Like a farmer, nature picks and chooses, but doesn't directly cause.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
nimittam aprayojakaṃ prakṛtīnāṃ varaṇabhedas tu tataḥ kṣetrikavat
nimittam aprayojakaṃ prakṛtīnāṃ varaṇabhedas tu tataḥ kṣetrikavat
YS 4.3
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] न हि धर्मादि निमित्तं तत्प्रयोजकं प्रकृतीनां भवति न कार्येण कारणं प्रवर्त्यत इति कथं तर्हि, वरणभेदस् तु ततः क्षेत्रिकवत्। यथा क्षेत्रिकः केदाराद् अपां पूर्णात् केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नापः पाणिनापकर्षत्य् आवरणं त्व् आसां भिनत्ति तस्मिन् भिन्ने स्वयम् एवापः केदारान्तरम् आप्लावयन्ति तथा धर्मः प्रकृतीनाम् आवरणधर्मं भिनत्ति तस्मिन् भिन्ने स्वयम् एव प्रकृतयः स्वं स्वं विकारम् आप्लावयन्ति। यथा वा स एव क्षेत्रिकस् तस्मिन्न् एव केदारे न प्रभवत्य् औदकान् भौमान् वा रसान् धान्यमूलान्य् अनुप्रवेशयितुं, किं तर्हि मुद्गगवेधुकश्यामाकादींस् ततोऽपकर्षति। अपकृष्टेषु तेषु स्वयम् एव रसा धान्यमूलान्य् अनुप्रविशन्ति, तथा धर्मो निवृत्तिमात्रे कारणम् अधर्मस्य, शुद्ध्यशुद्ध्योर् अत्यन्तविरोधात्, न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर् भवतीति। अत्र नन्दीश्वरादय उदाहार्याः विपर्ययेणाप्य् अधर्मो धर्मं बाधते। ततश् चाशुद्धिपरिणाम इति। तत्रापि नहुषाजगरादय उदाहार्याः।