[Directly] seeing this distinction between “being a Self” and “[the process of] becoming” is the counter-whirling.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ
viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ
YS 4.25
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्बीजसत्तानुमीयते तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येते तत्राप्य् अस्ति विशेषदर्शनबीजम् अपवर्गभागीयं कर्माभिनिर्वर्तितम् इत्य् अनुमीयते। तस्यात्मभावभावना स्वाभाविकी प्रवर्तते यस्याभावाद् इदम् उक्तं स्वभावं मुक्त्वा दोषाद्येषां पूर्वपक्षे रुचिर् भवत्य् अरुचिश् च निर्णये भवति तत्रात्मभावभावना कोऽहम् आसं कथम् अहम् आसं किंस्विद् इदं कथंस्विद् इदं के भविष्यामः कथं वा भविष्याम इति। सा तु विशेषदर्शिनो निवर्तते कुतः चित्तस्यैवैष विचित्रः परिणामः, पुरुषस् त्व् असत्याम् अविद्यायां शुद्धश् चित्तधर्मैर् अपरामृष्ट इति। ततोऽस्यात्मभावभावना कुशलस्य निवर्तत इति।