Sant Seva ParishadSant Seva ParishadSSP · sant seva
← Verse view|📖 Yaksha Prashna · Ch 3
« Ch 2Ch 4 »

Yaksha Prashna · अध्याय 3

Vana Parva 297 — The Yaksha's questions

सप्तनवत्यधिकद्विशततमोऽध्यायः

Yudhishthira finds his four brothers fallen at the lake's edge. The yaksha — guardian of the waters — questions him on dharma; only correct answers will let him drink. The dialogue covers the highest dharma, the heaviest burden, the swiftest thing, the meaning of true happiness, and the famous riddle 'what is the greatest wonder of the world?'

  1. स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् | युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान्

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  2. विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् | भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुषः

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  3. स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः | बुद्ध्या विचिन्तयामास वीराः केन निपातिताः

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  4. एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम्

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  5. स्यात्तु दुर्योधनेनेदमुपांशुविहितं कृतम् | गान्धारराजरचितं सततं जिह्मबुद्धिना

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  6. यस्य कार्यमकार्यं वा सममेव भवत्युत | कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  7. अथ वा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः | भवेदिति महाबाहुर्बहुधा समचिन्तयत्

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  8. तस्यासीन्न विषेणेदमुदकं दूषितं यथा | मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत्

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  9. एकैकशश्चौघबलानिमान्पुरुषसत्तमान् | कोऽन्यः प्रतिसमासेत कालान्तकयमादृते

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  10. एतेनाध्यवसायेन तत्तोयमवगाढवान् | गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  11. अहं बकः शैवलमत्स्यभक्षो; मया नीताः प्रेतवशं तवानुजाः | त्वं पञ्चमो भविता राजपुत्र; न चेत्प्रश्नान्पृच्छतो व्याकरोषि

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  12. मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः | प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  13. रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् | पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम्

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  14. हिमवान्पारियात्रश्च विन्ध्यो मलय एव च | चत्वारः पर्वताः केन पातिता भुवि तेजसा

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  15. विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम्

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  16. न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् | कौतूहलं महज्जातं साध्वसं चागतं मम

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  17. येनास्म्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः | पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  18. यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः | मयैते निहताः सर्वे भ्रातरस्ते महौजसः

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  19. ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् | यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  20. विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् | ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम्

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  21. सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः | मेघगम्भीरया वाचा तर्जयन्तं महाबलम्

    Meaning

    {"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}

  22. इमे ते भ्रातरो राजन्वार्यमाणा मयासकृत् | बलात्तोयं जिहीर्षन्तस्ततो वै सूदिता मया

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  23. प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  24. नैवाहं कामये यक्ष तव पूर्वपरिग्रहम् | कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  25. यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो | यथाप्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम्

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  26. किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः | कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  27. ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः | धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  28. केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् | केन द्वितीयवान्भवति राजन्केन च बुद्धिमान्

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  29. श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् | धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  30. किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव | कश्चैषां मानुषो भावः किमेषामसतामिव

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  31. स्वाध्याय एषां देवत्वं तप एषां सतामिव | मरणं मानुषो भावः परिवादोऽसतामिव

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  32. किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव | कश्चैषां मानुषो भावः किमेषामसतामिव

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  33. इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव | भयं वै मानुषो भावः परित्यागोऽसतामिव

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  34. किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः | का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  35. प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः | वागेका वृश्चते यज्ञं तां यज्ञो नातिवर्तते

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  36. किं स्विदापततां श्रेष्ठं किं स्विन्निपततां वरम् | किं स्वित्प्रतिष्ठमानानां किं स्वित्प्रवदतां वरम्

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  37. वर्षमापततां श्रेष्ठं बीजं निपततां वरम् | गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  38. इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः | संमतः सर्वभूतानामुच्छ्वसन्को न जीवति

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  39. देवतातिथिभृत्यानां पितॄणामात्मनश्च यः | न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  40. किं स्विद्गुरुतरं भूमेः किं स्विदुच्चतरं च खात् | किं स्विच्छीघ्रतरं वायोः किं स्विद्बहुतरं नृणाम्

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  41. माता गुरुतरा भूमेः पिता उच्चतरश्च खात् | मनः शीघ्रतरं वायोश्चिन्ता बहुतरी नृणाम्

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  42. किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति | कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  43. मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति | अश्मनो हृदयं नास्ति नदी वेगेन वर्धते

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  44. किं स्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः | आतुरस्य च किं मित्रं किं स्विन्मित्रं मरिष्यतः

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  45. सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः | आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  46. किं स्विदेको विचरति जातः को जायते पुनः | किं स्विद्धिमस्य भैषज्यं किं स्विदावपनं महत्

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  47. सूर्य एको विचरति चन्द्रमा जायते पुनः | अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत्

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  48. किं स्विदेकपदं धर्म्यं किं स्विदेकपदं यशः | किं स्विदेकपदं स्वर्ग्यं किं स्विदेकपदं सुखम्

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  49. दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः | सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम्

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  50. किं स्विदात्मा मनुष्यस्य किं स्विद्दैवकृतः सखा | उपजीवनं किं स्विदस्य किं स्विदस्य परायणम्

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  51. पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा | उपजीवनं च पर्जन्यो दानमस्य परायणम्

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  52. धन्यानामुत्तमं किं स्विद्धनानां किं स्विदुत्तमम् | लाभानामुत्तमं किं स्वित्किं सुखानां तथोत्तमम्

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  53. धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् | लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  54. कश्च धर्मः परो लोके कश्च धर्मः सदाफलः | किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  55. आनृशंस्यं परो धर्मस्त्रयीधर्मः सदाफलः | मनो यम्य न शोचन्ति सद्भिः सन्धिर्न जीर्यते

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  56. किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति | किं नु हित्वार्थवान्भवति किं नु हित्वा सुखी भवेत्

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  57. मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति | कामं हित्वार्थवान्भवति लोभं हित्वा सुखी भवेत्

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  58. मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् | श्राद्धं मृतं कथं च स्यात्कथं यज्ञो मृतो भवेत्

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  59. मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् | मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  60. का दिक्किमुदकं प्रोक्तं किमन्नं पार्थ किं विषम् | श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  61. सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् | श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  62. व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप | पुरुषं त्विदानीमाख्याहि यश्च सर्वधनी नरः

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  63. दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः | यावत्स शब्दो भवति तावत्पुरुष उच्यते

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  64. तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च | अतीतानागते चोभे स वै सर्वधनी नरः

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  65. व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः | तस्मात्तवैको भ्रातॄणां यमिच्छसि स जीवतु

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  66. श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः | व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  67. प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् | स कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  68. यस्य नागसहस्रेण दशसङ्ख्येन वै बलम् | तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  69. तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव | अथ केनानुभावेन सापत्नं जीवमिच्छसि

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  70. यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः | अर्जुनं तमपाहाय नकुलं जीवमिच्छसि

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}

  71. आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् | आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  72. धर्मशीलः सदा राजा इति मां मानवा विदुः | स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  73. यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः | मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु

    Meaning

    {"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}

  74. यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् | तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ

    Meaning

    {"speaker":"Yaksha","subParva":"आरणेयपर्व"}