The karma of [such] a *yogi* is neither white nor black; [but] for others is threefold,
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
karmāśuklākṛṣṇaṃ yoginas trividham itareṣām
karmāśuklākṛṣṇaṃ yoginas trividham itareṣām
YS 4.7
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] चतुष्पदी खल्व् इयं कर्मजातिः कृष्णा शुक्लकृष्णा शुक्लाशुक्लाकृष्णा चेति। तत्र कृष्णा दुरात्मनाम्, शुक्लकृष्णा बहिःसाधनसाध्या। तत्र परपीडानुग्रहद्वारेणैव कर्माशयप्रचयः शुक्ला तपःस्वाध्यायध्यानवताम्। सा हि केवले मनस्य् आयत्तत्वाद् अबहिःसाधनाधीना न परान् पीडयित्वा भवति। अशुक्लाकृष्णा संन्यासिनां क्षीणक्लेशानां चरमदेहानाम् इति तत्राशुक्लं योगिन एव फलसंन्यासाद् अकृष्णं चानुपादानात् इतरेषां तु भूतानां पूर्वम् एव त्रिविधम् इति।