“A sequence” [because] an end to change is attainable.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ
kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ
YS 4.33
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन गृह्यते क्रमः न ह्य् अननुभूतक्रमक्षणा पुराणता वस्त्रस्यान्ते भवति नित्येषु च क्रमो दृष्टः। द्वयी चेयं नित्यता कूटस्थनित्यता परिणामिनित्यता च। तत्र कूटस्थनित्यता पुरुषस्य। परिणामिनित्यता गुणानाम्। यस्मिन् परिणम्यमाने तत्त्वं न विहन्यते तन् नित्यम् उभयस्य च तत्त्वानभिघातान् नित्यत्वम्। तत्र गुणधर्मेषु बुद्ध्यादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानो नित्येषु धर्मिषु गुणेष्व् अलब्धपर्यवसानः। कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्य् अलब्धपर्यवसानः शब्दपृष्ठेनास्तिक्रियाम् उपादाय कल्पित इति। अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर् न वेति। अवचनीयम् एतत् कथम् अस्ति प्रश्न एकान्तवचनीयः सर्वो जातो मरिष्यतीति ओं भोः इति। अथ सर्वो मृत्वा जनिष्यत इति विभज्यवचनीयम् एतत्। प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यत इतरस् तु जनिष्यते। तथा मनुष्यजातिः श्रेयसी न वा श्रेयसीत्य् एवं परिपृष्टे विभज्य वचनीयः प्रश्नः पशून् अधिकृत्य श्रेयसी देवान् ऋषींश् चाधिकृत्य नेति। अयं त्व् अवचनीयः प्रश्नः संसारोऽयम् अन्तवान् अथानन्त इति। कुशलस्यास्ति संसारक्रमसमाप्तिर् नेतरस्येति अन्यतरावधारणे दोषः तस्माद् व्याकरणीय एवायं प्रश्न इति।