Mundaka Upanishad · अध्याय 1
Mundaka 1
प्रथमं मुण्डकम्
Lower vs higher knowledge; the rituals and the Self.
- MuU 1.1Open verse →
ॐ भद्रम् कर्णेभिः शृणुयाम देवा भद्रं पश्येमक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो बृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शन्तिः ॥ -----Page------------------१६-- ॐ ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता ॥ स ब्रह्म विद्यं सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥1॥
- MuU 1.3Open verse →
अथर्वणे यां प्रवदेत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्यम् ॥ स भरद्वजय सत्यवहाय वदुपसन्नः पप्रच्छ ॥ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातम् भवतीति ॥3॥
- MuU 1.5Open verse →
कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति ॥ अथ परा यया तदक्षरमधिगम्यते ॥5॥
- MuU 1.6Open verse →
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुः श्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥6॥
- MuU 1.7Open verse →
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति ॥ यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्वम् ॥7॥
- MuU 1.8Open verse →
तपसा चीयते ब्रह्म ततोऽन्नमभिजयते ॥ अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥8॥
- MuU 1.9Open verse →
यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ॥ तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥9॥
- MuU 1.1.1Open verse →
ॐ ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह
oṃ brahmā devānāṃ prathamaḥ saṃbabhūva viśvasya kartā bhuvanasya goptā | sa brahmavidyāṃ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha
- MuU 1.1.2Open verse →
अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तं पुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवाहाय प्राह भारद्वाजोऽङ्गिरसे परावराम्
atharvaṇe yāṃ pravadeta brahmā'tharvā taṃ purovācāṅgire brahmavidyām | sa bhāradvājāya satyavāhāya prāha bhāradvājo'ṅgirase parāvarām
- MuU 1.1.3Open verse →
शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति
śaunako ha vai mahāśālo'ṅgirasaṃ vidhivadupasannaḥ papraccha | kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavatīti
- MuU 1.1.4Open verse →
तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च
tasmai sa hovāca | dve vidye veditavye iti ha sma yadbrahmavido vadanti parā caivāparā ca
- MuU 1.1.5Open verse →
तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते
tatrāparā ṛgvedo yajurvedaḥ sāmavedo'tharvavedaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣamiti | atha parā yayā tadakṣaramadhigamyate
- MuU 1.1.6Open verse →
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण- मचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः
yattadadreśyamagrāhyamagotramavarṇa- macakṣuḥśrotraṃ tadapāṇipādam | nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tadavyayaṃ yadbhūtayoniṃ paripaśyanti dhīrāḥ
- MuU 1.1.7Open verse →
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्संभवतीह विश्वम्
yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ saṃbhavanti | yathā sataḥ puruṣātkeśalomāni tathā'kṣarātsaṃbhavatīha viśvam
- MuU 1.1.8Open verse →
तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम्
tapasā cīyate brahma tato'nnamabhijāyate | annātprāṇo manaḥ satyaṃ lokāḥ karmasu cāmṛtam
- MuU 1.1.9Open verse →
यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते
yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tapaḥ | tasmādetadbrahma nāma rūpamannaṃ ca jāyate
- MuU 1.2.1Open verse →
तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि । तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके
tadetatsatyaṃ mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā saṃtatāni | tānyācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke
- MuU 1.2.2Open verse →
यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने । तदाऽऽज्यभागावन्तरेणाऽऽहुतीः प्रतिपादयेत्
yadā lelāyate hyarciḥ samiddhe havyavāhane | tadā''jyabhāgāvantareṇā''hutīḥ pratipādayet
- MuU 1.2.3Open verse →
(प्रतिपादयेच्छ्रद्धया हुतम्) यस्याग्निहोत्रमदर्शमपौर्णमास- मचातुर्मास्यमनाग्रयणमतिथिवर्जितं च । अहुतमवैश्वदेवमविधिना हुत- मासप्तमांस्तस्य लोकान् हिनस्ति
(pratipādayecchraddhayā hutam) yasyāgnihotramadarśamapaurṇamāsa- macāturmāsyamanāgrayaṇamatithivarjitaṃ ca | ahutamavaiśvadevamavidhinā huta- māsaptamāṃstasya lokān hinasti
- MuU 1.2.4Open verse →
काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः
kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā | sphuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ
- MuU 1.2.5Open verse →
एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् । तं नयन्त्येताः सूर्यस्य रश्मयो यत्र (तन्नयन्त्येताः) देवानां पतिरेकोऽधिवासः
eteṣu yaścarate bhrājamāneṣu yathākālaṃ cāhutayo hyādadāyan | taṃ nayantyetāḥ sūryasya raśmayo yatra (tannayantyetāḥ) devānāṃ patireko'dhivāsaḥ
- MuU 1.2.6Open verse →
एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः
ehyehīti tamāhutayaḥ suvarcasaḥ sūryasya raśmibhiryajamānaṃ vahanti | priyāṃ vācamabhivadantyo'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ
- MuU 1.2.7Open verse →
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति
plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṃ yeṣu karma | etacchreyo ye'bhinandanti mūḍhā jarāmṛtyuṃ te punarevāpi yanti
- MuU 1.2.8Open verse →
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः । जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः
avidyāyāmantare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃmanyamānāḥ | jaṅghanyamānāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ
- MuU 1.2.9Open verse →
अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत्कर्मिणो न प्रवेदयन्ति रागा- त्तेनातुराः क्षीणलोकाश्च्यवन्ते
avidyāyāṃ bahudhā vartamānā vayaṃ kṛtārthā ityabhimanyanti bālāḥ | yatkarmiṇo na pravedayanti rāgā- ttenāturāḥ kṣīṇalokāścyavante
- MuU 1.2.10Open verse →
इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति
iṣṭāpūrtaṃ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ | nākasya pṛṣṭhe te sukṛte'nubhūtvemaṃ lokaṃ hīnataraṃ vā viśanti
- MuU 1.2.11Open verse →
तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा
tapaḥśraddhe ye hyupavasantyaraṇye śāntā vidvāṃso bhaikṣyacaryāṃ carantaḥ | sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā
- MuU 1.2.12Open verse →
परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्
parīkṣya lokān karmacitān brāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena | tadvijñānārthaṃ sa gurumevābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭham
- MuU 1.2.13Open verse →
तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्
tasmai sa vidvānupasannāya samyak praśāntacittāya śamānvitāya | yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām