Yaksha Prashna · अध्याय 4
Vana Parva 298 — Yaksha is Dharma; the boon
अष्टनवत्यधिकद्विशततमोऽध्यायः
Pleased with Yudhishthira's answers, the yaksha offers a boon. Yudhishthira asks not for his own brothers first but for Nakula — the son of his stepmother Madri — to be revived, that no mother may lose all her sons. The yaksha reveals himself as Dharma, Yudhishthira's own father, restores all four brothers, and grants the boon of incognito vāsa for the thirteenth year of exile.
- YP 4.1Open verse →
ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः | क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम्
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
- YP 4.2Open verse →
सरस्येकेन पादेन तिष्ठन्तमपराजितम् | पृच्छामि को भवान्देवो न मे यक्षो मतो भवान्
Meaning
{"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}
- YP 4.3Open verse →
वसूनां वा भवानेको रुद्राणामथ वा भवान् | अथ वा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः
Meaning
{"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}
- YP 4.4Open verse →
मम हि भ्रातर इमे सहस्रशतयोधिनः | न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः
Meaning
{"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}
- YP 4.5Open verse →
सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये | स भवान्सुहृदस्माकमथ वा नः पिता भवान्
Meaning
{"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}
- YP 4.6Open verse →
अहं ते जनकस्तात धर्मो मृदुपराक्रम | त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ
Meaning
{"speaker":"Yaksha","subParva":"आरणेयपर्व"}
- YP 4.7Open verse →
यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम् | दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम
Meaning
{"speaker":"Yaksha","subParva":"आरणेयपर्व"}
- YP 4.8Open verse →
अहिंसा समता शान्तिस्तपः शौचममत्सरः | द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम
Meaning
{"speaker":"Yaksha","subParva":"आरणेयपर्व"}
- YP 4.9Open verse →
दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता | द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्परायिके
Meaning
{"speaker":"Yaksha","subParva":"आरणेयपर्व"}
- YP 4.10Open verse →
धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वामिहागतः | आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ
Meaning
{"speaker":"Yaksha","subParva":"आरणेयपर्व"}
- YP 4.11Open verse →
वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ | ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः
Meaning
{"speaker":"Yaksha","subParva":"आरणेयपर्व"}
- YP 4.12Open verse →
अरणीसहितं यस्य मृग आदाय गच्छति | तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम
Meaning
{"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}
- YP 4.13Open verse →
अरणीसहितं तस्य ब्राह्मणस्य हृतं मया | मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो
Meaning
{"speaker":"धर्म","subParva":"आरणेयपर्व"}
- YP 4.14Open verse →
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत | अन्यं वरय भद्रं ते वरं त्वममरोपम
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
- YP 4.15Open verse →
वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् | तत्र नो नाभिजानीयुर्वसतो मनुजाः क्वचित्
Meaning
{"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}
- YP 4.16Open verse →
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत | भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम्
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
- YP 4.17Open verse →
यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् | न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
- YP 4.18Open verse →
वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूद्वहाः | विराटनगरे गूढा अविज्ञाताश्चरिष्यथ
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
- YP 4.19Open verse →
यद्वः सङ्कल्पितं रूपं मनसा यस्य यादृशम् | तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
- YP 4.20Open verse →
अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत | जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
- YP 4.21Open verse →
तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् | त्वं हि मत्प्रभवो राजन्विदुरश्च ममांशभाक्
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
- YP 4.22Open verse →
देवदेवो मया दृष्टो भवान्साक्षात्सनातनः | यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः
Meaning
{"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}
- YP 4.23Open verse →
जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो | दाने तपसि सत्ये च मनो मे सततं भवेत्
Meaning
{"speaker":"Yudhishthira","subParva":"आरणेयपर्व"}
- YP 4.24Open verse →
उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव | भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति
Meaning
{"speaker":"धर्म","subParva":"आरणेयपर्व"}
- YP 4.25Open verse →
इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः | समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
- YP 4.26Open verse →
अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः | आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
- YP 4.27Open verse →
इदं समुत्थानसमागमं मह; त्पितुश्च पुत्रस्य च कीर्तिवर्धनम् | पठन्नरः स्याद्विजितेन्द्रियो वशी; सपुत्रपौत्रः शतवर्षभाग्भवेत्
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}
- YP 4.28Open verse →
न चाप्यधर्मे न सुहृद्विभेदने; परस्वहारे परदारमर्शने | कदर्यभावे न रमेन्मनः सदा; नृणां सदाख्यानमिदं विजानताम्
Meaning
{"speaker":"Vaishampayana","subParva":"आरणेयपर्व"}