Vishnu Purana
विष्णुपुराणम्
मूल श्लोकः
§राजोवाच: भगवन्न् अस्मत्कुलस्थितिर् इयं य एव कन्याया अभिरुचितो ऽभिजनवान् वरस् तस्मै कन्या प्रदीयते । भगवदाज्ञास्मन्मनोरथानाम् अप्य् अगोचरवर्तिनी । कथम् अप्य् एषा संजाता तद् एवम् उपस्थिते न विद्मः किं कुर्म इत्य् एतन् मया चिन्त्यते । इत्य् अभिहिते च तेन भूभुजा मुनिर् अचिन्तयत् । अहो ऽयम् अन्यो ऽस्मत्प्रत्याख्यानोपायो वृद्धो ऽयम् अनभिमतः स्त्रीणां किम् उत कन्यानाम् इत्य् अमुना संचिन्त्यैवम् अभिहितम् । एवम् अस्तु तथा करिष्यामीति संचिन्त्य मांधातारम् उवाच
§rājovāca: bhagavann asmatkulasthitir iyaṃ ya eva kanyāyā abhirucito 'bhijanavān varas tasmai kanyā pradīyate | bhagavadājñāsmanmanorathānām apy agocaravartinī | katham apy eṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ity etan mayā cintyate | ity abhihite ca tena bhūbhujā munir acintayat | aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kim uta kanyānām ity amunā saṃcintyaivam abhihitam | evam astu tathā kariṣyāmīti saṃcintya māṃdhātāram uvāca
ViP 4.2.50
Audio
Translations & commentaries(0)
No translations available for this verse yet.