Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

tadā sarvāvaraṇamalāpetasya jñānasyānantyāj jñeyam alpam

tadā sarvāvaraṇamalāpetasya jñānasyānantyāj jñeyam alpam

YS 4.31

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

When the imperfection covering “the all” is removed that which remains to be known is little.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] सर्वैः क्लेशकर्मावरणैर् विमुक्तस्य ज्ञानस्यानन्त्यं भवति। आवरकेण तमसाभिभूतम् आवृतम् अनन्तं ज्ञानसत्त्वं क्वचिद् एव रजसा प्रवर्तितम् उद्घाटितं ग्रहणसमर्थं भवति। तत्र यदा सर्वैर् आवरणमलैर् अपगतं भवति तदा भवत्य् अस्यानन्त्यम्। ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पं संपद्यते यथाकाशे खद्योतः। यत्रेदम् उक्तम् --- "अन्धो मणिम् अविध्यत् तम् अनङ्गुलिर् आवयत् / अग्रीवस् तं प्रत्यमुञ्चत् तम् अजिह्वोऽभ्यपूजयत् //" इति।