Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

jātideśakālavyavahitānām apy ānantaryaṃ smṛtisaṃskārayor ekarūpatvāt

jātideśakālavyavahitānām apy ānantaryaṃ smṛtisaṃskārayor ekarūpatvāt

YS 4.9

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

The uniformity between [subconscious] activity and memory ensures the correspondence [of cause and effect] despite distance in time, space, and rebirths

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] वृषदंशविपाकोदयः स्वव्यञ्जकाञ्जनाभिव्यक्तः। स यदि जातिशतेन वा दूरदेशतया वा कल्पशतेन वा व्यवहितः पुनश् च स्वव्यञ्जकाञ्जन एवोदियाद् द्राग् इत्य् एवं पूर्वानुभूतवृषदंशविपाकाभिसंस्कृता वासना उपादाय व्यज्येत। कस्मात्, यतो व्यवहितानाम् अप्य् आसां सदृशं कर्माभिव्यज्ञकं निमित्तीभूतम् इत्य् आनन्तर्यम् एव। कुतश् च, स्मृतिसंस्कारयोर् एकरूपत्वात् यथानुभवास् तथा संस्काराः। ते च कर्मवासनानुरूपाः यथा च वासनास् तथा स्मृतिर् इति जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृतिः। स्मृतेश् च पुनः संस्कारा इत्येवम् एते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशाद् व्यज्यन्ते अतश् च व्यवहितानाम् अपि निमित्तनैमित्तिकभावानुच्छेदाद् आनन्तर्यम् एव सिद्धम् इति।