Vishnu Purana
विष्णुपुराणम्
मूल श्लोकः
अप्य् एते ऽस्मत्पुत्राः कलभाषिणः पद्भ्यां गच्छेयुः । अप्य् एते यौवनिनो भवेयुः । अपि कृतदारान् एतान् पश्येयम् । अप्य् एषां पुत्रा भवेयुः । अप्य् एतत्पुत्रान् पुत्रसमन्वितान् पश्येयम् एवमादिमनोरथान् अनुदिनकालसंपत्तिवृत्तिम् अवेत्यैतत् संचिन्तयाम् आस । अहो मे मोहस्यातिविस्तारः
apy ete 'smatputrāḥ kalabhāṣiṇaḥ padbhyāṃ gaccheyuḥ | apy ete yauvanino bhaveyuḥ | api kṛtadārān etān paśyeyam | apy eṣāṃ putrā bhaveyuḥ | apy etatputrān putrasamanvitān paśyeyam evamādimanorathān anudinakālasaṃpattivṛttim avetyaitat saṃcintayām āsa | aho me mohasyātivistāraḥ
ViP 4.2.77
Audio
Translations & commentaries(0)
No translations available for this verse yet.