Prashna Upanishad · Chapter 5
Prashna 5
पञ्चमप्रश्नः
On meditation upon OM.
12 verses
इति प्रश्नोपनिषदि चतुर्थः प्रश्नः ॥ अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत । कतमं वाव स तेन लोकं जयतीति । तस्मै स होवाच
iti praśnopaniṣadi caturthaḥ praśnaḥ || atha hainaṃ śaibyaḥ satyakāmaḥ papraccha | sa yo ha vai tadbhagavanmanuṣyeṣu prāyaṇāntamoṅkāramabhidhyāyīta | katamaṃ vāva sa tena lokaṃ jayatīti | tasmai sa hovāca
एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः। तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति॥
etad vai satyakāma paraṁ cāparaṁ ca brahma yad oṅkāraḥ tasmād vidvān etenaivāyatanenaikataram anveti
Meaning (English)
Truly, O Satyakama, this very OM is both the higher and the lower Brahman. Therefore the wise one, through this support alone, attains the one or the other.
स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते । तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति
sa yadyekamātramabhidhyāyīta sa tenaiva saṃveditastūrṇameva jagatyāmabhisampadyate | tamṛco manuṣyalokamupanayante sa tatra tapasā brahmacaryeṇa śraddhayā sampanno mahimānamanubhavati
अथ यदि द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभुतिमनुभूय पुनरावर्तते
atha yadi dvimātreṇa manasi sampadyate so'ntarikṣaṃ yajurbhirunnīyate somalokam | sa somaloke vibhutimanubhūya punarāvartate
यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभि- ध्यायीत स तेजसि सूर्ये सम्पन्नः । यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते । तदेतौ श्लोकौ भवतः
yaḥ punaretaṃ trimātreṇomityetenaivākṣareṇa paraṃ puruṣamabhi- dhyāyīta sa tejasi sūrye sampannaḥ | yathā pādodarastvacā vinirmucyata evaṃ ha vai sa pāpmanā vinirmuktaḥ sa sāmabhirunnīyate brahmalokaṃ sa etasmājjīvaghanāt parātparaṃ puriśayaṃ puruṣamīkṣate | tadetau ślokau bhavataḥ
तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ताः अनविप्रयुक्ताः । क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक् प्रयुक्तासु न कम्पते ज्ञः
tisro mātrā mṛtyumatyaḥ prayuktā anyonyasaktāḥ anaviprayuktāḥ | kriyāsu bāhyābhyantaramadhyamāsu samyak prayuktāsu na kampate jñaḥ
ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत् तत् कवयो वेदयन्ते । तमोङ्कारेणैवायतनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परं चेति
ṛgbhiretaṃ yajurbhirantarikṣaṃ sāmabhiryat tat kavayo vedayante | tamoṅkāreṇaivāyatanenānveti vidvān yattacchāntamajaramamṛtamabhayaṃ paraṃ ceti
आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्वानः ॥ पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टब्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥8॥
तेजो ह व उदानस्तस्मादुपशान्ततेजाः ॥ पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैः ॥9॥
यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः सहात्मना यथासंकल्पितं लोकं नयति ॥10॥
य एवं विद्वान्प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति तदेष श्लोकः ॥11॥
उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ॥ अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥12॥