । त्रयस्त्रिंशदित्योमिति होवाच । कत्येव देवा याज्ञवल्क्येति । षडित्योमिति होवाच । कत्येव देवा याज्ञवल्क्येति । त्रय इत्योमिति होवाच । कत्येव देवा याज्ञवल्क्येत्य्द्वावित्योमिति होवाच । कत्येव देवा याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच । कत्येव देवा याज्ञवल्क्येत्येक इत्योमिति होवाच । कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति
atha hainaṃ vidagdhaḥ śākalyaḥ papraccha kati devā yājñavalkyeti | sa haitayaiva nividā pratipede yāvanto vaiśvadevasya nividyucyante trayaśca trī ca śatā trayaśca trī ca sahasretyomiti hovāca katyeva devā yājñavalkyeti | trayastriṃśadityomiti hovāca | katyeva devā yājñavalkyeti | ṣaḍityomiti hovāca | katyeva devā yājñavalkyeti | traya ityomiti hovāca | katyeva devā yājñavalkyetydvāvityomiti hovāca | katyeva devā yājñavalkyetyadhyardha ityomiti hovāca | katyeva devā yājñavalkyetyeka ityomiti hovāca | katame te trayaśca trī ca śatā trayaśca trī ca sahasreti
स होवाच महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति कतमे ते त्रयस्त्रिंशदित्यष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्यास्ते एकत्रिंशदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति
sa hovāca mahimāna evaiṣāmete trayastriṃśattveva devā iti katame te trayastriṃśadityaṣṭau vasava ekādaśa rudrā dvādaśā''dityāste ekatriṃśadindraścaiva prajāpatiśca trayastriṃśāviti
कतमे वसव इत्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं चाऽऽदित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चैते वसव एतेषु हीदं वसु सर्वं हितमिति तस्माद्वसव इति
katame vasava ityagniśca pṛthivī ca vāyuścāntarikṣaṃ cā''dityaśca dyauśca candramāśca nakṣatrāṇi caite vasava eteṣu hīdaṃ vasu sarvaṃ hitamiti tasmādvasava iti
कतमे रुद्रा इति । दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदाऽस्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति तस्माद्रुद्रा इति
katame rudrā iti | daśeme puruṣe prāṇā ātmaikādaśaste yadā'smāccharīrānmartyādutkrāmantyatha rodayanti tadyadrodayanti tasmādrudrā iti
कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्यैत आदित्या एते हीदं सर्वमाददाना यन्ति ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति
katama ādityā iti | dvādaśa vai māsāḥ saṃvatsarasyaita ādityā ete hīdaṃ sarvamādadānā yanti te yadidaṃ sarvamādadānā yanti tasmādādityā iti
कतम इन्द्रः कतमः प्रजापतिरिति । स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति । कतमः स्तनयित्नुरित्यशनिरिति । कतमो यज्ञ इति । पशव इति
katama indraḥ katamaḥ prajāpatiriti | stanayitnurevendro yajñaḥ prajāpatiriti | katamaḥ stanayitnurityaśaniriti | katamo yajña iti | paśava iti
कतमे षडित्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं चाऽऽदित्यश्च द्यौश्चैते षड् एते हीदं सर्वं षडिति
katame ṣaḍityagniśca pṛthivī ca vāyuścāntarikṣaṃ cā''dityaśca dyauścaite ṣaḍ ete hīdaṃ sarvaṃ ṣaḍiti
कतमे ते त्रयो देवा इति इम एव त्रयो लोका एषु हीमे सर्वे देवा इति । कतमौ तौ द्वौ देवावित्यन्नं चैव प्राणश्चेति । कतमोऽध्यर्ध इति । योऽयं पवत इति
katame te trayo devā iti ima eva trayo lokā eṣu hīme sarve devā iti | katamau tau dvau devāvityannaṃ caiva prāṇaśceti | katamo'dhyardha iti | yo'yaṃ pavata iti
तदाहुर्यदयमेक एव एक इवैव पवते ।आथ कथमध्यर्ध इति । यदस्मिन्निदं सर्वमध्यार्ध्नोत् तेनाध्यर्ध इति । कतम एको देव इति । प्राण इति स ब्रह्म त्यदित्याचक्षते
tadāhuryadayameka eva eka ivaiva pavate |ātha kathamadhyardha iti | yadasminnidaṃ sarvamadhyārdhnot tenādhyardha iti | katama eko deva iti | prāṇa iti sa brahma tyadityācakṣate
पृथिव्येव यस्याऽऽयतनमग्निर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणं, परायणं स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्याऽऽत्मनः परायणं यमात्थ य एवायं शारीरः पुरुषः स एष । वदैव शाकल्य तस्य का देवतेत्यमृतमिति होवाच
pṛthivyeva yasyā''yatanamagnirloko mano jyotiryo vai taṃ puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇaṃ, parāyaṇaṃ sa vai veditā syād yājñavalkya | veda vā ahaṃ taṃ puruṣaṃ sarvasyā''tmanaḥ parāyaṇaṃ yamāttha ya evāyaṃ śārīraḥ puruṣaḥ sa eṣa | vadaiva śākalya tasya kā devatetyamṛtamiti hovāca
काम एव यस्याऽऽयतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणं, स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्याऽऽत्मनः परायणं यमात्थ य एवायं काममयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । स्त्रिय इति होवाच
kāma eva yasyā''yatanaṃ hṛdayaṃ loko mano jyotiryo vai taṃ puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇaṃ, sa vai veditā syād yājñavalkya | veda vā ahaṃ taṃ puruṣaṃ sarvasyā''tmanaḥ parāyaṇaṃ yamāttha ya evāyaṃ kāmamayaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti | striya iti hovāca
रूपाण्येव यस्याऽऽयतनं चक्षुर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणं, स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्याऽऽत्मनः परायणं यमात्थ य एवासावादित्ये पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । सत्यमिति होवाच
rūpāṇyeva yasyā''yatanaṃ cakṣurloko mano jyotiryo vai taṃ puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇaṃ, sa vai veditā syād yājñavalkya | veda vā ahaṃ taṃ puruṣaṃ sarvasyā''tmanaḥ parāyaṇaṃ yamāttha ya evāsāvāditye puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti | satyamiti hovāca
आकाश एव यस्याऽऽयतनं श्रोत्रं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणं, स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्याऽऽत्मनः परायणं यमात्थ य एवायं श्रौत्रः प्रातिश्रुत्कः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । दिश इति होवाच
ākāśa eva yasyā''yatanaṃ śrotraṃ loko mano jyotiryo vai taṃ puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇaṃ, sa vai veditā syād yājñavalkya | veda vā ahaṃ taṃ puruṣaṃ sarvasyā''tmanaḥ parāyaṇaṃ yamāttha ya evāyaṃ śrautraḥ prātiśrutkaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti | diśa iti hovāca
तम एव यस्याऽऽयतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणं, स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्याऽऽत्मनः परायणं यमात्थ य एवायं छायामयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । मृत्युरिति होवाच
tama eva yasyā''yatanaṃ hṛdayaṃ loko mano jyotiryo vai taṃ puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇaṃ, sa vai veditā syād yājñavalkya | veda vā ahaṃ taṃ puruṣaṃ sarvasyā''tmanaḥ parāyaṇaṃ yamāttha ya evāyaṃ chāyāmayaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti | mṛtyuriti hovāca
रूपाण्येव यस्याऽऽयतनं चक्षुर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणं, परायणं स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्याऽऽत्मनः परायणं यमात्थ य एवायमादर्शे पुरुषः स एष वदैव शाकल्य तस्य का देवतेत्यसुरिति होवाच
rūpāṇyeva yasyā''yatanaṃ cakṣurloko mano jyotiryo vai taṃ puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇaṃ, parāyaṇaṃ sa vai veditā syād yājñavalkya | veda vā ahaṃ taṃ puruṣaṃ sarvasyā''tmanaḥ parāyaṇaṃ yamāttha ya evāyamādarśe puruṣaḥ sa eṣa vadaiva śākalya tasya kā devatetyasuriti hovāca
आप एव यस्याऽऽयतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणं, परायणं स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्याऽऽत्मनः परायणं यमात्थ य एवायमप्सु पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । वरुण इति होवाच
āpa eva yasyā''yatanaṃ hṛdayaṃ loko mano jyotiryo vai taṃ puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇaṃ, parāyaṇaṃ sa vai veditā syād yājñavalkya | veda vā ahaṃ taṃ puruṣaṃ sarvasyā''tmanaḥ parāyaṇaṃ yamāttha ya evāyamapsu puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti | varuṇa iti hovāca
रेत एव यस्याऽऽयतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणं, स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्याऽऽत्मनः परायणं यमात्थ य एवायं पुत्रमयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । प्रजापतिरिति होवाच
reta eva yasyā''yatanaṃ hṛdayaṃ loko mano jyotiryo vai taṃ puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇaṃ, sa vai veditā syād yājñavalkya | veda vā ahaṃ taṃ puruṣaṃ sarvasyā''tmanaḥ parāyaṇaṃ yamāttha ya evāyaṃ putramayaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti | prajāpatiriti hovāca
शाकल्येति होवाच याज्ञवल्क्यस्त्वां स्विदिमे ब्राह्मणा अङ्गारावक्षयणमक्रता३ इति
śākalyeti hovāca yājñavalkyastvāṃ svidime brāhmaṇā aṅgārāvakṣayaṇamakratā3 iti
याज्ञवल्क्येति होवाच शाकल्यो यदिदं कुरुपञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति । दिशो वेद सदेवाः सप्रतिष्ठा इति । यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः
yājñavalkyeti hovāca śākalyo yadidaṃ kurupañcālānāṃ brāhmaṇānatyavādīḥ kiṃ brahma vidvāniti | diśo veda sadevāḥ sapratiṣṭhā iti | yaddiśo vettha sadevāḥ sapratiṣṭhāḥ
किन्देवतोऽस्यां प्राच्यां दिश्यसीत्यादित्यदेवत इति । स आदित्यः कस्मिन्प्रतिष्ठित इति । चक्षुषीति । कस्मिन्नु चक्षुः प्रतिष्ठितमिति । रूपेष्विति चक्षुषा हि रूपाणि पश्यति । कस्मिन्नु रूपाणि प्रतिष्ठितानीति । हृदय इति होवाच हृदयेन हि रूपाणि जानाति हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीत्येवमेवैतद् याज्ञवल्क्य
kindevato'syāṃ prācyāṃ diśyasītyādityadevata iti | sa ādityaḥ kasminpratiṣṭhita iti | cakṣuṣīti | kasminnu cakṣuḥ pratiṣṭhitamiti | rūpeṣviti cakṣuṣā hi rūpāṇi paśyati | kasminnu rūpāṇi pratiṣṭhitānīti | hṛdaya iti hovāca hṛdayena hi rūpāṇi jānāti hṛdaye hyeva rūpāṇi pratiṣṭhitāni bhavantītyevamevaitad yājñavalkya
किन्देवतोऽस्यां दक्षिणायां दिश्यसीति । यमदेवत इति । स यमः कस्मिन्प्रतिष्ठित इति । यज्ञ इति । कस्मिन्नु यज्ञः प्रतिष्ठित इति। दक्षिणायामिति । कस्मिन्नु दक्षिणा प्रतिष्ठितेति श्रद्धायामिति यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेति कस्मिन्नु श्रद्धा प्रतिष्ठितेति हृदय इति होवाच हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीत्येवमेवैतद् याज्ञवल्क्य
kindevato'syāṃ dakṣiṇāyāṃ diśyasīti | yamadevata iti | sa yamaḥ kasminpratiṣṭhita iti | yajña iti | kasminnu yajñaḥ pratiṣṭhita iti| dakṣiṇāyāmiti | kasminnu dakṣiṇā pratiṣṭhiteti śraddhāyāmiti yadā hyeva śraddhatte'tha dakṣiṇāṃ dadāti śraddhāyāṃ hyeva dakṣiṇā pratiṣṭhiteti kasminnu śraddhā pratiṣṭhiteti hṛdaya iti hovāca hṛdayena hi śraddhāṃ jānāti hṛdaye hyeva śraddhā pratiṣṭhitā bhavatītyevamevaitad yājñavalkya
किन्देवतोऽस्यां प्रतीच्यां दिश्यसीति । वरुणदेवत इति । स वरुणः कस्मिन् प्रतिष्ठित इत्यप्स्विति । कस्मिन्न्वापः प्रतिष्ठितेति रेतसीति । कस्मिन्नु रेतः प्रतिष्ठितेति इति हृदय इति तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव रेतः प्रतिष्ठितं भवतीत्येवमेवैतद् याज्ञवल्क्य
kindevato'syāṃ pratīcyāṃ diśyasīti | varuṇadevata iti | sa varuṇaḥ kasmin pratiṣṭhita ityapsviti | kasminnvāpaḥ pratiṣṭhiteti retasīti | kasminnu retaḥ pratiṣṭhiteti iti hṛdaya iti tasmādapi pratirūpaṃ jātamāhurhṛdayādiva sṛpto hṛdayādiva nirmita iti hṛdaye hyeva retaḥ pratiṣṭhitaṃ bhavatītyevamevaitad yājñavalkya
किन्देवतोऽस्यामुदीच्यां दिश्यसीति । सोमदेवत इति । स सोमः कस्मिन्प्रतिष्ठित इति । दीक्षायामिति । कस्मिन्नु दीक्षा प्रतिष्ठितेति सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति सत्ये ह्येव दीक्षा प्रतिष्ठितेति कस्मिन्नु सत्यं प्रतिष्ठितमिति हृदय इति होवाच हृदयेन हि सत्यं जानाति हृदये ह्येव सत्यं प्रतिष्ठितं भवतीत्येवमेवैतद् याज्ञवल्क्य
kindevato'syāmudīcyāṃ diśyasīti | somadevata iti | sa somaḥ kasminpratiṣṭhita iti | dīkṣāyāmiti | kasminnu dīkṣā pratiṣṭhiteti satya iti tasmādapi dīkṣitamāhuḥ satyaṃ vadeti satye hyeva dīkṣā pratiṣṭhiteti kasminnu satyaṃ pratiṣṭhitamiti hṛdaya iti hovāca hṛdayena hi satyaṃ jānāti hṛdaye hyeva satyaṃ pratiṣṭhitaṃ bhavatītyevamevaitad yājñavalkya
किन्देवतोऽस्यां ध्रुवायां दिश्यसीत्यग्निदेवत इति । सोऽग्निः कस्मिन्प्रतिष्ठित इति वाचीति । कस्मिन्नु वाक्प्रतिष्ठितेति हृदय इति । कस्मिन्नु हृदयं प्रतिष्ठितमिति मन्त्र २५
kindevato'syāṃ dhruvāyāṃ diśyasītyagnidevata iti | so'gniḥ kasminpratiṣṭhita iti vācīti | kasminnu vākpratiṣṭhiteti hṛdaya iti | kasminnu hṛdayaṃ pratiṣṭhitamiti mantra 25
अहल्लिकेति होवाच याज्ञवल्क्यो यत्रैतदन्यत्रास्मन्मन्यासै । यद्ध्येतदन्यत्रास्मत्स्याच्छ्वानो वैनदद्युर्वयांसि वैनद्विमथ्नीरन्निति
ahalliketi hovāca yājñavalkyo yatraitadanyatrāsmanmanyāsai | yaddhyetadanyatrāsmatsyācchvāno vainadadyurvayāṃsi vainadvimathnīranniti
कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति । प्राण इति । कस्मिन्नु प्राणः प्रतिष्ठित इत्यपान इति । कस्मिन्न्वपानः प्रतिष्ठित इति । व्यान इति । कस्मिन्नु व्यानः प्रतिष्ठित इत्युदान इति । कस्मिन्नूदानः प्रतिष्ठित इति । समान इति । स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्येतान्यष्टावायतनान्यष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः । स यस्तान्पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत् तं त्वौपनिषदं पुरुषं पृच्छामि । तं चेन्मे न विवक्ष्यसि मूर्धा ते विपतिष्यतीति । तं ह न मेने शाकल्यस्तस्य ह मूर्धा विपपात अपि हास्य परिमोषिणोऽस्थीन्यपजह्रुरन्यन्मन्यमानाः
kasminnu tvaṃ cātmā ca pratiṣṭhitau {} stha iti | prāṇa iti | kasminnu prāṇaḥ pratiṣṭhita ityapāna iti | kasminnvapānaḥ pratiṣṭhita iti | vyāna iti | kasminnu vyānaḥ pratiṣṭhita ityudāna iti | kasminnūdānaḥ pratiṣṭhita iti | samāna iti | sa eṣa neti netyātmā'gṛhyo na hi gṛhyate'śīryo na hi śīryate'saṅgo na hi sajyate'sito na vyathate na riṣyatyetānyaṣṭāvāyatanānyaṣṭau lokā aṣṭau devā aṣṭau puruṣāḥ | sa yastānpuruṣānniruhya pratyuhyātyakrāmat taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi | taṃ cenme na vivakṣyasi mūrdhā te vipatiṣyatīti | taṃ ha na mene śākalyastasya ha mūrdhā vipapāta api hāsya parimoṣiṇo'sthīnyapajahruranyanmanyamānāḥ
अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु सर्वे वा मा पृच्छत यो वः कामयते तं वः पृच्छामि सर्वान्वा वः पृच्छामीति । ते ह ब्राह्मणा न दधृषुः
atha hovāca brāhmaṇā bhagavanto yo vaḥ kāmayate sa mā pṛcchatu sarve vā mā pṛcchata yo vaḥ kāmayate taṃ vaḥ pṛcchāmi sarvānvā vaḥ pṛcchāmīti | te ha brāhmaṇā na dadhṛṣuḥ
तान्हैतैः श्लोकैः पप्रच्छ यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ १॥ त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः तस्मात्तदतृण्णात्प्रैति रसो वृक्षादिवाऽऽहतात् ॥ २॥ मांसान्यस्य शकराणि किनाटं स्नाव तत्स्थिरम् । अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता ॥ ३॥ यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ४॥ रेतस इति मा वोचत जीवतस्तत्प्रजायते धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य सम्भवः ॥ ५॥ यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत् । मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ६॥ जात एव न जायते को न्वेनं जनयेत्पुनः विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं तिष्ठमानस्य तद्विद इति ॥ ७॥
tānhaitaiḥ ślokaiḥ papraccha yathā vṛkṣo vanaspatistathaiva puruṣo'mṛṣā tasya lomāni parṇāni tvagasyotpāṭikā bahiḥ || 1|| tvaca evāsya rudhiraṃ prasyandi tvaca utpaṭaḥ tasmāttadatṛṇṇātpraiti raso vṛkṣādivā''hatāt || 2|| māṃsānyasya śakarāṇi kināṭaṃ snāva tatsthiram | asthīnyantarato dārūṇi majjā majjopamā kṛtā || 3|| yadvṛkṣo vṛkṇo rohati mūlānnavataraḥ punaḥ martyaḥ svinmṛtyunā vṛkṇaḥ kasmānmūlātprarohati || 4|| retasa iti mā vocata jīvatastatprajāyate dhānāruha iva vai vṛkṣo'ñjasā pretya sambhavaḥ || 5|| yatsamūlamāvṛheyurvṛkṣaṃ na punarābhavet | martyaḥ svinmṛtyunā vṛkṇaḥ kasmānmūlātprarohati || 6|| jāta eva na jāyate ko nvenaṃ janayetpunaḥ vijñānamānandaṃ brahma rātirdātuḥ parāyaṇaṃ tiṣṭhamānasya tadvida iti || 7||