Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तेरिति॥

puruṣārtha-śūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpa-pratiṣṭhā vā citi-śakter iti

YS 4.34

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

Sūtra· EN

Kaivalya — liberation — is the involution of the gunas, devoid now of any purpose for the Self; or it is the abidance of the Power of pure Consciousness in its own nature. Thus.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] कृतभोगापवर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकारणात्मकानां गुणानां तत् कैवल्यं, स्वरूपप्रतिष्ठा पुनर् बुद्धिसत्त्वानभिसंबन्धात् पुरुषस्य चितिशक्तिर् एव केवला, तस्याः सदा तथैवावस्थानं कैवल्यम् इति।