Sant Seva ParishadSant Seva ParishadSSP · sant seva

Mundaka Upanishad · Chapter 1

Mundaka 1

प्रथमं मुण्डकम्

Lower vs higher knowledge; the rituals and the Self.

29 verses

📖 Book View
  1. ॐ भद्रम् कर्णेभिः शृणुयाम देवा भद्रं पश्येमक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो बृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शन्तिः ॥ -----Page------------------१६-- ॐ ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता ॥ स ब्रह्म विद्यं सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥1॥

  2. अथर्वणे यां प्रवदेत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्यम् ॥ स भरद्वजय सत्यवहाय वदुपसन्नः पप्रच्छ ॥ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातम् भवतीति ॥3॥

  3. कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति ॥ अथ परा यया तदक्षरमधिगम्यते ॥5॥

  4. यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुः श्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥6॥

  5. यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति ॥ यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्वम् ॥7॥

  6. तपसा चीयते ब्रह्म ततोऽन्नमभिजयते ॥ अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥8॥

  7. यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ॥ तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥9॥

  8. ॐ ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह

    oṃ brahmā devānāṃ prathamaḥ saṃbabhūva viśvasya kartā bhuvanasya goptā | sa brahmavidyāṃ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha

  9. अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तं पुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवाहाय प्राह भारद्वाजोऽङ्गिरसे परावराम्

    atharvaṇe yāṃ pravadeta brahmā'tharvā taṃ purovācāṅgire brahmavidyām | sa bhāradvājāya satyavāhāya prāha bhāradvājo'ṅgirase parāvarām

  10. शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति

    śaunako ha vai mahāśālo'ṅgirasaṃ vidhivadupasannaḥ papraccha | kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavatīti

  11. तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च

    tasmai sa hovāca | dve vidye veditavye iti ha sma yadbrahmavido vadanti parā caivāparā ca

  12. तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते

    tatrāparā ṛgvedo yajurvedaḥ sāmavedo'tharvavedaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣamiti | atha parā yayā tadakṣaramadhigamyate

  13. यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण- मचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः

    yattadadreśyamagrāhyamagotramavarṇa- macakṣuḥśrotraṃ tadapāṇipādam | nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tadavyayaṃ yadbhūtayoniṃ paripaśyanti dhīrāḥ

  14. यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्संभवतीह विश्वम्

    yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ saṃbhavanti | yathā sataḥ puruṣātkeśalomāni tathā'kṣarātsaṃbhavatīha viśvam

  15. तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम्

    tapasā cīyate brahma tato'nnamabhijāyate | annātprāṇo manaḥ satyaṃ lokāḥ karmasu cāmṛtam

  16. यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते

    yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tapaḥ | tasmādetadbrahma nāma rūpamannaṃ ca jāyate

  17. तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि । तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके

    tadetatsatyaṃ mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā saṃtatāni | tānyācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke

  18. यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने । तदाऽऽज्यभागावन्तरेणाऽऽहुतीः प्रतिपादयेत्

    yadā lelāyate hyarciḥ samiddhe havyavāhane | tadā''jyabhāgāvantareṇā''hutīḥ pratipādayet

  19. (प्रतिपादयेच्छ्रद्धया हुतम्) यस्याग्निहोत्रमदर्शमपौर्णमास- मचातुर्मास्यमनाग्रयणमतिथिवर्जितं च । अहुतमवैश्वदेवमविधिना हुत- मासप्तमांस्तस्य लोकान् हिनस्ति

    (pratipādayecchraddhayā hutam) yasyāgnihotramadarśamapaurṇamāsa- macāturmāsyamanāgrayaṇamatithivarjitaṃ ca | ahutamavaiśvadevamavidhinā huta- māsaptamāṃstasya lokān hinasti

  20. काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः

    kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā | sphuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ

  21. एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् । तं नयन्त्येताः सूर्यस्य रश्मयो यत्र (तन्नयन्त्येताः) देवानां पतिरेकोऽधिवासः

    eteṣu yaścarate bhrājamāneṣu yathākālaṃ cāhutayo hyādadāyan | taṃ nayantyetāḥ sūryasya raśmayo yatra (tannayantyetāḥ) devānāṃ patireko'dhivāsaḥ

  22. एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः

    ehyehīti tamāhutayaḥ suvarcasaḥ sūryasya raśmibhiryajamānaṃ vahanti | priyāṃ vācamabhivadantyo'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ

  23. प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति

    plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṃ yeṣu karma | etacchreyo ye'bhinandanti mūḍhā jarāmṛtyuṃ te punarevāpi yanti

  24. अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः । जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः

    avidyāyāmantare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃmanyamānāḥ | jaṅghanyamānāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ

  25. अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत्कर्मिणो न प्रवेदयन्ति रागा- त्तेनातुराः क्षीणलोकाश्च्यवन्ते

    avidyāyāṃ bahudhā vartamānā vayaṃ kṛtārthā ityabhimanyanti bālāḥ | yatkarmiṇo na pravedayanti rāgā- ttenāturāḥ kṣīṇalokāścyavante

  26. इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति

    iṣṭāpūrtaṃ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ | nākasya pṛṣṭhe te sukṛte'nubhūtvemaṃ lokaṃ hīnataraṃ vā viśanti

  27. तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा

    tapaḥśraddhe ye hyupavasantyaraṇye śāntā vidvāṃso bhaikṣyacaryāṃ carantaḥ | sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā

  28. परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्

    parīkṣya lokān karmacitān brāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena | tadvijñānārthaṃ sa gurumevābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭham

  29. तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्

    tasmai sa vidvānupasannāya samyak praśāntacittāya śamānvitāya | yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām