Vishnu Purana
विष्णुपुराणम्
मूल श्लोकः
सत्यं कथयास्माकम् अतिसुभगे कस्यायम् आत्मजः सोमस्याथ बृहस्पतेः पुत्रः । इत्युक्तापि सा तारा ह्रिया न किंचिद् उवाच । बहुशो ऽप्य् अभिहिता यदासौ देवेभ्यो नाचचक्षे ततश् च स कुमारस् तां शप्तुम् उद्यतः प्राह च । दुष्टे कस्मान् मम तातं नाख्यासि । अद्यैव ते ऽलीकलज्जावत्यास् तथा शास्तिम् अयम् अहं करोमि यथा नैवम् अन्याप्य् अतिमन्थरवचना भविष्यतीति अथ भगवान् पितामहस् तं कुमारं संनिवार्य स्वयम् अपृच्छत् ताराम् । कथय वत्से कस्यायम् आत्मजः सोमस्य अथ बृहस्पतेर् इत्य् उक्ता लज्जाजडम् आह सोमस्येति
satyaṃ kathayāsmākam atisubhage kasyāyam ātmajaḥ somasyātha bṛhaspateḥ putraḥ | ityuktāpi sā tārā hriyā na kiṃcid uvāca | bahuśo 'py abhihitā yadāsau devebhyo nācacakṣe tataś ca sa kumāras tāṃ śaptum udyataḥ prāha ca | duṣṭe kasmān mama tātaṃ nākhyāsi | adyaiva te 'līkalajjāvatyās tathā śāstim ayam ahaṃ karomi yathā naivam anyāpy atimantharavacanā bhaviṣyatīti atha bhagavān pitāmahas taṃ kumāraṃ saṃnivārya svayam apṛcchat tārām | kathaya vatse kasyāyam ātmajaḥ somasya atha bṛhaspater ity uktā lajjājaḍam āha somasyeti
ViP 4.6.21
Audio
Translations & commentaries(0)
No translations available for this verse yet.